अथर्ववेदः - काण्डं २

अथर्ववेदात देवतांची स्तुति तसेच जादू, चमत्कार, चिकित्सा, विज्ञान आणि दर्शनाचे मन्त्र सुद्धा आहेत.  


२,१।१अ - वेनस् तत् पश्यत् परमं गुहा यद् यत्र विश्वं भवत्य् एकरूपम् ।
२,१।१च् - इदं पृश्निर् अदुहज् जायमानाः स्वर्विदो अभ्य् अनूषत व्राः ॥१॥

२,१।२अ - प्र तद् वोचेद् अमृतस्य विद्वान् गन्धर्वो धाम परमं गुहा यत् ।
२,१।२च् - त्रीणि पदानि निहिता गुहास्य यस् तानि वेद स पितुष् पितासत् ॥२॥

२,१।३अ - स नः पिता जनिता स उत बन्धुर् धामानि वेद भुवनानि विश्वा ।
२,१।३च् - यो देवानां नामध एक एव तं संप्रश्नं भुवना यन्ति सर्वा ॥३॥

२,१।४अ - परि द्यावापृथिवी सद्य आयम् उपातिष्ठे प्रथमजाम् ऋतस्य ।
२,१।४च् - वाचम् इव वक्तरि भुवनेष्ठा धास्युर् एष नन्व् एषो अग्निः ॥४॥

२,१।५अ - परि विश्वा भुवनान्य् आयम् ऋतस्य तन्तुं विततं दृशे कम् ।
२,१।५च् - यत्र देवा अमृतम् आनशानाः समाने योनाव् अध्य् अइरयन्त ॥५॥


२,२।१अ - दिव्यो गन्धर्वो भुवनस्य यस् पतिर् एक एव नमस्यो विक्ष्व् ईढ्यः ।
२,२।१च् - तं त्वा यौमि ब्रह्मणा दिव्य देव नमस् ते अस्तु दिवि ते सधस्थम् ॥१॥

२,२।२अ - दिवि स्पृष्टो यजतः सूर्यत्वग् अवयाता हरसो दैव्यस्य ।
२,२।२च् - मृढात् गन्धर्वो भुवनस्य यस् पतिर् एक एव नमस्यः सुशेवाः ॥२॥

२,२।३अ - अनवद्याभिः सम् उ जग्म आभिर् अप्सरास्व् अपि गन्धर्व आसीत् ।
२,२।३च् - समुद्र आसां सदनं म आहुर् यतः सद्य आ च परा च यन्ति ॥३॥

२,२।४अ - अभ्रिये दिद्युन् नक्षत्रिये या विश्वावसुं गन्धर्वं सचध्वे ।
२,२।४च् - ताभ्यो वो देवीर् नम इत् कृणोमि ॥४॥

२,२।५अ - याः क्लन्दास् तमिषीचयो 'क्षकामा मनोमुहः ।
२,२।५च् - ताभ्यो गन्धर्वभ्यो 'प्सराभ्यो 'करम् नमः ॥५॥


२,३।१अ - अदो यद् अवधावत्य् अवत्कम् अधि पर्वतात् ।
२,३।१च् - तत् ते कृणोमि भेषजं सुभेषजं यथाससि ॥१॥

२,३।२अ - आद् अङ्गा कुविद् अङ्ग शतं या भेषजानि ते ।
२,३।२च् - तेषाम् असि त्वम् उत्तमम् अनास्रावम् अरोगणम् ॥२॥

२,३।३अ - नीचैः खनन्त्य् असुरा अरुस्राणम् इदं महत् ।
२,३।३च् - तद् आस्रावस्य भेषजं तद् उ रोगम् अनीनशत् ॥३॥

२,३।४अ - उपजीका उद् भरन्ति समुद्राद् अधि भेषजम् ।
२,३।४च् - तद् आस्रावस्य भेषजं तद् उ रोगम् अशीशमत् ॥४॥

२,३।५अ - अरुस्राणम् इदं महत् पृथिव्या अध्य् उद्भृतम् ।
२,३।५च् - तद् आस्रावस्य भेषजं तद् उ रोगम् अनीनशत् ॥५॥

२,३।६अ - शं नो भवन्त्व् अप ओषधयः शिवाः ।
२,३।६च् - इन्द्रस्य वज्रो अप हन्तु रक्षस आराद् विसृष्टा इषवः पतन्तु रक्षसाम् ॥६॥


२,४।१अ - दीर्घायुत्वाय बृहते रणायारिष्यन्तो दक्षमाणाः सदैव ।
२,४।१च् - मणिं विष्कन्धदूषणं जङ्गिढं बिभृमो वयम् ॥१॥

२,४।२अ - जङ्गिढो जम्भाद् विशराद् विष्कन्धाद् अभिशोचनात् ।
२,४।२च् - मणिः सहस्रवीर्यः परि णः पातु विश्वतः ॥२॥

२,४।३अ - अयं विष्कन्धं सहते 'यं बाधते अत्त्रिणः ।
२,४।३च् - अयं नो विश्वभेषजो जङ्गिढः पात्व् अंहसः ॥३॥

२,४।४अ - देवैर् दत्तेन मणिना जङ्गिढेन मयोभुवा ।
२,४।४च् - विष्कन्धं सर्वा रक्षांसि व्यायामे सहामहे ॥४॥

२,४।५अ - शणश् च मा जङ्गिढश् च विष्कन्धाद् अभि रक्षताम् ।
२,४।५च् - अरण्याद् अन्य आभृतः कृष्या अन्यो रसेभ्यः ॥५॥

२,४।६अ - कृत्यादूषिर् अयं मणिर् अथो अरातिदूषिः ।
२,४।६च् - अथो सहस्वान् जङ्गिढः प्र ण आयुंषि तारिषत् ॥६॥


२,५।१अ - इन्द्र जुषस्व प्र वहा याहि शूर हरिभ्याम् ।
२,५।१च् - पिबा सुतस्य मतेर् इह मधोश् चकानश् चारुर् मदाय ॥१॥

२,५।२अ - इन्द्र जठरं नव्यो न पृणस्व मधोर् दिवो न ।
२,५।२च् - अस्य सुतस्य स्वर् णोप त्वा मदाः सुवाचो अगुः ॥२॥

२,५।३अ - इन्द्रस् तुराषाण् मित्रो वृत्रं यो जघान यतीर् न ।
२,५।३च् - बिभेद वलं भृगुर् न ससहे शत्रून् मदे सोमस्य ॥३॥

२,५।४अ - आ त्वा विशन्तु सुतास इन्द्र पृणस्व कुक्षी विढ्डि शक्र धियेह्य् आ नः ।
२,५।४च् - श्रुधी हवं गिरो मे जुषस्वेन्द्र स्वयुग्भिर् मत्स्वेह महे रणाय ॥४॥

२,५।५अ - इन्द्रस्य नु प्र वोचं वीर्याणि यानि चकार प्रथमानि वज्री ।
२,५।५च् - अहन्न् अहिम् अनु अपस् ततर्द प्र वक्षणा अभिनत् पर्वतानाम् ॥५॥

२,५।६अ - अहन्न् अहिं पर्वते शिश्रियाणं त्वष्टास्मै वज्रं स्वर्यं ततक्ष ।
२,५।६च् - वाश्रा इव धेनवः स्यन्दमाना अञ्जः समुद्रम् अव जग्मुर् आपः ॥६॥

२,५।७अ - वृषायमाणो अवृणीत सोमं त्रिकद्रुकेषु अपिबत् सुतस्य ।
२,५।७च् - आ सायकं मघवादत्त वज्रम् अहन्न् एनं प्रथमजाम् अहीनाम् ॥७॥


२,६।१अ - समास् त्वाग्न ऋतवो वर्धयन्तु संवत्सरा ऋषयो यानि सत्या ।
२,६।१च् - सं दिव्येन दीदिहि रोचनेन विश्वा आ माहि प्रदिशश् चतस्रः ॥१॥

२,६।२अ - सं चेध्यस्वाग्ने प्र च वर्धयेमम् उच् च तिष्ठ महते सौभगाय ।
२,६।२च् - मा ते रिषन्न् उपसत्तारो अग्ने ब्रह्माणस् ते यशसः सन्तु मान्ये ॥२॥

२,६।३अ - त्वाम् अग्ने वृणते ब्राह्मणा इमे शिवो अग्ने संवरणे भवा नः ।
२,६।३च् - सपत्नहाग्ने अभिमातिजिद् भव स्वे गये जागृह्य् अप्रयुछन् ॥३॥

२,६।४अ - क्षत्रेणाग्ने स्वेन सं रभस्व मित्रेणाग्ने मित्रधा यतस्व ।
२,६।४च् - सजातानां मध्यमेष्ठा राज्ञाम् अग्ने विहव्यो दीदिहीह ॥४॥

२,६।५अ - अति निहो अति सृधो 'त्य् अचित्तीर् अति द्विषः ।
२,६।५च् - विश्वा ह्य् अग्ने दुरिता तर त्वम् अथास्मभ्यं सहवीरं रयिं दाः ॥५॥


२,७।१अ - अघद्विष्टा देवजाता वीरुच् छपथयोपनी ।
२,७।१च् - आपो मलम् इव प्राणैक्षीत् सर्वान् मच् छपथां अधि ॥१॥

२,७।२अ - यश् च सापत्नः शपथो जाम्याः शपथश् च यः ।
२,७।२च् - ब्रह्मा यन् मन्युतः शपात् सर्वं तन् नो अधस्पदम् ॥२॥

२,७।३अ - दिवो मूलम् अवततं पृथिव्या अध्य् उत्ततम् ।
२,७।३च् - तेन सहस्रकाण्ढेन परि णः पाहि विश्वतः ॥३॥

२,७।४अ - परि मां परि मे प्रजां परि णः पाहि यद् धनम् ।
२,७।४च् - अरातिर् नो मा तारीन् मा नस् तारिशुर् अभिमातयः ॥४॥

२,७।५अ - शप्तारम् एतु शपथो यः सुहार्त् तेन नः सह ।
२,७।५च् - चक्षुर्मन्त्रस्य दुर्हार्दः पृष्टीर् अपि शृणीमसि ॥५॥


२,८।१अ - उद् अगातां भगवती विचृतौ नाम तारके ।
२,८।१च् - वि क्षेत्रियस्य मुञ्चताम् अधमं पाशम् उत्तमम् ॥१॥

२,८।२अ - अपेयं रात्र्य् उछत्व् अपोछन्त्व् अभिकृत्वरीः ।
२,८।२च् - वीरुत् क्षेत्रियनाशन्य् अप क्षेत्रियम् उछतु ॥२॥

२,८।३अ - बभ्रोर् अर्जुनकाण्ढस्य यवस्य ते पलाल्या तिलस्य तिलपिञ्ज्या ।
२,८।३च् - वीरुत् क्षेत्रियनाशन्य् अप क्षेत्रियम् उछतु ॥३॥

२,८।४अ - नमस् ते लाङ्गलेभ्यो नम ईषायुगेभ्यः ।
२,८।४च् - वीरुत् क्षेत्रियनाशन्य् अप क्षेत्रियम् उछतु ॥४॥

२,८।५अ - नमः सनिस्रसाक्षेभ्यो नमः संदेश्येभ्यः ।
२,८।५च् - नमः क्षेत्रस्य पतये वीरुत् क्षेत्रियनाशन्य् अप क्षेत्रियम् उछतु ॥५॥


२,९।१अ - दशवृक्ष मुञ्चेमं रक्षसो ग्राह्या अधि यैनं जग्राह पर्वसु ।
२,९।१च् - अथो एनम् वनस्पते जीवानां लोकम् उन् नय ॥१॥

२,९।२अ - आगाद् उद् अगाद् अयं जीवानां व्रातम् अप्य् अगात् ।
२,९।२च् - अभूद् उ पुत्राणां पिता नृणां च भगवत्तमः ॥२॥

२,९।३अ - अधीतीर् अध्य् अगाद् अयम् अधि जीवपुरा अगान् ।
२,९।३च् - शतं ह्य् अस्य भिषजः सहस्रम् उत वीरुधः ॥३॥

२,९।४अ - देवास् ते चीतिम् अविदन् ब्रह्माण उत वीरुधः ।
२,९।४च् - चीतिं ते विश्वे देवा अविदन् भूम्याम् अधि ॥४॥

२,९।५अ - यश् चकार स निष् करत् स एव सुभिषक्तमः ।
२,९।५च् - स एव तुभ्यं भेषजानि कृणवद् भिषजा शुचिः ॥५॥


२,१०।१अ - क्षेत्रियात् त्वा निरृत्या जामिशंसाद् द्रुहो मुञ्चामि वरुणस्य पाशात् ।
२,१०।१च् - अनागसं ब्रह्मणा त्वा कृणोमि शिवे ते द्यावापृथिवी उभे स्ताम् ॥१॥

२,१०।२अ - शं ते अग्निः सहाद्भिर् अस्तु शं सोमः सहौषधीभिः ।
२,१०।२च् - एवाहं त्वां क्षेत्रियान् निरृत्या जामिशंसाद् द्रुहो मुञ्चामि वरुणस्य पाशात् ।
२,१०।२ए - अनागसं ब्रह्मणा त्वा कृणोमि शिवे ते द्यावापृथिवी उभे स्ताम् ॥२॥

२,१०।३अ - शम् ते वातो अन्तरिक्षे वयो धाच् छं ते भवन्तु प्रदिशश् चतस्रः ।
२,१०।३च् - एवाहं त्वां क्षेत्रियान् निरृत्या जामिशंसाद् द्रुहो मुञ्चामि वरुणस्य पाशात् ।
२,१०।३ए - अनागसं ब्रह्मणा त्वा कृणोमि शिवे ते द्यावापृथिवी उभे स्ताम् ॥३॥

२,१०।४अ - इमा या देवीः प्रदिशश् चतस्रो वातपत्नीर् अभि सूर्यो विचष्टे ।
२,१०।४च् - एवाहं त्वां क्षेत्रियान् निरृत्या जामिशंसाद् द्रुहो मुञ्चामि वरुणस्य पाशात् ।
२,१०।४ए - अनागसं ब्रह्मणा त्वा कृनोमि शिवे ते द्यावापृथिवी उभे स्ताम् ॥४॥

२,१०।५अ - तासु त्वान्तर् जरस्य् आ दधामि प्र यक्ष्म एतु निरृतिः पराचैः ।
२,१०।५च् - एवाहं त्वां क्षेत्रियान् निरृत्या जामिशंसाद् द्रुहो मुञ्चामि वरुणस्य पाशात् ।
२,१०।५ए - अनागसं ब्रह्मणा त्वा कृणोमि शिवे ते द्यावापृथिवी उभे स्ताम् ॥५॥

२,१०।६अ - अमुक्था यक्ष्माद् दुरिताद् अवद्याद् द्रुहः पाशाद् ग्राह्याश् चोद् अमुक्थाः ।
२,१०।६च् - एवाहं त्वां क्षेत्रियान् निरृत्या जामिशंसाद् द्रुहो मुञ्चामि वरुणस्य पाशात् ।
२,१०।६ए - अनागसं ब्रह्मणा त्वा कृणोमि शिवे ते द्यावापृथिवी उभे स्ताम् ॥६॥

२,१०।७अ - अहा अरातिम् अविदः स्योनम् अप्य् अभूर् भद्रे सुकृतस्य लोके ।
२,१०।७च् - एवाहं त्वां क्षेत्रियान् निरृत्या जामिशंसाद् द्रुहो मुञ्चामि वरुणस्य पाशात् ।
२,१०।७ए - अनागसं ब्रह्मणा त्वा कृणोमि शिवे ते द्यावापृथिवी उभे स्ताम् ॥७॥

२,१०।८अ - सूर्यम् ऋतं तमसो ग्राह्या अधि देवा मुञ्चन्तो असृजन् निर् एनसः ।
२,१०।८च् - एवाहम् त्वां क्षेत्रियान् निरृत्या जामिशंसाद् द्रुहो मुञ्चामि वरुणस्य पाशात् ।
२,१०।८ए - अनागसम् ब्रह्मणा त्वा कृणोमि शिवे ते द्यावापृथिवी उभे स्ताम् ॥८॥


२,११।१अ - दूष्या दूषिर् असि हेत्या हेतिर् असि मेन्या मेनिर् असि ।
२,११।१च् - आप्नुहि श्रेयांसम् अति समं क्राम ॥१॥

२,११।२अ - स्रक्त्यो 'सि प्रतिसरो 'सि प्रत्यभिचरणो 'सि ।
२,११।२च् - आप्नुहि श्रेयांसम् अति समं क्राम ॥२॥

२,११।३अ - प्रति तम् अभि चर यो 'स्मान् द्वेष्टि यं वयं द्विष्मः ।
२,११।३च् - आप्नुहि श्रेयांसम् अति समं क्राम ॥३॥
२,११।४अ - सूरिर् असि वर्चोधा असि तनूपानो 'सि ।
२,११।४च् - आप्नुहि श्रेयांसम् अति समं क्राम ॥४॥

२,११।५अ - शुक्रो 'सि भ्राजो 'सि स्वर् असि ज्योतिर् असि ।
२,११।५च् - आप्नुहि श्रेयांसम् अति समं क्राम ॥५॥


२,१२।१अ - द्यावापृथिवी उर्व् अन्तरिक्षं क्षेत्रस्य पत्न्य् उरुगायो 'द्भुतः ।
२,१२।१च् - उतान्तरिक्षम् उरु वातगोपं त इह तप्यन्तां मयि तप्यमाने ॥१॥

२,१२।२अ - इदं देवाः शृणुत ये यज्ञिया स्थ भरद्वाजो मह्यम् उक्थानि शंसति ।
२,१२।२च् - पाशे स बद्धो दुरिते नि युज्यतां यो अस्माकं मन इदं हिनस्ति ॥२॥

२,१२।३अ - इदम् इन्द्र शृणुहि सोमप यत् त्वा हृदा शोचता जोहवीमि ।
२,१२।३च् - वृश्चामि तं कुलिशेनेव वृक्षं यो अस्माकं मन इदं हिनस्ति ॥३॥

२,१२।४अ - अशीतिभिस् तिसृभिः सामगेभिर् आदित्येभिर् वसुभिर् अङ्गिरोभिः ।
२,१२।४च् - इष्टापूर्तम् अवतु नः पितॄणाम् आमुं ददे हरसा दैव्येन ॥४॥

२,१२।५अ - द्यावापृथिवी अनु मा दीधीथां विश्वे देवासो अनु मा रभध्वम् ।
२,१२।५च् - अङ्गिरसः पितरः सोम्यासः पापम् आ ऋछत्व् अपकामस्य कर्ता ॥५॥

२,१२।६अ - अतीव यो मरुतो मन्यते नो ब्रह्म वा यो निन्दिषत् क्रियमाणम् ।
२,१२।६च् - तपूंषि तस्मै वृजिनानि सन्तु ब्रह्मद्विषं द्यौर् अभिसंतपाति ॥६॥

२,१२।७अ - सप्त प्राणान् अष्टौ मन्यस् तांस् ते वृश्चामि ब्रह्मणा ।
२,१२।७च् - अया यमस्य सादनम् अग्निदूतो अरंकृतः ॥७॥

२,१२।८अ - आ दधामि ते पदं समिद्धे जातवेदसि ।
२,१२।८च् - अग्निः शरीरं वेवेष्ट्व् असुं वाग् अपि गछतु ॥८॥


२,१३।१अ - आयुर्दा अग्ने जरसं वृणानो घृतप्रतीको घृतपृष्ठो अग्ने ।
२,१३।१च् - घृतं पीत्वा मधु चारु गव्यं पितेव पुत्रान् अभि रक्षताद् इमम् ॥१॥

२,१३।२अ - परि धत्त धत्त नो वर्चसेमम् जरामृत्युं कृणुत दीर्घम् आयुः ।
२,१३।२च् - बृहस्पतिः प्रायछद् वास एतत् सोमाय राज्ञे परिधातवा उ ॥२॥
२,१३।३अ - परीदं वासो अधिथाः स्वस्तये 'भूर् गृष्टीनाम् अभिशस्तिपा उ ।
२,१३।३च् - शतं च जीव शरदः पुरूची रायश् च पोषम् उपसंव्ययस्व ॥३॥

२,१३।४अ - एह्य् अश्मानम् आ तिष्ठाश्मा भवतु ते तनूः ।
२,१३।४च् - कृण्वन्तु विश्वे देवा आयुष्टे शरदः शतम् ॥४॥

२,१३।५अ - यस्य ते वासः प्रथमवास्यं हरामस् तं त्वा विश्वे 'वन्तु देवाः ।
२,१३।५च् - तं त्वा भ्रातरः सुवृधा वर्धमानम् अनु जायन्तां बहवः सुजातम् ॥५॥


२,१४।१अ - निःसालां धृष्णुं धिषणम् एकवाद्याम् जिघत्स्वम् ।
२,१४।१च् - सर्वाश् चण्ढस्य नप्त्यो नाशयामः सदान्वाः ॥१॥

२,१४।२अ - निर् वो गोष्ठाद् अजामसि निर् अक्षान् निर् उपानशात् ।
२,१४।२च् - निर् वो मगुन्द्या दुहितरो गृहेभ्यश् चातयामहे ॥२॥

२,१४।३अ - असौ यो अधराद् गृहस् तत्र सन्त्व् अराय्यः ।
२,१४।३च् - तत्र सेदिर् न्य् उच्यतु सर्वाश् च यातुधान्यः ॥३॥

२,१४।४अ - भूतपतिर् निर् अजत्व् इन्द्रश् चेतः सदान्वाः ।
२,१४।४च् - गृहस्य बुध्न आसीनास् ता इन्द्रो वज्रेणाधि तिष्ठतु ॥४॥

२,१४।५अ - यदि स्थ क्षेत्रियाणां यदि वा पुरुषेषिताः ।
२,१४।५च् - यदि स्थ दस्युभ्यो जाता नश्यतेतः सदान्वाः ॥५॥

२,१४।६अ - परि धामान्य् आसाम् आशुर् गाष्ठाम् इवासरम् ।
२,१४।६च् - अजैषं सर्वान् आजीन् वो नश्यतेतः सदान्वाः ॥६॥


२,१५।१अ - यथा द्यौश् च पृथिवी च न बिभीतो न रिष्यतः ।
२,१५।१च् - एवा मे प्राण मा बिभेः ॥१॥

२,१५।२अ - यथाहश् च रात्री च न बिभीतो न रिष्यतः ।
२,१५।२च् - एवा मे प्राण मा बिभेः ॥२॥

२,१५।३अ - यथा सूर्यश् च चन्द्रश् च न बिभीतो न रिष्यतः ।
२,१५।३च् - एवा मे प्राण मा बिभेः ॥३॥

२,१५।४अ - यथा ब्रह्म च क्षत्रं च न बिभीतो न रिष्यतः ।
२,१५।४च् - एवा मे प्राण मा बिभेः ॥४॥

२,१५।५अ - यथा सत्यं चानृतं च न बिभीतो न रिष्यतः ।
२,१५।५च् - एवा मे प्राण मा बिभेः ॥५॥

२,१५।६अ - यथा भूतं च भव्यं च न बिभीतो न रिष्यतः ।
२,१५।६च् - एवा मे प्राण मा बिभेः ॥६॥


२,१६।१अ - प्राणापानौ मृत्योर् मा पातं स्वाहा ॥१॥

२,१६।२अ - द्यावापृथिवी उपश्रुत्या मा पातं स्वाहा ॥२॥

२,१६।३अ - सूर्य चक्षुषा मा पाहि स्वाहा ॥३॥

२,१६।४अ - अग्ने वैश्वानर विश्वैर् मा देवैः पाहि स्वाहा ॥४॥

२,१६।५अ - विश्वम्भर विश्वेन मा भरसा पाहि स्वाहा ॥५॥


२,१७।१अ - ओजो 'स्य् ओजो मे दाः स्वाहा ।१॥

२,१७।२अ - सहो 'सि सहो मे दाः स्वाहा ॥२॥

२,१७।३अ - बलम् असि बलं दाः स्वाहा ॥३॥

२,१७।४अ - आयुर् अस्य् आयुर् मे दाः स्वाह ॥४॥

२,१७।५अ - श्रोत्रम् असि श्रोत्रं मे दाः स्वाह ॥५॥

२,१७।६अ - चक्षुर् असि चक्षुर् मे दाः स्वाह ॥६॥

२,१७।७अ - परिपाणम् असि परिपाणं मे दाः स्वाह ॥७॥


२,१८।१अ - भ्रातृव्यक्षयणम् असि भ्रातृव्यचातनं मे दाः स्वाह ॥१॥

२,१८।२अ - सपत्नक्षयणम् असि सपत्नचातनं मे दाः स्वाह ॥२॥

२,१८।३अ - अरायक्षयणम् अस्य् अरायचातनं मे दाः स्वाह ॥३॥

२,१८।४अ - पिशाचक्षयणम् असि पिशाचचातनं मे दाः स्वाह ॥४॥

२,१८।५अ - सदान्वाक्षयणम् असि सदान्वाचातनं मे दाः स्वाह ॥५॥


२,१९।१अ - अग्ने यत् ते तपस् तेन तं प्रति तप यो 'स्मान् द्वेष्टि यं वयं द्विष्मः ॥१॥

२,१९।२अ - अग्ने यत् ते हरस् तेन तं प्रति हर यो 'स्मान् द्वेष्टि यं वयं द्विष्मः ॥२॥

२,१९।३अ - अग्ने यत् ते 'र्चिस् तेन तं प्रत्य् अर्च यो 'स्मान् द्वेष्टि यं वयं द्विष्मः ॥३॥

२,१९।४अ - अग्ने यत् ते शोचिस् तेन तं प्रति शोच यो 'स्मान् द्वेष्टि यं वयं द्विष्मः ॥४॥

२,१९।५अ - अग्ने यत् ते तेजस् तेन तम् अतेजसं कृणु यो 'स्मान् द्वेष्टि यं वयं द्विष्मः ॥५॥


२,२०।१अ - वायो यत् ते तपस् तेन तं प्रति तप यो 'स्मान् द्वेष्टि यं वयं द्विष्मः ॥१॥

२,२०।२अ - वायो यत् ते हरस् तेन तं प्रति हर यो 'स्मान् द्वेष्टि यं वयं द्विष्मः ॥२॥

२,२०।३अ - वायो यत् ते 'र्चिस् तेन तं प्रत्य् अर्च यो 'स्मान् द्वेष्टि यं वयं द्विष्मः ॥३॥

२,२०।४अ - वायो यत् ते शोचिस् तेन तं प्रति शोच यो 'स्मान् द्वेष्टि यं वयं द्विष्मः ॥४॥

२,२०।५अ - वायो यत् ते तेजस् तेन तम् अतेजसं कृणु यो 'स्मान् द्वेष्टि यं वयं द्विष्मः ॥५॥


२,२१।१अ - सूर्य यत् ते तपस् तेन तं प्रति तप यो 'स्मान् द्वेष्टि यं वयं द्विष्मः ॥१॥

२,२१।२अ - सूर्य यत् ते हरस् तेन तं प्रति हर यो 'स्मान् द्वेष्टि यं वयं द्विष्मः ॥२॥

२,२१।३अ - सूर्य यत् ते 'र्चिस् तेन तं प्रत्य् अर्च यो 'स्मान् द्वेष्टि यं वयं द्विष्मः ॥३॥

२,२१।४अ - सूर्य यत् ते शोचिस् तेन तं प्रति शोच यो 'स्मान् द्वेष्टि यं वयं द्विष्मः ॥४॥

२,२१।५अ - सूर्य यत् ते तेजस् तेन तम् अतेजसं कृणु यो 'स्मान् द्वेष्टि यं वयं द्विष्मः ॥५॥


२,२२।१अ - चन्द्र यत् ते तपस् तेन तं प्रति तप यो 'स्मान् द्वेष्टि यं वयं द्विष्मः ॥१॥

२,२२।२अ - चन्द्र यत् ते हरस् तेन तं प्रति हर यो 'स्मान् द्वेष्टि यं वयं द्विष्मः ॥२॥

२,२२।३अ - चन्द्र यत् ते 'र्चिस् तेन तं प्रत्य् अर्च यो 'स्मान् द्वेष्टि यं वयं द्विष्मः ॥३॥

२,२२।४अ - चन्द्र यत् ते शोचिस् तेन तं प्रति शोच यो 'स्मान् द्वेष्टि यं वयं द्विष्मः ॥४॥

२,२२।५अ - चन्द्र यत् ते तेजस् तेन तम् अतेजसं कृणु यो 'स्मान् द्वेष्टि यं वयं द्विष्मः ॥५॥


२,२३।१अ - आपो यद् वस् तपस् तेन तं प्रति तपत यो 'स्मान् द्वेष्टि यं वयं द्विष्मः ॥१॥

२,२३।२अ - आपो यद् वस् हरस् तेन तं प्रति हरत यो 'स्मान् द्वेष्टि यं वयं द्विष्मः ॥२॥

२,२३।३अ - आपो यद् वस् 'र्चिस् तेन तं प्रति अर्चत यो 'स्मान् द्वेष्टि यं वयं द्विष्मः ॥३॥

२,२३।४अ - आपो यद् वस् शोचिस् तेन तं प्रति शोचत यो 'स्मान् द्वेष्टि यं वयं द्विष्मः ॥४॥

२,२३।५अ - आपो यद् वस् तेजस् तेन तम् अतेजसं कृणुत यो 'स्मान् द्वेष्टि यं वयं द्विष्मः ॥५॥


२,२४।१अ - शेरभक शेरभ पुनर् वो यन्तु यातवः पुनर् हेतिः किमीदिनः ।
२,२४।१च् - यस्य स्थ तम् अत्त यो वो प्राहैत् तम् अत्त स्वा मांसान्य् अत्त ॥१॥

२,२४।२अ - शेवृधक शेवृध पुनर् वो यन्तु यातवः पुनर् हेतिः किमीदिनः ।
२,२४।२च् - यस्य स्थ तम् अत्त यो वो प्राहैत् तम् अत्त स्वा मांसान्य् अत्त ॥२॥

२,२४।३अ - म्रोकानुम्रोक पुनर् वो यन्तु यातवः पुनर् हेतिः किमीदिनः ।
२,२४।३च् - यस्य स्थ तम् अत्त यो वो प्राहैत् तम् अत्त स्वा मांसान्य् अत्त ॥३॥

२,२४।४अ - सर्पानुसर्प पुनर् वो यन्तु यातवः पुनर् हेतिः किमीदिनः ।
२,२४।४च् - यस्य स्थ तम् अत्त यो वो प्राहैत् तम् अत्त स्वा मांसान्य् अत्त ॥४॥

२,२४।५अ - जूर्णि पुनर् वो यन्तु यातवः पुनर् हेतिः किमीदिनः ।
२,२४।५च् - यस्य स्थ तम् अत्त यो वो प्राहैत् तम् अत्त स्वा मांसान्य् अत्त ॥५॥

२,२४।६अ - उपब्दे पुनर् वो यन्तु यातवः पुनर् हेतिः किमीदिनः ।
२,२४।६च् - यस्य स्थ तम् अत्त यो वो प्राहैत् तम् अत्त स्वा मांसान्य् अत्त ॥६॥

२,२४।७अ - अर्जुनि पुनर् वो यन्तु यातवः पुनर् हेतिः किमीदिनः ।
२,२४।७च् - यस्य स्थ तम् अत्त यो वो प्राहैत् तम् अत्त स्वा मांसान्य् अत्त ॥७॥

२,२४।८अ - भरूजि पुनर् वो यन्तु यातवः पुनर् हेतिः किमीदिनः ।
२,२४।८च् - यस्य स्थ तम् अत्त यो वो प्राहैत् तम् अत्त स्वा मांसान्य् अत्त ॥८॥


२,२५।१अ - शं नो देवी पृश्निपर्ण्य् अशं निरृत्या अकः ।
२,२५।१च् - उग्रा हि कण्वजम्भनी ताम् अभक्षि सहस्वतीम् ॥१॥

२,२५।२अ - सहमानेयं प्रथमा पृश्निपर्ण्य् अजायत ।
२,२५।२च् - तयाहं दुर्णाम्नां शिरो वृश्चामि शकुनेर् इव ॥२॥

२,२५।३अ - अरायम् असृक्पावानं यश् च स्फातिं जिहीर्षति ।
२,२५।३च् - गर्भादं कण्वं नाशय पृश्निपर्णि सहस्व च ॥३॥

२,२५।४अ - गिरिम् एनां आ वेशय कण्वान् जीवितयोपनान् ।
२,२५।४च् - तांस् त्वं देवि पृश्निपर्ण्य् अग्निर् इवानुदहन्न् इहि ॥४॥

२,२५।५अ - पराच एनान् प्र णुद कण्वान् जीवितयोपनान् ।
२,२५।५च् - तमांसि यत्र गछन्ति तत् क्रव्यादो अजीगमम् ॥५॥


२,२६।१अ - एह यन्तु पशवो ये परेयुर् वायुर् येषां सहचारं जुजोष ।
२,२६।१च् - त्वष्टा येषां रूपधेयानि वेदास्मिन् तान् गोष्ठे सविता नि यछतु ॥१॥

२,२६।२अ - इमं गोष्ठं पशवः सं स्रवन्तु बृहस्पतिर् आ नयतु प्रजानन् ।
२,२६।२च् - सिनीवाली नयत्व् आग्रम् एषाम् आजग्मुषो अनुमते नि यछ ॥२॥

२,२६।३अ - सं सं स्रवन्तु पशवः सम् अश्वाः सम् उ पूरुषाः ।
२,२६।३च् - सं धान्यस्य या स्फातिः संस्राव्येण हविषा जुहोमि ॥३॥

२,२६।४अ - सं सिञ्चामि गवां क्षीरम् सम् आज्येन बलम् रसम् ।
२,२६।४च् - संसिक्ता अस्माकं वीरा ध्रुवा गावो मयि गोपतौ ॥४॥

२,२६।५अ - आ हरामि गवां क्षीरम् आहार्षं धान्यं रसम् ।
२,२६।५च् - आहृता अस्माकं वीरा आ पत्नीर् इदम् अस्तकम् ॥५॥


२,२७।१अ - नेच् छत्रुः प्राशं जयाति सहमानाभिभूर् असि ।
२,२७।१च् - प्राशं प्रतिप्राशो जह्य् अरसान् कृण्व् ओषधे ॥१॥

२,२७।२अ - सुपर्णस् त्वान्व् अविन्दत् सूकरस् त्वाखनन् नसा ।
२,२७।२च् - प्राशं प्रतिप्राशो जह्य् अरसान् कृण्व् ओषधे ॥२॥

२,२७।३अ - इन्द्रो ह चक्रे त्वा बाहाव् असुरेभ्य स्तरीतवे ।
२,२७।३च् - प्राशं प्रतिप्राशो जह्य् अरसान् कृण्व् ओषधे ॥३॥

२,२७।४अ - पाटाम् इन्द्रो व्य् आश्नाद् असुरेभ्य स्तरीतवे ।
२,२७।४च् - प्राशं प्रतिप्राशो जह्य् अरसान् कृण्व् ओषधे ॥४॥

२,२७।५अ - तयाहं शत्रून्त् साक्ष इन्द्रः सालावृकां इव ।
२,२७।५च् - प्राशं प्रतिप्राशो जह्य् अरसान् कृण्व् ओषधे ॥५॥

२,२७।६अ - रुद्र जलाषभेषज नीलशिखण्ढ कर्मकृत् ।
२,२७।६च् - प्राशं प्रतिप्राशो जह्य् अरसान् कृण्व् ओषधे ॥६॥

२,२७।७अ - तस्य प्राशं त्वं जहि यो न इन्द्राभिदासति ।
२,२७।७च् - अधि नो ब्रूहि शक्तिभिः प्राशि माम् उत्तरं कृधि ॥७॥


२,२८।१अ - तुभ्यम् एव जरिमन् वर्धताम् अयम् मेमम् अन्ये मृत्यवो हिंसिषुः शतं ये ।
२,२८।१च् - मातेव पुत्रं प्रमना उपस्थे मित्र एनं मित्रियात् पात्व् अंहसः ॥१॥

२,२८।२अ - मित्र एनं वरुणो वा रिशादा जरामृत्युं कृणुतां संविदानौ ।
२,२८।२च् - तद् अग्निर् होता वयुनानि विद्वान् विश्वा देवानां जनिमा विवक्ति ॥२॥

२,२८।३अ - त्वम् ईशिषे पशूनाम् पार्थिवानां ये जाता उत वा ये जनित्राः ।
२,२८।३च् - मेमं प्राणो हासीन् मो अपानो मेमं मित्रा वधिषुर् मो अमित्राः ॥३॥

२,२८।४अ - द्यौष् ट्वा पिता पृथिवी माता जरामृत्युं कृणुतां संविदाने ।
२,२८।४च् - यथा जीवा अदितेर् उपस्थे प्राणापानाभ्यां गुपितः शतं हिमाः ॥४॥

२,२८।५अ - इमम् अग्ने आयुषे वर्चसे नय प्रियं रेतो वरुण मित्र राजन् ।
२,२८।५च् - मातेवास्मा अदिते शर्म यछ विश्वे देवा जरदष्टिर् यथासत् ॥५॥


२,२९।१अ - पार्थिवस्य रसे देवा भगस्य तन्वो बले ।
२,२९।१च् - आयुष्यम् अस्मा अग्निः सूर्यो वर्च आ धाद् बृहस्पतिः ॥१॥

२,२९।२अ - आयुर् अस्मै धेहि जातवेदः प्रजां त्वष्टर् अधिनिधेहि अस्मै ।
२,२९।२च् - रायस् पोषं सवितर् आ सुवास्मै शतं जीवाति शरदस् तवायम् ॥२॥

२,२९।३अ - आशीर् ण ऊर्जम् उत सौप्रजास्त्वं दक्षं धत्तं द्रविणं सचेतसौ ।
२,२९।३च् - जयम् क्षेत्राणि सहसायम् इन्द्र कृण्वानो अन्यान् अधरान्त् सपत्नान् ॥३॥

२,२९।४अ - इन्द्रेण दत्तो वरुणेन शिष्टो मरुद्भिर् उग्रः प्रहितो नो आगन् ।
२,२९।४च् - एष वां द्यावापृथिवी उपस्थे मा क्षुधन् मा तृषत् ॥४॥

२,२९।५अ - ऊर्जम् अस्मा ऊर्जस्वती धत्तं पयो अस्मै पयस्वती धत्तम् ।
२,२९।५च् - ऊर्जम् अस्मै द्यावपृथिवी अधातां विश्वे देवा मरुत ऊर्जम् आपः ॥५॥

२,२९।६अ - शिवाभिष् टे हृदयं तर्पयाम्य् अनमीवो मोदिषीष्ठाः सुवर्चाः ।
२,२९।६च् - सवासिनौ पिबतां मन्थम् एतम् अश्विनो रूपं परिधाय मायाम् ॥६॥

२,२९।७अ - इन्द्र एतां ससृजे विद्धो अग्र ऊर्जां स्वधाम् अजरां सा त एषा ।
२,२९।७च् - तया त्वं जीव शरदः सुवर्चा मा त आ सुस्रोद् भिषजस् ते अक्रन् ॥७॥


२,३०।१अ - यथेदं भूम्या अधि तृणं वातो मथायति ।
२,३०।१च् - एवा मथ्नामि ते मनो यथा मां कामिन्य् असो यथा मन् नापगा असः ॥१॥

२,३०।२अ - सं चेन् नयाथो अश्विना कामिना सं च वक्षथः ।
२,३०।२च् - सं वां भगासो अग्मत सं चित्तानि सम् उ व्रता ॥२॥

२,३०।३अ - यत् सुपर्णा विवक्षवो अनमीवा विवक्षवः ।
२,३०।३च् - तत्र मे गछताद् धवं शल्य इव कुल्मलं यथा ॥३॥

२,३०।४अ - यद् अन्तरं तद् बाह्यं यद् बाह्यं तद् अन्तरम् ।
२,३०।४च् - कन्यानां विश्वरूपाणां मनो गृभायौषधे ॥४॥

२,३०।५अ - एयम् अगन् पतिकामा जनिकामो 'हम् आगमम् ।
२,३०।५च् - अश्वः कनिक्रदद् यथा भगेनाहं सहागमम् ॥५॥


२,३१।१अ - इन्द्रस्य या मही दृषत् क्रिमेर् विश्वस्य तर्हणी ।
२,३१।१च् - तया पिनष्मि सं क्रिमीन् दृषदा खल्वां इव ॥१॥

२,३१।२अ - दृष्टम् अदृष्टम् अतृहम् अथो कुरूरुम् अतृहम् ।
२,३१।२च् - अल्गण्ढून्त् सर्वान् छलुनान् क्रिमीन् वचसा जम्भयामसि ॥२॥

२,३१।३अ - अल्गण्ढून् हन्मि महता वधेन दूना अदूना अरसा अभूवन् ।
२,३१।३च् - शिष्टान् अशिष्टान् नि तिरामि वाचा यथा क्रिमीणां नकिर् उछिषातै ॥३॥

२,३१।४अ - अन्वान्त्र्यं शीर्षण्यम् अथो पार्ष्टेयं क्रिमीन् ।
२,३१।४च् - अवस्कवं व्यध्वरं क्रिमीन् वचसा जम्भयामसि ॥४॥

२,३१।५अ - ये क्रिमयः पर्वतेशु वनेष्व् ओषधीषु पशुष्व् अप्स्व् अन्तः ।
२,३१।५च् - ये अस्माकं तन्वम् आविविशुः सर्वं तद् धन्मि जनिम क्रिमीणाम् ॥५॥


२,३२।१अ - उद्यन्न् आदित्यः क्रिमीन् हन्तु निम्रोचन् हन्तु रश्मिभिः ।
२,३२।१च् - ये अन्तः क्रिमयो गवि ॥१॥

२,३२।२अ - विश्वरूपं चतुरक्षं क्रिमिं सारङ्गम् अर्जुनम् ।
२,३२।२च् - शृणाम्य् अस्य पृष्टीर् अपि वृश्चामि यच् छिरः ॥२॥

२,३२।३अ - अत्रिवद् वः क्रिमयो हन्मि कण्ववज् जमदग्निवत् ।
२,३२।३च् - अगस्त्यस्य ब्रह्मणा सं पिनष्म्य् अहं क्रिमीन् ॥३॥

२,३२।४अ - हतो राजा क्रिमीणाम् उतैषां स्थपतिर् हतः ।
२,३२।४च् - हतो हतमाता क्रिमिर् हतभ्राता हतस्वसा ॥४॥

२,३२।५अ - हतासो अस्य वेशसो हतासः परिवेशसः ।
२,३२।५च् - अथो ये क्षुल्लका इव सर्वे ते क्रिमयो हताः ॥५॥

२,३२।६अ - प्र ते शृणामि शृङ्गे याभ्यां वितुदायसि ।
२,३२।६च् - भिनाद्मि ते कुषुम्भं यस् ते विषधानः ॥६॥


२,३३।१अ - अक्षीभ्यां ते नासिकाभ्यां कर्णाभ्यां छुबुकाद् अधि ।
२,३३।१च् - यक्ष्मं शीर्षण्यं मस्तिष्काज् जिह्वाया वि वृहामि ते ॥१॥

२,३३।२अ - ग्रीवाभ्यस् त उष्णिहाभ्यः कीकसाभ्यो अनूक्यात् ।
२,३३।२च् - यक्ष्मं दोषण्यम् अंसाभ्यां बाहुभ्यां वि वृहामि ते ॥२॥

२,३३।३अ - हृदयात् ते परि क्लोम्नो हलीक्ष्णात् पार्श्वाभ्याम् ।
२,३३।३च् - यक्ष्मं मतस्नाभ्यां प्लीह्नो यक्नस् ते वि वृहामसि ॥३॥

२,३३।४अ - आन्त्रेभ्यस् ते गुदाभ्यो वनिष्ठोर् उदराद् अधि ।
२,३३।४च् - यक्ष्मं कुक्षिभ्याम् प्लाशेर् नाभ्या वि वृहामि ते ॥४॥

२,३३।५अ - ऊरुभ्यां ते अष्ठीवद्भ्यां पार्ष्णिभ्यां प्रपदाभ्याम् ।
२,३३।५च् - यक्ष्मं भसद्यं श्रोणिभ्यां भासदं भंससो वि वृहामि ते ॥५॥

२,३३।६अ - अस्थिभ्यस् ते मज्जभ्यः स्नावभ्यो धमनिभ्यः ।
२,३३।६च् - यक्ष्मम् पाणिभ्याम् अङ्गुलिभ्यो नखेभ्यो वि वृहामि ते ॥६॥

२,३३।७अ - अङ्गेअङ्गे लोम्निलोम्नि यस् ते पर्वणिपर्वणि ।
२,३३।७च् - यक्ष्मं त्वचस्यं ते वयं कश्यपस्य वीबर्हेण विष्वञ्चं वि वृहामसि ॥७॥


२,३४।१अ - य ईशे पशुपतिः पशूनाम् चतुष्पदाम् उत यो द्विपदाम् ।
२,३४।१च् - निष्क्रीतः स यज्ञियं भागम् एतु रायस् पोषा यजमानं सचन्ताम् ॥१॥

२,३४।२अ - प्रमुञ्चन्तो भुवनस्य रेतो गातुं धत्त यजमानाय देवाः ।
२,३४।२च् - उपाकृतं शशमानं यद् अस्थात् प्रियम् देवानाम् अप्य् एतु पाथः ॥२॥

२,३४।३अ - ये बध्यमानम् अनु दीध्याना अन्वैक्षन्त मनसा चक्षुषा च ।
२,३४।३च् - अग्निष् टान् अग्रे प्र मुमोक्तु देवो विश्वकर्मा प्रजया संरराणः ॥३॥

२,३४।४अ - ये ग्राम्याः पशवो विश्वरूपा विरूपाः सन्तो बहुधैकरूपाः ।
२,३४।४च् - वायुष् टान् अग्रे प्र मुमोक्तु देवः प्रजापतिः प्रजया संरराणः ॥४॥

२,३४।५अ - प्रजानन्तः प्रति गृह्णन्तु पूर्वे प्राणम् अङ्गेभ्यः पर्य् आचरन्तम् ।
२,३४।५च् - दिवं गछ प्रति तिष्ठा शरीरैः स्वर्गं याहि पथिभिर् देवयानैः ॥५॥


२,३५।१अ - ये भक्षयन्तो न वसून्य् आनृधुर् यान् अग्नयो अन्वतप्यन्त धिष्ण्याः ।
२,३५।१च् - या तेषाम् अवया दुरिष्टिः स्विष्टिं नस् तां कृणवद् विश्वकर्मा ॥१॥

२,३५।२अ - यज्ञपतिम् ऋषयः एनसाहुर् निर्भक्तं प्रजा अनुतप्यमानम् ।
२,३५।२च् - मथव्यान्त् स्तोकान् अप यान् रराध सं नष् टेभिः सृजतु विश्वकर्मा ॥२॥

२,३५।३अ - अदान्यान्त् सोमपान् मन्यमानो यज्ञस्य विद्वान्त् समये न धीरः ।
२,३५।३च् - यद् एनश् चकृवान् बद्ध एष तं विश्वकर्मन् प्र मुञ्चा स्वस्तये ॥३॥

२,३५।४अ - घोरा ऋषयो नमो अस्त्व् एभ्यश् चक्षुर् यद् एषां मनसश् च सत्यम् ।
२,३५।४च् - बृहस्पतये महिष द्युमन्न् नमो विश्वकर्मन् नमस् ते पाह्य् अस्मान् ॥४॥

२,३५।५अ - यज्ञस्य चक्षुः प्रभृतिर् मुखं च वाचा श्रोत्रेण मनसा जुहोमि ।
२,३५।५च् - इमं यज्ञं विततं विश्वकर्मणा देवा यन्तु सुमनस्यमानाः ॥५॥


२,३६।१अ - आ नो अग्ने सुमतिं संभलो गमेद् इमां कुमारीं सह नो भगेन ।
२,३६।१च् - जुष्टा वरेषु समनेषु वल्गुर् ओषं पत्या सौभगम् अस्तु अस्यै ॥१॥

२,३६।२अ - सोमजुष्टं ब्रह्मजुष्टम् अर्यम्ना संभृतं भगम् ।
२,३६।२च् - धातुर् देवस्य सत्येन कृणोमि पतिवेदनम् ॥२॥

२,३६।३अ - इयम् अग्ने नारी पतिम् विदेष्ट सोमो हि राजा सुभगां कृणोति ।
२,३६।३च् - सुवाना पुत्रान् महिषी भवाति गत्वा पतिं सुभगा वि राजतु ॥३॥

२,३६।४अ - यथाखरो मघवंश् चारुर् एष प्रियो मृगाणां सुषदा बभूव ।
२,३६।४च् - एवा भगस्य जुष्टेयम् अस्तु नारी संप्रिया पत्याविराधयन्ती ॥४॥

२,३६।५अ - भगस्य नावम् आ रोह पूर्णाम् अनुपदस्वतीम् ।
२,३६।५च् - तयोपप्रतारय यो वरः प्रतिकाम्यः ॥५॥

२,३६।६अ - आ क्रन्दय धनपते वरम् आमनसं कृणु ।
२,३६।६च् - सर्वं प्रदक्षिणं कृणु यो वरः प्रतिकाम्यः ॥६॥

२,३६।७अ - इदं हिरण्यं गुल्गुल्व् अयम् अउक्षो अथो भगः ।
२,३६।७च् - एते पतिभ्यस् त्वाम् अदुः प्रतिकामाय वेत्तवे ॥७
२,३६।७ए - आ ते नयतु सविता नयतु पतिर् यः प्रतिकाम्यः ।

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP