संस्कृत सूची|संस्कृत साहित्य|सुभाषितानि|सदुक्तिकर्णामृतम्|अपदेशप्रवाहवीचयः| सुभाषित १९४१ - १९६० अपदेशप्रवाहवीचयः सुभाषित १६४१ - १६६० सुभाषित १६६१ - १६८० सुभाषित १६८१ - १७०० सुभाषित १७०१ - १७२० सुभाषित १७२१ - १७४० सुभाषित १७४१ - १७६० सुभाषित १७६१ - १७८० सुभाषित १७८१ - १८०० सुभाषित १८०१ - १८२० सुभाषित १८२१ - १८४० सुभाषित १८४१ - १८६० सुभाषित १८६१ - १८८० सुभाषित १८८१ - १९०० सुभाषित १९०१ - १९२० सुभाषित १९२१ - १९४० सुभाषित १९४१ - १९६० सुभाषित १९६१ - १९८० सुभाषित १९८१ - २००० अपदेशप्रवाहवीचयः - सुभाषित १९४१ - १९६० सुभाषित म्हणजे आदर्श वचन. सुभाषित गद्य किंवा पद्यात असतात.Subhashita means good speech. Tags : shridharadasश्रीधरदाससंस्कृतसुभाषित सुभाषित १९४१ - १९६० Translation - भाषांतर ६१. जलदश्लाघाःआश्वास्य पर्वतकुलं तपनोष्णतप्तम्उद्दामदावविधुराणि च काननानि ।नानानदीनदशतानि च पूरयित्वारिक्तोऽसि यज्जलद सैव तवोत्तमश्रीः ॥१९४१॥कस्यचित। (शा.प. ७७८, सु.र. १०९८)क्रूराः शैलभुवो निरभ्रपुरुषः पूषा ललाटंतपःपांशुः पादनखंपचः प्रतिदिशं वात्या करीषंकषा ।एतस्यां मरुसीम्नि जाङ्गलतटीनिष्ट्यूतदावानलक्लान्तपान्थकुलान्यकालजलद त्वं त्रातुमेकः क्षमः ॥१९४२॥धर्मयोगेश्वरस्य ।उपैति क्षाराब्धिं सहति बहुवातव्यतिकरंपुरो नानाभङ्गाननुभवति पश्यैष जलदः ।कथंचिल्लब्धानि प्रवितरति तोयानि जगतेगुणं वा दोषं वा गणयति न दानव्यसनिता ॥१९४३॥वल्लणस्य । (सु.र. १३७९)स चेन्मूर्च्छन्मत्स्यावलिरपि निपीतः पतिरपांततो वान्तः किं तद्व्यवसितमगस्त्येन तपसा ।घनः श्लाघ्यः पीत्वा कियदपि पयस्तस्य हि वमन्बिभर्त्येतद्विश्वं तमपि किल रत्नाकरयति ॥१९४४॥सान्झानन्दिनः ।धिग्धिक्तानुदधीस्तुमन्स्तु जलदं येभ्यः समभ्यर्थितैः पाथोभिः पदवीं निदाघविकलां यः प्लावयन्वर्षति ।यद्यस्याप्युदरे भवेदगणितस्तावन्मणीनां गणस्तत्किं नैष करोति रत्नकरकासारैः समृद्धं जगत॥१९४५॥कविपण्डितश्रीहर्षस्य ।६२. मेघनिन्दानिपीता श्वेतांशोर्जलद जगदाह्लादनकरीमरीचिर्यद्येषा वहसि किमु खद्योतनिवहान।किमेते कर्तारः कुमुदवनमुन्निद्रमुदधेःकिमानन्दं मन्दीकृततिमिरवृन्दाः किमु दिशः ॥१९४६॥जलचन्द्रस्य ।दूरोत्सारितराजहंस जलद प्राप्योन्नतिं नूतनांकोटिं कामपि साम्प्रतं मलिनिमा नीतस्त्वया यन्निजः ।यत्सम्भूय बकैरमीभिरहह त्वं भूषणोत्प्रोक्षणाद्आत्मानं बहुमन्यमानगमनं गर्जारवैरश्नुषे ॥१९४७॥हरेः ।आशाः खर्वय गर्वयातिमुखरानुन्नादिनो बर्हिणःसर्वांस्त्रासय गर्जितैः कलगिरो हंसान्समुत्सारय ।द्रागास्कन्दय मित्रमण्डलमलं सद्वर्त्म संदूषयश्रीमन्नब्द नयत्ययं न पवनो यावद्दशां कामपि ॥१९४८॥सरसीरुहस्य ।तडित्तेजःपुञ्जैर्जनयसि दृशोः कामपि रुजंगरीयोगर्जाभिः प्रकटयसि कर्णद्वयभिदाम् ।यदम्भोबिन्दूनां प्रणयपरिपाको यमखिलस्तदस्यैवाम्भोधेर्जलधर न धैर्यं कलयसि ॥१९४९॥अभिनन्दस्य ।एतेषु रे तरुणमारुतधूयमानदावावलीकवलितेषु महीरुहेषु ।अम्भो न चेज्जलद मुञ्चसि मा विमुञ्चवज्रं पुनः क्षिपसि निर्दय कस्य हेतोः ॥१९५०॥विश्वेश्वरस्य ।६३. चातकःतृषार्तैः सारङ्गैः प्रतिजलधरं भूरि विरुतंघनैर्मुक्ता धाराः सपदि पयसस्तान्प्रति मुहुः ।खगानां के मेघाः क इह विहगा वा जलमुचाम्अयाच्यो नार्तानामनुपकरणीयो न महताम् ॥१९५१॥भर्तृहरेः । (शा.प. १२०५, सु.र. १३६२)नभसि निरवलम्बे सीदता दीर्घकालंत्वदभिमुखनिविष्टोत्तानचञ्चुपुटेन ।जलधरजलधारा दूरतस्तावदास्तांध्वनिरपि मधुरस्ते न श्रुतश्चातकेन ॥१९५२॥अचलसिंहस्य । (B्प्२०८, सूक्तिमुक्तावलि १३.२, सु.र. १०८०)अभिपतति घनं शृणोति गर्जाः सहति शिलाः सहते तडित्तरङ्गान।विधुवति गरुतं रुतं विधत्ते जलपृषते कियतेऽपि चातकोऽयम् ॥१९५३॥तस्यैव । (सु.र. १०८३)अब्धिर्यद्यवधीरितो न तु तदा तस्मान्निपीयाम्बुदैर्वान्तान्याचसि काकुभिर्जललवानुत्तानचञ्चूपुटः ।तत्ते निस्त्रपनीचतैव मुचिता निर्वक्तुमेतत्कथं विद्मः केन गुणेन मानिषु पुनः सारङ्ग संगीयते ॥१९५४॥तस्यैव ।चक्षुः कदर्थयितुमर्जयितुं च तापम्अध्वश्रमेण परिशोषयितुं शरीरम् ।अभ्युल्लसज्जलधरभ्रमसम्भ्रमेणधिग्धूमकूटमभिधावति चातकोऽयम् ॥१९५५॥तस्यैव ।६४. दैवोपहतचातकः दृष्ट्वा तोयभरावनम्रनिविडप्रारम्भमम्भोधरंतृष्णार्तः किल रौति यावदसकृत्तोयाशया चातकः ।तावच्चञ्चलचञ्चुकोटरकुटीकोष्ठे लुठन्तः स्फुटंअयि चातक चञ्चुपुटात्स्खलयति जलदोदबिन्दुमनिलश्चेत।द्विज एव भाग्यहीनो जीवनदाता कृती जलदः ॥१९५६॥शब्दार्णवस्य ।अस्योदरे बहुमनोरथमन्थरेणसंचिन्तितं किमपि चेतसि चातकेन ।हा कष्ट मिष्टफलदानविधानहेतोर्अम्भोधरात्पतति सम्प्रति वज्रपातः ॥१९५७॥लडहचन्द्रस्य । (सु.र. ११०१)सिन्धोरेव कियज्जलं कलसभूर्यत्पाणिपात्रे दधौ तत्पीतं कियदम्बुदैः कियदितो वान्तं कियद्वा स्थितम् ।तत्पातुं व्यवसायदीनमनसो धावन्त्यमी सम्भ्रमाद्आवर्तैर्मरुतां तदप्यपहृतं धिक्चातकान्धिग्विधिम् ॥१९५८॥लक्ष्मीधरस्य ।बीजैरङ्कुरितं लताभिरुदितं वल्लीभिरुज्जृम्भितंकन्दैः कन्दलितं जनैश्च मुदितं धाराधरे वर्षति ।भ्रातश्चातक पातकं किमपि ते सम्यङ्न जानीमहेयेनास्मिन्न पतन्ति चञ्चुपुटके द्वित्राः पयोबिन्दवः ॥१९५९॥वसुकल्पस्य ।अयि चातक चञ्चुपुटात्स्खलयति जलदोदबिन्दुमनिलश्चेत।द्विज एव भाग्यहीनो जीवनदाता कृती जलदः ॥१९६०॥शब्दार्णवस्य । N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP