संस्कृत सूची|शास्त्रः|आयुर्वेदः|राजनिघण्टु| आम्रादिवर्ग राजनिघण्टु मङ्गलाचरण प्रस्तावना आनूपादिवर्ग धरण्यादिवर्ग ङुडूच्यादिवर्ग पर्पटादिवर्ग पिप्पल्यादिवर्ग शताह्वादिवर्ग ऊलकादिवर्ग शाल्मल्यादिवर्ग प्रभद्रादिवर्ग करवीरादिवर्ग आम्रादिवर्ग अन्दनादिवर्ग उवर्णादिवर्ग पानीयादिवर्ग क्षीरादिवर्ग शाल्यादिवर्ग आंसादिवर्ग अनुष्यादिवर्गः इंहादिवर्ग ऱोगादिवर्ग अत्त्वादिवर्ग इश्रकादिवर्ग कार्थादिवर्ग १ कार्थादिवर्ग २ कार्थादिवर्ग ३ कार्थादिवर्ग ४ कार्थादिवर्ग ५ कार्थादिवर्ग ६ कार्थादिवर्ग ७ कार्थादिवर्ग ८ कार्थादिवर्ग ९ कार्थादिवर्ग १० कार्थादिवर्ग ११ राजनिघण्टु - आम्रादिवर्ग नरहरि पन्डित रचित राजनिघण्टु ग्रंथ म्हणजे आयुर्वेदातील एक मैलाचा दगड. Tags : narahar panditrajanighantuvedआयुर्वेदनरहरि पन्डितराजनिघण्टुसंस्कृत आम्रादिवर्ग Translation - भाषांतर आम्राः पञ्चविधाः प्रोक्ता जम्बूश्चैव चतुर्विधा ।पनसः कदली चाब्धिः नारिकेलद्वयं तथा ॥११.१खर्जूरी पञ्चधा चैव चारो भल्लातरायणी ।दाडिमं तिन्दुकौ चाथो अक्षोटः पीलुको द्विधा ॥११.२पारेवते मधूकं तु द्विधा भव्यारुके क्रमात् ।द्राक्षा त्रिधाथ कर्मारः परुषः पिप्पलो वटः ॥११.३वटी चाश्वत्थिका प्लक्षस्तथा चोदुम्बरस्त्रिधा ।तत्त्वचा बदरं चाब्धि बीजपूरं त्रिधा मतं ॥११.४आमलक्यौ द्विधा चैव चिञ्चा चिञ्चारसस्तथा ।आम्रातकोऽथ नारङ्गो निम्बूर्जम्बीरकद्वयं ॥११.५कपित्थस्तुम्बरश्चाथ रुद्राक्षो बिल्वशल्लकी ।कतकः कर्कटश्चैव द्विधा श्लेष्मातकस्तथा ॥११.६मुष्ककः करमर्दश्च तथा तेजःफलस्तथा ।विकण्टकः शिवा सप्ताप्यक्षः पूगोऽष्टधा स्मृतः ॥११.७सप्तधा नागवल्ली स्याच्चूर्णं चैवाष्टधा स्मृतं ।उक्ता आम्रादिके वर्गे शून्यचन्द्रेन्दुसङ्ख्यया ॥११.८आम्रः कामशरश्चूतो रसालः कामवल्लभः ।कामाङ्गः सहकारश्च कीरेष्टो माधवद्रुमः ॥११.९भृङ्गाभीष्टः सीधुरसो मधूली कोकिलोत्सवः ।वसन्तदूतोऽम्लफलो मदाढ्यो मन्मथालयः ॥११.१०मध्वावासः सुमदनः पिकरागो नृपप्रियः ।प्रियाम्बुः कोकिलावासः स प्रोक्तस्त्रिकराह्वयः ॥११.११आम्रः कषायाम्लरसः सुगन्धिः कण्ठामयघ्नोऽग्निकरश्च बालः ।पित्तप्रकोपानिलरक्तदोषप्रदः पटुत्वादिरुचिप्रदश्च ॥११.१२बालं पित्तानिलकफकरं तच्च बद्धास्थि तादृक्पक्वं दोषत्रितयशमनं स्वादु पुष्टिं गुरुं च ।दत्ते धातुप्रचयं अधिकं तर्पणं कान्तिकारि ख्यातं तृष्णाश्रमशमकृतौ चूतजातं फलं स्यात् ॥११.१३कोशाम्रश्च घनस्कन्धो वनाम्रो जन्तुपादपः ।क्षुद्राम्रश्चेति रक्ताम्रो लाक्षावृक्षः सुरक्तकः ॥११.१४कोशाम्रं अम्लं अनिलापहरं कफार्त्तिपित्तप्रदं गुरु विदाहविशोफकारि ।पक्वं भवेन्मधुरं ईषदपारं अम्लं पट्वादियुक्तरुचिदीपनपुष्टिबल्यं ॥११.१५राजाम्रोऽन्यो राजफलः स्मराम्रः कोकिलोत्सवः ।मधुरः कोकिलानन्दः कामेष्टो नृपवल्लभः ॥११.१६अन्यो महाराजचूतो महाराजाम्रकस्तथा ।स्थूलाम्रो मन्मथावासः कङ्को नीलकपित्थकः ॥११.१७कामायुधः कामफलो राजपुत्रो नृपात्मजः ।महाराजफलः कामो महाचूतस्त्रयोदश ॥११.१८तस्यापि श्रेष्ठतोऽन्याम्रो रसालो बद्धपूर्वकः ।ज्ञेयश्चक्रलताम्रश्च मध्वाम्रः सितजाम्रकः ।वनेज्यो मन्मथानन्दो मदनेच्छाफलो मुनिः ॥११.१९राजाम्राः कोमलाः सर्वे कट्वम्लाः पित्तदाहदाः ।सुपक्वाः स्वादुमाधुर्याः पुष्टिवीर्यबलप्रदाः ॥११.२०राजाम्रेषु त्रिषु प्रोक्तं साम्यं एव रसाधिकं ।गुणाधिकं तु विज्ञेयं पर्यायादुत्तरोत्तरं ॥११.२१बालं राजफलं कफास्रपवनश्वासार्तिपित्तप्रदं मध्यं तादृशं एव दोषबहुलं भूयः कषायाम्लकं ।पक्वं चेन्मधुरं त्रिदोषशमनं तृष्णाविदाहश्रमश्वासारोचकमोचकं गुरु हिमं वृष्यातिचूताह्वयं ॥११.२२आम्रत्वचा कषाया च मूलं सौगन्धि तादृशं ।रुच्यं संग्राहि शिशिरं पुष्पं तु रुचिदीपनं ॥११.२३जम्बूस्तु सुरभिपत्रा नीलफला श्यामला महास्कन्धा ।राजार्हा राजफला शुकप्रिया मेघमोदिनी नवाह्वा ॥११.२४जम्बूः कषायमधुरा श्रमपित्तदाहकण्ठार्तिशोषशमनी क्रिमिदोषहन्त्री ।श्वासातिसारकफकासविनाशनी च विष्टम्भिनी भवति रोचनपाचनी च ॥११.२५महाजम्बू राजजम्बूः स्वर्णमाता महाफला ।शुकप्रिया कोकिलेष्टा महानीला बृहत्फला ॥११.२६महाजम्बूरुष्णा समधुरकषाया श्रमहरा निरस्यत्यास्यस्थं झटिति जडिमानं स्वरकरी ।विधत्ते विष्टम्भं शमयति च शोषं वितनुते श्रमातीसारार्त्तिश्वसितकफकासप्रशमनं ॥११.२७काकजम्बूः काकफला नादेयी काकवल्लभा ।भृङ्गेष्टा काकनीला च ध्वाङ्क्षजम्बूर्धनप्रिया ॥११.२८काकजम्बूः कषायाम्ला पाके तु मधुरा गुरुः ।दाहश्रमातिसारघ्नी वीर्यपुष्टिबलप्रदा ॥११.२९अन्या च भूमिजम्बूर्ह्रस्वफला भृङ्गवल्लभा ह्रस्वा ।भूजम्बूर्भ्रमरेष्टा पिकभक्षा काष्ठजम्बूश्च ॥११.३०भूमिजम्बूः कषाया च मधुरा श्लेष्मपित्तनुत् ।हृद्या संग्राहिहृत्कण्ठदोषघ्नी वीर्यपुष्टिदा ॥११.३१पनसस्तु महासर्जः फलिनः फलवृक्षकः ।स्थूलः कण्टफलश्चैव स्यान्मूलफलदः स्मृतः ।अपुष्पफलदः पूतफलो ह्यङ्कमितस्तथा ॥११.३२पनसं मधुरं सुपिच्छिलं गुरु हृद्यं बलवीर्यवृद्धिदं ।श्रमदाहविशोषनाशनं रुचिकृद्ग्राहि च दुर्जरं परं ॥११.३३ईषत्कषायं मधुरं तद्बीजं वातलं गुरु ।तत्फलस्य विकारघ्नं रुच्यं त्वग्दोषनाशनं ॥११.३४बालं तु नीरसं हृद्यं मध्यपक्वं तु दीपनं ।रुचिदं लवणाद्युक्तं पनसस्य फलं स्मृतं ॥११.३५कदली सुफला रम्भा सुकुमारा सकृत्फला ।मोचा गुच्छफला हस्तिविषाणी गुच्छदन्तिका ॥११.३६काष्ठीरसा च निःसारा राजेष्टा बालकप्रिया ।ऊरुस्तम्भा भानुफला वनलक्ष्मीश्च षोडश ॥११.३७बालं फलं मधुरं अल्पतया कषायं पित्तापहं शिशिररुच्यं अथापि नालं ।पुष्पं तदप्यनुगुणं क्रिमिहारि कन्दं पर्णं च शूलशमकं कदलीभवं स्यात् ॥११.३८रम्भापक्वफलं कषायमधुरं बल्यं च शीतं तथा पित्तं चास्रविमर्दनं गुरुतरं पथ्यं न मन्दानले ।सद्यः शुक्रविवृद्धिदं क्लमहरं तृष्णापहं कान्तिदं दीप्ताग्नौ सुखदं कफामयकरं सन्तर्पणं दुर्जरं ॥११.३९काष्ठकदली सुकाष्ठा वनकदली काष्ठिका शिलारम्भा ।दारुकदली फलाढ्या वनमोचा चाश्मकदली च ॥११.४०स्यात्काष्ठकदली रुच्या रक्तपित्तहरा हिमा ।गुरुर्मन्दाग्निजननी दुर्जरा मधुरा परा ॥११.४१गिरिकदली गिरिरम्भा पर्वतमोचाप्यरण्यकदली च ।बहुबीजा वनरम्भा गिरिजा गजवल्लभाभिहिता ॥११.४२गिरिकदली मधुरहिमा बलवीर्यविवृद्धिदायिनी रुच्या ।तृट्पित्तदाहशोषप्रशमनकर्त्री च दुर्जरा च गुरुः ॥११.४३अन्या सुवर्णकदली सुवर्णरम्भा च कनकरम्भा च ।पीता सुवर्णमोचा चम्पकरम्भा सुरम्भिका सुभगा ॥११.४४हेमफला स्वर्णफला कनकस्तम्भा च पीतरम्भा च ।गौरा च गौररम्भा काञ्चनकदली सुरप्रिया षड्भूः ॥११.४५सुवर्णमोचा मधुरा हिमा च स्वल्पाशने दीपनकारिणी च ।तृष्णापहा दाहविमोचनी च कफावहा वृष्यकरी गुरुश्च ॥११.४६नारिकेलो रसफलः सुतुङ्गः कूर्चशेखरः ।दृढनीलो नीलतरुर्मङ्गल्योच्चतरुस्तथा ॥११.४७तृणराजः स्कन्धतरुर्दाक्षिणात्यो दुरारुहः ।लाङ्गली त्र्यम्बकफलस्तथा दृढफलस्थितिः ॥११.४८नारिकेलो गुरुः स्निग्धः शीतः पित्तविनाशनः ।अर्द्धपक्वस्तृषाशोषशमनो दुर्जरः परः ॥११.४९नारिकेलसलिलं लघु बल्यं शीतलं च मधुरं गुरु पाके पित्तपीनसतृषाश्रमदाहशान्ति शोषशमनं सुखदायि ।पक्वं एतदपि किंचिदिहोक्तं पित्तकारि रुचिदं मधुरं च दीपनं बलकरं गुरु वृष्यं वीर्यवर्धनं इदं तु वदन्ति ॥११.५०खुबरं नारिकेलस्य स्निग्धं गुरु च दुर्जरं ।दाहविष्टम्भदं रुच्यं बलवीर्यविवर्धनं ॥११.५१मधुनारिकेलकोऽन्यो माध्वीकफलश्च मधुफलोऽसितजफलः ।माक्षिकफलो मृदुफलो बहुकूर्चो ह्रस्वफलश्च वसुगणिताह्वः ॥११.५२मधुरं मधुनारिकेलं उक्तं शिशिरं दाहतृषार्तिपित्तहारि ।बलपुष्टिकरं च कान्तिं अग्र्यं कुरुते वीर्यविवर्धनं च रुच्यं ॥११.५३माध्वीकं नारिकेलं फलं अतिमधुरं दुर्जरं जन्तुकारि स्निग्धं वातातिसारश्रमशमनं अथ ध्वंसनं वह्निदीप्तेः ।आमश्लेष्मप्रकोपं जनयति कुरुते चारुकान्तिं बलं च स्थैर्यं देहस्य धत्ते घनमदनकलावर्धनं पित्तनाशं ॥११.५४खर्जूरी तु खरस्कन्धा दुष्प्रधर्षां दुरारुहा ।निःश्रेणी च कषाया च यवनेष्टा हरिप्रिया ॥११.५५खर्जूरी तु कषाया च पक्वा गौल्यकषायका ।पित्तघ्नी कफदा चैव क्रिमिकृद्वृष्यबृंहणी ॥११.५६मधुखर्जूरी त्वन्या मधुकर्कटिका च कोलकर्कटिका ।कण्टकिनी मधुफलिका माध्वी मधुरा च मधुरखर्जूरी ॥११.५७मधुखर्जूरी मधुरा वृष्या संतापपित्तशान्तिकरी ।शिशिरा च जन्तुकरी बहुवीर्यविवर्धनं तनुते ॥११.५८भूखर्जूरी भुक्ता वसुधाखर्जूरिका च भूमिखर्जूरी ।भूखर्जूरी मधुरा शिशिरा च विदाहपित्तहरा ॥११.५९दीप्या च पिण्डखर्जूरी स्थलपिण्डा मधुस्रवा ।फलपुष्पा स्वादुपिण्डा हयभक्ष्या स्वराभिधा ॥११.६०तथान्या राजखर्जूरी राजपिण्डा नृपप्रिया ।मुनिखर्जूरिका वन्या राजेष्टा रिपुसम्मिता ॥११.६१पिण्डखर्जूरिकायुग्मं गौल्यं स्वादे हिमं गुरु ।पित्तदाहार्त्तिश्वासघ्नं श्रमहृद्वीर्यवृद्धिदं ॥११.६२दाहघ्नी मधुरास्रपित्तशमनी तृष्णार्तिदोषापहा शीता श्वासकफश्रमोदयहरा सन्तर्पणी पुष्टिदा ।वह्नेर्मान्द्यकरी गुरुर्विषहरा हृद्या च दत्ते बलं स्निग्धा वीर्यविवर्धनी च कथिता पिण्डाख्यखर्जूरिका ॥११.६३चारः खद्रुः खरस्कन्धो ललनश्चारकस्तथा ।बहुवल्कः प्रियालश्च नवद्रुस्तापसप्रियः ।स्नेहबीजश्चोपवटो भक्षबीजः करेन्दुधा ॥११.६४चारस्य च फलं पक्वं वृष्यं गौल्याम्लकं गुरु ।तद्बीजं मधुरं वृष्यं पित्तदाहार्तिनाशनं ॥११.६५भल्लातकोऽग्निर्दहनस्तपनोऽरुष्करोऽनलः ।क्रिमिघ्नस्तैलबीजश्च वातारिः स्फोटबीजकः ॥११.६६पृथग्बीजो धनुर्बीजो भल्लातो बीजपादपः ।वह्निर्वरतरुश्चेति विज्ञेयः षोडशाह्वयः ॥११.६७भल्लातकः कटुस्तिक्तः कषायोष्णः क्रिमीञ् जयेत् ।कफवातोदरानाहमेहदुर्नामनाशनः ॥११.६८भल्लातस्य फलं कषायमधुरं कोष्णं कफार्तिश्रमश्वासानाहविबन्धशूलजठराध्मानक्रिमिध्वंसनं ।तन्मज्जा च विशोषदाहशमनी पित्तापहा तर्पणी वातारोचकहारिदीप्तिजननी पित्तापहा त्वञ्जसा ॥११.६९राजादनो राजफलः क्षीरवृक्षो नृपद्रुमः ।निम्बबीजो मधुफलः कपीष्टो माधवोद्भवः ॥११.७०क्षीरी गुच्छफलः प्रोक्तः शुकेष्टो राजवल्लभः ।श्रीफलोऽथ दृढस्कन्धः क्षीरशुक्लस्त्रिपञ्चधा ॥११.७१राजादनी तु मधुरा पित्तहृद्गुरुतर्पणी ।वृष्या स्थौल्यकरी हृद्या सुस्निग्धा मेहनाशकृत् ॥११.७२दाडिमो दाडिमीसारः कुट्टिमः फलषाडवः ।करको रक्तबीजश्च सुफलो दन्तबीजकः ॥११.७३मधुबीजः कुचफलो रोचनः शुकवल्लभः ।मणिबीजस्तथा वल्कफलो वृत्तफलश्च सः ।सुनीलो नीलपत्रश्च ज्ञेयः सप्तदशाह्वयः ॥११.७४दाडिमं मधुरं अम्लकषायं कासवातकफपित्तविनाशि ।ग्राहि दीपनकरं च लघूष्णं शीतलं श्रमहरं रुचिदायि ॥११.७५दाडिमं द्विविधं ईरितं आर्यैरम्लं एकं अपरं मधुरं च ।तत्र वातकफहारि किलाम्लं तापहारि मधुरं लघु पथ्यं ॥११.७६तिन्दुको नीलसारश्च कालस्कन्धोऽतिमुक्तकः ।स्फूर्जको रामणश्चैव स्फूर्जनः स्यन्दनाह्वयः ॥११.७७तिन्दुकस्तु कषायः स्यात्संग्राही वातकृत्परः ।पक्वस्तु मधुरः स्निग्धो दुर्जरः श्लेष्मलो गुरुः ॥११.७८तिन्दुकोऽन्यः काकपीलुः काकाण्डः काकतिन्दुकः ।काकस्फूर्जश्च काकेन्दुः काकाह्वः काकबीजकः ॥११.७९काकतिन्दुः कषायोऽम्लो गुरुर्वातविकारकृत् ।पक्वस्तु मधुरः किंचित्कफकृत्पित्तवान्तिहृत् ॥११.८०अक्षोटः पार्वतीयश्च फलस्नेहो गुडाशयः ।कीरेष्टः कन्दरालश्च मधुमज्जा बृहच्छदः ॥११.८१अक्षोटो मधुरो बल्यः स्निग्धोष्णो वातपित्तजित् ।रक्तदोषप्रशमनः शीतलः कफकोपनः ॥११.८२पीतुः शीतः सहस्रांशी धानी गुडफलस्तथा ।विरेचनफलः शाखी श्यामः करभवल्लभः ॥११.८३अङ्काह्वः कटुकः पीलुः कषायो मधुराम्लकः ।सरः स्वादुश्च गुल्मार्शःशमनो दीपनः परः ॥११.८४अन्यश्चैव बृहत्पीलुर्महापीलुर्महाफलः ।राजपीलुर्महावृक्षो मधुपीलुः षडाह्वयः ॥११.८५मधुरस्तु महापीलुर्वृष्यो विषविनाशनः ।पित्तप्रशमनो रुच्य आमघ्नो दीपनीयकः ॥११.८६पारेवतं तु रैवतं आरेवतकं च किंच रैवतकं ।मधुफलं अमृतफलाख्यं पारेवतकं च सप्ताह्वं ॥११.८७पारेवतं तु मधुरं क्रिमिवातहारि वृष्यं तृषाज्वरविदाहहरं च हृद्यं ।मूर्छाभ्रमश्रमविशोषविनाशकारि स्निग्धं च रुच्यं उदितं बहुवीर्यदायि ॥११.८८महापारेवतं चान्यत्स्वर्णपारेवतं तथा ।साम्राणिजं खारिकं च रक्तरैवतकं च तत् ।बृहत्पारेवतं प्रोक्तं द्वीपजं द्वीपखर्जूरी ॥११.८९महापारेवतं गौल्यं बलकृत्पुष्टिवर्धनं ।वृष्यं मूर्छाज्वरघ्नं च पूर्वोक्तादधिकं गुणैः ॥११.९०मधूको मधुवृक्षः स्यात्मधुष्ठीलो मधुस्रवः ।गुडपुष्पो लोध्रपुष्पो वानप्रस्थश्च माधवः ॥११.९१मधुकं मधुरं शीतं पित्तदाहश्रमापहं ।वातलं जन्तुदोषघ्नं वीर्यपुष्टिविवर्धनं ॥११.९२अन्यो जलमधूको मङ्गल्यो दीर्घपत्रको मधुपुष्पः ।क्षौद्रप्रियः पतङ्गः कीरेष्टो गैरिकाक्षश्च ॥११.९३ज्ञेयो जलमधूकस्तु मधुरो व्रणनाशनः ।वृष्यो वान्तिहरः शीतो बलकारी रसायनः ॥११.९४मधूकपुष्पं मधुरं च वृष्यं हृद्यं हिमं पित्तविदाहहारि ।फलं च वातामयपित्तनाशि ज्ञेयं मधूकद्वयं एवं एतत् ॥११.९५भव्यं भवं भविष्यं च भावनं वक्त्रशोधनं ।तथा पिच्छलबीजं च तच्च लोमफलं मतं ॥११.९६भव्यं अम्लं कटूष्णं च बालं वातकफापहं ।पक्वं तु मधुराम्लं च रुचिकृत्सामशूलहृत् ॥११.९७आरुकं वीरसेनं च वीरं वीरारुकं तथा ।तत्र विद्याच्चतुर्जातीः पत्रपुष्पादिभेदतः ॥११.९८आरुकाणि च सर्वाणि मधुराणि हिमानि च ।अर्शःप्रमेहगुल्मास्रदोषविध्वंसनानि च ॥११.९९द्राक्षा चारुफला कृष्णा प्रियाला तापसप्रिया ।गुच्छफला रसाला च ज्ञेयामृतफला च सा ॥११.१००द्राक्षातिमधुराम्ला च शीता पित्तार्तिदाहजित् ।मूत्रदोषहरा रुच्या वृष्या संतर्पणी परा ॥११.१०१अन्या कपिलद्राक्षा मृद्वीका गोस्तनी च कपिलफला ।अमृतरसा दीर्घफला मधुवल्ली मधुफला मधूली च ॥११.१०२हरिता च हारहूरा सुफला मृद्वी हिमोत्तरापथिका ।हैमवती शतवीर्या काश्मीरी गजराजमहिगणिता ॥११.१०३गोस्तनी मधुरा शीता हृद्या च मदहर्षणी ।दाहमूर्छाज्वरश्वासतृषाहृल्लासनाशिनी ॥११.१०४अन्या सा काकलीद्राक्षा जम्बुका च फलोत्तमा ।लघुद्राक्षा च निर्बीजा सुवृत्ता रुचिकारिणी ।शिशिरा श्वासहृल्लासनाशिनी जनवल्लभा ॥११.१०५द्राक्षाबालफलं कटूष्णविशदं पित्तास्रदोषप्रदं मध्यं चाम्लरसं रसान्तरगते रुच्यातिवह्निप्रदं ।पक्वं चेन्मधुरं तथाम्लसहितं तृष्णास्रपित्तापहं पक्वं शुष्कतमं श्रमार्तिशमनं सन्तर्पणं पुष्टिदं ॥११.१०६शीता पित्तास्रदोषं दमयति मधुरा स्निग्धपाकातिरुच्या चक्षुष्या श्वासकासश्रमवमिशमनी शोफतृष्णाज्वरघ्नी ।दाहाध्मानभ्रमादीनपनयति परा तर्पणी पक्वशुष्का द्राक्षा सुक्षीणवीर्यानपि मदनकलाकेलिदक्षान्विधत्ते ॥११.१०७कर्मारः कर्मरकः पीतफलः कर्मरश्च मुद्गरकः ।मुद्गरफलश्च धाराफलकस्तु कर्मारकश्चैव ॥११.१०८कर्मारकोऽम्ल उष्णश्च वातहृत्पित्तकारकः ।पक्वस्तु मधुराम्लः स्याद्बलपुष्टिरुचिप्रदः ॥११.१०९परूषकं तीलपर्णं गिरिपीलु परावरं ।नीलमण्डलं अल्पास्थि परुषं च परुस्तथा ॥११.११०परूषं अम्लं कटुकं कफार्तिजिद्वातापहं तत्फलं एव पित्तदं ।सोष्णं च पक्वं मधुरं रुचिप्रदं पित्तापहं शोफहरं च पीतं ॥११.१११अश्वत्थश्चाच्युतावासश्चलपत्रः पवित्रकः ।शुभदो बोधिवृक्षश्च याज्ञिको गजभक्षकः ॥११.११२श्रीमान्क्षीरद्रुमो विप्रो मङ्गल्यः श्यामलश्च सः ।पिप्पलो गुह्यपुष्पश्च सेव्यः सत्यः शुचिद्रुमः ।चैत्यद्रुमो धर्मवृक्षो ज्ञेयो विंशतिसंज्ञकः ॥११.११३पिप्पलः सुमधुरस्तु कषायः शीतलश्च कफपित्तविनाशी ।रक्तदाहशमनः स हि सद्यो योनिदोषहरणः किल पक्वः ॥११.११४अश्वत्थवृक्षस्य फलानि पक्वान्यतीवहृद्यानि च शीतलानि ।कुर्वन्ति पित्तास्रविषार्तिदाहविच्छर्दिशोषारुचिदोषनाशं ॥११.११५स्यादथ वटो जटालो न्यग्रोधो रोहिणोऽवरोही च ।विटपी रक्तफलश्च स्कन्धरुहो मण्डली महाच्छायः ॥११.११६शृङ्गी यक्षावासो यक्षतरुः पादरोहिणो नीलः ।क्षीरी शिफारुहः स्याद्बहुपादः स तु वनस्पतिर्नवभूः ॥११.११७वटः कषायो मधुरः शिशिरः कफपित्तजित् ।ज्वरदाहतृषामोहव्रणशोफापहारकः ॥११.११८नदीवटो यज्ञवृक्षः सिद्धार्थो वटको वटी ।अमरा सङ्गिनी चैव क्षीरकाष्ठा च कीर्तिता ॥११.११९वटी कषायमधुरा शिशिरा पित्तहारिणी ।दाहतृष्णाश्रमश्वासविच्छर्दिशमनी परा ॥११.१२०अश्वत्थी लघुपत्री स्यात्पवित्रा ह्रस्वपत्रिका ।पिप्पलिका वनस्था च क्षुद्रा चाश्वत्थसंनिभा ॥११.१२१अश्वत्थिका तु मधुरा कषाया चास्रपित्तजित् ।विषदाहप्रशमनी गुर्विण्या हितकारिणी ॥११.१२२प्लक्षः कपीतनः क्षीरी सुपार्श्वोऽथ कमण्डलुः ।शृङ्गी वरोहशाखी च गर्दभाण्डः कपीतकः ।दृढप्ररोहः प्लवकः प्लवङ्गश्च महाबलः ॥११.१२३प्लक्षश्चैवापरो ह्रस्वः सुशीतः शीतवीर्यकः ।पुण्ड्रो महावरोहश्च ह्रस्वपर्णस्तु पिम्परिः ।भिदुरो मङ्गलच्छायो ज्ञेयो द्वाविंशधाभिधः ॥११.१२४प्लक्षः कटुकषायश्च शिशिरो रक्तदोषजित् ।मूर्छाभ्रमप्रलापघ्नो ह्रस्वप्लक्षो विशेषतः ॥११.१२५उदुम्बरः क्षीरवृक्षो हेमदुग्धः सदाफलः ।कालस्कन्धो यज्ञयोग्यो यज्ञीयः सुप्रतिष्ठितः ॥११.१२६शीतवल्को जन्तुफलः पुष्पशून्यः पवित्रकः ।सौम्यः शीतफलश्चेति मनुसंज्ञः समीरितः ॥११.१२७उदुम्बरं कषायं स्यात्पक्वं तु मधुरं हिमं ।कृमिकृत्पित्तरक्तघ्नं मूर्छादाहतृषापहं ॥११.१२८औदुम्बरं फलं अतीव हिमं सुपक्वं पित्तापहं च मधुरं श्रमशोफहारि ।आमं कषायं अतिदीपनरोचनं च मांसस्य वृद्धिकरं अस्रविकारकारि ॥११.१२९नद्युदुम्बरिका चान्या लघुपत्रफला तथा ।प्रोक्ता लघुहेमदुग्धा लघुपूर्वसदाफला ॥११.१३०लघ्वाद्युम्बराह्वा स्याद्बाणाह्वा च प्रकीर्तिता ।रसवीर्यविपाकेषु किंचिन्न्यूना च पूर्वतः ॥११.१३१कृष्णोदुम्बरिका चान्या खरपत्री च राजिका ।उदुम्बरी च कठिना कुष्ठघ्नी फल्गुवाटिका ॥११.१३२अजाक्षी फल्गुनी चैव मलपूश्चित्रभेषजा ।काकोदुम्बरिका चैव ध्वाङ्क्षनाम्नी त्रयोदश ॥११.१३३काकोदुम्बरिका शीता पक्वा गौल्याम्लिका कटुः ।त्वग्दोषपित्तरक्तघ्नी तद्वल्कं चातिसरजित् ॥११.१३४उदुम्बरत्वचा शीता कषाया व्रणनाशिनी ।गुर्विणीगर्भसंरक्षे हिता स्तन्यप्रदायिनी ॥११.१३५बदरो बदरी कोली कर्कन्धूः कोलफेनिलौ ।सौवीरको गुडफलो बालेष्टः फलशैशिरः ॥११.१३६दृढबीजो वृत्तफलः कण्टकी वक्रकण्टकः ।सुबीजः सुफलः स्वच्छः सुरसः स्मृतिसम्मितः ॥११.१३७बदरं मधुरं कषायं अम्लं परिपक्वं मधुराम्लं उष्णं एतत् ।कफकृत्पचनातिसाररक्तश्रमशोषार्तिविनाशनं च रुच्यं ॥११.१३८बदरस्य पत्रलेपो ज्वरदाहविनाशनः ।त्वचा विस्फोटशमनी बीजं नेत्रामयापहं ॥११.१३९राजबदरो नृपेष्टो नृपबदरो राजवल्लभश्चैव ।पृथुकोलस्तनुबीजो मधुरफलो राजकोलश्च ॥११.१४०राजबदरः सुमधुरः शिशिरो दाहार्तिपित्तवातहरः ।वृष्यश्च वीर्यवृद्धिं कुरुते शोषश्रमं हरति ॥११.१४१भूबदरी क्षितिबदरी वल्लीबदरी च बदरिवल्ली च ।बहुफलिका लघुबदरी बदरफली सूक्ष्मबदरी च ॥११.१४२भूबदरी मधुराम्ला कफवातविकारहारिणी पथ्या ।दीपनपाचनकर्त्री किंचित्पित्तास्रकारिणी रुच्या ॥११.१४३सूक्ष्मफलो लघुबदरो बहुकण्टः सूक्ष्मपत्रको दुःस्पर्शः ।मधुरः शम्बराहारः शिखिप्रियश्चैव निर्दिष्टः ॥११.१४४लघुबदरं मधुराम्लं पक्वं कफवातनाशनं रुच्यं ।स्निग्धं तु जन्तुकारकं ईषत्पित्तार्तिदाहशोषघ्नं ॥११.१४५बीजपूरो बीजपूर्णं पूर्णबीजः सुकेसरः ।बीजकः केशराम्लश्च मातुलुङ्गः सुपूरकः ॥११.१४६रुचको बीजफलको जन्तुघ्नो दन्तुरत्वचः ।पूरको रोचनफलो द्विदेवमुनिसम्मितः ॥११.१४७बीजपूरफलं अम्लकटूष्णं श्वासकासशमनं पचनं च ।कण्ठशोधनपरं लघु हृद्यं दीपनं च रुचिकृज्जरणं च ॥११.१४८बालं पित्तमरुत्कफास्रकरणं मध्यं च तादृग्विधं पक्वं वर्णकरं च हृद्यं अथ तत्पुष्णाति पुष्टिं बलं ।शूलाजीर्णविबन्धमारुतकफश्वासार्तिमन्दाग्निजित्कासारोचकशोफशान्तिदं इदं स्यान्मातुलुङ्गं सदा ॥११.१४९त्वक्तिक्ता दुर्जरा स्यात्कृमिकफपवनध्वंसिनी स्निग्धं उष्णं मध्यं शूलार्तिपित्तप्रशमनं अखिलारोचकघ्नं च गौल्यं ।वातार्तिघ्नं कटूष्णं जठरगदहरं केसरं दीप्यं अम्लं बीजं तिक्तं कफार्शःश्वयथुशमकरं बीजपूरस्य पथ्यं ॥११.१५०वनबीजपूरकोऽन्यो वनजो वनपूरकश्च वनबीजः ।अत्यम्ला गन्धाढ्या वनोद्भवा देवदूती च ॥११.१५१पीता च देवदासी देवेष्टा मातुलुङ्गिका चैव ।पवनी महाफला च स्यादियं इति वेदभूमिमिता ॥११.१५२अम्लः कटूष्णो वनबीजपूरो रुचिप्रदो वातविनाशनश्च ।स्यादम्लदोषकृमिनाशकारी कफापहः श्वासनिषूदनश्च ॥११.१५३मधुरबीजपूरो मधुपर्णी मधुरकर्कटी मधुवल्ली ।मधुकर्कटी मधुरफला महाफला वर्धमाना च ॥११.१५४मधुकर्कटी मधुरा शिशिरा दाहनाशनी ।त्रिदोषशमनी रुच्या वृष्या च गुरुदुर्जरा ॥११.१५५आमलकी वयःस्था च श्रीफला धात्रिका तथा ।अमृता च शिवा शान्ता शीतामृतफला तथा ॥११.१५६जातीफला च धात्रेयी ज्ञेया धात्रीफला तथा ।वृष्या वृत्तफला चैव रोचनी शरभूह्वया ॥११.१५७आमलकं कषायाम्लं मधुरं शिशिरं लघु ।दाहपित्तवमीमेहशोफघ्नं च रसायनं ॥११.१५८कटु मधुरकषायं किंचिदम्लं कफघ्नं रुचिकरं अतिशीतं हन्ति पित्तास्रतापं ।श्रमवमनविबन्धाध्मानविष्टम्भदोषप्रशमनं अमृताभं चामलक्याः फलं स्यात् ॥११.१५९अन्यच्चामलकं प्रोक्तं काष्ठधात्रीफलं तथा ।क्षुद्रामलकसंप्रोक्तं क्षुद्रजातीफलं च तत् ॥११.१६०काष्ठधात्रीफलं स्वादे कषायं कटुकं तथा ।शीतं पित्तास्रदोषघ्नं पूर्वोक्तं अधिकं गुणैः ॥११.१६१चिञ्चा तु चुक्रिका चुक्रा साम्लिका शाकचुक्रिका ।अम्ली सुतिन्तिडी चाम्ला चुक्रिका च नवाभिधा ॥११.१६२चिञ्चात्यम्ला भवेदामा पक्वा तु मधुराम्लिका ।वातघ्नी पित्तदाहास्रकफदोषप्रकोपणी ॥११.१६३अम्लिकायाः फलं त्वामं अत्यम्लं लघु पित्तकृत् ।पक्वं तु मधुराम्लं स्याद्भेदि विष्टम्भवातजित् ॥११.१६४पक्वचिञ्चाफलरसो मधुराम्लो रुचिप्रदः ।शोफपाककरो लेपाद्व्रणदोषविनाशनः ॥११.१६५चिञ्चापत्रं च शोफघ्नं रक्तदोषव्यथापहं ।तस्याः शुष्कत्वचाक्षारं शूलमन्दाग्निनाशनं ॥११.१६६अम्लसारस्तु शाकाम्लं चुक्राम्लं चाम्लचुक्रिका ।चिञ्चाम्लं अम्लचूडश्च चिञ्चारसोऽपि सप्तधा ॥११.१६७अम्लसारस्त्वतीवाम्लो वातघ्नः कफदाहकृत् ।साम्येन शर्करामिश्रो दाहपित्तकफार्त्तिनुत् ॥११.१६८आम्रातकः पीतनकः कपिचूतोऽम्लवाटकः ।शृङ्गी कपिरसाढ्यश्च तनुक्षीरः कपिप्रियः ॥११.१६९आम्रातकं कषायाम्लं आमहृत्कण्ठहर्षणं ।पक्वं तु मधुराम्लाढ्यं स्निग्धं पित्तकफापहं ॥११.१७०नारङ्गः स्यान्नागरङ्गः सुरङ्गस्त्वग्गन्धश्चैरावतो वक्त्रवासः ।योगीरङ्गो नागरो योगरङ्गः गन्धाढ्योऽयं गन्धपत्रो रवीष्टः ॥११.१७१नारङ्गं मधुरं चाम्लं गुरूष्णं चैव रोचनं ।वातामक्रिमिशूलघ्नं श्रमहृद्बलरुच्यदं ॥११.१७२निम्बूकः स्यादम्लजम्बीरकाख्यो वह्निर्दीप्यो वह्निबीजोऽम्लसारः ।दन्ताघातः शोधनो जन्तुमारी निम्बूश्च स्याद्रोचनो रुद्रसंज्ञः ॥११.१७३निम्बूफलं प्रथितं अम्लरसं कटूष्णं गुल्मामवातहरं अग्निविवृद्धिकारि ।चक्षुष्यं एतदथ कासकफार्त्तिकण्ठविच्छर्दिहारि परिपक्वं अतीव रुच्यं ॥११.१७४जम्बीरो दन्तशठो जम्भो जम्भीरजम्भलौ चैव ।रोचनको मुखशोधी जाड्यारिर्जन्तुजिन्नवधा ॥११.१७५जम्बीरस्य फलं रसेऽम्लमधुरं वातापहं पित्तकृत्पथ्यं पाचनरोचनं बलकरं वह्नेर्विवृद्धिप्रदं ।पक्वं चेन्मधुरं कफार्त्तिशमनं पित्तास्रदोषापनुत्वर्ण्यं वीर्यविवर्द्धनं च रुचिकृत्पुष्टिप्रदं तर्पणं ॥११.१७६अन्यो मधुजम्बीरो मधुजम्भो मधुरजम्भलश्चैव ।शङ्खद्रावी शर्करकः पित्तद्रावी च षट्संज्ञः ॥११.१७७मधुरो मधुजम्बीरः शिशिरः कफपित्तनुत् ।शोषघ्नस्तर्पणो वृष्यः श्रमघ्नः पुष्टिकारकः ॥११.१७८मालूरस्तु कपित्थो मङ्गल्यो नीलमल्लिका च दधि ।ग्राहिफलश्चिरपाकी ग्रन्थिफलः कुचफलो दधिफलश्च ॥११.१७९गन्धफलश्च कपीष्टो वृत्तफलः करभवल्लभश्चैव ।दन्तशठः कठिनफलः करण्डफलकश्च सप्तदशसंज्ञः ॥११.१८०कपित्थो मधुराम्लश्च कषायस्तिक्तशीतलः ।वृष्यः पित्तानिलं हन्ति संग्राही व्रणनाशनः ॥११.१८१आमं कपित्थं अम्लोष्णां कफघ्नं ग्राहि वातलं ।दोषत्रयहरं पक्वं मधुराम्लरसं गुरु ॥११.१८२आमं कण्ठरुजं कपित्थं अधिकं जिह्वाजडत्वावहं तद्दोषत्रयवर्धनं विषहरं संग्राहकं रोचकं ।पक्वं श्वासवमिश्रमक्लमहरं हिक्कापनोदक्षमं सर्वं ग्राहि रुचिप्रदं च कथितं सेव्यं ततः सर्वदा ॥११.१८३तुम्बरुः सौरभः सौरो वनजः सानुजो द्विजः ।तीक्ष्णवल्कस्तीक्ष्णफलस्तीक्ष्णपत्रो महामुनिः ।स्फुटफलः सुगन्धिश्च स प्रोक्तो द्वादशाह्वयः ॥११.१८४तुम्बरुर्मधुरस्तिक्तः कटूष्णः कफवातनुत् ।शूलगुल्मोदराध्मानकृमिघ्नो वह्निदीपनः ॥११.१८५रुद्राक्षश्च शिवाक्षश्च शर्वाक्षो भूतनाशनः ।पावनो नीलकण्ठाक्षो हराक्षश्च शिवप्रियः ॥११.१८६रुद्राक्षं अम्लं उष्णं च वातघ्नं कफनाशनं ।शिरऽर्तिशमनं रुच्यं भूतग्रहविनाशनं ॥११.१८७बिल्वः शल्यो हृद्यगन्धः शलाटुः शाण्डिल्यः स्याच्छ्रीफलः कर्कटाह्वः ।शैलूषः स्याच्छैवपत्रः शिवेष्टः पत्रश्रेष्ठो गन्धपत्रस्त्रिपत्त्रः ॥११.१८८लक्ष्मीफलो गन्धफलो दुरारुहस्त्रिशाकपत्त्रस्त्रिशिखः शिवद्रुमः ।सदाफलः सत्फलदः सुभूतिकः समीरसारः शिखिनेत्रसंज्ञितः ॥११.१८९बिल्वस्तु मधुरो हृद्यः कषायः पित्तजित्गुरुः ।कफज्वरातिसारघ्नो रुचिकृद्दीपनः परः ॥११.१९०बिल्वमूलं त्रिदोषघ्नं मधुरं लघु वातनुत् ।फलं तु कोमलं स्निग्धं गुरु संग्राहि दीपनं ॥११.१९१तदेव पक्वं विज्ञेयं मधुरं सरसं गुरु ।कटुतिक्तकषायोष्णं संग्राहि च त्रिदोषजित् ॥११.१९२सल्लकः सल्लकी सल्ली सुगन्धा सुरभिस्रवा ।सुरभिर्गजभक्ष्या च सुवहा गजवल्लभा ॥११.१९३गन्धमूला मुखामोदा सुश्रीका जलविक्रमा ।हृद्या कुण्टरिका चैव प्रोक्ता त्र्यस्रफला च सा ।छिन्नरुहा गन्धफला ज्ञेया चाष्टादशाह्वया ॥११.१९४सल्लकी तिक्तमधुरा कषाया ग्राहिणी परा ।कुष्ठास्रकफवातार्शोव्रणदोषार्तिनाशिनी ॥११.१९५कतकोऽम्बुप्रसादश्च कतस्तिक्तफलस्तथा ।रुच्यस्तु छेदनीयश्च ज्ञेयो गुडफलः स्मृतः ।प्रोक्तः कतफलस्तिक्तमरीचश्च नवाह्वयः ॥११.१९६कतकः कटुतिक्तोष्णश्चक्षुष्यः कृमिदोषनुत् ।रुचिकृच्छूलदोषघ्नो बीजं अम्बुप्रसादनं ॥११.१९७कर्कटः कार्कटः कर्कः क्षुद्रधात्री च स स्मृतः ।क्षुद्रामलकसंज्ञश्च प्रोक्तः कर्कफलश्च षट् ॥११.१९८कार्कटं तु फलं रुच्यं कषायं दीपनं परं ।कफपित्तहरं ग्राहि चक्षुष्यं लघु शीतलं ॥११.१९९श्लेष्मातको बहुवारः पिच्छलो द्विजकुत्सितः ।शेलुः शीतफलः शीतः शाकटः कर्बुदारकः ।भूतद्रुमो गन्धपुष्पः ख्यात एकादशाह्वयः ॥११.२००श्लेष्मातकः कटुहिमो मधुरः कषायः स्वादुश्च पाचनकरः क्रिमिशूलहारी ।आमास्रदोषमलरोधबहुव्रणार्तिविस्फोटशान्तिकरणः कफकारकश्च ॥११.२०१भूकर्बुदारकश्चान्यः क्षुद्रश्लेष्मातकस्तथा ।भूशेलुर्लघुशेलुश्च पिच्छलो लघुपूर्वकः ।लघुशीतः सूक्ष्मफलो लघुभूतद्रुमश्च सः ॥११.२०२भूकर्बुदारो मधुरः क्रिमिदोषविनाशनः ।वातप्रकोपणः किंचित्सशीतः स्वर्णमारकः ॥११.२०३मुष्कको मोचको मुष्को मोक्षको मुञ्चकस्तथा ।गौलिको मेहनश्चैव क्षारवृक्षश्च पाटलिः ॥११.२०४विषापहो जटालश्च वनवासी सुतीक्ष्णकः ।श्वेतः कृष्णश्च स द्वेधा स्यात्त्रयोदशसंज्ञकः ॥११.२०५मुष्ककः कटुकोऽम्लश्च रोचनः पाचनः परः ।प्लीहगुल्मोदरार्तिघ्नो द्विधा तुल्यगुणान्वितः ॥११.२०६करमर्दः सुषेणश्च कराम्लः करमर्दकः ।अविग्नः पाणिमर्दश्च कृष्णपाकफलो मुनिः ॥११.२०७करमर्दः सतिक्ताम्लो बालो दीपनदाहकः ।पक्वस्त्रिदोषशमनोऽरुचिघ्नो विषनाशनः ॥११.२०८तेजःफलो बहुफलस्तथोक्तः शाल्मलीफलः ।फलस्तीक्ष्णादिसंयुक्तः फलान्तस्तवकादिकः ।स्तेयीफलो गन्धफलः कण्टवृक्षः प्रकीर्तितः ॥११.२०९तेजःफलः कटुस्तीक्ष्णः सुगन्धिर्दीपनः परः ।वातश्लेष्मारुचिघ्नश्च बालरक्षाकरः परः ॥११.२१०विकण्टको मृदुफलो ग्रन्थिलः स्वादुकण्टकः ।गोकण्टकः काकनाशो व्याघ्रपादो घनद्रुमः ॥११.२११गर्जाफलो घनफलो मेघस्तनितोद्भवश्च मुदिरफलः ।प्रावृष्यो हास्यफलः स्तनितफलः पञ्चदशसंज्ञः ॥११.२१२विकण्टकः कषायः स्यात्कटू रूक्षो रुचिप्रदः ।दीपनः कफहारी च वस्त्ररङ्गविधायकः ॥११.२१३हरीतकी हेमवती जयाभया शिवाव्यथा चेतनिका च रोहिणी ।पथ्या प्रपथ्यापि पूतनामृता जीवप्रिया जीवनिका भिषग्वरा ॥११.२१४जीवन्ती प्राणदा जीव्या कायस्था श्रेयसी च सा ।देवी दिव्या च विजया वह्निनेत्रमिताभिधा ॥११.२१५हरीतकी पञ्चरसा च रेचनी कोष्ठामयघ्नी लवणेन वर्जिता ।रसायनी नेत्ररुजापहारिणी त्वगामयघ्नी किल योगवाहिनी ॥११.२१६बीजास्थितिक्ता मधुरा तदन्तस्त्वग्भागतः सा कटुरुष्णवीर्या ।मांसांशतश्चाम्लकषाययुक्ता हरीतकी पञ्चरसा स्मृतेयं ॥११.२१७हरीतक्यमृतोत्पन्ना सप्तभेदैरुदीरिता ।तस्या नामानि वर्णांश्च वक्ष्याम्यथ यथाक्रमं ॥११.२१८विजया रोहिणी चैव पूतना चामृताभया ।जीवन्ती चेतकी चेति नाम्ना सप्तविधा मता ॥११.२१९अलाबुनाभिर्विजया सुवृत्ता रोहिणी मता ।स्वल्पत्वक्पूतना ज्ञेया स्थूलमांसामृता स्मृता ॥११.२२०पञ्चास्रा चाभया ज्ञेया जीवन्ती स्वर्णवर्णभाक् ।त्र्यस्रां तु चेतकीं विद्यादित्यासां रूपलक्षणं ॥११.२२१विन्ध्याद्रौ विजया हिमाचलभवा स्याच्चेतकी पूतना सिन्धौ स्यादथ रोहिणी तु विजया जाता प्रतिष्ठानके ।चम्पायां अमृताभया च जनिता देशे सुराष्ट्राह्वये जीवन्तीति हरीतकी निगदिता सप्तप्रभेदा बुधैः ॥११.२२२सर्वप्रयोगे विजया च रोहिणी क्षतेषु लेपेषु तु पूतनोदिता ।विरेचने स्यादमृता गुणाधिका जीवन्तिका स्यादिह जीर्णरोगजित् ॥११.२२३स्याच्चेतकी सर्वरुजापहारिका नेत्रामयघ्नीं अभयां वदन्ति ।इत्थं यथायोगं इयं प्रयोजिता ज्ञेया गुणाढ्या न कदाचिदन्यथा ॥११.२२४चेतकी च धृता हस्ते यावत्तिष्ठति देहिनः ।तावद्विरिच्यते वेगात्तत्प्रभावान्न संशयः ॥११.२२५सप्तानां अपि जातीनां प्रधानं विजया स्मृता ।सुखप्रयोगसुलभा सर्वव्याधिषु शस्यते ॥११.२२६क्षिप्ताप्सु निमज्जति या सा ज्ञेया गुणवती भिषग्वर्यैः ।यस्या यस्या भूयो निमज्जनं सा गुणाढ्या स्यात् ॥११.२२७हरते प्रसभं व्याधीन्भूयस्तरति यद्वपुः ।हरीतकी तु सा प्रोक्ता तत्र कीर्दीप्तिवाचकः ॥११.२२८हरीतकी तु तृष्णायां हनुस्तम्भे गलग्रहे ।शोषे नवज्वरे जीर्णे गुर्विण्यां नैव शस्यते ॥११.२२९विभीतकस्तैलफलो भूतावासः कलिद्रुमः ।संवर्तकस्तु वासन्तः कल्किवृक्षो वहेडकः ॥११.२३०हार्यः कर्षफलः कल्किर्धर्मघ्नोऽक्षोऽनिलघ्नकः ।बहुवीर्यश्च कासघ्नः स प्रोक्तः षोडशाह्वयः ॥११.२३१विभीतकः कटुस्तिक्तः कषायोष्णः कफापहः ।चक्षुष्यः पलितघ्नश्च विपाके मधुरो लघुः ॥११.२३२पूगस्तु पूगवृक्षश्च क्रमुको दीर्घपादपः ।वल्कतरुर्दृढवल्कश्चिक्कणश्च मुनिर्मतः ॥११.२३३पूगवृक्षस्य निर्यासो हिमः संमोहनो गुरुः ।विपाके सोष्णकक्षारः साम्लो वातघ्नपित्तलः ॥११.२३४पूगं तु चिक्कणी चिक्का चिक्कणं श्लक्ष्णकं तथा ।उद्वेगं क्रमुकफलं ज्ञेयं पूगफलं वसु ॥११.२३५सेरी च मधुरा रुच्या कषायाम्ला कटुस्तथा ।पथ्या च कफवातघ्नी सारिका मुखदोषनुत् ॥११.२३६तैल्वनं मधुरं रुच्यं कण्ठशुद्धिकरं लघु ।त्रिदोषशमनं दीप्यं रसालं पाचनं समं ॥११.२३७गौल्यं गुहागरं श्लक्ष्णं कषायं कटु पाचनं ।विष्टम्भजठराध्मानहरणं द्रावकं लघु ॥११.२३८घोण्टा कटुकषायोष्णा कठिना रुचिकारिणी ।मलविष्टम्भशमनी पित्तहृद्दीपनी च सा ॥११.२३९पूगीफलं चेउलसंज्ञकं यत्तत्कोङ्कणेषु प्रथितं सुगन्धि ।श्लेष्मापहं दीपनपाचनं च बलप्रदं पुष्टिकरं रसाढ्यं ॥११.२४०यत्कोङ्कणे वल्लिगुलाभिधानकं ग्रामोद्भवं पूगफलं त्रिदोषनुत् ।आमापहं रोचनरुच्यपाचनं विष्टम्भतुन्दामयहारि दीपनं ॥११.२४१चन्द्रापुरोद्भवं पूगं कफघ्नं मलशोधनं ।कटु स्वादु कषायं च रुच्यं दीपनपाचनं ।आन्ध्रदेशोद्भवं पूगं कषायं मधुरं रसे ।वातजिद्वक्त्रजाड्यघ्नं ईषदम्लं कफापहं ॥११.२४२पूगं सम्मोहकृत्सर्वं कषायं स्वादु रेचनं ।त्रिदोषशमनं रुच्यं वक्त्रक्लेदमलापहं ॥११.२४३आमं पूगं कषायं मुखमलशमनं कण्ठशुद्धिं विधत्ते रक्तामश्लेष्मपित्तप्रशमनं उदराध्मानहारं सरं च ।शुष्कं कण्ठामयघ्नं रुचिकरं उदितं पाचनं रेचनं स्यात्तत्पर्णेनायुतं चेत्झटिति वितनुते पाण्डुवातं च शोषं ॥११.२४४अथ भवति नागवल्ली ताम्बूली फणिलता च सप्तशिरा ।पर्णलता फणिवल्ली भुजगलता भक्ष्यपत्री च ॥११.२४५नागवल्ली कटुस्तीक्ष्णा तिक्ता पीनसवातजित् ।कफकासहरा रुच्या दाहकृद्दीपनी परा ॥११.२४६सा श्रीवाट्यम्लादिवाटादिनानाग्रामस्तोमस्थानभेदाद्विभिन्ना ।एकाप्येषा देशमृत्स्नाविशेषान्नानाकारं याति काये गुणे च ॥११.२४७श्रीवाटी मधुरा तीक्ष्णा वातपित्तकफापहा ।रसाढ्या सुरसा रुच्या विपाके शिशिरा स्मृता ॥११.२४८स्यादम्लवाटी कटुकाम्लतिक्ता तीक्ष्णा तथोष्णा मुखपाककर्त्री ।विदाहपित्तास्रविकोपनी च विष्टम्भदा वातनिबर्हणी च ॥११.२४९सतसा मधुरा तीक्ष्णा कटुरुष्णा च पाचनी ।गुल्मोदराध्मानहरा रुचिकृद्दीपनी परा ॥११.२५०गुहागरे सप्तशिरा प्रसिद्धा सापर्णजूर्णातिरसातिरुच्या ।सुगन्धि तीक्ष्णा मधुरातिहृद्या सन्दीपनी पुंस्त्वकरातिबल्या ॥११.२५१नाम्नान्याम्लसरा सुतीक्ष्णमधुरा रुच्या हिमा दाहनुत्पित्तोद्रेकहरा सुदीपनकरी बल्या मुखामोदिनी ।स्त्रीसौभाग्यविवर्धनी मदकरी राज्ञां सदा वल्लभा गुल्माध्मानविबन्धजिच्च कथिता सा मालवे तु स्थिता ॥११.२५२अन्ध्रे पटुलिका नाम कषायोष्णा कटुस्तथा ।मलापकर्षा कण्ठस्य पित्तकृद्वातनाशनी ॥११.२५३ह्वेसणीया कटुस्तीक्ष्णा हृद्या दीर्घदला च सा ।कफवातहरा रुच्या कटुर्दीपनपाचनी ॥११.२५४सद्यस्त्रोटितभक्षितं मुखरुजाजाड्यावहं दोषकृत्दाहारोचकरक्तदायि मलकृद्विष्टम्भि वान्तिप्रदं ।यद्भूयो जलपानपोषितरसं तच्चेच्चिरात्त्रोटितं ताम्बूलीदलं उत्तमं च रुचिकृद्वर्ण्यं त्रिदोषार्तिनुत् ॥११.२५५कृष्णं पर्णं तिक्तं उष्णं कषायं धत्ते दाहं वक्त्रजाद्यं मलं च ।शुभ्रं पर्णं श्लेष्मवातामयघ्नं पथ्यं रुच्यं दीपनं पाचनं च ॥११.२५६शिरा पर्णस्य शैथिल्यं कुर्यात्तस्यास्रहृद्रसः ।शीर्णं त्वग्दोषदं तस्य भक्षिते च शितं सदा ॥११.२५७अनिधाय मुखे पर्णं पूगं खादात यो नरः ।मतिभ्रंशो दरिद्रः स्यादन्ते स्मरति नो हरिं ॥११.२५८पर्णाधिक्ये दीपनी रङ्गदात्री पूगाधिक्ये रूक्षदा कृच्छ्रदात्री ।साराधिक्ये खादिरे शोषदात्री चूर्णाधिक्ये पित्तकृत्पूतिगन्धा ॥११.२५९चूर्णं चार्जुनवृक्षजं कफहरं गुल्मघ्नं अर्काह्वयं शोफघ्नं कुटजं करञ्जजनितं वातापहं रुच्यदं ।पित्तघ्नं जलजं बलाग्निरुचिदं शैलाह्वयं पित्तदं स्फाटिक्यं दृढदन्तपङ्क्तिजननं शुक्त्यादिजं रूक्षदं ॥११.२६०इत्थं नानाफलतरुलतानामतत्तद्गुणादिव्यक्ताख्यानप्रगुणरचनाचारुसौरभ्यसारं ।वर्गं वक्त्राम्बुरुहवलभीलास्यलीलारसालं विद्यावैद्यः खलु सफलयेदेतं आम्नायभूम्ना ॥११.२६१यान्युपभुञ्जानानां स भवति संसारपादपः सफलः ।तेषां एष फलानां वर्गः फलवर्ग इति कथितः ॥११.२६२यस्याजस्रविकस्वरामलयशःप्राग्भारपुष्पोद्गमः साश्चर्यं विबुधेप्सितानि फलति श्रीमान्करः स्वर्द्रुमः । N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP