अथर्ववेदः - काण्डं १७

अथर्ववेदात देवतांची स्तुति तसेच जादू, चमत्कार, चिकित्सा, विज्ञान आणि दर्शनाचे मन्त्र सुद्धा आहेत.  


१७,१।१अ - विषासहिं सहमानं सासहानं सहीयांसम् ।
१७,१।१च् - सहमानं सहोजितं स्वर्जितं गोजितं संधनाजितम् ।
१७,१।१ए - ईढ्यं नाम ह्व इन्द्रम् आयुष्मान् भूयासम् ॥१॥

१७,१।२अ - विषासहिं सहमानं सासहानं सहीयांसम् ।
१७,१।२च् - सहमानं सहोजितं स्वर्जितं गोजितं संधनाजितम् ।
१७,१।२ए - ईढ्यं नाम ह्व इन्द्रम् प्रियो देवानां भूयासम् ॥२॥

१७,१।३अ - विषासहिं सहमानं सासहानं सहीयांसम् ।
१७,१।३च् - सहमानं सहोजितं स्वर्जितं गोजितं संधनाजितम् ।
१७,१।३ए - ईढ्यं नाम ह्व इन्द्रम् प्रियः प्रजानां भूयासम् ॥३॥

१७,१।४अ - विषासहिं सहमानं सासहानं सहीयांसम् ।
१७,१।४च् - सहमानं सहोजितं स्वर्जितं गोजितं संधनाजितम् ।
१७,१।४ए - ईढ्यं नाम ह्व इन्द्रम् प्रियः पशूनां भूयासम् ॥४॥

१७,१।५अ - विषासहिं सहमानं सासहानं सहीयांसम् ।
१७,१।५च् - सहमानं सहोजितं स्वर्जितं गोजितं संधनाजितम् ।
१७,१।५ए - ईढ्यं नाम ह्व इन्द्रम् प्रियः समानानां भूयासम् ॥५॥

१७,१।६अ - उद् इह्य् उद् इहि सूर्य वर्चसा माभ्युदिहि ।
१७,१।६च् - द्विषंश् च मह्यं रध्यतु मा चाहं द्विषते रधं तवेद् विष्णो बहूधा वीर्यानि ।
१७,१।६ए - त्वं नः पृणीहि पशुभिर् विश्वरूपैः सुधायां मा धेहि परमे व्योमन् ॥६॥

१७,१।७अ - उद् इह्य् उद् इहि सूर्य वर्चसा माभ्युदिहि ।
१७,१।७च् - आंश् च पश्यामि यांश् च न तेषु मा सुमतिं कृधि तवेद् विष्णो बहूधा वीर्यानि ।
१७,१।७ए - त्वं नः पृणीहि पशुभिर् विश्वरूपैः सुधायां मा धेहि परमे व्योमन् ॥७॥

१७,१।८अ - मा त्वा दभन्त् सलिले अप्स्व् अन्तर् ये पाशिन उपतिष्ठन्त्य् अत्र ।
१७,१।८च् - हित्वाशस्तिं दिवम् आरुक्ष एतां स नो मृढ सुमतौ ते स्याम तवेद् विष्णो बहूधा वीर्यानि ।
१७,१।८ए - त्वं नः पृणीहि पशुभिर् विश्वरूपैः सुधायां मा धेहि परमे व्योमन् ॥८॥

१७,१।९अ - त्वं न इन्द्र महते सौभगायादब्धेभिः परि पाह्य् अक्तुभिस् तवेद् विष्णो बहूधा वीर्यानि ।
१७,१।९च् - त्वं नः पृणीहि पशुभिर् विश्वरूपैः सुधायां मा धेहि परमे व्योमन् ॥९॥

१७,१।१०अ - त्वं न इन्द्रोतिभिः शिवाभिः शंतमो भव ।
१७,१।१०च् - आरोहंस् त्रिदिवं दिवो गृणानः सोमपीतये प्रियधामा स्वस्तये तवेद् विष्णो बहूधा वीर्यानि ।
१७,१।१०ए - त्वं नः पृणीहि पशुभिर् विश्वरूपैः सुधायां मा धेहि परमे व्योमन् ॥१०॥ {१}

१७,१।११अ - त्वम् इन्द्रासि विश्वजित् सर्ववित् पुरुहूतस् त्वम् इन्द्र ।
१७,१।११च् - त्वम् इन्द्रेमं सुहवं स्तोमम् एरयस्व स नो मृढ सुमतौ ते स्याम तवेद् विष्णो बहूधा वीर्याणि ।
१७,१।११ए - त्वं नः पृणीहि पशुभिर् विश्वरूपैः सुधायां मा धेहि परमे व्योमन् ॥११॥

१७,१।१२अ - अदब्धो दिवि पृथिव्याम् उतासि न त आपुर् महिमानम् अन्तरिक्षे ।
१७,१।१२च् - अदब्धेन ब्रह्मणा वावृधानः स त्वं न इन्द्र दिवि सं छर्म यछ तवेद् विष्णो बहूधा वीर्याणि ।
१७,१।१२ए - त्वं नः पृणीहि पशुभिर् विश्वरूपैः सुधायां मा धेहि परमे व्योमन् ॥१२॥

१७,१।१३अ - या त इन्द्र तनूर् अप्सु या पृथिव्यां यान्तर् अग्नौ या ते इन्द्र पवमाने स्वर्विदि ।
१७,१।१३च् - ययेन्द्र तन्वा 'न्तरिक्षं व्यापिथ तया न इन्द्र तन्वा शर्म यछ तवेद् विष्णो बहूधा वीर्याणि ।
१७,१।१३ए - त्वं नः पृणीहि पशुभिर् विश्वरूपैः सुधायां मा धेहि परमे व्योमन् ॥१३॥

१७,१।१४अ - त्वाम् इन्द्र ब्रह्मणा वर्धयन्तः सत्त्रं नि षेदुर् ऋषयो नाधमानास् तवेद् विष्णो बहूधा वीर्याणि ।
१७,१।१४च् - त्वं नः पृणीहि पशुभिर् विश्वरूपैः सुधायां मा धेहि परमे व्योमन् ॥१४॥

१७,१।१५अ - त्वं तृतं त्वं पर्य् एष्य् उत्सं सहस्रधारं विदथं स्वर्विदं तवेद् विष्णो बहूधा वीर्याणि ।
१७,१।१५च् - त्वं नः पृणीहि पशुभिर् विश्वरूपैः सुधायां मा धेहि परमे व्योमन् ॥१५॥

१७,१।१६अ - त्वं रक्षसे प्रदिशश् चतस्रस् त्वं शोचिषा नभसी वि भासि ।
१७,१।१६च् - त्वम् इमा विश्वा भुवनानु तिष्ठस ऋतस्य पन्थाम् अन्व् एषि विद्वांस् तवेद् विष्णो बहूधा वीर्याणि ।
१७,१।१६ए - त्वं नः पृणीहि पशुभिर् विश्वरूपैः सुधायां मा धेहि परमे व्योमन् ॥१६॥

१७,१।१७अ - पञ्चभिः पराङ् तपस्य् एकयार्वाङ् अशस्तिम् एषि सुदिने बाधमानस् तवेद् विष्णो बहूधा वीर्याणि ।
१७,१।१७च् - त्वं नः पृणीहि पशुभिर् विश्वरूपैः सुधायां मा धेहि परमे व्योमन् ॥१७॥

१७,१।१८अ - त्वम् इन्द्रस् त्वम् महेन्द्रस् त्वं लोकस् त्वं प्रजापतिः ।
१७,१।१८च् - तुभ्यं यज्ञो वि तायते तुभ्यं जुह्वति जुह्वतस् तवेद् विष्णो बहूधा वीर्याणि ।
१७,१।१८ए - त्वं नः पृणीहि पशुभिर् विश्वरूपैः सुधायां मा धेहि परमे व्योमन् ॥१८॥

१७,१।१९अ - असति सत् प्रतिष्ठितं सति भूतं प्रतिष्ठितम् ।
१७,१।१९च् - भूतम् ह भव्य आहितं भव्यं भूते प्रतिष्ठितं तवेद् विष्णो बहूधा वीर्याणि ।
१७,१।१९ए - त्वं नः पृणीहि पशुभिर् विश्वरूपैः सुधायां मा धेहि परमे व्योमन् ॥१९॥

१७,१।२०अ - शुक्रो 'सि भ्राजो 'सि ।
१७,१।२०च् - स यथा त्वं भ्राजता भ्राजो 'स्य् एवाहं भ्राजता भ्राज्यासम् ॥२०॥ {२}

१७,१।२१अ - रुचिर् असि रोचो 'सि ।
१७,१।२१च् - स यथा त्वं रुच्या रोचो 'स्य् एवाहं पशुभिश् च ब्राह्मणवर्चसेन च रुचिषीय ॥२१॥

१७,१।२२अ - उद्यते नम उदायते नम उदिताय नमः ।
१७,१।२२च् - विराजे नमः स्वराजे नमः सम्राजे नमः ॥२२॥

१७,१।२३अ - अस्तंयते नमो 'स्तमेष्यते नमो 'स्तमिताय नमः ।
१७,१।२३च् - विराजे नमः स्वराजे नमः सम्राजे नमः ॥२३॥

१७,१।२४अ - उद् अगाद् अयम् आदित्यो विश्वेन तपसा सह ।
१७,१।२४च् - सपत्नान् मह्यं रन्धयन् मा चाहं द्विषते रधं तवेद् विष्णो बहूधा वीर्याणि ।
१७,१।२४ए - त्वं नः पृणीहि पशुभिर् विश्वरूपैः सुधायां मा धेहि परमे व्योमन् ॥२४॥

१७,१।२५अ - आदित्य नावम् आरुक्षः शतारित्रां स्वस्तये ।
१७,१।२५च् - अहर् मात्य् अपीपरो रात्रिं सत्राति पारय ॥२५॥

१७,१।२६अ - सूर्य नावम् आरुक्षः शतारित्रां स्वस्तये ।
१७,१।२६च् - रात्रिं मात्य् अपीपरो 'हः सत्राति पारय ॥२६॥

१७,१।२७अ - प्रजापतेर् आवृतो ब्रह्मणा वर्मणाहं कश्यपस्य ज्योतिषा वर्चसा च ।
१७,१।२७च् - जरदष्टिः कृतवीर्यो विहायाः सहस्रायुः सुकृतश् चरेयम् ॥२७॥

१७,१।२८अ - परिवृतो ब्रह्मणा वर्मणाहम् कश्यपस्य ज्योतिषा वर्चसा च ।
१७,१।२८च् - मा मा प्रापन्न् इषवो दैव्या या मा मानुषीर् अवसृष्टाः वधाय ॥२८॥

१७,१।२९अ - ऋतेन गुप्त ऋतुभिश् च सर्वैर् भूतेन गुप्तो भव्येन चाहम् ।
१७,१।२९च् - मा मा प्रापत् पाप्मा मोत मृत्युर् अन्तर् दधे 'हं सलिलेन वाचः ॥२९॥

१७,१।३०अ - अग्निर् मा गोप्ता परि पातु विश्वतः उद्यन्त् सूर्यो नुदतां मृत्युपाशान् ।
१७,१।३०च् - व्युछन्तीर् उषसः पर्वता ध्रुवाः सहस्रं प्राणा मय्य् आ यतन्ताम् ॥३०॥ {३}

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP