अपदेशप्रवाहवीचयः - सुभाषित १९८१ - २०००
सुभाषित म्हणजे आदर्श वचन. सुभाषित गद्य किंवा पद्यात असतात.
Subhashita means good speech.
६९. कोकिलः
धिक्कुब्जाम्बुजवेत्रवेतसवनान्येतानि यत्ते पिक
व्याहारैः पणयादमीषु मधुरैरेभिः किमुन्मुद्रितैः ।
नेह त्वत्सुहृदो रसालतरवः श्रुत्वा भवद्भाषितं
येषामस्थित्भिरप्युपात्तमुकुलैराविष्क्रियन्ते मुदः ॥१९८१॥
हरेः ।
उद्यानानि न सर्वदा परिभवत्रासादिवाध्यासत्
भूमौ नोपविशन्ति ये खलु रजः संपर्कतर्कादिव ।
तेषामप्यतिपूजनीयवपुषां नूनं पिकानामियं
धिक्कष्टं परपुष्टतेति किमपि प्राचां फलं कर्मणाम् ॥१९८२॥
तस्यैव ।
उद्यत्सौरभगर्भनिर्भरमिलद्वाला कुरश्रीमृतो
माकन्दानवलोक्य यः प्रतिदिशं सानन्दमुत्कूजितः ।
तानेवाद्य फलाशया परिरटल्लुण्ठाककाकावली
वाचालानुपलभ्य कोकिलयुवा जातः स वाचंयमः ॥१९८३॥
तस्यैव ।
दात्यूहाः सरसं रसन्तु सुभगं गायन्तु केकाभृतः
कादम्बाः कलमालपन्तु मधुरं कूजन्तु कोयष्टयः ।
दैवाद्यावदसौ रसालविटपिच्छायामनासादयन्
निर्विण्णः कुटजेषु कोकिलयुवा संजातमौनव्रतः ॥१९८४॥
रामदासस्य । (शा.प. ८५०, सूक्तिमुक्तावलि १४.१४)
परभृतशिशो तावन्मौनं विधेहि नभस्तलोत्
पतनविधये पक्षौ स्यातां न यावदिमौ क्षमौ ।
ध्रुवमपरथा द्रष्टव्योऽसि स्वजातिविलक्षण
ध्वनितकुपितध्वाङ्क्षत्रोटीपुटाहतिजर्जरः ॥१९८५॥
अचलसिंहस्य । (सूक्तिमुक्तावलि १४.९, सु.र. १०५१)
७०. शुकः
प्रतिजागृहि दुस्त्यजं वपुः
शुक शोकं ननु मा वृथा कृथाः ।
क्व वनं क्व च पञ्जरोदरं
तव दोषः स्फुटवादिता न चेत॥१९८६॥
अचलसिंहस्य ।
अयि शाकुनिक कृतोऽञ्जलिरितरे न कतीह जीवनोपायाः ।
हत्वा शुकान्किमेतद्विपिनमसारस्वतं कुरुषे ॥१९८७॥
वैद्यगदाधरस्य ।
एकत्र प्राकृतैः साम्यमन्यत्र परतन्त्रता ।
शुकस्य परितोषाय न वनं न च पत्तनम् ॥१९८८॥
उमापतिधरस्य ।
अयि खलु बधिराधिराज कीरं
तुदसि शलाकनिपातनेन मोहात।
अनिशमपि सुधानिधानवाणीं
रचयतु मौनमुखोऽस्तु वा समस्ते ॥१९८९॥
भ्रातः कीर किमत्र नीरसतरुस्कन्धे मधुस्यन्दिभिर्
व्याहारैस्तव वस्तुवर्णितकथाबन्धैर्मुधायं श्रमः ।
नैते दाडिमशाखिनः परिणतैर्येषां फलैरन्तरं
निर्भिद्यापि गुणानुरक्तमशठैराविष्क्रियन्ते मुदः ॥१९९०॥
लौलिकस्य ।
७१. नानापक्षिणः
स्वामिन्खञ्जन मुञ्च मुञ्च फनभृद्भोगाधिरोहग्रहं
तद्विश्राम्यतु नः फलं किमपि यद्वन्द्येन देयं त्वया ।
दैवादेष यदि प्रदीप्तगरलस्त्वां दन्दशूको दशेद्
विश्वालोककरी तदा शरदियं स्यादेव दृग्वञ्चिता ॥१९९१॥
वैद्यगदाधरस्य ।
आजन्मैव तमः सुहृत्कुटिलता वक्त्रे गिरां निर्गमो
ग्रामोत्सादकरः श्मशानविटपी प्रायेण यस्याश्रयः ।
धिग्धातः ससृजे स एव मलिनः क्रूरः कथं कौशिकः
सृष्टो वा किमकल्प्यतास्य भवता कल्पान्तमायुः स्थिरम् ॥१९९२॥
तस्यैव ।
अयि चकोरकुटुम्बिनि कातरे
तिरय पक्षपुटेन कुटुम्बकम् ।
बहु गतं कियदप्यवशिष्यते
व्यपगतं तिमिरैरुदितः शशी ॥१९९३॥
पापाकस्य ।
क्रमगलितैः शिखिपुच्छैर्
मण्डनमास्तां वधेन किं शिखिनः ।
कुतुकिनि पुनर्न लाभो
विषधरविषमे वने भविता ॥१९९४॥
कस्यचित। (सूक्तिमुक्तावलि १६.२)
भ्राम्यद्भ्योऽपि गृहे गृहे कटुतामप्यालपद्भ्यो गिरं
गृध्नुभ्योऽपि बलादमेध्यमथवावज्ञां व्रजद्भ्योऽपि च ।
शय्योत्थायमुपासते वसतिमित्येतावतायं न्èणां
काकेभ्यो बलिरस्ति कोकिलबलिः केनापि नाकर्णितः ॥१९९५॥
कस्यचित।
७२. उच्चावचम्
भ्रातः पश्य निकृत्य चन्दनतरूच्छाकोटको रोप्यते
सारासारविचारिणी मतिरिह ग्रामे जनानां कुतः ।
तद्यावद्वयमस्य सेकसलिलं वोढुं न मृष्यामहे
तावत्सत्वरमेव पामरजन ग्रामादितो गम्यताम् ॥१९९६॥
कस्यचित।
दन्तैरुपतितं स्फुरन्ति वलयो निष्कालिमानः कचाः
शीर्णदेहमपेतमेव करणग्रामेण लुप्ता मतिः ।
अस्मिन्नप्रतिकारदारुणजराव्याधौ दयार्द्रात्मना
भ्रातर्वैद्य विधीयते तव कियद्यावन्मया भेषजम् ॥१९९७॥
उमापतिधरस्य ।
पन्थाः प्रज्वलितः स्फुरन्ति पुरतः क्रूराः कृशानुत्विषः
कान्तारद्रुमघर्मदीधितिरपि व्योमार्धमारोहति ।
अस्माभिः श्रमविह्वलैरिह तरुच्छायासमालम्बिभिर्
न ज्ञाताः परितः किरातशिविरव्याप्ता वनश्रेणयः ॥१९९८॥
तीरभुक्तीयसर्वेश्वरस्य ।
तद्ब्रह्माण्डमिह क्वचित्क्वचिदपि क्षोणी क्वचिन्नीरदास्
ते द्वीपान्तरशालिनो जलधयः क्वापि क्वचित्पर्वताः ।
आश्चर्यं गगनस्य कोऽपि महिमा सर्वैरमीभिः स्थितैर्
दूरे पूरणमस्य शून्यमिति यन्नामापि नाच्छादितम् ॥१९९९॥
केशरस्य । (सु.र. ११९३)
समालम्ब्यान्योन्यं मसृणचरणाः कम्पनजुषो
न याताः के पारं सति जलधिबन्धे कपिभटाः ।
तटादेकोऽर्वाचश्चकितसुरसिद्धस्थितिसमुत्
समुत्प्लुत्य प्रायात्परमपरपारं स हनुमान॥२०००॥
छित्तिपस्य ।
श्रीधरदासकृतेऽस्मिन्सदुक्तिकर्णामृते चतुर्थोऽयम् ।
सत्कर्मण्यपदेशप्रवाह उपदेशतां भजतु ॥
इति श्रीमहामाण्डलिकश्रीधरदासकृतौ सदुक्तिकर्णामृते ।
अपदेशप्रवाहो नाम चतुर्थः । वीचयः ७२ । श्लोकाः ३६० ॥
N/A
References : N/A
Last Updated : November 11, 2016
TOP