राजनिघण्टु - धरण्यादिवर्ग
नरहरि पन्डित रचित राजनिघण्टु ग्रंथ म्हणजे आयुर्वेदातील एक मैलाचा दगड.
अथ धरणिधरित्रीभूतधात्रीधराभूक्षितिमहिधरणीडाक्ष्मावनीमेदिनीज्या ।
अवनिरुदधिवस्त्रा गौः क्षमा क्षौणिरुर्वी कुरपि वसुमतीरा काश्यपी रत्रगर्भा ॥२.१
क्षमादिमा भूमिरिला वसुन्धरा वरा च धात्री वसुधाचलोर्वरा ।
विश्वम्भराद्या जगती क्षिती रसा पृथ्वी च गोत्रा पृथिवी पृथुर्मही ॥२.२
क्षौणी सर्वसहानन्ता भूतमाता च निश्चला ।
भूमी वीजप्रसूः श्यामा क्रोडकान्ता च कीर्तिता ॥२.३
सा भूमिरुर्वराख्या या सर्वशस्योद्भवप्रदा ।
समस्तवस्तूद्भवनादुर्वरा नाम भूरियं ॥२.४
मृन्मृत्तिका प्रशस्ता सा मृत्सा मृत्स्नेति चेष्यते ॥२.५
क्षारा मृदूषरो देशस्तद्वानिरणं ऊषरं ।
खिलं अप्रहतं प्राहुर्धन्वा तु मरुरुच्यते ॥२.६
मरुप्रायस्तु यो देशः स चोक्तो जाङ्गलाभिधः ।
कृष्णमृत्कृष्णभूमिः स्यात्पाण्डुभूमिस्तु पाण्डुमृत् ॥२.७
स शार्करः शार्करिलो देशो यः शर्करान्वितः ।
सैकतः स्यात्सिकतिलः सिकतावांश्च यो भवेत् ॥२.८
देशो जनपदो नीवृद्विषयश्चोपवर्त्तनं ।
प्रदेशः स्थानं आख्या भूरवकाशः स्थितिः पदं ॥२.९
नद्यम्बुजैर्भृतो धान्यैर्नदीमात्रक उच्यते ।
वृष्ट्यम्बजैस्तु तैरेष देशः स्याद्देवमातृकः ॥२.१०
नदीवृष्टिजलोद्भूतैर्नानाधान्यैः समावृतः ।
देशो द्वयानुगमनात्स द्वैमातृक उच्यते ॥२.११
मुद्गादीनां क्षेत्रं उद्भूतिदं यत्तन्मौद्गीनं कोद्रवीणं तथान्यत् ।
व्रैहेयं स्यात्किंच शालेयं एवं बुद्धाणव्यञ्चाणवीनं च विद्यात् ॥२.१२
अथ माष्यं माषीणं भङ्ग्यं भाङ्गीनं उम्यं औमीनं ।
तिल्यं तैलीनं स्यादिति षष्टिक्यं च यव्यं च ॥२.१३
शाकादेर्यत्र निष्पत्तिरेतत्स्याच्छाकशाकटं ।
शाकशाकिनं इत्येतत्तथा वास्तूकशाकटं ॥२.१४
अथ गिरिधरणीध्रगोत्रभूभृत्शिखरिशिलोच्चयशैलसानुमन्तः ।
क्षितिभृदगनगावनीधराद्रिस्थिरकुधराश्च धराधरो धरश्च ॥२.१५
अहार्यः पर्वतो ग्रावा कटकी प्रस्थवानपि ।
शृङ्गी च वृक्षवांश्चेति शब्दाः शैलार्थवाचकाः ॥२.१६
मध्यमस्तु नितम्बः स्यात्कटकं मेखला च सा ।
तटे तटी प्रपातश्च प्रस्थे स्नुः सानुसानुनी ॥२.१७
शृङ्गं तु शिखरं कूटं कन्दरे कन्दरा दरी ।
विलं गुहा शिलासन्धिर्देवखातं च गह्वरं ॥२.१८
प्रत्यन्तगिरयः पादा गण्डशैलाश्च्युतोपलाः ।
आकरः खनिरित्युक्तो धातवो गैरिकादयः ॥२.१९
ग्रावा प्रस्तरपाषाणौ दृषदश्मोपलः शिला ।
लोहानि विविधानि स्युरश्मसारादिसंज्ञया ॥२.२०
काननं गहनं सत्रं कान्तारं विपिनं वनं ।
अरण्यं अटवी दावो दवश्च वनवाचकाः ॥२.२१
अन्यदुद्यानं आक्रीडो यत्र क्रीडन्ति रागिणः ।
नृपालयेषु प्रमदवनं अन्तःपुरोचितं ॥२.२२
महावनं अरण्यानी महारण्यं महाटवी ।
अथोपवनं आरामः पुरप्रान्ते वनं तु यत् ॥२.२३
कुजः क्षितिरुहोऽङ्घ्रिपः शिखरिपादपौ विष्टरः कुठस्तरुरनोकहः कुरुहभूरुहद्रुद्रुमाः ।
अगो नगवनस्पती विटपिशाखिभूजागमा महीजधरणीरुहक्षितिजवृक्षशालादयः ॥२.२४
फलितः फलवानेष फलिनश्च फली तथा ।
फलेग्रहिरबन्ध्यो यः स्यादमोघफलोदयः ॥२.२५
अथावकेशी बन्ध्योऽयं विफलो निष्फलोऽफलः ।
उक्तौ प्रागात्मना भिन्नौ वानस्पत्यवनस्पती ॥२.२६
मूलं तु नेत्रं पादः स्यादङ्घ्रिश्चरणं इत्यपि ।
उद्भेदस्त्वङ्कुरो ज्ञेयः प्ररोहोऽङ्कूर इत्यपि ॥२.२७
अर्वाग्भागोऽस्य बुध्नः स्यात्नितम्बः सपृथुर्भवेत् ।
आस्कन्धात्त प्रकाण्डः स्यात्काण्डो दण्डश्च कथ्यते ॥२.२८
स्कन्धप्रमाणास्य लतास्तु शाखाः स्कन्धोत्थशाखास्तु भवन्ति शालाः ।
जटाः शिरास्तस्य किलावरोहाः शाखा शिफा मज्जनि सारं आहुः ॥२.२९
निष्कुटं कोटरं प्रोक्तं त्वचि वल्कं तु वल्कलं ।
नवपुष्पाढ्यशाखाग्रे वल्लरी मञ्जरी तथा ॥२.३०
पर्णं पत्रं दलं बर्हं पलाशं छदनं छदः ।
स्यात्पल्लवः किशलयः प्रबालः पल्लवं नवं ॥२.३१
विस्तारो विटपः प्रोक्तः प्राग्रं तु शिखरं शिरः ।
माढिः पर्णशिरा ज्ञेया वृन्तं प्रसवबन्धनं ॥२.३२
कुलक्षारकजालककलिकास्तु कुडमले कथिताः ।
कुसुमं सुमनः प्रसूनप्रसवसुमं सूनुफुल्लपुष्पं स्यात् ॥२.३३
मकरन्दो मरन्दश्च मधु पुष्परसाह्वयं ।
पौष्पं रजः परागः स्यान्मधुली धूलिका च सा ॥२.३४
गुच्छो गुलुञ्छः स्तवको गुच्छकः कुसुमोच्चयः ।
समं परिमलामोदगन्धसौरभ्यसौरभं ॥२.३५
उज्जृम्भितं उज्जृम्भं स्मितं उन्मिषितं विनिद्रं उन्निद्रं ।
उन्मीलितं विजृम्भितं उद्बुद्धोद्भिदुरभिन्नं उद्भिन्नं ॥२.३६
विकसितहसितविकस्वरविकचव्याकोशफुल्लसम्फुल्लं ।
स्फुटं उदितदलितदीर्णस्फुटितोत्फुल्लप्रफुल्लं एकार्थं ॥२.३७
निद्राणं मुद्रितं सुप्तं मिलितं मीलितं नतं ।
निकूणितं सङ्कुचितं सनिद्रं अलसं समं ॥२.३८
आहुस्तरूणां फलं अत्र शस्यं तदामं उक्तं हि शलाटुसंज्ञं ।
शुष्कं तु वानं प्रवदन्ति गुल्मस्तम्बौ प्रकाण्डैरहितो महीजः ॥२.३९
उलपं गुल्मिनी वीरुल्लता वल्ली प्रतानिनी ।
व्रततिः प्रततिश्चैषा विस्तीर्णा वीरुदुच्यते ॥२.४०
अथ वक्षामि नक्षत्रवृक्षानागमलक्षितान् ।
पूज्यानायुष्यदांश्चैव वर्द्धनात्पालनादपि ॥२.४१
विषद्रुधात्रीतरुहेमदुग्धा जम्बूस्तथा खादिरकृष्णवंशाः ।
अश्वत्थनागौ च वटः पलाशः प्लक्षस्तथाम्बष्ठतरुः क्रमेण ॥२.४२
बिल्वार्जुनौ चैव विकङ्कतोऽथ सकेसराः शम्बरसर्जवञ्जुलाः ।
सपानसार्काश्च शमीकदम्बास्तथाम्रनिम्बौ मधुकद्रुमः क्रमात् ॥२.४३
अमी नक्षत्रदैवत्या वृक्षाः स्युः सप्तविंशतिः ।
अश्विन्यादिक्रमादेषां एषा नक्षत्रपद्धतिः ॥२.४४
यस्त्वेतेषां आत्मजन्मर्क्षभाजां मर्त्यः कुर्याद्भेषजादीन्मदान्धः ।
तस्यायुष्यं श्रीकलत्रं च पुत्रो नश्यत्येषा वर्धते वर्द्धनाद्यैः ॥२.४५
आचार्योक्तौ स्फुटं अथ बृहत्सुश्रुते नारदीये नारायण्यां क्वचिदपि तथान्यत्र तन्त्रान्तरेषु ।
ज्ञात्वापीह प्रथितभिषजा नातिदृष्टोपयोगं नैवास्माभिर्विशदितं इदं गौरवाद्ग्रन्थभीतेः ॥२.४६
तालाद्या जातयः सर्वाः क्रमुकः केतकी तथा ।
खर्जूरीनारिकेलाद्यास्तरयवृक्षाः प्रकीर्तिताः ॥२.४७
सर्वाआंरो चार्द्राणि नवौएषधानि सुवीर्य्यवन्तीति वदन्ति धीराः ।
सर्वारिय शुष्कारिय तु मध्यमानि शुष्काणि जेईर्णानि च निष्फलानि ॥२.४८
वास्तूककुटजगुडूचीवासाकुष्माण्डकादिशतपत्री ।
इत्यादि तु नित्यार्द्रं गुणवच्छुष्कं यदा तदा द्विमुयणं ।
विडङ्ग मधु मगूरी दाडिमं पिप्पलो गुडुः ।
नागवल्लेईन्दुवश्शाल्याद्याः पुराणाः स्युआआरुणोत्तमाः ॥२.४९
काठिन्यं मध्यकाठिन्यं मार्दवं चेति तु त्रिधा ।
द्रव्याणां इह सर्वेषां प्रकृतिः कथ्यते बुधैः ॥२.५०
द्रव्याणां सन्ति सर्वेषां पूर्वैरुक्तास्त्रयो गुणाः ।
रसो वीर्यं विपाकश्च ज्ञातव्यास्तेऽतियत्नतः ॥२.५१
रसस्तु मधुरादिः स्याद्वीर्यं कार्यसमर्थता ।
परिणामे गुणाढ्यत्वं विपाक इति संज्ञितं ॥२.५२
शीतं उष्णं च रूक्षं च स्निग्धं तीक्ष्णं तथा मृदु ।
पिच्छिलं विशदं चेति वीर्यं अष्टविधं स्मृतं ॥२.५३
निस्कुटप्रमदकाननादिषु द्रव्यं एतदपि निर्गुणं भवेत् ।
क्वाप्यलीकवचनोपकर्णनात्क्वाप्यसाधुवनितादिसेवनात् ॥२.५४
जातं श्मशाने वल्मीके देशे मूत्रादिदूषिते ।
द्रव्यं नैवोपयोगाय भिषजां उपजायते ॥२.५५
कन्दं हिमर्तौ शिशिरे च मूलं पुष्पं वसन्ते गुणदं वदन्ति ।
प्रबालपत्राणि निदाघकाले स्युः पङ्कजातानि शरत्प्रयोगे ॥२.५६
निम्बोडुम्बरजम्बवाद्या यथाकालं गुणोत्तराः ।
कन्दादिष्वथ सर्वेषां पृथगेव रसाद्यः ॥२.५७
केचित्कन्दे केऽपि मूलेषु केचित्पत्रे पुष्पे केऽपि केचित्फलेषु ।
त्वच्येवान्ये वल्कले केचिदित्थं द्रव्यस्तोमा भिन्नभिन्नं गुणाढ्याः ॥२.५८
देशे देशे योजनद्वादशान्ते भिन्नान्याहुर्द्रव्यनामानि लोके ।
किंचामीषु प्राणिनां वर्णभाषाचेष्टाच्छाया भिन्नरूपा विभाति ॥२.५९
अनिर्दिष्टप्रयोगेषु मूलं ग्राह्यं त्वगादिषु ।
सामान्योक्तौ प्रयोक्तव्यं प्राहुस्तोयं तु नाभसं ॥२.६०
चूर्णकल्ककषायाणां प्रमाणं यत्र नोदितं ।
तत्र द्रव्यप्रमाणेन स्वयं बुद्ध्या प्रयोजयेत् ॥२.६१
माध्वीकं सर्वमद्यानां मधूनां माक्षिकं तथा ।
तैलं तु तिलसम्भूतं धातवो वस्तिसम्भवाः ॥२.६२
शालीनां रक्तशालिः स्यात्सूप्यानां मुद्ग एव च ।
मूलानां पिप्पलीमूलं फलानां मदनं फलं ॥२.६३
त्वचा तु गन्धद्रव्याणां पत्राणां गन्धपत्रकं ।
जीवन्तिशाकं शाकानां लवणानां च सैन्धवं ॥२.६४
सामान्यपुष्पनिर्देशात्मालतीकुसुमं क्षिपेत् ।
इत्थं अन्येऽपि बोद्धव्याः प्रयोगा योगलक्षिताः ॥२.६५
द्रव्यं वातहरं यत्तत्सकलं दीपनं परं ।
कफहारि समं प्रोक्तं पित्तघ्नं मन्ददीपनं ॥२.६६
यच्छीतवीर्यं गुरु पित्तहारि द्रव्यं नृणां वातकरं तदुक्तं ।
यदुष्णवीर्यं लघु वातहारि श्लेष्मापहं पित्तकरं च तत्स्यात् ॥२.६७
इति बहुविधदेशभूध्रभूमीरुहवनगुल्मलताभिधागुणानां ।
सविवरं अभिधाय लक्ष्म साधारणं अथ तच्च विशेषतोऽभिधास्ये ॥२.६८
इत्थं भूमीविपिनविषयक्षेत्रगोत्रादिनामस्तोमाख्यानप्रकरणगुणव्याकृतिप्रौढं एनं ।
वर्गं बुद्ध्वा भिषगुपचितानर्गलात्यन्तसूक्ष्मप्रज्ञालोकप्रकटितधियां आधिराज्ये भिषज्येत् ॥२.६९
इत्येष वैद्यकविकल्पविधानिदानचूडामणौ मृडपरागमपारगेण ।
N/A
References : N/A
Last Updated : November 11, 2016
TOP