मराठी मुख्य सूची|स्तोत्रे|गणपती स्तोत्रे|श्री गणेश स्तोत्र माला| गकारादिगणेशसहस्रनामस्तोत्रम् श्री गणेश स्तोत्र माला मंगलाचरण गणराज समर्थ नमनाष्टकस्तोत्र न्यास श्रीगणेशसहस्रनाम ध्यान श्लोक १ ते १० श्लोक ११ ते २० श्लोक २१ ते ३० श्लोक ३१ ते ४० श्लोक ४१ ते ५० श्लोक ५१ ते ६० श्लोक ६१ ते ७० श्लोक ७१ ते ८० श्लोक ८१ ते ९० श्लोक ९१ ते १०० श्लोक १०१ ते ११० श्लोक १११ ते १२० श्लोक १२१ ते १३० श्लोक १३१ ते १४० श्लोक १४१ ते १५० श्लोक १५१ ते १६० श्लोक १६१ ते १७० श्लोक १७१ ते १८० श्लोक १८१ ते १८९ श्लोक १९० ते २०३ श्लोक २०४ ते २१५ नामावली गकारादिगणेशसहस्रनामस्तोत्रम् मार्कण्डेय पुराण वक्रतुण्डसहस्रनामस्तोत्रम् गुहय-सहस्रनाम-स्तोत्रम् महत्व उच्छिष्टगणेशसहस्रनामस्तोत्रम् महासिद्धिसहस्रनामस्तोत्रम् श्री सिद्धि विनायक नामावलि श्रीऋण-हरण-कर्तृ-गणपति-स्तोत्र-मन्त्र श्री विनायक अष्टोत्तरशत नामावली गकारादिगणेशसहस्रनामस्तोत्रम् विश्वातील सर्व कारणांचे कारण असणारा असा सर्वात्मा, वेदांनी ज्याची महती गायली आहे, सर्वप्रथम पूजनीय असणार्या अशा गणेशाला मी वंदन करितो. Tags : ganapatiganeshastotreगणपतीगणेशस्तोत्र गकारादिगणेशसहस्रनामस्तोत्रम् Translation - भाषांतर ॐ अस्य श्रीगणपतिगकारादिसहस्रनाममालामन्त्रस्य, दुर्वासा ऋषि: अनुष्टुप् छन्द: श्रीगणपतिर्देवता, गं बीजम्, स्वाहा शक्ति;, ग्लौं कीलकम्, मम सकलाभीष्ट-सिद्धयर्थे जपे विनियोग: ॥ ॐ अङ्गुष्ठाभ्यां नम:, श्रीं तर्जनीभ्यां नम:, ह्नीं मध्यमाभ्यां नम:, क्लीं अनामिकाभ्यां नम:, ग्लौं कनिष्टिकाभ्यां नम:, गं करतलकरपृष्ठाभ्यां नम: । एवं हृदयादि: ॥वन्दे नित्यं गणेशं परमगुणयुतं ध्यानसंस्थं त्रिनेत्रम् । एकं देवं त्वनेकं परमसुखयुतं देवदेवं प्रसन्नम् ।शुण्डादण्डाढयगण्डोद्नलितमदजलोल्लोलमत्तालिजालम् । श्रीमन्तं विघ्नराजं सकलसुखकरं श्रीगणेशं नमामि ॥ॐ गणेश्वरो गणाध्यक्षो गणाराराध्यो गणप्रिय: ।गणनाथो गणस्वामी गणेशो गणनायक: ॥१॥गणमूर्तिर्गणपतिर्गणत्राता गणंजय: ।गणपोऽथ गणक्रीडो गणदेवो गणाधिप: ॥२॥गणज्येष्ठो गणश्रेष्ठो गणप्रेष्ठो गणाधिराट् ।गणराड् गणगोप्तार्थो गणाङ्गो गणदैवतम् ॥३॥गणबन्धुर्गणसुहृद गणाधीशो गणप्रथ: ।गणप्रियसख: शश्वद् गणप्रियसुह्रत्तथा ॥४॥गणप्रियरतो नित्यं गणप्रीतिविवर्द्धन: ।गणमण्डलमध्यस्थो गणकेलिपरायण; ॥५॥गणाग्रणीर्गणेशानो गणगीतो गणोच्छ्र्य: ।गण्यो गणहितो गर्जद्नणसेनो गणोद्धत: ॥६॥गणभीतिप्रमथनो गणभीत्यपहारक: ।गणनार्हो गणप्रौढो गणभर्ता गणप्रभु; ॥७॥गणसेनो गणचरो गणप्राज्ञो गणैकराट् ।गणाग्य्रो गणनामा च गणपालनतत्पर: ॥८॥गणजिद् गणगर्भस्थो गणप्रवणमानस: ।गणगर्वपरीहर्ता गणो गणनमस्कृत: ॥९॥गणार्चिताङिघ्रयुगलो गणरक्षणकृत्सदा ।गणध्यातो गणगुरुर्गणप्रणयतत्पर: ॥१०॥गणागणपरित्राता गणाधिहरणोद्धुर: ।गणसेतुर्गणनुतो गणकेतुर्गणाग्रग: ॥११॥गणहेतुर्गणग्राही गणानुग्रहकारक: ।गणागणानुग्रहभूर्गणागणवरप्रद: ॥१२॥गणस्तुतो गणप्राणो गणसर्वस्वदायक: ।गणवल्लभमूर्तिश्च गणभूतिर्गणेष्टद: ॥१३॥गणसौख्यप्रदाता च गणदु:खप्रणाशन: ।गणप्रथितनामा च गणाभीष्टकर: सदा ॥१४॥गणमान्यो गणख्यातो गणवीतो गणोत्कट: ।गणपालो गणवरो गणगौरवदायक: ॥१५॥गणगर्जितसंतुष्टो गणस्वच्छन्दग: सदा ।गणराजो गणश्रीदो गणाभयकर: क्षणात् ॥१६॥गणमूर्द्धाभिषिक्तश्च गणसैन्यपुरस्सर: ।गुणातीतो गुणमयो गुणत्रयविभागकृत् ॥१७॥गुणी गुणाकृतिधरो गुणशाली गुणप्रिय: ।गुणपूर्णो गुणाम्भोधिर्गुणभाग्गुणदूरग: ॥१८॥गुणागुणवपुर्गौणशरीरो गुणमण्डित: ।गुणस्रष्टा गुणेशानो गुणेशोऽथ गुणेश्वर: ॥१९॥गुणसृष्टजगत्संघो गुणमुख्यो गुणैकराट् ।गुणप्रविष्टो गुणभूर्गुणीकृतचराचर: ॥२०॥गुणप्रवणसंतुष्टो गुणहीनपराङ्गुख: ।गुणैकभूर्गुणश्रेष्ठो गुणज्येष्ठो गुणप्रभु: ॥२१॥गुणज्ञो गुणसम्पूज्यो गुणैकसदनं सदा ।गुणप्रणयवान् गौणप्रकृतिर्गुणभाजनम् ॥२२॥गुणिप्रणतपादाब्जो गुणिगीतो गुणोज्ज्वल: ।गुणवान् गुणसम्पन्नो गुणनन्दितमानस: ॥२३॥गुणसंचारचतुरो गुणसंचयसुन्दर: ।गुणगौरो गुणाधारो गुणसंवृतचेतन: ॥२४॥गुणकृद् गुणभृन्नित्यं गुणाग्य्रो गुणपारदृक् ।गुणप्रचारी गुणयुग् गुणागुणविवेककृत् ॥२५॥गुणाकरो गुणकरो गुणप्रवणवर्द्धन: ।गुणगूढचरो गौणसर्वसंसारचेष्टित: ॥२६॥गुणदक्षिणसौहार्दो गुणलक्षणतत्त्ववित् ।गुणहारी गुणकलो गुणसङ्घसख: सदा ॥२७॥गुणसंस्कृतसंसारो गुणतत्त्वविवेचक: ।गुणगर्वधरो गौणसुखदु:खोदयो गुण: ॥२८॥गुणाधीशो गुणलयो गुणवीक्षणलालस: ।गुणगौरवदाता च गुणदाता गुणप्रभु: ॥२९॥गुणकृद्रुणसम्बोधो गुणभृद्नुणबन्धन: ।गुणहृद्यो गुणस्थायी गुणदायी गुणोत्कट: ॥३०॥गुणचक्रधरो गौणावतारो गुणबान्धव: ।गुणबन्धुर्गुणप्रज्ञो गुणप्राज्ञो गुणालय: ॥३१॥गुणधाता गुणप्राणो गुणगोपो गुणाश्रय: ।गुणयायी गुणाधायी गुणपो गुणपालक; ॥३२॥गुणाहृततनुर्गौणो गीर्वाणो गुणगौरव: ।गुणवत्पूजितपदो गुणवत्प्रीतिदायक: ॥३३॥गुणवद्नीतकीर्तिश्व गुणवद्बद्धसौहृद: ।गुणवद्वरदो नित्यं गुणवत्प्रतिपालक: ॥३४॥गुणवद्नुणसंतुष्टो गुणवद्रचितस्तव: ।गुणवद्रक्षणपरो गुणवत्प्रणयप्रिय: ॥३५॥गुणवच्चक्रसंचारो गुणवत्कीर्तिवर्द्धन: ।गुणवद्नुणचित्तस्थो गुणवद्नुणरक्षक: ॥३६॥गुणवत्पोषणकरो गुणवच्छत्रुसूदन: ।गुणवत्सिद्धिदाता च गुणवद्रौरवप्रद: ॥३७॥गुणवत्प्रवणस्वान्तो गुणवद्नुणभूषण: ।गुणवत्कुलविद्वेषिविनाशकरणक्षम: ॥३८॥गुणिस्तुतगुणो गर्जत्प्रलयाम्बुदनिस्वन: ।गजो गजपतिर्गर्जद्नजयुद्धविशारद: ॥३९॥गजास्यो गजकर्णोऽथ गजराजो गजानन: ।गजरूपधरो गर्जद्रजयूथोद्धुरध्वनि: ॥४०॥गजाधीशो गजाधारो गजासुरजयोद्धुर: ।गजदन्तो गजवरो गजकुम्भो गजध्वनि: ॥४१॥गजमायो गजमयो गजश्रीर्गजगर्जित: ।गजामयहरो नित्यं गजपुष्टिप्रदायक: ॥४२॥गजोत्पत्तिर्गजत्राता गजहेतुर्गजाधिप: ।गजमुख्यो गजकुलप्रवरो गजदैत्यहा ॥४३॥गजकेतुर्गजाध्यक्षो गजसेतुर्गजाकृति: ।गजवन्द्यो गजप्राणो गजसेव्यो गजप्रभु: ॥४४॥गजमत्तो गजेशानो गजेशो गजपुङ्गव: ।गजदन्तधरो गुञ्जन्मधुपो गजवेषभृत् ॥४५॥गजच्छन्नो गजाग्रस्थो गजयायी गजाजय: ।गजराड्गजयूथस्थो गजगञ्जकभञ्जक: ॥४६॥गर्जितोज्झितदैत्यासुर्गर्जितत्रातविष्टप: ।गानज्ञो गानकुशलो गानतत्त्वविवेचक: ॥४७॥गानश्लाघी गानरसो गानज्ञानपरायण: ।गानागमज्ञो गानाङ्गो गानप्रवणचेतन: ॥४८॥गानकृद्रानचतुरो गानविद्याविशारद: ।गानध्येयो गानगम्यो गानध्यानपरायण; ॥४९॥गानभूर्गानशीलश्च गानशाली गतश्रम: ।गानविज्ञानसम्पन्नो गानश्रवणलालस: ॥५०॥गानायत्तो गानमयो गानप्रणयवान् सदा ।गानध्याता गानबुद्धिर्गानोत्सुकमना: पुन: ॥५१॥गानोत्सुको गानभूमिर्गानसीमा गुणोज्ज्वल: ।गानाङ्गज्ञानवान् गानमानवान् गानपेशल: ॥५२॥गानवत्प्रणयो गानसमुद्रो गानभूषण: ।गानसिन्धुर्गानपरो गानप्राणो गणाश्रय: ॥५३॥गानैकभूर्गानहृष्टो गानचक्षुर्गणैकदुक् ।गानमत्तो गानरुचिर्गानविद्नानवित्प्रिय: ॥५४॥गानान्तरात्मा गानाढयो गानभ्राजत्सभ: सदा ।गानमायो गानधरो गानविद्याविशोधक: ॥५५॥गानाहितघ्नो गानेन्द्रो गानलीनो गतिप्रिय: ।गानाधीशो गानलयो गानाधारो गतीश्वर: ॥५६॥गानवन्मानदो गानभूतिर्गानैकभूतिमान् ।गानतानततो गानतानदानविमोहित: ॥५७॥गुरुर्गुरूदरश्रोणिर्गुरुतत्त्वार्थदर्शन: ।गुरुस्तुतो गुरुगुणो गुरुमायो गुरुप्रिय: ॥५८॥गुरुकीर्तिर्गुरुभुजो गुरुवक्षा गुरुप्रभ: ।गुरुलक्षणसम्पन्नो गुरुद्रोहपराङ्मुख ॥५९॥गुरुविद्यो गुरुप्राणो गुरुबाहुबलोच्छ्रय: ।गुरुदैत्यप्राणहरो गुरुदैत्यापहारक: ॥६०॥गुरुगर्वहरो गुह्यप्रवशे गुरुदर्पहा ।गुरुगौरवदायी च गुरुभीत्यपहारक: ॥६१॥गुरुशुण्डो गुरुस्कन्धो गुरुजङ्घो गुरुप्रथ: ।गुरुभालो गुरुगलो गुरुश्रीर्गुरुगर्वनुत् ॥६२॥गुरूरुर्गुरुपीनांसो गुरुप्रणयलालस: ।गुरुमुख्यो गुरुकुलस्थायी गुरुगुण: सदा ॥६३॥गुरुसंशयभेत्ता च गुरुमानप्रदायक: ।गुरुधर्मसदाराध्यो गुरुधर्मनिकेतन: ॥६४॥गुरुदैत्यकुलच्छेत्ता गुरुसैन्यो गुरुद्युति: ।गुरुधर्माग्रगण्योऽथ गुरुधर्मधुरन्धर: ॥६५॥गरिष्ठो गुरुसंतापशमनो गुरुपूजित: ।गुरुधर्मधरो गौरधर्माधारो गदापह: ॥६६॥गुरुशास्त्रविचारज्ञो गुरुशास्त्रकृतोद्यम: ।गुरुशास्त्रार्थनिलयो गुरुशास्त्रालय: सदा ॥६७॥गुरुमन्त्रो गुरुश्रेष्ठो गुरुमन्त्रफलप्रद: ।गुरुस्त्रीगमने दोषप्रायश्चित्तनिवारक: ॥६८॥गुरुसंसारसुखदो गुरुसंसारदु:खभित् ।गुरुश्लघापरो गौरभानुखण्डावतंसभृत् ॥६९॥गुरुप्रसन्नमूर्तिश्च गुरुशापविमोचक: ।गुरुकान्तिर्गुरुमयो गुरुशासनपालक: ॥७०॥गुरुतन्त्रो गुरुप्रज्ञो गुरुभो गुरुदैवतम् ।गुरुविक्रमसंचारो गुरुदृग् गुरुविक्रम: ॥७१॥गुरुक्रमो गुरुप्रेष्ठो गुरुपाखण्डखण्डक: ।गुरुगर्जितसम्पूर्णब्रह्माण्डो गुरुगर्जित: ॥७२॥गुरुपुत्रप्रियसखो गुरुपुत्रभयापह: ।गुरुपुत्रपरित्राता गुरुपुत्रवरप्रद: ॥७३॥गुरुपुत्रार्तिशमनो गुरुपुत्राधिनाशन: ।गुरुपुत्रप्राणदाता गुरुभक्तिपरायण: ॥७४॥गुरुविज्ञानविभवो गौरभानुवरप्रद: ।गौरभानुस्तुतो गौरभानुत्रासापहारक: ॥७५॥गौरभानुप्रियो गौरभानुर्गौरववर्द्धन: ।गौरभानुपरित्राता गौरभानुसख: सदा ॥७६॥गौरभानुप्रभुर्गौरभानुभीतिप्रणाशन: ।गौरीतेज:समुत्पन्नो गौरीहृदयनन्दन: ॥७७॥गौरीस्तनन्धयो गौरीमनोवाञ्छितसिद्धिकृत् ।गौरो गौरगुणो गौरप्रकाशो गौरभैरव: ॥७८॥गौरीशनन्दनो गौरीप्रियपुत्रो गदाधर: ।गौरीवरप्रदो गौरीप्रणयो गौरसच्छवि: ॥७९॥गौरीगणेश्वरो गौरीप्रवणो गौरभावन: ।गौरात्मा गौरकीर्तिश्च गौरभावो गरिष्ठद्वक् ॥८०॥गौतमो गौतमीनाथो गौतमप्राणवल्लभ: ।गौतमाभीष्टवरदो गौतमाभयदायक: ॥८१॥गौतमप्रणयप्रह्वो गौतमाश्रमदु:खहा ।गौतमीतीरसंचारी गौतमीतीर्थनायक: ॥८२॥गौतमापत्परीहारो गौतमाधिविनाशन: ।गोपतिर्गोधनो गोपो गोपालप्रियदर्शन: ॥८३॥गोपालो गोगणाधीशो गोकश्मलनिवर्तक: ।गोसहस्रो गोपवरो गोपगोपीसुखावह: ॥८४॥गोवर्द्धनो गोपगोपो गोमान् गोकुलवर्द्धन: ।गोचरो गोचराध्यक्षो गोचरप्रीतिवृद्धिकृत् ॥८५॥गोमी गोकष्टसंत्राता गोसंतापनिवर्तक: ।गोष्ठो गोष्ठाश्रयो गोष्टपतिर्गोधनवर्द्धन: ॥८६॥गोष्ठप्रियो गोष्ठमयो गोष्ठामयनिवर्तक: ।गोलोको गोलको गोभृद् गोभर्ता गोसुखावह: ॥८७॥गोधुग् गोधुग्गणप्रेष्ठो गोदोग्धा गोमयप्रिय: ।गोत्रं गोत्रपतिर्गोत्रप्रभुर्गोत्रभयापह: ॥८८॥गोत्रवृद्धिकरो गोत्रप्रियो गोत्रार्तिनाशन: ।गोत्रोद्धारपरो गोत्रप्रवरो गोत्रदैवतम् ॥८९॥गोत्रविख्यातनामा च गोत्री गोत्रप्रपालक: ।गोत्रसेतुर्गोत्रकेतुर्गोत्रहेतुर्गतक्लम: ॥९०॥गोत्रत्राणकरो गोत्रापतिर्गोत्रेशपूजित: ।गोत्रभिद् गोत्रभित्त्राता गोभिद्वरदायक: ॥९१॥गोत्रभित्पूजितपदो गोत्रभिच्छत्रुसूदन: ।गोत्रभित्प्रीतिदो नित्यं गोत्रभिद्नोत्रपालक: ॥९२॥गोत्रभिद्गीतचरितो गोत्रभिद्राज्यरक्षक: ।गोत्रभिज्जयदायी च गोत्रभित्प्रणय: सदा ॥९३॥गोत्रभिद्भयसम्भेत्ता गोत्रभिन्मानदायक: ।गोत्रभिद्नोपनपरो गोत्रभित्सैन्यनायक: ॥९४॥गोत्राधिपप्रियो गोत्रपुत्रीपुत्रो गिरिप्रिय: ।ग्रन्थज्ञो ग्रन्थकृद्ग्रन्थग्रन्थिभिद्ग्रन्थविघ्नहा ॥९५॥ग्रन्थादिर्ग्रन्थसंचारो ग्रन्थश्रवणलोलुप: ।ग्रन्थाधीनक्रियो ग्रन्थप्रियो ग्रन्थार्थतत्त्ववित् ॥९६॥ग्रन्थसंशयसंछेदी ग्रन्थवक्त ग्रहाग्रणी: ।ग्रन्थगीतगुणो ग्रन्थगीतो ग्रन्थादिपूजित: ॥९७॥ग्रन्थारम्भस्तुतो ग्रन्थगाही ग्रन्थार्थपारद्वक् ।ग्रन्थदृग् ग्रन्थविज्ञानो ग्रन्थसंदर्भशोधक: ॥९८॥ग्रन्थकृत्पूजितो ग्रन्थकरो ग्रन्थपरायण: ।ग्रन्थपारायणपरो ग्रन्थसंदेहभञ्जक: ॥९९॥ग्रन्थकृद्वरदाता च ग्रन्थकृद्वन्दित: सदा ।ग्रन्थानुरक्तो ग्रन्थज्ञो ग्रन्थानुग्रहदायक: ॥१००॥ग्रन्थान्तरात्मा ग्रन्थार्थपण्डितो ग्रन्थसौहृद: ।ग्रन्थपारंगमो ग्रन्थगुणविद् ग्रन्थविग्रह: ॥१०१॥ग्रन्थसेतुर्ग्रन्थहेतुर्ग्रन्थकेतुर्ग्रहाग्रग: ।ग्रन्थपूज्यो ग्रन्थगेयो ग्रन्थग्रथनलालस: ॥१०२॥ग्रन्थभूमिर्ग्रहश्रेष्ठो ग्रहकेतुर्ग्रहाश्रय: ।ग्रन्थकारो ग्रन्थकारमान्यो ग्रन्थप्रसारक: ॥१०३॥ग्रन्थश्रमज्ञो ग्रन्थाङ्गो ग्रन्थभ्रमनिवारक: ।ग्रन्थप्रवणसर्वाङ्गो ग्रन्थप्रणयतत्पर: ॥१०४॥गीतं गीतगुणो गीतकीर्तिर्गीतविशारद: ।गीतस्फीतयशा गीतप्रणयो गीतचञ्चुर: ॥१०५॥गीतप्रसन्नो गीतात्मा गीतलोलो गतस्पृह: ।गीताश्रयो गीतमयो गीततत्त्वार्थकोविद: ॥१०६॥गीतसंशयसंछेत्ता गीतसंगीतशासन: ।गीतार्थज्ञो गीततत्त्वो गीतातत्त्वं गताश्रय: ॥१०७॥गीतासारोऽथ गीताकृद्नीताकृद्विघ्ननाशन: ।गीतासक्तो गीतलीनो गीताविगतसंज्वर: ॥१०८॥गीतैकद्दग् गीतभूतिर्गीतप्रीतो गतालस: ।गीतवाद्यपटुर्गीतप्रभुर्गीतार्थतत्त्ववित् ॥१०९॥गीतागीतविवेकज्ञो गीताप्रवणचेतन: ।गतभीर्गतविद्वेषो गतसंसारबन्धन: ॥११०॥गतमायो गतत्रासो गतदुःखो गतज्वर: ।गीतासुहृद् गताज्ञानो गतदुष्टाशयो गत: ॥१११॥गतार्तिर्गतसंकल्पो गतदुष्टविचेष्टित: ।गताहंकारसंचारो गतदर्पो गताहित: ॥११२॥गतविघ्नो गतभयो गतागतनिवारक: ।गतव्यथो गतापायो गतदोषो गते: पर: ॥११३॥गतसर्वविकारोऽथ गतगञ्जितकुञ्जर: ।गतकम्पितभूपृष्ठो गतरुग् गतकल्मष: ॥११४॥गतदैन्यो गतस्तैन्यो गतमानो गतश्रम: ।गतक्रोधो गतग्लानिर्गतम्लानो गतभ्रम: ॥११५॥गताभावो गतभवो गततत्त्वार्थसंशय: ।गयासुरशिरश्छेत्ता गयासुरवरप्रद: ॥११६॥गयावासो गयानाथो गयावासिनमस्कृत: ।गयातीर्थफलाध्यक्षो गयायात्राफलप्रद: ॥११७॥गयामयो गयाक्षेत्रं गयाक्षेत्रनिवासकृत् ।गयावासिस्तुतो गायन्मधुव्रतलसत्कट: ॥११८॥गायको गायकवरो गायकेष्टफलप्रद: ।गायकप्रणयी गाता गायकाभयदायक: ॥११९॥गायकप्रवणस्वान्तो गायकप्रथम: सदा ।गायकोद्नीतसम्र्पीतो गायकोत्कटविघ्नहा ॥१२०॥गानगेयो गायकेशो गायकान्तरसंचर: ।गायकप्रियद: शश्वद् गायकाधीनविग्रह: ॥१२१॥गेयो गेयगुणो गेयचरितो गेयतत्त्ववित् ।गायकत्रासहा ग्रन्थो ग्रन्थतत्त्वविवेचक: ॥१२२॥गाढानुरागो गाढाङ्गो गाढगङ्गाजलोऽन्वहम् ।गाढावगाढजलधिर्गाढप्रज्ञो गतामय; ॥१२३॥गाढप्रत्यर्थिसैन्योऽथ गाढानुग्रहतत्पर: ।गाढाश्लेषरसाभिज्ञो गाढनिर्वृतिसाधक: ॥१२४॥गङ्गाधरेष्टवरदो गङ्गाधरभयापह: ।गङ्गाधरगुरुर्गङ्गाधरध्यातपद: सदा ॥१२५॥गङ्गाधरस्तुतो गङ्गाधरारध्यो गतस्मय: ।गङ्गाधरप्रियो गङ्गाधरो गङ्गाम्बुसुन्दर: ॥१२६॥गङगाजलरसास्वादचतुरो गाङ्गनीरप: ।गङ्गाजलप्रणयवान् गङ्गातीरविहारकृत् ॥१२७॥गङ्गाप्रियो गाङ्गजलावगाहनपर: सदा ।गन्धमादनसंवासो गन्धमादनकेलिकृत् ॥१२८॥गन्धानुलिप्तसर्वाङ्गो गन्धलुब्धमधुव्रत: ।गन्धो गन्धर्वराजोऽथ गन्धर्वप्रियकृत् सदा ॥१२९॥गन्धर्वविद्यातत्त्वज्ञो गन्धर्वप्रीतिवर्द्धन: ।गकारबीजनिलयो गकारो गर्विगर्वनुत् ॥१३०॥गन्धर्वगणसंसेव्यो गन्धर्ववरदायक: ।गन्धर्वो गन्धमातङ्गो गन्धर्वकुलदैवतम् ॥१३१॥गन्धर्वगर्वसंछेत्ता गन्धर्ववरदर्पहा ।गन्धर्वप्रवणस्वान्तो गन्धर्वगणसंस्तुत ॥१३२॥गन्धर्वार्चितपादाब्जो गन्धर्वभयहारक: ।गन्धर्वभयद: शश्वद् गन्धर्वप्रतिपालक: ॥१३३॥गन्धर्वगीतचरितो गन्धर्वप्रणयोत्सुक: ।गन्धर्वगानश्रवणप्रणयी गर्वभञ्जन: ॥१३४॥गन्धर्वत्राणसंनद्धो गन्धर्वसमरक्षम: ।गन्धर्वस्त्रीभिराराध्यो गानं गानपटु: सदा ॥१३५॥गच्छो गच्छपतिर्गच्छनायको गच्छगर्वहा ।गच्छराजोऽथ गच्छेशो गच्छराजनमस्कॄत: ॥१३६॥गच्छप्रियो गच्छगुरुर्गच्छत्राणकृतोद्यम: ।गच्छप्रभुर्गच्छचरो गच्छप्रियकृतोद्यम: ॥१३७॥गच्छगीतगुणो गच्छमर्यादाप्रतिपालक: ।गच्छधाता गच्छभर्ता गच्छवन्द्यो गुरोर्गुरु: ॥१३८॥गृत्सो गृत्समदो गृत्समदाभीष्टवरप्रद: ।गीर्वाणगीतचरितो गीर्वाणगणसेवित: ॥१३९॥गीर्वाणवरदाता च गीर्वाणभयनाशकृत ।गीर्वाणगुणसंवीतो गीर्वाणारातिसूदन: ॥१४०॥गीर्वाणधामा गीर्वाणगोप्ता गीर्वाणगर्वहृत् ।गीर्वाणार्तिहरो नित्यं गीर्वाणवरदायक: ॥१४१॥गीर्वाणशरणं गीतनामा गीर्वाणसुन्दर: ।गीर्वाणप्राणदो गन्ता गीर्वाणानीकरक्षक: ॥१४२॥गुहेहापूरको गन्धमत्तो गीर्वाणपुष्टिद: ।गीर्वाणप्रयुतत्राता गीतगोत्रो गताहित: ॥१४३॥गीर्वाणसेवितपदो गीर्वाणप्रथितो गलन् ।गीर्वाणगोत्रप्रवरो गीर्वाणफलदायक: ॥१४४॥गीर्वाणप्रियकर्ता च गीर्वाणागमसारवित् ।गीर्वाणगमसम्पत्तिर्गीर्वाणव्यसनापह: ॥१४५॥गीर्वाणप्रणयो गीतग्रहणोत्सुकमानस: ।गीर्वाणभ्रमसम्भेत्ता गीर्वाणगुरुपूजित: ॥१४६॥ग्रहो ग्रहपतिर्ग्राहो ग्रहपीडाप्रणाशन: ।ग्रहस्तुतो ग्रहाध्यक्षो ग्रहेशो ग्रहदैवतम् ॥१४७॥ग्रहकृद् ग्रहभर्ता च ग्रहेशानो ग्रहेश्वर: ।ग्रहाराध्यो ग्रहत्राता ग्रहगोप्ता ग्रहोत्कट: ॥१४८॥ग्रहगीतगुणो ग्रन्थप्रणेता ग्रहवन्दित: ।गर्वी गर्वीश्वरो गर्वो गर्विष्ठो गर्विगर्वहा ॥१४९॥गवांप्रियो गवांनाथो गवीशानो गवांपति: ।गव्यप्रियो गवांगोप्ता गवीसम्पत्तिसाधक: ॥१५०॥गवीरक्षणसंनद्धो गवीभयहर: क्षणात् ।गवीगर्वहरो गोदो गोप्रदो गोजयप्रद: ॥१५१॥गजायुतबलो गण्डगुञ्जन्मत्तमधुव्रत: ।गण्डस्थललसद्दानमिलन्मत्तालिमण्डित: ॥१५२॥गुडो गुडप्रियो गण्डगलद्दानो गुडाशन: ।गुडाकेशो गुडाकेशसहायो गुडलडडुभुक ॥१५३॥गुडभुग्गुडभुग्गण्यो गुडाकेशवरप्रद: ।गुडाकेशार्चितपदो गुडाकेशसख: सदा ॥१५४॥गदाधरार्चितपदो गदाधरवरप्रद: ।गदायुधो गदापाणिर्गदायुद्धविशारद: ॥१५५॥गदहा गददर्पघ्नो गदगर्वप्रणाशन: ।गदग्रस्तपरित्राता गदाडम्बरखण्डक: ॥१५६॥गुहो गुहाग्रजो गुप्तो गुहाशायी गुहाशय: ।गुहप्रीतिकरो गूढो गूढगुल्फो गुणैकदृक् ॥१५७॥गीर्गीष्पतिर्गिरीशानो गीर्देवीगीतसद्रुण: ।गीर्देवो गीष्प्रियो गीर्भूर्गीरात्मा गीष्र्पियंकर: ॥१५८॥गीर्भूमिर्गीरसज्ञोऽथ गी:प्रसन्नो गिरीश्वर: ।गिरीशजो गिरौशायी गिरिराजसुखावह: ॥१५९॥गिरिराजार्चितपदो गिरिराजनमस्कृत: ।गिरिराजगुहाविष्टो गिरिराजाभयप्रद: ॥१६०॥गिरिराजेष्टवरदो गिरिराजप्रपालक: ।गिरिराजसुतासूनुर्गिरिराजजयप्रद: ॥१६१॥गिरिव्रजवनस्थायी गिरिव्रजचर: सदा ।गर्गो गर्गप्रियो गर्गदेवो गर्गनमस्कृत: ॥१६२॥गर्गभीतिहरो गर्गवरदो गर्गसंस्तुत: ।गर्गगीतप्रसन्नात्मा गर्गानन्दकर: सदा ॥१६३॥गर्गप्रियो गर्गमानप्रदो गर्गारिभञ्जक: ।गर्गवर्गपरित्राता गर्गसिद्धिप्रदायक: ॥१६४॥गर्गग्लानिहरो गर्गभ्रमहृद गर्गसंगत: ।गर्गाचार्यो गर्गमुनिर्गर्गसम्मानभाजन: ॥१६५॥गम्भीरो गणितप्रज्ञो गणितागमसारवित् ।गणको गणकश्लाघ्यो गणकप्रणयोत्सुक: ॥१६६॥गणकप्रवणस्वान्तो गणितो गणितागम: ।गद्यं गद्यमयो गद्यपद्यविद्याविशारद: ॥१६७॥गललग्नमहानागो गलदर्चिर्गलन्मद: ।गलत्कुष्ठिव्यथाहन्ता गलत्कुष्ठिसुखप्रद: ॥१६८॥गम्भीरनाभिर्गम्भीरस्वरो गम्भीरलोचन: ।गम्भीरगुणसम्पन्नो गम्भीरगतिशोभन: ॥१६९॥गर्भप्रदो गर्भरूपो गर्भापद्विनिवारक: ।गर्भागमनसंनाशो गर्भदो गर्भशोकनुत् ॥१७०॥गर्भत्राता गर्भगोप्ता गर्भपुष्टिकर: सदा । गर्भाश्रयो गर्भमयो गर्भामयनिवारक: ॥१७१॥गर्भधारो गर्भधरो गर्भसंतोषसाधक: ।गर्भगौरवसंधानसाधनं गर्भगर्वहृत् ॥१७२॥गरीयान् गर्वनुद् गर्वमर्दी गरदमर्दक: ।गरसंतापशमनो गुरुराज्यसुखप्रद: ॥१७३॥॥ फलश्रुति: ॥नाम्नां सहस्रमुदितं महद् गणपतेरिदम् ।गकारादि जगद्वन्द्यं गोपनीयं प्रयत्नत: ॥१७४॥य इदं प्रयत: प्रातस्त्रिसंध्यं वा पठेन्नर: ।वाञ्छितं समवाप्नोति नात्र कार्या विचारणा ॥१७५॥पुत्रार्थी लभते पुत्रान् धनार्थी लभते धनम् ।विद्यार्थी लभते विद्यां सत्यं सत्यं न संशय: ॥१७६॥भूर्जत्वचि समालिख्य कुंकुमेन समाहित: ।चतुर्थ्यां भौमवारे च चन्द्रसूर्योपरागके ॥१७७॥पूजयित्वा गणाधीशं यथोक्तविधिना पुरा ।पूजयेच् यो यथाशक्त्या जुहुयाच्च शमीदलै: ॥१७८॥गुरुं सम्पूज्य वस्त्राद्यै: कृत्वा चापि प्रदक्षिणाम् ।धारयेद् य: प्रयत्नेन स साक्षाद्गणनायक: ॥१७९॥सुराश्चासुरवर्याश्व पिशाचा: किन्नरोरगा: ।प्रणमन्ति सदा तं वै द्वष्ट्वा विस्मितमानसा: ॥१८०॥राजा सपदि वश्य: स्यात् कामिन्यस्तद्वशे स्थिरा: ।तस्य वंशे स्थिरा लक्ष्मी: कदापि न विमुञ्चति ॥१८१॥निष्कामो य: पठेदेतद् गणेश्वरपरायण: ।स प्रतिष्ठां परां प्राप्य निजलोकमवाप्नुयात् ॥१८२॥इदं ते कीर्तितं नाम्नां सहस्रं देवि पावनम् ।न देयं कृपणायाथ शठाय गुरुविद्विषे ॥१८३॥दत्त्वा च भ्रंशमाप्नोति देवताया: प्रकोपत: ।इति श्रुत्वा महादेवी तदा विस्मितमानसा ॥१८४॥पूजयामास विधिवद् गणेश्वरपदद्वयम् ॥१८५॥॥ इति श्रीरुद्रयामले महागुप्तसारे शिवपार्वतीसंवादे गकारादि श्रीगणपतिसहस्रनामस्तोत्रं सम्पूर्णम् ॥ N/A References : N/A Last Updated : April 16, 2013 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP