संस्कृत सूची|संस्कृत साहित्य|सुभाषितानि|सदुक्तिकर्णामृतम्|अपदेशप्रवाहवीचयः| सुभाषित १८४१ - १८६० अपदेशप्रवाहवीचयः सुभाषित १६४१ - १६६० सुभाषित १६६१ - १६८० सुभाषित १६८१ - १७०० सुभाषित १७०१ - १७२० सुभाषित १७२१ - १७४० सुभाषित १७४१ - १७६० सुभाषित १७६१ - १७८० सुभाषित १७८१ - १८०० सुभाषित १८०१ - १८२० सुभाषित १८२१ - १८४० सुभाषित १८४१ - १८६० सुभाषित १८६१ - १८८० सुभाषित १८८१ - १९०० सुभाषित १९०१ - १९२० सुभाषित १९२१ - १९४० सुभाषित १९४१ - १९६० सुभाषित १९६१ - १९८० सुभाषित १९८१ - २००० अपदेशप्रवाहवीचयः - सुभाषित १८४१ - १८६० सुभाषित म्हणजे आदर्श वचन. सुभाषित गद्य किंवा पद्यात असतात.Subhashita means good speech. Tags : shridharadasश्रीधरदाससंस्कृतसुभाषित सुभाषित १८४१ - १८६० Translation - भाषांतर ४१. मत्तगजःगले पाशस्तीव्रश्चरणयुगयुग्मे च निगडोदृढः कक्षाबन्धः शिरसि सृणिघातः खरतरः ।नरः स्कन्धारूढो बत रमणयोग्येऽपि समये न जानीमो मूढ द्विरदवर कस्मात्तव मदः ॥१८४१॥लङ्गदत्तस्य । (शा.प. ९३१)अयं दूरभ्रान्तः पटुतरपिपासाकुलमनाः कपोले ते मत्तद्विप निपतितः षट्पदयुवा ।त्वमप्येतां पीनश्रवणदरदोलाव्यसनितां विमुञ्च स्वाच्छन्द्यादपनयतु तावत्तृषमिमाम् ॥१८४२॥सुरभेः ।नीवारप्रसवाग्रमुष्टिकवलैर्यो वर्धितः शैशवेपीतं येन सरोजिनीदलपुटे होमावशिष्टं पयः ।तं दानावसरे तु मत्तमधुप व्यालोलगण्डं गजंसानन्दं सभयं च पश्यति मुहुर्द्वारे स्थितस्तापसः ॥१८४३॥मनोकस्य । (स्व६३७, शा.प. ९१८, सु.र. १६८९)दानक्लिन्नकटस्य कुञ्जरपतेः स्वच्छन्दसंवर्धनैः क्षीयन्ते यदि कोटयोऽप्यपचयः किं तेन भूमीभुजाम् ।येनैकेन रणाङ्गणप्रणयिना निर्जित्य शत्रोः पदंदीयन्ते निजनायकाय वसुधाचक्राधिपत्यश्रियः ॥१८४४॥वासुदेवसेनस्य ।ग्राम्यामग्रे करेणुं स्वयमुपनयता येन बद्धोऽसि पाशैर्येन क्षुण्णं शिरस्ते सृणिभिरमसृणैर्येन बाह्यः कृतोऽसि ।तत्पादाङ्गुष्ठसंज्ञा परवशहृदयो द्रष्टुकामानमन्तून्जन्तूनभ्येषि हन्तुं त्वमसि गजपते सत्यमेको मदान्धः ॥१८४५॥उमापतिधरस्य ।४२. पङ्कपतितगजः दूरादेव करञ्जसर्जसरलप्रायान्व्त्लोक्य द्रुमान्क्षुत्क्षामो विकलः करी क्षितिभृतः पादान्तिके प्रस्थितः ।मोहादागत एव निर्भरदरीदुर्गे निरालम्बनोनिर्मग्नः किमयं करोति भगवान्यस्य प्रतीपो विधिः ॥१८४६॥शङ्करदेवस्य ।यल्लीलामदमेदुरा मधुलिहो यद्दन्तकान्तित्विषःशीतांशोः श्रियमावहन्ति गमनाद्भ्रश्यन्ति यस्याचलाः ।जानीमः किमकाण्डचण्डिमगुणान्दैवस्य येन क्षणान्मग्नः कासरकेलिपङ्किलतटोपान्ते स दन्ताबलः ॥१८४७॥शालूकस्य ।रटितमनुचितं ते कः करास्फालकालःप्रचलितमतिमात्रं गात्रनिर्मज्जनाय ।कथमपि पतितस्त्वं दुस्तरे पङ्कराशौकुरु करिवर धैर्यं दुर्जया दैवरीतिः ॥१८४८॥पाम्पाकस्य ।करेणुर्नाहूता निजकवलभागप्रणयिनीन चामृष्टः स्नेहात्करकिसलयेनापि कलभः ।स येनासौ दर्पात्प्रतिगजजिगीषारभसतःक्रुधा धावन्मग्नो ह्रदपयसि कष्टं करिपतिः ॥१८४९॥त्रिपुरारिपालस्य ।न पश्यत्येवाशाः श्रयति न विषादं न मनसासौम्द्धारे शक्तं भुवि कमपि नान्यं गणयति ।स जम्बाले मग्नो निजगरिमगम्भीररभसस्फुरद्रोमोद्भेदः श्लथयति करी जीवनरसम् ॥१८५०॥तस्यैव ।४३. बद्धगजःरे रेवातटकेलिलम्पटवपः शोकं वृथा मा कृथाःकुम्भिन्कुम्भसमाहृतं पिब पयो बन्ध्यैव विन्ध्यस्मृतिः ।ताभिः काननकुञ्जरीभिरधुना दैवेन दूरीकृतोवेल्लत्पल्लवशल्लकीवनलताकुञ्जेषु ते विभ्रमः ॥१८५१॥कङ्कणस्य ।घासग्रासं गृहाण त्यज गजकलभ प्रेमबन्धं करिण्यांपाशग्रन्थिव्रणानामविरतमधुना देहि पङ्कानुलेपम् ।दूरीभूतास्तवैते शवरवरवधूविभ्रमोद्भ्रान्तदृष्टारेवातीरोपकण्ठच्युतकुसुमरजोधूसरा विन्ध्यपादाः ॥१८५२॥भर्तृमेण्ठस्य । (स्व६४०, हस्तिपकस्य; शा.प. ९२८, कस्यचित्)त्यक्तो विन्ध्यगिरिः पिता भगवती मातेव रेवानदीते ते स्नेहनिबन्धबन्धुरधियस्तुल्योदया दन्तिनः ।त्वल्लोभान्ननु हस्तिनि स्वयमिदं बन्धाय दत्तं वपुस्त्वं दूरे ध्रियसे लुठन्ति च शिरःपीठे कठोराङ्कुशाः ॥१८५३॥तस्यैव ।नो मन्ये दृढबन्धनक्षतमिदं नैवाङ्क्शोद्घाटनंस्कन्धारोहणताडनात्परिभवं नैवान्यदेशागमम् ।चिन्तां ये जनयन्ति चेतसि परं स्मृत्वा स्वयूथं वनेसिंहत्रासितभीतभीरुकलभा यास्यन्ति कस्यान्तिकम् ॥१८५४॥पाम्पाकस्य । (शा.प. ९३४)अयि क्षुद्रो माभून्मतिमहिमगर्वो मनसि वः करी यातो बन्धं यदिह विनयस्तत्र विजयी ।अयं क्रोधाध्मातस्त्यजति विनयं चेन्मदवशात्ततः स्कन्धावारं न किमखिलमेवाकुलयति ॥१८५५॥त्रिपुरारिपालस्य ।४४. मृगःशान्तेऽपि स्वयमेव दावशिखिनि क्रूरं किराताधिपेचापं सङ्कलयत्यपि श्लथयति व्याधे च तां वागुराम् ।सारङ्गस्य न पश्यतः सहचरीमुद्भिन्नबाष्पाम्भसोनिर्दग्धं वपुराहतानि परितो मर्माणि रुग्णा गतिः ॥१८५६॥जलचन्द्रस्य ।नादत्से हरिताङ्कुरान्क्वचिदपि स्थैर्यं न यद्गाहसेयत्पर्याकुललोचनोऽसि करुणं कूजन्दिशः पश्यसि ।दैवेनान्तरितप्रियोऽसि हरिण क्षामोऽसि यत्प्रत्यहंप्रदद्रि प्रतिकाननं प्रतिनदि प्रयूषरं धावसि ॥१८५७॥केशटस्य । (सु.र. ७५६)वन्यैः प्राणिनि काननेषु हरिणस्तद्गात्रवैरी निजः क्रूरोऽरण्यपतिस्तदत्र शरणं शान्तोऽस्त्यदूरे मुनिः ।इत्यस्मिन्नुपसेदिवानयमसावस्यैव दुर्दैवतोमा भैषीरिति भाषणेऽप्यकरुणो जातोऽथ वाचंयमः ॥१८५८॥रत्नमालीयपुण्ड्रोकस्य । नासन्नेऽपि ददाति शष्पविपिने क्षामे दृशौ न क्षिपत्य्अच्चाच्छेषु च निर्झरेषु रसनानालीमुदन्यातुरः ।न स्वस्थो बत कौतुकादपि सुहृद्गोष्ठीषु तिष्ठासतिध्यायन्मेकलकन्यकावनमविच्छिन्नाश्रुवेगो मृगः ॥१८५९॥भट्टशालीयपीताम्बरस्य ।दुर्गारण्यदरीषु भूरुहघनच्छाये शयालुस्तृणान्य्आस्वाद्योदरपूरमच्छसुलभैरम्भोभिराप्यायितः ।एष प्रेङ्खदपाङ्गभङ्गिषु सहाधीती कुरङ्गीदृशांक्रूरव्याधकुलेषु हन्त पिशितैः स्वैरिव वैरी मृगः ॥१८६०॥धर्मयोगेश्वरस्य । N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP