संस्कृत सूची|शास्त्रः|आयुर्वेदः|राजनिघण्टु| शाल्यादिवर्ग राजनिघण्टु मङ्गलाचरण प्रस्तावना आनूपादिवर्ग धरण्यादिवर्ग ङुडूच्यादिवर्ग पर्पटादिवर्ग पिप्पल्यादिवर्ग शताह्वादिवर्ग ऊलकादिवर्ग शाल्मल्यादिवर्ग प्रभद्रादिवर्ग करवीरादिवर्ग आम्रादिवर्ग अन्दनादिवर्ग उवर्णादिवर्ग पानीयादिवर्ग क्षीरादिवर्ग शाल्यादिवर्ग आंसादिवर्ग अनुष्यादिवर्गः इंहादिवर्ग ऱोगादिवर्ग अत्त्वादिवर्ग इश्रकादिवर्ग कार्थादिवर्ग १ कार्थादिवर्ग २ कार्थादिवर्ग ३ कार्थादिवर्ग ४ कार्थादिवर्ग ५ कार्थादिवर्ग ६ कार्थादिवर्ग ७ कार्थादिवर्ग ८ कार्थादिवर्ग ९ कार्थादिवर्ग १० कार्थादिवर्ग ११ राजनिघण्टु - शाल्यादिवर्ग नरहरि पन्डित रचित राजनिघण्टु ग्रंथ म्हणजे आयुर्वेदातील एक मैलाचा दगड. Tags : narahar panditrajanighantuvedआयुर्वेदनरहरि पन्डितराजनिघण्टुसंस्कृत शाल्यादिवर्ग Translation - भाषांतर धान्यं भोग्यं च भोगार्हमन्नाद्यं जीवसाधनं ।तच्च तावत्त्रिधा ज्ञेयं शूकशिम्बीतृणाह्वयं ॥१६.१व्रीह्यादिकं यदिह शूकसमन्वितं स्यात्तच्छूकधान्यं अथ मुद्गमकुष्टकादि ।शिम्बीनिगूढं इति तत्प्रवदन्ति शिम्बीधान्यं तृणोद्भवतया तृणधान्यं अन्यत् ॥१६.२वातादिदोषशमनं लघु शूकधान्यं तेजोबलातिशयवीर्यविवृद्धिदायि ।शिम्बीभवं गुरु हिमं च विबन्धदायि वातूलकं तु शिशिरं तृणधान्यं आहुः ॥१६.३देशे देशे शूकधान्येषु संख्या ज्ञातुं शक्या नैव तद्दैवतैर्वा ।तस्मादेषां येषु भोगोपयोगास्तान्यस्माभिर्व्याक्रियन्ते कियन्ति ॥१६.४शालयः कलमा रुच्या व्रीहिश्रेष्ठा नृपप्रियाः ।धान्योत्तमाश्च विज्ञेयाः कैदाराः सुकुमारकाः ॥१६.५राजान्नषष्टिकसिततररक्तमुण्डस्थूलाणुगन्धनिरपादिकशालिसंज्ञाः ।व्रीहिस्तथेति दशधा भुवि शालयस्तु तेषां क्रमेण गुणनामगणं ब्रवीमि ॥१६.६राजान्नं दीर्घशूकः खरिपुदिवसजं षष्टिको वर्णतो द्वौ निःशूको मुण्डशालिः स्वगुणविशदितः स्वाभिधानास्त्रयोऽन्ये ।मासैर्योऽन्यस्त्रिभिः स्यात्स भवति निरपो योऽपि वृष्ट्यम्बुसम्भूरेष स्याद्व्रीहिसंज्ञस्तदिति दशविधाः शालयस्तु प्रसिद्धाः ॥१६.७शालिर्नृपान्नं राजान्नं राजार्हं दीर्घशूककं ।धान्यश्रेष्ठं राजधान्यं राजेष्टं दीर्घकूरकं ॥१६.८राजान्नं तु त्रिदोषघ्नं सुस्निग्धं मधुरं लघु ।दीपनं बलकृत्पथ्यं कान्तिदं वीर्यवर्धनं ॥१६.९राजान्नं त्रिविधं स्वशूकभिदया ज्ञेयं सितं लोहितं कृष्णं चेति रसाधिकं च तदिदं स्यादौत्तरोत्तर्यतः ।त्रैविध्यादिह तण्डुलाश्च हरिताः श्वेतास्तथा लोहिताः सामान्येन भवन्ति तेऽप्यथ गुणैः स्युः पूर्वपूर्वोत्तराः ॥१६.१०षष्टिकः षष्टिशालिः स्यात्षष्टिजः स्निग्धतण्डुलः ।षष्टिवासरजः सोऽयं ज्ञेयो मासद्वयोद्भवः ॥१६.११गौरो नीलः षष्टिकोऽयं द्विधा स्यादाद्यो रुच्यः शीतलो दोषहारी ।बल्यः पथ्यो दीपनो वीर्यवृद्धिं दत्ते चास्मात्किंचिदूनो द्वितीयः ॥१६.१२कृष्णशालिः कालशालिः श्यामशालिः सितेतरः ॥१६.१३कृष्णशालिस्त्रिदोषघ्नो मधुरः पुष्टिवर्धनः ।वर्णकान्तिकरो बल्यो दाहजिद्वीर्यवृद्धिकृत् ॥१६.१४रक्तशालिस्ताम्रशालिः शोणशालिश्च लोहितः ।रक्तशालिः सुमधुरो लघुः स्निग्धो बलावहः ॥१६.१५रुचिकृद्दीपनः पथ्यो मुखजाड्यरुजापहः ।सर्वामयहरो रुच्यः पित्तदाहानिलास्रजित् ॥१६.१६मुण्डशालिर्मुण्डनको निःशूको यवशूकजः ॥१६.१७मुण्डशालिस्त्रिदोषघ्नो मधुराम्लो बलप्रदः ॥१६.१८स्थूलशालिर्महाशालिः स्थूलाङ्गः स्थूलतण्डुलः ।एवंगन्धाढ्यशालेश्च नामान्यूह्यानि सूरिभिः ॥१६.१९महाशालिः स्वादुर्मधुरशिशिरः पित्तशमनो ज्वरं जीर्णं दाहं जठररुजं अह्नाय शमयेत् ।शिशूनां यूनां वा यदपि जरतां वा हितकरः सदा सेव्यः सर्वैरनलबलवीर्याणि कुरुते ॥१६.२०सूक्ष्मशालिः सूचिशालिः पोतशालिश्च सूचकः ॥१६.२१सूक्ष्मशालिः सुमधुरो लघुः पित्तास्रदाहनुत् ।दीपनः पाचनश्चैव किंचिद्वातविकारजित् ॥१६.२२गन्धशालिस्तु कल्माषो गन्धालुः कलमोत्तमः ।सुगन्धिर्गन्धबहुलः सुरभिर्गन्धतण्डुलः ॥१६.२३सुगन्धशालिर्मधुरोऽतिवृष्यदः पित्तश्रमास्रारुचिदाहशान्तिदः ।स्तन्यस्तु गर्भस्थिरताल्पवातदः पुष्टिप्रदश्चाल्पकफश्च बल्यदः ॥१६.२४निरपो मधुरः स्निग्धः शीतलो दाहपित्तजित् ।त्रिदोषशमनो रुच्यः पथ्यः सर्वामयापनुत् ॥१६.२५व्रीहिर्गौरो मधुरशिशिरः पित्तहारी कषायः स्निग्धो वृष्यः कृमिकफहरस्तापरक्तापहश्च ।पुष्टिं दत्ते श्रमशमनकृद्वीर्यवृद्धिं विधत्ते रुच्योऽत्यन्तं जनयति मुदं वातकृन्मेचकोऽन्यः ॥१६.२६मण्डकः स्थूलशालिश्च स्याद्बिम्बशालिकस्तथा ।निजातिशाणहुल्याश्च बिम्बी कौसेन्दुकस्तथा ॥१६.२७प्रसाधिका जीरकाख्या सश्यामा मधुरा मता ।राजानां मौलिकस्यापि शालिः स्यादुर्वरी तथा ॥१६.२८सूक्ष्मशालिः कुदितिका सुशालिर्गुरुशालयः ।वनशालिर्गुण्डुरूकी क्षीरिका पङ्क्तयः पृथक् ।एतानि शालिनामानि प्रख्यातानि प्रसिद्धतः ॥१६.२९अशोचा पाटला व्रीहिर्व्रीहिको व्रीहिधान्यकः ।व्रीहिसंधान्यं उद्दिष्टः अर्धधान्यस्तु व्रीहिकः ॥१६.३०गर्भे पाकणिकः षष्टिः षष्टिको बलसम्भवः ।सुधान्यं पथ्यकारी च मुपविः प्रज्ञविप्रियः ॥१६.३१शालिस्तु कलमाद्यस्तु कलमो नाकलायकः ।कदम्बपुष्पगन्धश्च कलजातः कलोद्भवः ॥१६.३२पित्तश्लेष्मकरो वृष्यः कलमो मधुरस्तथा ॥१६.३३लोहितो रक्तशालिः स्यात्काष्ठलोहितशालयः ।रुणाली रुणशालिस्तु रक्तशाल्यः सुशाल्यकः ॥१६.३४तृष्णाघ्नो मलकृच्छ्रघ्नो हृद्यस्तु मतिदाः परे ॥१६.३५महाशालिः सुगन्धा स्यात्सुगन्धा गन्धसम्भवा ।गन्धाढ्या गन्धमाल्या च गन्धानी गन्धमालिनी ॥१६.३६सुगन्धा मधुरा हृद्या कफपित्तज्वरास्रजित् ॥१६.३७जलोद्भवा जलरुहा जलजाता सुजातका ।रक्ताङ्गुलं सुकारं च कुङ्कुमं समवर्णजा ॥१६.३८कुङ्कुमा मधुरा शीता रक्तपित्तातिसारजित् ॥१६.३९तिलजा नीलनामा स्याद्दीर्घकृष्णा सुपूजका ।मधुरा च सुगन्धा च तिलवासी निगद्यते ॥१६.४०राजादनी राजप्रिया राजभावा मुनिप्रिया ।तिलनी तिलपर्णी च आमगन्धा प्रवासिनी ॥१६.४१कफपित्तहराः स्निग्धाः कासश्वासहराः पराः ।शीघ्रपाककरा हृद्या लघवः शुक्रवर्धनाः ॥१६.४२कोमलाहारसम्भूतास्तिलवासीमहागुणाः ।पाण्डुरोगेषु शूलेषु चामवाते प्रशस्यते ॥१६.४३वक्तको वक्तशालिः स्यात्दीर्घस्तु आशुकोपितः ।राजप्रिया पथ्यकरा मध्यदेशसमुद्भवा ॥१६.४४वक्तिका लघवः प्रोक्ता मुखपाककरास्तथा ॥१६.४५कलाटकः कविलः स्याद्गुरुसो गरुडः स्मृतः ।गुरुवको गुरडकः सुखभोजी सुभोजकः ॥१६.४६कविलो गन्धकारी च लघुपाककरोऽपि च ।कफपित्तहरः स्वादुः शूलश्वासनिवारणः ।ग्रहणीगुल्मकुष्ठघ्नो विकलो भोजने शुभः ॥१६.४७कुष्माण्डिका कुम्भडिका रक्ता सुमधुरा गुरुः ।सुगन्धा दुर्जरा पीता स्थूलतण्डुलकोमला ॥१६.४८कुम्भिका मधुरा स्निग्धा वातपित्तनिबर्हिणी ॥१६.४९सौरभं शुण्डिकः शुण्डी कौसुम्भी कठिनोऽफलः ॥१६.५०कौसुम्भी लघुपाका च वातपित्तनिबर्हिणी ॥१६.५१उम्पास उम्पिकाशालिर्मधुरा गुरुतण्डुला ।बहुशूका सुगन्धाढ्या तारुण्यजनवल्लभा ॥१६.५२उम्पिका मधुरा स्निग्धा सुगन्धा च कषायका ।पित्तश्लेष्महरा रूक्षा उम्पिकानिलनाशिनी ॥१६.५३पक्षिकः पक्षिलावण्यः पक्षिराजो मुनिप्रियः ।स्थूलतण्डुलसम्भूतागन्धो बहलगन्धकृत् ॥१६.५४दग्धायामवनौ जाताः शालयो लघुपाकिनः ।किंचित्सतिक्ता मधुराः पाचना बलवर्धनाः ॥१६.५५केदारा मधुरा वृष्या बल्याः पित्तविवर्धनाः ।ईषत्कषायाल्पमला गुरवः कफनाशनाः ॥१६.५६शालयो ये छिन्नरुहा रूक्षास्ते बद्धवर्चसः ॥१६.५७रोप्यातिरोप्या लघवः शीघ्रपाका गुणोत्तराः ।विदाहिनो दोषहरा बल्या मूत्रविवर्धनाः ॥१६.५८यावनालो यवनालः शिखरी वृत्ततण्डुलः ।दीर्घनालो दीर्घशरः क्षेत्रेक्षुश्चेक्षुपत्त्रकः ॥१६.५९धवलो यावनालस्तु पाण्डुरस्तारतण्डुलः ।नक्षत्राकृतिविस्तारो वृत्तो मौक्तिकतण्डुलः ॥१६.६०जूर्णाह्वयो देवधान्यं जूर्णलो बीजपुष्पकः ।जूनलः पुष्पगन्धश्च सुगन्धः सेगुरुन्दकः ॥१६.६१धवलो यावनालस्तु गौल्यो बल्यस्त्रिदोषजित् ।वृष्यो रुचिप्रदोऽर्शोघ्नः पथ्यो गुल्मव्रणापहः ॥१६.६२अथ तुवरयावनालस्तुवरश्च कषाययावनालश्च ।स रक्तयावनालो हितलोहितस्तुवरधान्यश्च ॥१६.६३तुवरो यावनालस्तु कषायोष्णो विशोफकृत् ।संग्राही वातशमनो विदाही शोषकारकः ॥१६.६४शारदो यावनालस्तु श्लेष्मदः पिच्छिलो गुरुः ।शिशिरो मधुरो वृष्यो दोषघ्नो बलपुष्टिदः ॥१६.६५गोधूमो बहुदुग्धः स्यादपूपो म्लेच्छभोजनः ।यवनो निस्तुषः क्षीरी रसालः सुमनश्च सः ॥१६.६६गोधूमः स्निग्धमधुरो वातघ्नः पित्तदाहकृत् ।गुरुः श्लेष्मामदो बल्यो रुचिरो वीर्यवर्धनः ॥१६.६७स्निग्धोऽन्यो लघुगोधूमो गुरुर्वृष्यः कफापहः ।आमदोषकरो बल्यो मधुरो वीर्यपुष्टिदः ॥१६.६८यवस्तु मेध्यः सितशूकसंज्ञो दिव्योऽक्षतः कञ्चुकिधान्यराजौ ।स्यात्तीक्ष्णशूकस्तुरगप्रियश्च सक्तुर्हयेष्टश्च पवित्रधान्यं ॥१६.६९यवः कषायो मधुरः सुशीतलः प्रमेहजित्तिक्तकफापहारकः ।अशूकमुण्डस्तु यवो बलप्रदो वृष्यश्च नॄणां बहुवीर्यपुष्टिदः ॥१६.७०वेणुजो वेणुबीजश्च वंशजो वंशतण्डुलः ।वंशधान्यं च वंशाह्वो वेणुवंशद्विधायवः ॥१६.७१शीतः कषायो मधुरस्तु रूक्षो मेहक्रिमिश्लेष्मविषापहश्च ।पुष्टिं च वीर्यं च बलं च दत्ते पित्तापहो वेणुयवः प्रशस्तः ॥१६.७२मुद्गस्तु सूपश्रेष्ठः स्याद्वर्णार्हश्च रसोत्तमः ।भुक्तिप्रदो हयानन्दो भूबलो वाजिभोजनः ॥१६.७३कृष्णमुद्गस्तु वासन्तो माधवश्च सुराष्ट्रजः ॥१६.७४कृष्णमुद्गस्त्रिदोषघ्नो मधुरो वातनाशनः ।लघुश्च दीपनः पथ्यो बलवीर्याङ्गपुष्टिदः ॥१६.७५शारदस्तु हरिन्मुद्गो धूसरोऽन्यश्च शारदः ॥१६.७६हरिन्मुद्गः कषायश्च मधुरः कफपित्तहृत् ।रक्तमूत्रामयघ्नश्च शीतलो लघुदीपनः ॥१६.७७तद्वच्च धूसरो मुद्गो रसवीर्यादिषु स्मृतः ।कषायो मधुरो रुच्यः पित्तवातविबन्धकृत् ॥१६.७८पित्तज्वरार्तिशमनं लघु मुद्गयूषं संतापहारि तदरोचकनाशनं च ।रक्तप्रसादनं इदं यदि सैन्धवेन युक्तं तदा भवति सर्वरुजापहारि ॥१६.७९माषस्तु कुरुविन्दः स्याद्धान्यवीरो वृषाकरः ।मांसलश्च बलाढ्यश्च पित्र्यश्च पितृजोत्तमः ॥१६.८०माषः स्निग्धो बहुमलकरः शोषणः श्लेष्मकारी वीर्येणोष्णो झटिति कुरुते रक्तपित्तप्रकोपं ।हन्याद्वातं गुरुबलकरो रोचनो भक्ष्यमाणः स्वादुर्नित्यं श्रमसुखवतां सेवनीयो नराणां ॥१६.८१राजमाषो नीलमाषो नृपमाषो नृपोचितः ॥१६.८२कफपित्तहरो रुच्यो वातकृद्बलदायकः ॥१६.८३चणस्तु हरिमन्थः स्यात्सुगन्धः कृष्णकञ्चुकः ।बालभोज्यो वाजिभक्षश्चणकः कञ्चुकी च सः ॥१६.८४चणको मधुरो रूक्षो मेहजिद्वातपित्तकृत् ।दीप्तिवर्णकरो बल्यो रुच्यश्चाध्मानकारकः ॥१६.८५आमश्चणः शीतलरुच्यकारी संतर्पणो दाहतृषापहारी ।गौल्योऽश्मरीशोषविनाशकारी कषाय ईषत्कटुर्वीर्यकारी ॥१६.८६कृष्णस्तु चणकः शीतो मधुरः कासपित्तहृत् ।पित्तातिसारकासघ्नो बल्यश्चैव रसायनः ॥१६.८७चणो गौरस्तु मधुरो बलकृद्रोचनः परः ।श्वेतो वातकरो रुच्यः पित्तघ्नः शिशिरो गुरुः ॥१६.८८सुभृष्टचणको रुच्यो वातघ्नो रक्तदोषकृत् ।वीर्येणोष्णो लघुश्चैव कफशैत्यापहारकः ॥१६.८९चणस्य यूषं मधुरं कषायं कफापहं वातविकारहेतुः ।श्वासोर्ध्वकासक्लमपीनसानां करोति नाशं बलदीपनत्वं ॥१६.९०चणोदकं चन्द्रमरीचिशीतं पीतं प्रगे पित्तरुजापहारि ।पुष्टिप्रदं नैजगुणं च पाके संतर्पणं मञ्जुलमाधुरीकं ॥१६.९१मकुष्टको मयष्टश्च वनमुद्गः कृमीलकः ।अमृतोऽरण्यमुद्गश्च वल्लीमुद्गश्च कीर्तितः ॥१६.९२मकुष्टकः कषायः स्यान्मधुरो रक्तपित्तजित् ।ज्वरदाहहरः पथ्यो रुचिकृत्सर्वदोषहृत् ॥१६.९३मसूरो रागदालिस्तु मङ्गल्यः पृथुबीजकः ।शूरः कल्याणबीजश्च गुरुबीजो मसूरकः ॥१६.९४मसूरो मधुरः शीतः संग्रही कफपित्तजित् ।वातामयकरश्चैव मूत्रकृच्छ्रहरो लघुः ॥१६.९५कलायो मुण्डचणको हरेणुश्च सतीनकः ।त्रासनो नालकः कण्ठी सतीनश्च हरेणुकः ॥१६.९६कलायः कुरुते वातं पित्तदाहकफापहः ।रुचिपुष्टिप्रदः शीतः कषायश्चामदोषकृत् ॥१६.९७लङ्का कराला त्रिपुटा काण्डिका रूक्षणात्मिका ॥१६.९८लङ्का रुच्या हिमा गौल्या पित्तजिद्वातकृद्गुरुः ॥१६.९९आढकी तुवरी वर्या करवीरभुजा तथा ।वृत्तबीजा पीतपुष्पा श्वेता रक्तासिता त्रिधा ॥१६.१००आढकी तु कषाया च मधुरा कफपित्तजित् ।ईषद्वातकरा रुच्या विदला गुरुग्राहिका ॥१६.१०१सा च श्वेता दोषदात्री तु रक्ता रुच्या बल्या पित्ततापादिहन्त्री ।सा श्यामा चेद्दीपनी पित्तदाहध्वंसा बल्यं चाढकीयूषं उक्तं ॥१६.१०२कुलित्थस्ताम्रबीजश्च श्वेतबीजः सितेतरः ॥१६.१०३कुलित्थस्तु कषायोष्णो रूक्षो वातकफापहः ॥१६.१०४क्षवः क्षुधाभिजननश्चपलो दीर्घशिम्बिकः ।सुकुमारो वृत्तबीजो मधुरः क्षवकश्च सः ॥१६.१०५क्षवः कषायमधुरः शीतलः कफपित्तहृत् ।वृष्यः श्रमहरो रुच्यः पवनाध्मानकारकः ॥१६.१०६मधुरः श्वेतनिष्पावो माध्वीका मधुशर्करा ।पलंकषा स्थूलशिम्बी वृत्ता मधुसिता सिता ॥१६.१०७मधुशर्करा सुरुच्या मधुराल्पकषायका ।शिशिरा वातुला बल्याप्याध्मानगुरुपुष्टिदा ॥१६.१०८सोऽन्यश्च कटुनिष्पावः खर्वुरो नदीजस्तथा ॥१६.१०९नदीनिष्पावकस्तिक्तः कटुकोऽस्रप्रदो गुरुः ।वातलः कफदो रूक्षः कषायो विषदोषनुत् ॥१६.११०तिलस्तु होमधान्यं स्यात्पवित्रः पितृतर्पणः ।पापघ्नः पूतधान्यं च जटिलस्तु वनोद्भवः ॥१६.१११स्निग्धो वर्णबलाग्निवृद्धिजननस्तन्यानिलघ्नो गुरुः सोष्णः पित्तकरोऽल्पमूत्रकरणः केश्योऽतिपथ्यो व्रणे ।संग्राही मधुरः कषायसहितस्तिक्तो विपाके कटुः कृष्णः पथ्यतमः सितोऽल्पगुणदः क्षीणास्तथान्ये तिलाः ॥१६.११२पललं तिलकल्कं स्यात्तिलचूर्णं च पिष्टकं ॥१६.११३पललं मधुरं रुच्यं पित्तास्रबलपुष्टिदं ॥१६.११४तिलकिट्टं तु पिण्याकः खलः स्यात्तिलकल्कजः ॥१६.११५पिण्याकः कटुको गौल्यः कफवातप्रमेहनुत् ॥१६.११६अतसी पिच्छला देवी मदगन्धा मदोत्कटा ।उमा क्षुमा हैमवती सुनीला नीलपुष्पिका ॥१६.११७अतसी मदगन्धा स्यान्मधुरा बलकारिका ।कफवातकरी चेषत्पित्तहृत्कुष्ठवातनुत् ॥१६.११८आसुरी राजिका राजी रक्तिका रक्तसर्षपः ।तीक्ष्णगन्धा मधुरिका क्षवकः क्षुवकः क्षवः ॥१६.११९आसुरी कटुतिक्तोष्णा वातप्लीहार्तिशूलनुत् ।दाहपित्तप्रदा हन्ति कफगुल्मकृमिव्रणान् ॥१६.१२०राजक्षवकः कृष्णस्तीक्ष्णफला राजराजिका राज्ञी ।सा कृष्णसर्षपाख्या विज्ञेया राजसर्षपाख्या च ॥१६.१२१राजसर्षपकस्तिक्तः कटूष्णो वातशूलनुत् ।पित्तदाहप्रदो गुल्मकण्डूकुष्ठव्रणापहः ॥१६.१२२तीक्ष्णकश्च दुराधर्षो रक्षोघ्नः कुष्ठनाशनः ।सिद्धप्रयोजनः सिद्धसाधनः सितसर्षपः ॥१६.१२३सिद्धार्थः कटुतिक्तोष्णो वातरक्तग्रहापहः ।त्वग्दोषशमनो रुच्यो विषभूतव्रणापहः ॥१६.१२४धान्यानां कञ्चुके शिम्बी बीजगुप्तिश्च शाम्भवी ।तद्गुप्तानि च धान्यानि शिम्बीधान्यानि चक्षते ॥१६.१२५श्यामाकः श्यामकः श्यामस्त्रिबीजः स्यादविप्रियः ।सुकुमारी राजधान्यं तृणबीजोत्तमश्च सः ॥१६.१२६श्यामाको मधुरः स्निग्धः कषायो लघुशीतलः ।वातकृत्कफपित्तघ्नः संग्राही विषदोषनुत् ॥१६.१२७कोद्रवः कोरदूषश्च कुद्दालो मदनाग्रजः ।स च देशविशेषेण नानाभेदः प्रकीर्तितः ॥१६.१२८कोद्रवो मधुरस्तिक्तो व्रणिनां पथ्यकारकः ।कफपित्तहरो रूक्षो मोहकृद्वातलो गुरुः ॥१६.१२९वरकः स्थूलकङ्गुश्च रूक्षः स्थूलप्रियङ्गुकः ॥१६.१३०वरको मधुरो रूक्षः कषायो वातपित्तकृत् ॥१६.१३१कङ्गुणी कङ्गुनी प्रोक्ता चीनकः पीततण्डुलः ।वातलः सुकुमारश्च स च नानाविधाभिधः ॥१६.१३२प्रियङ्गुर्मधुरो रुच्यः कषायः स्वादुशीतलः ।वातकृत्पित्तदाहघ्नो रूक्षो भग्नास्थिबन्धकृत् ॥१६.१३३नीवारोऽरण्यधान्यं स्यान्मुनिधान्यं तृणोद्भवं ॥१६.१३४नीवारो मधुरः स्निग्धः पवित्रः पथ्यदो लघुः ॥१६.१३५रागी तु लाञ्छनः स्याद्बहुदलकणिशश्च गुच्छकणिशश्च ॥१६.१३६तिक्तो मधुरकषायः शीतः पित्तास्रनाशनो बलदः ॥१६.१३७कुरी तु तृणधान्यं स्यान्मधुरं तद्बलप्रदं ।हरितं वार्द्धकं पक्वं वाजिनां पुष्टिदायकं ॥१६.१३८ये के च व्रीहयो भृष्टास्ते लाजा इति कीर्तिताः ॥१६.१३९यवादयश्च ये भृष्टा धानास्ते परिकीर्तिताः ॥१६.१४०लाजा च यवधाना च तर्पणी पित्तनाशिनी ।गोधूमयावनालोत्थाः किंचिदुष्णाश्च दीपनाः ॥१६.१४१तप्तैरपक्वगोधूमैराकुलाः परिकीर्तिताः ।आकुला गुरवो वृष्या मधुराः बलकारिणः ॥१६.१४२व्रीहयोऽप्यर्धपक्वाश्च तप्तास्ते पृथुकाः स्मृताः ।पृथुकाः स्वादवः स्निग्धा हृद्या मदनवर्धनाः ॥१६.१४३पूपला मधुराः प्रोक्ता वृष्यास्ते बलदाः स्मृताः ।पित्तहृत्तर्पणा हृद्याः स्निग्धास्ते बलवर्धनाः ॥१६.१४४ये चान्ये यावनालाद्याश्चिपिटास्तप्ततण्डुलाः ॥१६.१४५शालेययावनालीयचिपिटाः पुष्टिवर्धनाः ॥१६.१४६अतप्ततण्डुलास्ते तु दुग्धबीजाः प्रकीर्तिताः ॥१६.१४७दुग्धबीजा सुमधुरा दुर्जरा वीर्यपुष्टिदा ॥१६.१४८तप्तास्तु मुद्गचणकाः सुमनादिलङ्का सद्यस्तृषार्तिरुचिपित्तकृतश्च जग्धाः ।वाताल्पदाः सुखकरा ह्यबलाश्च रूक्षा हृद्या भवन्ति युवजर्जरबालकानां ॥१६.१४९मुद्गगोधूमचणका यावनालादयः स्मृताः ।यदर्धपक्वं तद्धान्यं विष्टम्भाध्मानदोषकृत् ॥१६.१५०शुष्कगोधूमचूर्णं तु कर्णिका समुदाहृता ॥१६.१५१स्फोटस्तु चणकादीनां दालिति परिकीर्तिताः ॥१६.१५२पक्वं हरितलूनं च धान्यं सर्वगुणावहं ॥१६.१५३शुष्कलूनं तु निःसारं रूक्षं तत्सत्त्वनाशनं ॥१६.१५४कोषधान्यं नवं बल्यं मधुरं वत्सरोषितं ॥१६.१५५नवं धान्यं अभिष्यन्दि लघु संवत्सरोषितं ।द्व्यब्दोषितं लघु पथ्यं त्रिवर्षादबलं भवेत् ॥१६.१५६चणास्तु यवगोधूमतिलमाषा नवा हिताः ।पुराणा विरसा रूक्षास्त्वहिता दुर्जराबलाः ॥१६.१५७धान्यं वापितमुत्तमं तदखिलं छिन्नोद्भवं मध्यमं ज्ञेयं यद्यदवापितं तदधमं निःसारदोषप्रदं ।दग्धायां भुवि यत्नतोऽपि विपिने ये वापिताः शालयो ये च छिन्नभवा भवन्ति खलु ते विण्मूत्रबन्धप्रदाः ॥१६.१५८क्षारोदकसमुत्पन्नं धान्यं श्लेष्मरुजापहं ॥१६.१५९सुस्निग्धमृत्तिकोद्भूतं धान्यं ओजोबलावहं ॥१६.१६०बलपुष्टिप्रभावघ्नं वालुकामृत्तिकोद्भवं ॥१६.१६१धान्यं श्रेष्ठं षष्टिकं राजभोग्यं मांसं त्वाजं तैत्तिरं लावकीयं ।पानीयं स्यात्कृष्णमृत्स्नासमुत्थं क्षीराज्यादौ गव्यमाजं प्रशस्तं ॥१६.१६२इत्थं प्रसिद्धतरधान्यगुणाभिधानवीर्याभिवर्णनविशृङ्खलवाग्विलासं ।आम्नाय वर्गं इमं आशु लभेत वैद्यो विद्यां विषण्णजनजीवनदानधन्यां ॥१६.१६३यानि सदा भुज्यन्ते भुञ्जानजनाश्च यानि भुञ्जन्ते ।तेषां खलु धान्यानां वर्गोऽयं भोज्यवर्ग इति कथितः ॥१६.१६४येनाचारचणेन मुग्धमधुरश्रीशालिना सन्महामानार्हा बहुधान्यसम्पदुचिता संनीयते संततं ।तेन श्रीनृहरीश्वरेण रचिते नामोक्तिचूडामणौ वर्गोऽयं स्थितं एति नूतनरचनो धान्याह्वयः षोडशः ॥१६.१६५ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP