अपदेशप्रवाहवीचयः - सुभाषित १७०१ - १७२०

सुभाषित म्हणजे आदर्श वचन. सुभाषित गद्य किंवा पद्यात असतात.
Subhashita means good speech.


१३. अगस्त्यः

श्वासोन्मूलितमेरुरम्बरतलव्यापी निमज्जन्मुहुर्
यत्रासीच्छुमारविभ्रमकरः क्रीडावराहो हरिः ।
वीचीव्याप्तदिगन्तरः स हि तथा वारां पतिः पीयते
पीतः सोऽपि न पूरितं च जठरं तस्मै नमोऽगस्तये ॥१७०१॥

शब्दार्णववाचस्पतेः ॥ (सु.र. १२०१)

किं ब्रूमो हरिमस्य विश्वमुदरे किं वा फणां भोगिनः
शेते यत्र हरिः स्वयं जलनिधेः सोऽप्येकदेशे स्थितः ।
आश्चर्यं कलसोद्भवो मुनिरयं यस्यैकहस्तोदरे
गण्डूषीयति पङ्कजीयति फणी भृङ्गीयति श्रीपतिः ॥१७०२॥

कस्यचित। (शा.प. ४०२५, सूक्तिमुक्तावलि १०९.४९, सु.र. १२०९)

आज्ञामेव मुनेर्प्रणम्य शिरसा विन्ध्याचल स्थीयतां
अत्युच्चैः पदमिच्छता पुनरियं नो लङ्घनीया त्वया ।
मैनाकादिमहीध्रलब्धवसतिं यः पीतवानम्बुधिं
तस्य त्वां गिलतः कपोलफलके क्लेशोऽपि किं जायते ॥१७०३॥

शालूकस्य । (सु.र. ११२३)

निद्रालुर्न हरिः स्मृतो न गणितो दग्धव्यविश्वः शिखी
तास्ता लीढविहायसः किमपरं नालोचिता वीचयः  ।
सद्यः संमिलिताङ्गुलित्रयपुटे क्षीणोदरेण व्रतैश्
चित्रं नः श्रुतिविभ्रमो नु मुनिना पीतः स पाथोनिधिः ॥१७०४॥

कस्यचित।

आस्तां चक्षुरिदं तिरोऽञ्चति कियच्चेतोऽपि यद्वैभवैर्
निष्प्रत्याशमयं मुने जलनिधिर्गण्डूषितः सत्तपः ।
एतेनैव विरन्तुमर्हसि न ते गण्डूषपानाधिका  
काचित्ख्यातिरतःपरं परमसौ पर्जन्यनीवीव्ययः ॥१७०५॥

तैलपाटीयगङ्गोकस्य ।


१४. जलम्

गाम्भीर्यं भयदायि ते रसवशान्नानात्वमप्यद्भुतं
न स्थैर्यं शिरसा धृतस्य च मुखं दुर्वारमेकान्ततः ।
शक्तिस्ते महतोऽचलानपि भिदां नेतुं पयो ब्रूहि मे
सोदर्यास्तव किं खला विमजता लब्धास्त्वया यद्गुणाः ॥१७०६॥

केशटस्य ।

स्वातन्त्र्यं तव नीचसर्पणमथो पात्रे स्थितौ नेयता
तच्चित्रं प्रकटीकरोति कलुषीभावोऽन्यजन्यस्तव ।
स्नेहो हन्त तवान्तरं न लभते पृच्छामि तत्त्वां पयः
शिष्यः किं नु दूरीश्वरस्तव सखे किं वा त्वदीयो गुरुः ॥१७०७॥

तस्यैव ।

चातुर्वर्ण्यविहारिणस्तव पयः स्पर्शो न गर्हाकरः
पात्रे सत्यकुलीनता न भवति त्वल्लाघवाद्गौरवम् ।
इत्थं लोकविनिन्दितेऽपि चरिते त्वं मूर्तिरीशस्य चेत्
प्रायेणेश्वरभूषितस्य चरितं शक्नोति को गाहितुम् ॥१७०८॥

तस्यैव ।

अब्जं त्वब्जमथाब्जभूस्तत इतो ब्रह्माण्डमण्डादभूद्
विश्वं स्थावरजङ्गमात्मकमिदं त्वन्मूलमित्थं पयः ।
धिक्त्वां चौर इव प्रयासि निभृतं निर्गत्य जालान्तरैर्
बध्यन्ते विवशास्त्वदेकगतयस्त्वामाश्रिता जन्तवः ॥१७०९॥

तस्यैव । (शा.प. ११६६, सूक्तिमुक्तावलि ३६.१९)

शैत्यं नाम गुणस्तवैव सहजः स्वाभाविकी स्वच्छता
किं ब्रूमः शुचितां भवन्ति शुचयः स्पर्शेन यस्यापरे ।
किं चातः परमस्ति ते स्तुतिपदं यज्जीवनं देहिनां
त्वं चेन्नीचपथेन गच्छसि पयः कस्त्वां निरोद्धुं क्षमः ॥१७१०॥

तस्यैव । (शा.प. ११६५, सूक्तिमुक्तावलि ३६.२०)
१५. शङ्खः

रत्नाकराज्जनिरनुष्णकरावदाता
कान्तिः स्वभावकुटिलं कठिनं च वक्षः ।
शङ्खस्य दक्षिणगतेर्महनीयताभूद्
वामात्मनस्तदपि च क्रकचप्रहारः ॥१७११॥

कस्यचित।

विदितधवलिमासि श्रूयमाणो ध्वनिस्ते
रमयति रमणीया जन्मभूः सिन्धुराजः ।
तदपि निभृतमेकं वाच्यमस्त्येव कम्बो
हृदयकुटिलिमानं कस्तवापह्नवीति ॥१७१२॥

नीलस्य ।

शङ्खाः सन्ति सहस्रशो जलनिधेर्वीचिच्छटाघट्टिताः
पर्यन्तेषु लुठन्ति ये दलशतैः कल्माषितक्ष्मातलाः ।
एकः कोऽपि स पाञ्चजन्य उदभूदाश्चर्यभूतः सतां
यः संवर्तभरक्षमैर्मधुरिपोः श्वासानिलैः पूर्यते ॥१७१३॥

कविरत्नस्य । (स्व९१७, शा.प. १११९, सूक्तिमुक्तावलि २९.७)

सम्भूताश्च भवन्ति च प्रतिपदं भूयो भविष्यन्ति च
प्रायः कम्बुनिधेर्न कुक्षिकुहरे संख्यातिगाः कम्बयः ।
एकोऽप्यत्र स तादृशः किमभवत्कः पाञ्चजन्यादृते
यन्नादेन भवन्त्यमूर्भयगलद्भ्रूणाः सुरारिस्त्रियः ॥१७१४॥

गोसोकस्य ।

सिन्धोरुच्चैः पवनचलनादुच्छलद्भिस्तरङ्गैस्
तीरं नीतो हृतविधिवशाद्दक्षिणावर्तशङ्खः ।
दग्धः किं वा भवति न मसी वेति सन्देहिनीभिः
शाम्बूकाभिः सह परिचर्यान्नीयते पामरीभिः ॥१७१५॥

अनुरागदेवस्य । (सु.र. १११८, सुचरितस्य)

१६. मणिः

कनकभूषणसंग्रहणोचितो  
यदि मणिस्त्रपुणि प्रतिरुध्यते ।
न स विरौति न चापि पलायते  
भवति योजयितुर्वचनीयता ॥१७१६॥

अचलस्य । (स्व८९८, सु.र. १६७२)

अपि वज्रेण संघर्षमपि पद्भ्यां पराभवम् ।
सहन्ते गुणलोभेन त एव मणयो यदि ॥१७१७॥

वाचस्पतेः । (सु.र. १४८५)

समुद्रेणान्तस्थस्तटभुवि तरङ्गैरकरुणैः
समुत्क्षिप्तोऽस्मीति त्वमिह परितापं त्यज मणे ।
अवश्यं कोऽपि त्वद्गुणपरिचयाकृष्टहृदयो
नरेन्द्रस्त्वां कुर्यान्मुकुटमकरीचुम्बितरुचिम् ॥१७१८॥

कस्यचित। (सु.र. १०७३)

न त्याज्या जनिभूमिरित्यलमिह भ्रातर्मणीनां गणैर्
यैरेवायमकारि वारिधिरधो गत्वापि रत्नाकरः ।
नैषामत्र गुणग्रहो न गरिमख्यातिर्न वाघक्रमो
जातास्ते पुनरन्यतः क्षितिभृतां मूर्धानमध्यासते ॥१७१९॥

तिलचन्द्रस्य ।

उपादाता यावन्न भवति भवादृग्गुणवतां  
असत्कल्पास्तावत्त्रिभुवनमहार्हा अपि गुणाः ।
अपि प्राग्दैत्यारेर्हृदयवसतेः कौस्तुभमणिः  
स किं नासीदब्धौ श्रुतिरपि किमस्य क्वचिदभूत॥१७२०॥

धर्माधिकरणिकरुद्रस्य ।

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP