अथर्ववेदः - काण्डं ११

अथर्ववेदात देवतांची स्तुति तसेच जादू, चमत्कार, चिकित्सा, विज्ञान आणि दर्शनाचे मन्त्र सुद्धा आहेत.  


११,१।१अ - अग्ने जायस्वादितिर् नाथितेयं ब्रह्मौदनं पचति पुत्रकामा ।
११,१।१च् - सप्तऋषयो भूतकृतस् ते त्वा मन्थन्तु प्रजया सहेह ॥१॥

११,१।२अ - कृणुत धूमं वृषणः सखायो 'द्रोघाविता वाचम् अछ ।
११,१।२च् - अयम् अग्निः पृतनाषाट् सुवीरो येन देवा असहन्त दस्यून् ॥२॥

११,१।३अ - अग्ने 'जनिष्ठा महते वीर्याय ब्रह्मौदनाय पक्तवे जातवेदः ।
११,१।३च् - सप्तऋषयो भूतकृतस् ते त्वाजीजनन्न् अस्यै रयिं सर्ववीरं नि यछ ॥३॥

११,१।४अ - समिद्धो अग्ने समिधा सम् इध्यस्व विद्वान् देवान् यज्ञियां एह वक्षः ।
११,१।४च् - तेभ्यो हविः श्रपयं जातवेद उत्तमं नाकम् अधि रोहयेमम् ॥४॥

११,१।५अ - त्रेधा भागो निहितो यः पुरा वो देवानां पितॄणां मर्त्यानाम् ।
११,१।५च् - अंशां जानीध्वं वि भजामि तान् वो यो देवानां स इमां पारयाति ॥५॥

११,१।६अ - अग्ने सहस्वान् अभिभूर् अभीद् असि नीचो न्य् उब्ज द्विषतः सपत्नान् ।
११,१।६च् - इयं मात्रा मीयमाना मिता च सजातांस् ते बलिहृतः कृणोतु ॥६॥

११,१।७अ - साकं सजातैः पयसा सहैध्य् उद् उब्जैनां महते वीर्याय ।
११,१।७च् - ऊर्ध्वो नाकस्याधि रोह विष्टपं स्वर्गो लोक इति यं वदन्ति ॥७॥

११,१।८अ - इयं मही प्रति गृह्णातु चर्म पृथिवी देवी सुमनस्यमाना ।
११,१।८च् - अथ गछेम सुकृतस्य लोकम् ॥८॥

११,१।९अ - एतौ ग्रावाणौ सयुजा युङ्धि चर्मणि निर्बिन्ध्य् अंशून् यजमानाय साधु ।
११,१।९च् - अवघ्नती नि जहि य इमां पृतन्यव ऊर्ध्वं प्रजाम् उद्भरन्त्य् उद् ऊह ॥९॥

११,१।१०अ - गृहाण ग्रावाणौ सकृतौ वीर हस्त आ ते देवा यज्ञिया यज्ञम् अगुः ।
११,१।१०च् - त्रयो वरा यतमांस् त्वं वृणीषे तास् ते समृद्धीर् इह राधयामि ॥१०॥ {१}

११,१।११अ - इयं ते धीतिर् इदम् उ ते जनित्रं गृह्णातु त्वाम् अदितिः शूरपुत्रा ।
११,१।११च् - परा पुनीहि य इमां पृतन्यवो 'स्यै रयिं सर्ववीरं नि यछ ॥११॥

११,१।१२अ - उपश्वसे द्रुवये सीदता यूयं वि विच्यध्वं यज्ञियासस् तुषैः ।
११,१।१२च् - श्रिया समानान् अति सर्वान्त् स्यामाधस्पदं द्विषतस् पादयामि ॥१२॥

११,१।१३अ - परेहि नारि पुनर् एहि क्षिप्रम् अपां त्वा गोष्ठो अध्य् अरुक्षद् भराय ।
११,१।१३च् - तासां गृह्णीताद् यतमा यज्ञिया असन् विभाज्य धीरीतरा जहीतात् ॥१३॥

११,१।१४अ - एमा अगुर् योषितः शुम्भमाना उत् तिष्ठ नारि तवसं रभस्व ।
११,१।१४च् - सुपत्नी पत्या प्रजया प्रजावत्य् आ त्वागन् यज्ञः प्रति कुम्भं गृभाय ॥१४॥

११,१।१५अ - ऊर्जो भागो निहितो यः पुरा व ऋषिप्रशिष्टाप आ भरैताः ।
११,१।१५च् - अयं यज्ञो गातुविन् नाथवित् प्रजाविद् उग्रः पशुविद् वीरविद् वो अस्तु ॥१५॥

११,१।१६अ - अग्ने चरुर् यज्ञियस् त्वाध्य् अरुक्षच् छुचिस् तपिष्ठस् तपसा तपैनम् ।
११,१।१६च् - आर्षेया दैवा अभिसंगत्य भागम् इमं तपिष्ठा ऋतुभिस् तपन्तु ॥१६॥

११,१।१७अ - शुद्धाः पूता योषितो यज्ञिया इमा आपश् चरुम् अव सर्पन्तु शुभ्राः ।
११,१।१७च् - अदुः प्रजां बहुलां पशून् नः पक्तौदनस्य सुकृताम् एतु लोकम् ॥१७॥

११,१।१८अ - ब्रह्मणा शुद्धा उत पूता घृतेन सोमस्यांशवस् तण्ढुला यज्ञिया इमे ।
११,१।१८च् - अपः प्र विशत प्रति गृह्णातु वश् चरुर् इमं पक्त्वा सुकृताम् एत लोकम् ॥१८॥

११,१।१९अ - उरुः प्रथस्व महता महिम्ना सहस्रपृष्ठः सुकृतस्य लोके ।
११,१।१९च् - पितामहाः पितरः प्रजोपजाहं पक्ता पञ्चदशस् ते अस्मि ॥१९॥

११,१।२०अ - सहस्रपृष्ठः शतधारो अक्षितो ब्रह्मौदनो देवयानः स्वर्गः ।
११,१।२०च् - अमूंस् त आ दधामि प्रजया रेषयैनान् बलिहाराय मृढतान् मह्यम् एव ॥२०॥ {२}

११,१।२१अ - उदेहि वेदिं प्रजया वर्धयैनां नुदस्व रक्षः प्रतरं धेह्य् एनाम् ।
११,१।२१च् - श्रिया समानान् अति सर्वान्त् स्यामाधस्पदं द्विषतस् पादयामि ॥२१॥

११,१।२२अ - अभ्यावर्तस्व पशुभिः सहैनां प्रत्यङ्ङ् एनां देवताभिः सहैधि ।
११,१।२२च् - मा त्वा प्रापच् छपथो माभिचारः स्वे क्षेत्रे अनमीवा वि राज ॥२२॥

११,१।२३अ - ऋतेन तष्टा मनसा हितैषा ब्रह्मौदनस्य विहिता वेदिर् अग्रे ।
११,१।२३च् - अंसध्रीं शुद्धाम् उप धेहि नारि तत्रौदनं सादय दैवानाम् ॥२३॥

११,१।२४अ - अदितेर् हस्तां स्रुचम् एतां द्वितीयां सप्तऋषयो भूतकृतो याम् अकृण्वन् ।
११,१।२४च् - सा गात्राणि विदुष्य् ओदनस्य दर्विर् वेद्याम् अध्य् एनं चिनोतु ॥२४॥

११,१।२५अ - शृतं त्वा हव्यम् उप सीदन्तु दैवा निःसृप्याग्नेः पुनर् एनान् प्र सीद ।
११,१।२५च् - सोमेन पूतो जठरे सीद ब्रह्मणाम् आर्षेयास् ते मा रिषन् प्राशितारः ॥२५॥

११,१।२६अ - सोम राजन्त् संज्ञानम् आ वपैभ्यः सुब्राह्मणा यतमे त्वोपसीदान् ।
११,१।२६च् - ऋषीन् आर्षेयांस् तपसो 'धि जातान् ब्रह्मौदने सुहवा जोहवीमि ॥२६॥

११,१।२७अ - शुद्धाः पूता योषितो यज्ञिया इमा ब्रह्मणां हस्तेषु प्रपृथक् सादयामि ।
११,१।२७च् - यत्काम इदम् अभिषिञ्चामि वो 'हम् इन्द्रो मरुत्वान्त् स ददाद् इदं मे ॥२७॥

११,१।२८अ - इदं मे ज्योतिर् अमृतं हिरण्यं पक्वं क्षेत्रात् कामदुघा म एषा ।
११,१।२८च् - इदं धनं नि दधे ब्राह्मणेषु कृण्वे पन्थां पितृषु यः स्वर्गः ॥२८॥

११,१।२९अ - अग्नौ तुषान् आ वप जातवेदसि परः कम्बूकां अप मृढ्डि दूरम् ।
११,१।२९च् - एतं शुश्रुम गृहराजस्य भागम् अथो विद्म निरृतेर् भागधेयम् ॥२९॥

११,१।३०अ - श्राम्यतः पचतो विद्धि सुन्वतः पन्थां स्वर्गम् अधि रोहयैनम् ।
११,१।३०च् - येन रोहात् परम् आपद्य यद् वय उत्तमं नाकं परमं व्योम ॥३०॥ {३}

११,१।३१अ - बभ्रेर् अध्वर्यो मुखम् एतद् वि मृढ्ढ्ह्य् आज्याय लोकं कृणुहि प्रविद्वान् ।
११,१।३१च् - घृतेन गात्रानु सर्वा वि मृढ्डि कृण्वे पन्थां पितृषु यः स्वर्गः ॥३१॥

११,१।३२अ - बभ्रे रक्षः समदम् आ वपैभ्यो 'ब्राह्मणा यतमे त्वोपसीदान् ।
११,१।३२च् - पुरीषिणः प्रथमानाः पुरस्ताद् आर्षेयास् ते मा रिषन् प्राशितारः ॥३२॥

११,१।३३अ - आर्षेयेषु नि दध ओदन त्वा नानार्षेयाणाम् अप्य् अस्त्य् अत्र ।
११,१।३३च् - अग्निर् मे गोप्ता मरुतश् च सर्वे विश्वे देवा अभि रक्षन्तु पक्वम् ॥३३॥

११,१।३४अ - यज्ञं दुहानं सदम् इत् प्रपीनं पुमांसं धेनुं सदनं रयीणाम् ।
११,१।३४च् - प्रजामृतत्वम् उत दीर्घम् आयू रायश् च पोषैर् उप त्वा सदेम ॥३४॥

११,१।३५अ - वृषभो 'सि स्वर्ग ऋषीन् आर्षेयान् गछ ।
११,१।३५च् - सुकृतां लोके सीद तत्र नौ संस्कृतम् ॥३५॥

११,१।३६अ - समाचिनुष्वानुसंप्रयाह्य् अग्ने पथः कल्पय देवयानान् ।
११,१।३६च् - एतैः सुकृतैर् अनु गछेम यज्ञं नाके तिष्ठन्तम् अधि सप्तरश्मौ ॥३६॥

११,१।३७अ - येन देवा ज्योतिषा द्याम् उदायन् ब्रह्मौदनं पक्त्वा सुकृतस्य लोकम् ।
११,१।३७च् - तेन गेष्म सुकृतस्य लोकं स्वर् आरोहन्तो अभि नाकम् उत्तमम् ॥३७॥ {४}


११,२।१अ - भवाशर्वौ मृढतं माभि यातं भूतपती पशुपती नमो वाम् ।
११,२।१च् - प्रतिहिताम् आयतां मा वि स्राष्टं मा नो हिंसिष्टं द्विपदो मा चतुष्पदः ॥१॥

११,२।२अ - शुने क्रोष्ट्रे मा शरीराणि कर्तम् अलिक्लवेभ्यो गृध्रेभ्यो ये च कृष्णा अविष्यवः ।
११,२।२च् - मक्षिकास् ते पशुपते वयांसि ते विघसे मा विदन्त ॥२॥

११,२।३अ - क्रन्दाय ते प्राणाय याश् च ते भव रोपयः ।
११,२।३च् - नमस् ते रुद्र कृण्मः सहस्राक्षायामर्त्य ॥३॥

११,२।४अ - पुरस्तात् ते नमः कृण्म उत्तराद् अधराद् उत ।
११,२।४च् - अभीवर्गाद् दिवस् पर्य् अन्तरिक्षाय ते नमः ॥४॥

११,२।५अ - मुखाय ते पशुपते यानि चक्षूंषि ते भव ।
११,२।५च् - त्वचे रूपाय संदृशे प्रतीचीनाय ते नमः ॥५॥

११,२।६अ - अङ्गेभ्यस् त उदराय जिह्वाया आस्याय ते ।
११,२।६च् - दद्भ्यो गन्धाय ते नमः ॥६॥

११,२।७अ - अस्त्रा नीलशिखण्ढेन सहस्राक्षेण वाजिना ।
११,२।७च् - रुद्रेणार्धकघातिना तेन मा सम् अरामहि ॥७॥

११,२।८अ - स नो भवः परि वृणक्तु विश्वत आप इवाग्निः परि वृणक्तु नो भवः ।
११,२।८च् - मा नो 'भि मांस्त नमो अस्त्व् अस्मै ॥८॥

११,२।९अ - चतुर् नमो अष्टकृत्वो भवाय दश कृत्वः पशुपते नमस् ते ।
११,२।९च् - तवेमे पञ्च पशवो विभक्ता गावो अश्वाः पुरुषा अजावयः ॥९॥

११,२।१०अ - तव चतस्रः प्रदिशस् तव द्यौस् तव पृथिवी तवेदम् उग्रोर्व् अन्तरिक्षम् ।
११,२।१०च् - तवेदं सर्वम् आत्मन्वद् यत् प्राणत् पृथिवीम् अनु ॥१०॥ {५}

११,२।११अ - उरुः कोशो वसुधानस् तवायं यस्मिन्न् इमा विश्वा भुवनान्य् अन्तः ।
११,२।११च् - स नो मृढ पशुपते नमस् ते परः क्रोष्टारो अभिभाः श्वानः परो यन्त्व् अघरुदो विकेश्यः ॥११॥

११,२।१२अ - धनुर् बिभर्षि हरितं हिरण्ययं सहस्रघ्निं शतवधं शिखण्ढिन् ।
११,२।१२च् - रुद्रस्येषुश् चरति देवहेतिस् तस्यै नमो यतमस्यां दिशीतः ॥१२॥

११,२।१३अ - यो 'भियातो निलयते त्वां रुद्र निचिकीर्षति ।
११,२।१३च् - पश्चाद् अनुप्रयुङ्क्षे तं विद्धस्य पदनीर् इव ॥१३॥

११,२।१४अ - भवारुद्रौ सयुजा संविदानाव् उभाव् उग्रौ चरतो वीर्याय ।
११,२।१४च् - ताभ्यां नमो यतमस्यां दिशीतः ॥१४॥

११,२।१५अ - नमस् ते अस्त्व् आयते नमो अस्तु परायते ।
११,२।१५च् - नमस् ते रुद्र तिष्ठत आसीनायोत ते नमः ॥१५॥

११,२।१६अ - नमः सायं नमः प्रातर् नमो रात्र्या नमो दिवा ।
११,२।१६च् - भवाय च शर्वाय चोभाभ्याम् अकरं नमः ॥१६॥

११,२।१७अ - सहस्राक्षम् अतिपश्यं पुरस्ताद् रुद्रम् अस्यन्तं बहुधा विपश्चितम् ।
११,२।१७च् - मोपाराम जिह्वयेयमानम् ॥१७॥

११,२।१८अ - श्यावाश्वं कृष्णम् असितं मृणन्तं भीमं रथं केशिनः पादयन्तम् ।
११,२।१८च् - पूर्वे प्रतीमो नमो अस्त्व् अस्मै ॥१८॥

११,२।१९अ - मा नो 'भि स्रा मत्यं देवहेतिं मा नः क्रुधः पशुपते नमस् ते ।
११,२।१९च् - अन्यत्रास्मद् दिव्यां शाखां वि धूनु ॥१९॥

११,२।२०अ - मा नो हिंसीर् अधि नो ब्रूहि परि णो वृङ्धि मा क्रुधः ।
११,२।२०च् - मा त्वया सम् अरामहि ॥२०॥ {६}

११,२।२१अ - मा नो गोषु पुरुषेषु मा गृधो नो अजाविषु ।
११,२।२१च् - अन्यत्रोग्र वि वर्तय पियारूणां प्रजां जहि ॥२१॥

११,२।२२अ - यस्य तक्मा कासिका हेतिर् एकम् अश्वस्येव वृषणः क्रन्द एति ।
११,२।२२च् - अभिपूर्वं निर्णयते नमो अस्त्व् अस्मै ॥२२॥

११,२।२३अ - यो 'न्तरिक्षे तिष्ठति विष्टभितो 'यज्वनः प्रमृणन् देवपीयून् ।
११,२।२३च् - तस्मै नमो दशभिः शक्वरीभिः ॥२३॥

११,२।२४अ - तुभ्यम् आरण्याः पशवो मृगा वने हिता हंसाः सुपर्णाः शकुना वयांसि ।
११,२।२४च् - तव यक्षं पशुपते अप्स्व् अन्तस् तुभ्यं क्षरन्ति दिव्या आपो वृधे ॥२४॥

११,२।२५अ - शिंशुमारा अजगराः पुरीकया जषा मत्स्या रजसा येभ्यो अस्यसि ।
११,२।२५च् - न ते दूरं न परिष्ठास्ति ते भव सद्यः सर्वां परि पश्यसि भूमिं पूर्वस्माद् धंस्य् उत्तरस्मिन्त् समुद्रे ॥२५॥

११,२।२६अ - मा नो रुद्र तक्मना मा विषेण मा नः सं स्रा दिव्येनाग्निना ।
११,२।२६च् - अन्यत्रास्मद् विद्युतं पातयैताम् ॥२६॥

११,२।२७अ - भवो दिवो भव ईशे पृथिव्या भव आ पप्र उर्व् अन्तरिक्षम् ।
११,२।२७च् - तस्यै नमो यतमस्यां दिशीतः ॥२७॥

११,२।२८अ - भव राजन् यजमानाय मृढ पशूनां हि पशुपतिर् बभूथ ।
११,२।२८च् - यः श्रद्दधाति सन्ति देवा इति चतुष्पदे द्विपदे 'स्य मृढ ॥२८॥

११,२।२९अ - मा नो महान्तम् उत मा नो अर्भकं मा नो वहन्तम् उत मा नो वक्ष्यतः ।
११,२।२९च् - मा नो हिंसीः पितरं मातरं च स्वां तन्वं रुद्र मा रीरिषो नः ॥२९॥

११,२।३०अ - रुद्रस्यैलबकारेभ्यो 'संसूक्तगिलेभ्यः ।
११,२।३०च् - इदं महास्येभ्यः श्वभ्यो अकरं नमः ॥३०॥

११,२।३१अ - नमस् ते घोषिणीभ्यो नमस् ते केशिनीभ्यः ।
११,२।३१च् - नमो नमस्कृताभ्यो नमः संभुञ्जतीभ्यः ।
११,२।३१ए - नमस् ते देव सेनाभ्यः स्वस्ति नो अभयं च नः ॥३१॥ {७}


११,३।१अ - तस्यौदनस्य बृहस्पतिः शिरो ब्रह्म मुखम् ॥१॥

११,३।२अ - द्यावापृथिवी श्रोत्रे सूर्याचन्द्रमसाव् अक्षिणी सप्तऋषयः प्राणापानाः ॥२॥

११,३।३अ - चक्षुर् मुसलं काम उलूखलम् ॥३॥

११,३।४अ - दितिः शूर्पम् अदितिः शूर्पग्राही वातो 'पाविनक् ॥४॥

११,३।५अ - अश्वाः कणा गावस् तण्ढुला मशकास् तुषाः ॥५॥

११,३।६अ - कब्रु फलीकरणाः शरो 'भ्रम् ॥६॥

११,३।७अ - श्यामम् अयो 'स्य मांसानि लोहितम् अस्य लोहितम् ॥७॥

११,३।८अ - त्रपु भस्म हरितं वर्णः पुष्करम् अस्य गन्धः ॥८॥

११,३।९अ - खलः पात्रं स्फ्याव् अंसाव् ईषे अनूक्ये ॥९॥

११,३।१०अ - आन्त्राणि जत्रवो गुदा वरत्राः ॥१०॥

११,३।११अ - इयम् एव पृथिवी कुम्भी भवति राध्यमानस्यौदनस्य द्यौर् अपिधानम् ॥११॥

११,३।१२अ - सीताः पर्शवः सिकता ऊबध्यम् ॥१२॥

११,३।१३अ - ऋतं हस्तावनेजनं कुल्योपसेचनम् ॥१३॥

११,३।१४अ - ऋचा कुम्भ्य् अधिहितार्त्विज्येन प्रेषिता ॥१४॥

११,३।१५अ - ब्रह्मणा परिगृहीता साम्ना पर्यूडा ॥१५॥

११,३।१६अ - बृहद् आयवनं रथन्तरं दर्विः ॥१६॥

११,३।१७अ - ऋतवः पक्तार आर्तवाः सम् इन्धते ॥१७॥

११,३।१८अ - चरुं पञ्चबिलम् उखं घर्मो 'भीन्धे ॥१८॥ [नोते चोर्रिगेन्द एद्। श्प्प्]
११,३।१९अ - ओदनेन यज्ञवतः सर्वे लोकाः समाप्याः ॥१९॥

११,३।२०अ - यस्मिन्त् समुद्रो द्यौर् भूमिस् त्रयो 'वरपरं श्रिताः ॥२०॥

११,३।२१अ - यस्य देवा अकल्पन्तोच्छिष्टे षढ् अशीतयः ॥२१॥

११,३।२२अ - तं त्वौदनस्य पृछामि यो अस्य महिमा महान् ॥२२॥

११,३।२३अ - स य ओदनस्य महिमानं विद्यात् ॥२३॥

११,३।२४अ - नाल्प इति ब्रूयान् नानुपसेचन इति नेदं च किं चेति ॥२४॥

११,३।२५अ - यावद् दाताभिमनस्येत तन् नाति वदेत् ॥२५॥

११,३।२६अ - ब्रह्मवादिनो वदन्ति पराञ्चम् ओदनं प्राशी३ः प्रत्यञ्चा३म् इति ॥२६॥

११,३।२७अ - त्वम् ओदनं प्राशी३स् त्वाम् ओदना३ इति ॥२७॥

११,३।२८अ - पराञ्चं चैनं प्राशीः प्राणास् त्वा हास्यन्तीत्य् एनम् आह ॥२८॥

११,३।२९अ - प्रत्यञ्चं चैनं प्राशीर् अपानास् त्वा हास्यन्तीत्य् एनम् आह ॥२९॥

११,३।३०अ - नैवाहम् ओदनं न माम् ओदनः ॥३०॥

११,३।३१अ - ओदन एवौदनं प्राशीत् ॥३१॥ {८}


११,३।३२[४।१]अ - ततश् चैनम् अन्येन शीर्ष्णा प्राशीर् येन चैतं पूर्व ऋषयः प्राश्नन् ।
११,३।३२[४।१]ब् - ज्येष्ठतस् ते प्रजा मरिष्यतीत्य् एनम् आह ।
११,३।३२[४।१]च् - तं वा अहं नार्वाञ्चं न पराञ्चं न प्रत्यञ्चम् ।
११,३।३२[४।१]द् - बृहस्पतिना शीर्ष्णा ।
११,३।३२[४।१]ए - तेनैनं प्राशिषं तेनैनम् अजीगमम् ।
११,३।३२[४।१]f - एष वा ओदनः सर्वाङ्गः सर्वपरुः सर्वतनूः ।
११,३।३२[४।१]ग् - सर्वाङ्ग एव सर्वपरुः सर्वतनूः सं भवति य एवं वेद ॥३२॥ [१]

११,३।३३[४।२]अ - ततश् चैनम् अन्याभ्यां श्रोत्राभ्यां प्राशीर् याभ्यां चैतं पूर्व ऋषयः प्राश्नन् ।
११,३।३३[४।२]ब् - बधिरो भविष्यसीत्य् एनम् आह ।
११,३।३३[४।२]च् - तं वा अहं नार्वाञ्चं न पराञ्चं न प्रत्यञ्चम् ।
११,३।३३[४।२]द् - द्यावापृथिवीभ्यां श्रोत्राभ्याम् ।
११,३।३३[४।२]ए - ताभ्याम् एनं प्राशिषं ताभ्याम् एनम् अजीगमम् ।
११,३।३३[४।२]f - एष वा ओदनः सर्वाङ्गः सर्वपरुः सर्वतनूः ।
११,३।३३[४।२]ग् - सर्वाङ्ग एव सर्वपरुः सर्वतनूः सं भवति य एवं वेद ॥३३॥ [२]

११,३।३४[४।३]अ - ततश् चैनम् अन्याभ्याम् अक्षीभ्यां प्राशीर् याभ्यां चैतं पूर्व ऋषयः प्राश्नन् ।
११,३।३४[४।३]ब् - अन्धो भविष्यसीत्य् एनम् आह ।
११,३।३४[४।३]च् - तं वा अहं नार्वाञ्चं न पराञ्चं न प्रत्यञ्चम् ।
११,३।३४[४।३]द् - सूर्याचन्द्रमसाभ्याम् अक्षीभ्याम् ।
११,३।३४[४।३]ए - ताभ्याम् एनं प्राशिषं ताभ्याम् एनम् अजीगमम् ।
११,३।३४[४।३]f - एष वा ओदनः सर्वाङ्गः सर्वपरुः सर्वतनूः ।
११,३।३४[४।३]ग् - सर्वाङ्ग एव सर्वपरुः सर्वतनूः सं भवति य एवं वेद ॥३४॥ [३]

११,३।३५[४।४]अ - ततश् चैनम् अन्येन मुखेन प्राशीर् येन चैतं पूर्व ऋषयः प्राश्नन् ।
११,३।३५[४।४]ब् - मुखतस् ते प्रजा मरिष्यतीत्य् एनम् आह ।
११,३।३५[४।४]च् - तं वा अहं नार्वाञ्चं न पराञ्चं न प्रत्यञ्चम् ।
११,३।३५[४।४]द् - ब्रह्मणा मुखेन ।
११,३।३५[४।४]ए - तेनैनं प्राशिषं तेनैनम् अजीगमम् ।
११,३।३५[४।४]f - एष वा ओदनः सर्वाङ्गः सर्वपरुः सर्वतनूः ।
११,३।३५[४।४]ग् - सर्वाङ्ग एव सर्वपरुः सर्वतनूः सं भवति य एवं वेद ॥३५॥ [४]

११,३।३६[४।५]अ - ततश् चैनम् अन्यया जिह्वया प्राशीर् यया चैतं पूर्व ऋषयः प्राश्नन् ।
११,३।३६[४।५]ब् - जिह्वा ते मरिष्यतीत्य् एनम् आह ।
११,३।३६[४।५]च् - तं वा अहं नार्वाञ्चं न पराञ्चं न प्रत्यञ्चम् ।
११,३।३६[४।५]द् - अग्नेर् जिह्वया ।
११,३।३६[४।५]ए - तयैनं प्राशिषं तयैनम् अजीगमम् ।
११,३।३६[४।५]f - एष वा ओदनः सर्वाङ्गः सर्वपरुः सर्वतनूः ।
११,३।३६[४।५]ग् - सर्वाङ्ग एव सर्वपरुः सर्वतनूः सं भवति य एवं वेद ॥३६॥ [५]

११,३।३७[४।६]अ - ततश् चैनम् अन्यैर् दन्तैः प्राशीर् यैश् चैतं पूर्व ऋषयः प्राश्नन् ।
११,३।३७[४।६]ब् - दन्तास् ते शत्स्यन्तीत्य् एनम् आह ।
११,३।३७[४।६]च् - तं वा अहं नार्वाञ्चं न पराञ्चं न प्रत्यञ्चम् ।
११,३।३७[४।६]द् - ऋतुभिर् दन्तैः ।
११,३।३७[४।६]ए - तैर् एनं प्राशिषं तैर् एनम् अजीगमम् ।
११,३।३७[४।६]f - एष वा ओदनः सर्वाङ्गः सर्वपरुः सर्वतनूः ।
११,३।३७[४।६]ग् - सर्वाङ्ग एव सर्वपरुः सर्वतनूः सं भवति य एवं वेद ॥३७॥ [६]

११,३।३८[४।७]अ - ततश् चैनम् अन्यैः प्राणापानैः प्राशीर् यैश् चैतं पूर्व ऋषयः प्राश्नन् ।
११,३।३८[४।७]ब् - प्राणापानास् त्वा हास्यन्तीत्य् एनम् आह ।
११,३।३८[४।७]च् - तं वा अहं नार्वाञ्चं न पराञ्चं न प्रत्यञ्चम् ।
११,३।३८[४।७]द् - सप्तऋषिभिः प्राणापानैः ।
११,३।३८[४।७]ए - तैर् एनं प्राशिषं तैर् एनम् अजीगमम् ।
११,३।३८[४।७]f - एष वा ओदनः सर्वाङ्गः सर्वपरुः सर्वतनूः ।
११,३।३८[४।७]ग् - सर्वाङ्ग एव सर्वपरुः सर्वतनूः सं भवति य एवं वेद ॥३८॥ [७]

११,३।३९[४।८]अ - ततश् चैनम् अन्येन व्यचसा प्राशीर् येन चैतं पूर्व ऋषयः प्राश्नन् ।
११,३।३९[४।८]ब् - राजयक्ष्मस् त्वा हनिष्यतीत्य् एनम् आह ।
११,३।३९[४।८]च् - तं वा अहं नार्वाञ्चं न पराञ्चं न प्रत्यञ्चम् ।
११,३।३९[४।८]द् - अन्तरिक्षेण व्यचसा ।
११,३।३९[४।८]ए - तेनैनं प्राशिषं तेनैनम् अजीगमम् ।
११,३।३९[४।८]f - एष वा ओदनः सर्वाङ्गः सर्वपरुः सर्वतनूः ।
११,३।३९[४।८]ग् - सर्वाङ्ग एव सर्वपरुः सर्वतनूः सं भवति य एवं वेद ॥३९॥ [८]

११,३।४०[४।९]अ - ततश् चैनम् अन्येन पृष्ठेन प्राशीर् येन चैतं पूर्व ऋषयः प्राश्नन् ।
११,३।४०[४।९]ब् - विद्युत् त्वा हनिष्यतीत्य् एनम् आह ।
११,३।४०[४।९]च् - तं वा अहं नार्वाञ्चं न पराञ्चं न प्रत्यञ्चम् ।
११,३।४०[४।९]द् - दिवा पृष्ठेन ।
११,३।४०[४।९]ए - तेनैनं प्राशिषं तेनैनम् अजीगमम् ।
११,३।४०[४।९]f - एष वा ओदनः सर्वाङ्गः सर्वपरुः सर्वतनूः ।
११,३।४०[४।९]ग् - सर्वाङ्ग एव सर्वपरुः सर्वतनूः सं भवति य एवं वेद ॥४०॥ [९]

११,३।४१[४।१०]अ - ततश् चैनम् अन्येनोरसा प्राशीर् येन चैतं पूर्व ऋषयः प्राश्नन् ।
११,३।४१[४।१०]ब् - कृष्या न रात्स्यसीत्य् एनम् आह ।
११,३।४१[४।१०]च् - तं वा अहं नार्वाञ्चं न पराञ्चं न प्रत्यञ्चम् ।
११,३।४१[४।१०]द् - पृथिव्योरसा ।
११,३।४१[४।१०]ए - तेनैनं प्राशिषं तेनैनम् अजीगमम् ।
११,३।४१[४।१०]f - एष वा ओदनः सर्वाङ्गः सर्वपरुः सर्वतनूः ।
११,३।४१[४।१०]ग् - सर्वाङ्ग एव सर्वपरुः सर्वतनूः सं भवति य एवं वेद ॥४१॥ [१०]

११,३।४२[४।११]अ - ततश् चैनम् अन्येनोदरेण प्राशीर् येन चैतं पूर्व ऋषयः प्राश्नन् ।
११,३।४२[४।११]ब् - उदरदारस् त्वा हनिष्यतीत्य् एनम् आह ।
११,३।४२[४।११]च् - तं वा अहं नार्वाञ्चं न पराञ्चं न प्रत्यञ्चम् ।
११,३।४२[४।११]द् - सत्येनोदरेण ।
११,३।४२[४।११]ए - तेनैनं प्राशिषं तेनैनम् अजीगमम् ।
११,३।४२[४।११]f - एष वा ओदनः सर्वाङ्गः सर्वपरुः सर्वतनूः ।
११,३।४२[४।११]ग् - सर्वाङ्ग एव सर्वपरुः सर्वतनूः सं भवति य एवं वेद ॥४२॥ [११]

११,३।४३[४।१२]अ - ततश् चैनम् अन्येन वस्तिना प्राशीर् येन चैतं पूर्व ऋषयः प्राश्नन् ।
११,३।४३[४।१२]ब् - अप्सु मरिष्यसीत्य् एनम् आह ।
११,३।४३[४।१२]च् - तं वा अहं नार्वाञ्चं न पराञ्चं न प्रत्यञ्चम् ।
११,३।४३[४।१२]द् - समुद्रेण वस्तिना ।
११,३।४३[४।१२]ए - तेनैनं प्राशिषं तेनैनम् अजीगमम् ।
११,३।४३[४।१२]f - एष वा ओदनः सर्वाङ्गः सर्वपरुः सर्वतनूः ।
११,३।४३[४।१२]ग् - सर्वाङ्ग एव सर्वपरुः सर्वतनूः सं भवति य एवं वेद ॥४३॥ [१२]

११,३।४४[४।१३]अ - ततश् चैनम् अन्याभ्याम् ऊरुभ्यां प्राशीर् याभ्यां चैतं पूर्व ऋषयः प्राश्नन् ।
११,३।४४[४।१३]ब् - ऊरू ते मरिष्यत इत्य् एनम् आह ।
११,३।४४[४।१३]च् - तं वा अहं नार्वाञ्चं न पराञ्चं न प्रत्यञ्चम् ।
११,३।४४[४।१३]द् - मित्रावरुणयोर् ऊरुभ्याम् ।
११,३।४४[४।१३]ए - ताभ्याम् एनं प्राशिषं ताभ्याम् एनम् अजीगमम् ।
११,३।४४[४।१३]f - एष वा ओदनः सर्वाङ्गः सर्वपरुः सर्वतनूः ।
११,३।४४[४।१३]ग् - सर्वाङ्ग एव सर्वपरुः सर्वतनूः सं भवति य एवं वेद ॥४४॥ [१३]

११,३।४५[४।१४]अ - ततश् चैनम् अन्याभ्याम् अष्ठीवद्भ्यां प्राशीर् याभ्यां चैतं पूर्व ऋषयः प्राश्नन् ।
११,३।४५[४।१४]ब् - स्रामो भविष्यसीत्य् एनम् आह ।
११,३।४५[४।१४]च् - तं वा अहं नार्वाञ्चं न पराञ्चं न प्रत्यञ्चम् ।
११,३।४५[४।१४]द् - त्वष्टुर् अष्ठीवद्भ्याम् ।
११,३।४५[४।१४]ए - ताभ्याम् एनं प्राशिषं ताभ्याम् एनम् अजीगमम् ।
११,३।४५[४।१४]f - एष वा ओदनः सर्वाङ्गः सर्वपरुः सर्वतनूः ।
११,३।४५[४।१४]ग् - सर्वाङ्ग एव सर्वपरुः सर्वतनूः सं भवति य एवं वेद ॥४५॥ [१४]

११,३।४६[४।१५]अ - ततश् चैनम् अन्याभ्यां पादाभ्यां प्राशीर् याभ्यां चैतं पूर्व ऋषयः प्राश्नन् ।
११,३।४६[४।१५]ब् - बहुचारी भविष्यसीत्य् एनम् आह ।
११,३।४६[४।१५]च् - तं वा अहं नार्वाञ्चं न पराञ्चं न प्रत्यञ्चम् ।
११,३।४६[४।१५]द् - अश्विनोः पादाभ्याम् ।
११,३।४६[४।१५]ए - ताभ्याम् एनं प्राशिषं ताभ्याम् एनम् अजीगमम् ।
११,३।४६[४।१५]f - एष वा ओदनः सर्वाङ्गः सर्वपरुः सर्वतनूः ।
११,३।४६[४।१५]ग् - सर्वाङ्ग एव सर्वपरुः सर्वतनूः सं भवति य एवं वेद ॥४६॥ [१५]

११,३।४७[४।१६]अ - ततश् चैनम् अन्याभ्यां प्रपदाभ्यां प्राशीर् याभ्यां चैतं पूर्व ऋषयः प्राश्नन् ।
११,३।४७[४।१६]ब् - सर्पस् त्वा हनिष्यतीत्य् एनम् आह ।
११,३।४७[४।१६]च् - तं वा अहं नार्वाञ्चं न पराञ्चं न प्रत्यञ्चम् ।
११,३।४७[४।१६]द् - सवितुः प्रपदाभ्याम् ।
११,३।४७[४।१६]ए - ताभ्याम् एनं प्राशिषं ताभ्याम् एनम् अजीगमम् ।
११,३।४७[४।१६]f - एष वा ओदनः सर्वाङ्गः सर्वपरुः सर्वतनूः ।
११,३।४७[४।१६]ग् - सर्वाङ्ग एव सर्वपरुः सर्वतनूः सं भवति य एवं वेद ॥४७॥ [१६]

११,३।४८[४।१७]अ - ततश् चैनम् अन्याभ्यां हस्ताभ्यां प्राशीर् याभ्यां चैतं पूर्व ऋषयः प्राश्नन् ।
११,३।४८[४।१७]ब् - ब्राह्मणं हनिष्यसीत्य् एनम् आह ।
११,३।४८[४।१७]च् - तं वा अहं नार्वाञ्चं न पराञ्चं न प्रत्यञ्चम् ।
११,३।४८[४।१७]द् - ऋतस्य हस्ताभ्याम् ।
११,३।४८[४।१७]ए - ताभ्याम् एनं प्राशिषं ताभ्याम् एनम् अजीगमम् ।
११,३।४८[४।१७]f - एष वा ओदनः सर्वाङ्गः सर्वपरुः सर्वतनूः ।
११,३।४८[४।१७]ग् - सर्वाङ्ग एव सर्वपरुः सर्वतनूः सं भवति य एवं वेद ॥४८॥ [१७]

११,३।४९[४।१८]अ - ततश् चैनम् अन्यया प्रतिष्ठया प्राशीर् यया चैतं पूर्व ऋषयः प्राश्नन् ।
११,३।४९[४।१८]ब् - अप्रतिष्ठानो 'नायतनो मरिष्यसीत्य् एनम् आह ।
११,३।४९[४।१८]च् - तं वा अहं नार्वाञ्चं न पराञ्चं न प्रत्यञ्चम् ।
११,३।४९[४।१८]द् - सत्ये प्रतिष्ठाय ।
११,३।४९[४।१८]ए - तयैनं प्राशिषं तयैनम् अजीगमम् ।
११,३।४९[४।१८]f - एष वा ओदनः सर्वाङ्गः सर्वपरुः सर्वतनूः ।
११,३।४९[४।१८]ग् - सर्वाङ्ग एव सर्वपरुः सर्वतनूः सं भवति य एवं वेद ॥४९॥ [१८] {९}


११,३।५०[५।१]अ - एतद् वै ब्रध्नस्य विष्टपं यद् ओदनः ॥५०॥ [१]

११,३।५१[५।२]अ - ब्रध्नलोको भवति ब्रध्नस्य विष्टपि श्रयते य एवं वेद ॥५१॥ [२]

११,३।५२[५।३]अ - एतस्माद् वा ओदनात् त्रयस्त्रिंशतं लोकान् निर् अमिमीत प्रजापतिः ॥५२॥ [३]

११,३।५३[५।४]अ - तेषां प्रज्ञानाय यज्ञम् असृजत ॥५३॥ [४]

११,३।५४[५।५]अ - स य एवं विदुष उपद्रष्टा भवति प्राणं रुणद्धि ॥५४॥ [५]

११,३।५५[५।६]अ - न च प्राणं रुणद्धि सर्वज्यानिं जीयते ॥५५॥ [६]

११,३।५६[५।७]अ - न च सर्वज्यानिं जीयते पुरैनं जरसः प्राणो जहाति ॥५६॥ [७] {१०}


११,४[६]।१अ - प्राणाय नमो यस्य सर्वम् इदं वशे ।
११,४[६]।१च् - यो भूतः सर्वस्येश्वरो यस्मिन्त् सर्वं प्रतिष्ठितम् ॥१॥

११,४[६]।२अ - नमस् ते प्राण क्रन्दाय नमस् ते स्तनयित्नवे ।
११,४[६]।२च् - नमस् ते प्राण विद्युते नमस् ते प्राण वर्षते ॥२॥

११,४[६]।३अ - यत् प्राण स्तनयित्नुनाभिक्रन्दत्य् ओषधीः ।
११,४[६]।३च् - प्र वीयन्ते गर्भान् दधते 'थो बह्वीर् वि जायन्ते ॥३॥

११,४[६]।४अ - यत् प्राण ऋताव् आगते 'भिक्रन्दत्य् ओषधीः ।
११,४[६]।४च् - सर्वं तदा प्र मोदते यत् किं च भूम्याम् अधि ॥४॥
११,४[६]।५अ - यदा प्राणो अभ्यवर्षीद् वर्षेण पृथिवीं महीम् ।
११,४[६]।५च् - पशवस् तत् प्र मोदन्ते महो वै नो भविष्यति ॥५॥

११,४[६]।६अ - अभिवृष्टा ओषधयः प्राणेन सम् अवादिरन् ।
११,४[६]।६च् - आयुर् वै नः प्रातीतरः सर्वा नः सुरभीर् अकः ॥६॥

११,४[६]।७अ - नमस् ते अस्त्व् आयते नमो अस्तु परायते ।
११,४[६]।७च् - नमस् ते प्राण तिष्ठत आसीनायोत ते नमः ॥७॥

११,४[६]।८अ - नमस् ते प्राण प्राणते नमो अस्त्व् अपानते ।
११,४[६]।८च् - पराचीनाय ते नमः प्रतीचीनाय ते नमः सर्वस्मै त इदं नमः ॥८॥

११,४[६]।९अ - या ते प्राण प्रिया तनूर् यो ते प्राण प्रेयसी ।
११,४[६]।९च् - अथो यद् भेषजं तव तस्य नो धेहि जीवसे ॥९॥
११,४[६]।१०अ - प्राणः प्रजा अनु वस्ते पिता पुत्रम् इव प्रियम् ।
११,४[६]।१०च् - प्राणो ह सर्वस्येश्वरो यच् च प्राणति यच् च न ॥१०॥ {११}

११,४[६]।११अ - प्राणो मृत्युः प्राणस् तक्मा प्राणं देवा उपासते ।
११,४[६]।११च् - प्राणो ह सत्यवादिनम् उत्तमे लोक आ दधत् ॥११॥

११,४[६]।१२अ - प्राणो विराट् प्राणो देष्ट्री प्राणं सर्व उपासते ।
११,४[६]।१२च् - प्राणो ह सूर्यश् चन्द्रमाः प्राणम् आहुः प्रजापतिम् ॥१२॥

११,४[६]।१३अ - प्राणापानौ व्रीहियवाव् अनढ्वान् प्राण उच्यते ।
११,४[६]।१३च् - यवे ह प्राण आहितो 'पानो व्रीहिर् उच्यते ॥१३॥

११,४[६]।१४अ - अपानति प्राणति पुरुषो गर्भे अन्तरा ।
११,४[६]।१४च् - यदा त्वं प्राण जिन्वस्य् अथ स जायते पुनः ॥१४॥

११,४[६]।१५अ - प्राणम् आहुर् मातरिश्वानं वातो ह प्राण उच्यते ।
११,४[६]।१५च् - प्राणे ह भूतं भव्यं च प्राणे सर्वं प्रतिष्ठितम् ॥१५॥

११,४[६]।१६अ - आथर्वणीर् आङ्गिरसीर् दैवीर् मनुष्यजा उत ।
११,४[६]।१६च् - ओषधयः प्र जायन्ते यदा त्वं प्राण जिन्वसि ॥१६॥

११,४[६]।१७अ - यदा प्राणो अभ्यवर्षीद् वर्षेण पृथिवीं महीम् ।
११,४[६]।१७च् - ओषधयः प्र जायन्ते 'थो याः काश् च वीरुधः ॥१७॥

११,४[६]।१८अ - यस् ते प्राणेदं वेद यस्मिंश् चासि प्रतिष्ठितः ।
११,४[६]।१८च् - सर्वे तस्मै बलिं हरान् अमुष्मिंल् लोक उत्तमे ॥१८॥

११,४[६]।१९अ - यथा प्राण बलिहृतस् तुभ्यं सर्वाः प्रजा इमाः ।
११,४[६]।१९च् - एवा तस्मै बलिं हरान् यस् त्वा शृणवत् सुश्रवः ॥१९॥

११,४[६]।२०अ - अन्तर् गर्भश् चरति देवतास्व् आभूतो भूतः स उ जायते पुनः ।
११,४[६]।२०च् - स भूतो भव्यं भविष्यत् पिता पुत्रं प्र विवेशा शचीभिः ॥२०॥ {१२}

११,४[६]।२१अ - एकं पादं नोत् खिदति सलिलाद् धंस उच्चरन् ।
११,४[६]।२१च् - यद् अङ्ग स तम् उत्खिदेन् नैवाद्य न श्वः स्यात् ।
११,४[६]।२१ए - न रात्री नाहः स्यान् न व्य् उछेत् कदा चन ॥२१॥

११,४[६]।२२अ - अष्टाचक्रं वर्तत एकनेमि सहस्राक्षरं प्र पुरो नि पश्चा ।
११,४[६]।२२च् - अर्धेन विश्वं भुवनं जजान यद् अस्यार्धं कतमः स केतुः ॥२२॥

११,४[६]।२३अ - यो अस्य विश्वजन्मन ईशे विश्वस्य चेष्टतः ।
११,४[६]।२३च् - अन्येषु क्षिप्रधन्वने तस्मै प्राण नमो 'स्तु ते ॥२३॥

११,४[६]।२४अ - यो अस्य सर्वजन्मन ईशे सर्वस्य चेष्टतः ।
११,४[६]।२४च् - अतन्द्रो ब्रह्मणा धीरः प्राणो मानु तिष्ठतु ॥२४॥

११,४[६]।२५अ - ऊर्ध्वः सुप्तेषु जागार ननु तिर्यङ् नि पद्यते ।
११,४[६]।२५च् - न सुप्तम् अस्य सुप्तेष्व् अनु शुश्राव कश् चन ॥२५॥

११,४[६]।२६अ - प्राण मा मत् पर्यावृतो न मद् अन्यो भविष्यसि ।
११,४[६]।२६च् - अपां गर्भम् इव जीवसे प्राण बध्नामि त्वा मयि ॥२६॥ {१३}


११,५[७]।१अ - ब्रह्मचारीष्णंश् चरति रोदसी उभे तस्मिन् देवाः संमनसो भवन्ति ।
११,५[७]।१च् - स दाधार पृथिवीं दिवं च स आचार्यं तपसा पिपर्ति ॥१॥

११,५[७]।२अ - ब्रह्मचारिणं पितरो देवजनाः पृथग् देवा अनुसंयन्ति सर्वे ।
११,५[७]।२च् - गन्धर्वा एनम् अन्व् आयन् त्रयस्त्रिंशत् त्रिशताः षट्सहस्राः सर्वान्त् स देवांस् तपसा पिपर्ति ॥२॥

११,५[७]।३अ - आचार्य उपनयमानो ब्रह्मचारिणं कृणुते गर्भम् अन्तः ।
११,५[७]।३च् - तं रात्रीस् तिस्र उदरे बिभर्ति तं जातं द्रष्टुम् अभिसंयन्ति देवाः ॥३॥

११,५[७]।४अ - इयं समित् पृथिवी द्यौर् द्वितीयोतान्तरिक्षं समिधा पृणाति ।
११,५[७]।४च् - ब्रह्मचारी समिधा मेखलया श्रमेण लोकांस् तपसा पिपर्ति ॥४॥

११,५[७]।५अ - पूर्वो जातो ब्रह्मणो ब्रह्मचारी घर्मं वसानस् तपसोद् अतिष्ठत् ।
११,५[७]।५च् - तस्माज् जातं ब्राह्मणं ब्रह्म ज्येष्ठं देवाश् च सर्वे अमृतेन साकम् ॥५॥

११,५[७]।६अ - ब्रह्मचार्य् एति समिधा समिद्धः कार्ष्णं वसानो दीक्षितो दीर्घश्मश्रुः ।
११,५[७]।६च् - स सद्य एति पूर्वस्माद् उत्तरं समुद्रं लोकान्त् संगृभ्य मुहुर् आचरिक्रत् ॥६॥

११,५[७]।७अ - ब्रह्मचारी जनयन् ब्रह्मापो लोकं प्रजापतिं परमेष्ठिनं विराजम् ।
११,५[७]।७च् - गर्भो भूत्वामृतस्य योनाव् इन्द्रो ह भूत्वासुरांस् ततर्ह ॥७॥

११,५[७]।८अ - आचार्यस् ततक्ष नभसी उभे इमे उर्वी गम्भीरे पृथिवीं दिवं च ।
११,५[७]।८च् - ते रक्षति तपसा ब्रह्मचारी तस्मिन् देवाः संमनसो भवन्ति ॥८॥

११,५[७]।९अ - इमां भूमिं पृथिवीं ब्रह्मचारी भिक्षाम् आ जभार प्रथमो दिवं च ।
११,५[७]।९च् - ते कृत्वा समिधाव् उपास्ते तयोर् आर्पिता भुवनानि विश्वा ॥९॥

११,५[७]।१०अ - अर्वाग् अन्यः परो अन्यो दिवस् पृष्ठाद् गुहा निधी निहितौ ब्राह्मणस्य ।
११,५[७]।१०च् - तौ रक्षति तपसा ब्रह्मचारी तत् केवलं कृणुते ब्रह्म विद्वान् ॥१०॥ {१४}

११,५[७]।११अ - अर्वाग् अन्य इतो अन्यः पृथिव्या अग्नी समेतो नभसी अन्तरेमे ।
११,५[७]।११च् - तयोः श्रयन्ते रश्मयो 'धि दृडास् तान् आ तिष्ठति तपसा ब्रह्मचारी ॥११॥

११,५[७]।१२अ - अभिक्रन्दन् स्तनयन्न् अरुणः शितिङ्गो बृहच् छेपो 'नु भूमौ जभार ।
११,५[७]।१२च् - ब्रह्मचारी सिञ्चति सानौ रेतः पृथिव्यां तेन जीवन्ति प्रदिशश् चतस्रः ॥१२॥

११,५[७]।१३अ - अग्नौ सूर्ये चन्द्रमसि मातरिश्वन् ब्रह्मचार्य् अप्सु समिधम् आ दधाति ।
११,५[७]।१३च् - तासाम् अर्चींषि पृथग् अभ्रे चरन्ति तासाम् आज्यं पुरुषो वर्षम् आपः ॥१३॥

११,५[७]।१४अ - आचार्यो मृत्युर् वरुणः सोम ओषधयः पयः ।
११,५[७]।१४च् - जीमूता आसन्त् सत्वानस् तैर् इदं स्वर् आभृतम् ॥१४॥

११,५[७]।१५अ - अमा घृतं कृणुते केवलम् आचार्यो भूत्वा वरुणः ।
११,५[७]।१५च् - यद्यद् अइछत् प्रजापतौ तद् ब्रह्मचारी प्रायछत् स्वान् मित्रो अध्य् आत्मनः ॥१५॥

११,५[७]।१६अ - आचार्यो ब्रह्मचारी ब्रह्मचारी प्रजापतिः ।
११,५[७]।१६च् - प्रजापतिर् वि राजति विराढ् इन्द्रो 'भवद् वशी ॥१६॥

११,५[७]।१७अ - ब्रह्मचर्येण तपसा राजा राष्ट्रं वि रक्षति ।
११,५[७]।१७च् - आचार्यो ब्रह्मचर्येण ब्रह्मचारिणम् इछते ॥१७॥

११,५[७]।१८अ - ब्रह्मचर्येण कन्या युवानं विन्दते पतिम् ।
११,५[७]।१८च् - अनढ्वान् ब्रह्मचर्येणाश्वो घासं जिगीषति ॥१८॥

११,५[७]।१९अ - ब्रह्मचर्येण तपसा देवा मृत्युम् अपाघ्नत ।
११,५[७]।१९च् - इन्द्रो ह ब्रह्मचर्येण देवेभ्यः स्वर् आभरत् ॥१९॥

११,५[७]।२०अ - ओषधयो भूतभव्यम् अहोरात्रे वनस्पतिः ।
११,५[७]।२०च् - संवत्सरः सह ऋतुभिस् ते जाता ब्रह्मचारिणः ॥२०॥ {१५}

११,५[७]।२१अ - पार्थिवा दिव्याः पशव आरण्या ग्राम्याश् च ये ।
११,५[७]।२१च् - अपक्षाः पक्षिणश् च ये ते जाता ब्रह्मचारिणः ॥२१॥

११,५[७]।२२अ - पृथक् सर्वे प्राजापत्याः प्राणान् आत्मसु बिभ्रति ।
११,५[७]।२२च् - तान्त् सर्वान् ब्रह्म रक्षति ब्रह्मचारिण्य् आभृतम् ॥२२॥

११,५[७]।२३अ - देवानाम् एतत् परिषूतम् अनभ्यारूडं चरति रोचमानम् ।
११,५[७]।२३च् - तस्माज् जातं ब्राह्मणं ब्रह्म ज्येष्ठं देवाश् च सर्वे अमृतेन साकम् ॥२३॥

११,५[७]।२४अ - ब्रह्मचारी ब्रह्म भ्राजद् बिभर्ति तस्मिन् देवा अधि विश्वे समोताः ।
११,५[७]।२४च् - प्राणापानौ जनयन्न् आद् व्यानं वाचं मनो हृदयं ब्रह्म मेधाम् ॥२४॥

११,५[७]।२५अ - चक्षुः श्रोत्रं यशो अस्मासु धेह्य् अन्नं रेतो लोहितम् उदरम् ॥२५॥

११,५[७]।२६अ - तानि कल्पन् ब्रह्मचारी सलिलस्य पृष्ठे तपो 'तिष्ठत् तप्यमानः समुद्रे ।
११,५[७]।२६च् - स स्नातो बभ्रुः पिङ्गलः पृथिव्यां बहु रोचते ॥२६॥ {१६}


११,६[८]।१अ - अग्निं ब्रूमो वनस्पतीन् ओषधीर् उत वीरुधः ।
११,६[८]।१च् - इन्द्रं बृहस्पतिं सूर्यं ते नो मुञ्चन्त्व् अंहसः ॥१॥

११,६[८]।२अ - ब्रूमो राजानं वरुणं मित्रं विष्णुम् अथो भगम् ।
११,६[८]।२च् - अंशं विवस्वन्तं ब्रूमस् ते नो मुञ्चन्त्व् अंहसः ॥२॥

११,६[८]।३अ - ब्रूमो देवं सवितारं धातारम् उत पूषणम् ।
११,६[८]।३च् - त्वष्टारम् अग्रियं ब्रूमस् ते नो मुञ्चन्त्व् अंहसः ॥३॥

११,६[८]।४अ - गन्धर्वाप्सरसो ब्रूमो अश्विना ब्रह्मणस्पतिम् ।
११,६[८]।४च् - अर्यमा नाम यो देवस् ते नो मुञ्चन्त्व् अंहसः ॥४॥

११,६[८]।५अ - अहोरात्रे इदं ब्रूमः सूर्याचन्द्रमसाव् उभा ।
११,६[८]।५च् - विश्वान् आदित्यान् ब्रूमस् ते नो मुञ्चन्त्व् अंहसः ॥५॥

११,६[८]।६अ - वातं ब्रूमः पर्जन्यम् अन्तरिक्षम् अथो दिशः ।
११,६[८]।६च् - आशाश् च सर्वा ब्रूमस् ते नो मुञ्चन्त्व् अंहसः ॥६॥

११,६[८]।७अ - मुञ्चन्तु मा शपथ्याद् अहोरात्रे अथो उषाः ।
११,६[८]।७च् - सोमो मा देवो मुञ्चतु यम् आहुश् चन्द्रमा इति ॥७॥

११,६[८]।८अ - पार्थिवा दिव्याः पशव आरण्या उत ये मृगाः ।
११,६[८]।८च् - शकुन्तान् पक्षिणो ब्रूमस् ते नो मुञ्चन्त्व् अंहसः ॥८॥

११,६[८]।९अ - भवाशर्वाव् इदं ब्रूमो रुद्रं पशुपतिश् च यः ।
११,६[८]।९च् - इषूर् या एषां संविद्म ता नः सन्तु सदा शिवाः ॥९॥

११,६[८]।१०अ - दिवं ब्रूमो नक्षत्राणि भूमिं यक्षाणि पर्वतान् ।
११,६[८]।१०च् - समुद्रा नद्यो वेशन्तास् ते नो मुञ्चन्त्व् अंहसः ॥१०॥ {१७}

११,६[८]।११अ - सप्तऋषीन् वा इदं ब्रूमो 'पो देवीः प्रजापतिम् ।
११,६[८]।११च् - पितॄन् यमश्रेष्ठान् ब्रूमस् ते नो मुञ्चन्त्व् अंहसः ।११॥

११,६[८]।१२अ - ये देवा दिविषदो अन्तरिक्षसदश् च ये ।
११,६[८]।१२च् - पृथिव्यां शक्रा ये श्रितास् ते नो मुञ्चन्त्व् अंहसः ॥१२॥

११,६[८]।१३अ - आदित्या रुद्रा वसवो दिवि देवा अथर्वाणः ।
११,६[८]।१३च् - अङ्गिरसो मनीषिणस् ते नो मुञ्चन्त्व् अंहसः ॥१३॥

११,६[८]।१४अ - यज्ञं ब्रूमो यजमानम् ऋचः सामानि भेषजा ।
११,६[८]।१४च् - यजूंषि होत्रा ब्रूमस् ते नो मुञ्चन्त्व् अंहसः ॥१४॥

११,६[८]।१५अ - पञ्च राज्यानि वीरुधां सोमश्रेष्ठानि ब्रूमः ।
११,६[८]।१५च् - दर्भो भङ्गो यवः सहस् ते नो मुञ्चन्त्व् अंहसः ॥१५॥

११,६[८]।१६अ - अरायान् ब्रूमो रक्षांसि सर्पान् पुण्यजनान् पितॄन् ।
११,६[८]।१६च् - मृत्यून् एकशतं ब्रूमस् ते नो मुञ्चन्त्व् अंहसः ॥१६॥

११,६[८]।१७अ - ऋतून् ब्रूम ऋतुपतीन् आर्तवान् उत हायनान् ।
११,६[८]।१७च् - समाः संवत्सरान् मासांस् ते नो मुञ्चन्त्व् अंहसः ॥१७॥

११,६[८]।१८अ - एत देवा दक्षिणतः पश्चात् प्राञ्च उदेत ।
११,६[८]।१८च् - पुरस्ताद् उत्तराच् छक्रा विश्वे देवाः समेत्य ते नो मुञ्चन्त्व् अंहसः ॥१८॥

११,६[८]।१९अ - विश्वान् देवान् इदं ब्रूमः सत्यसन्धान् ऋतावृधः ।
११,६[८]।१९च् - विश्वाभिः पत्नीभिः सह ते नो मुञ्चन्त्व् अंहसः ॥१९॥

११,६[८]।२०अ - सर्वान् देवान् इदं ब्रूमः सत्यसन्धान् ऋतावृधः ।
११,६[८]।२०च् - सर्वाभिः पत्नीभिः सह ते नो मुञ्चन्त्व् अंहसः ॥२०॥

११,६[८]।२१अ - भूतं ब्रूमो भूतपतिं भूतानाम् उत यो वशी ।
११,६[८]।२१च् - भूतानि सर्वा संगत्य ते नो मुञ्चन्त्व् अंहसः ॥२१॥

११,६[८]।२२अ - या देवीः पञ्च प्रदिशो ये देवा द्वादश ऋतवः ।
११,६[८]।२२च् - संवत्सरस्य ये दंष्ट्रास् ते नः सन्तु सदा शिवाः ॥२२॥

११,६[८]।२३अ - यन् मातली रथक्रीतम् अमृतं वेद भेषजम् ।
११,६[८]।२३च् - तद् इन्द्रो अप्सु प्रावेशयत् तद् आपो दत्त भेषजम् ॥२३॥ {१८}


११,७[९]।१अ - उच्छिष्टे नाम रूपं चोच्छिष्टे लोक आहितः ।
११,७[९]।१च् - उच्छिष्ट इन्द्रश् चाग्निश् च विश्वम् अन्तः समाहितम् ॥१॥

११,७[९]।२अ - उच्छिष्टे द्यावापृथिवी विश्वं भूतं समाहितम् ।
११,७[९]।२च् - आपः समुद्र उच्छिष्टे चन्द्रमा वात आहितः ॥२॥

११,७[९]।३अ - सन्न् उच्छिष्टे असंश् चोभौ मृत्युर् वाजः प्रजापतिः ।
११,७[९]।३च् - लौक्या उच्छिष्ट आयत्ता व्रश् च द्रश् चापि श्रीर् मयि ॥३॥

११,७[९]।४अ - दृडो दृंह स्थिरो न्यो ब्रह्म विश्वसृजो दश ।
११,७[९]।४च् - नाभिम् इव सर्वतश् चक्रम् उच्छिष्टे देवताः श्रिताः ॥४॥

११,७[९]।५अ - ऋक् साम यजुर् उच्छिष्ट उद्गीथः प्रस्तुतं स्तुतम् ।
११,७[९]।५च् - हिङ्कार उच्छिष्टे स्वरः साम्नो मेढिश् च तन् मयि ॥५॥

११,७[९]।६अ - अइन्द्राग्नं पावमानं महानाम्नीर् महाव्रतम् ।
११,७[९]।६च् - उच्छिष्टे यज्ञस्याङ्गान्य् अन्तर् गर्भ इव मातरि ॥६॥

११,७[९]।७अ - राजसूयं वाजपेयम् अग्निष्टोमष् तद् अध्वरः ।
११,७[९]।७च् - अर्काश्वमेधाव् उच्छिष्टे जीवबर्हिर् मदिन्तमः ॥७॥

११,७[९]।८अ - अग्न्याधेयम् अथो दीक्षा कामप्रश् छन्दसा सह ।
११,७[९]।८च् - उत्सन्ना यज्ञाः सत्राण्य् उच्छिष्टे 'धि समाहिताः ॥८॥

११,७[९]।९अ - अग्निहोत्रं च श्रद्धा च वषट्कारो व्रतं तपः ।
११,७[९]।९च् - दक्षिणेष्टं पूर्तं चोच्छिष्टे 'धि समाहिताः ॥९॥

११,७[९]।१०अ - एकरात्रो द्विरात्रः सद्यःक्रीः प्रक्रीर् उक्थ्यः ।
११,७[९]।१०च् - ओतं निहितम् उच्छिष्टे यज्ञस्याणूनि विद्यया ॥१०॥ {१९}

११,७[९]।११अ - चतूरात्रः पञ्चरात्रः षढ्रात्रश् चोभयः सह ।
११,७[९]।११च् - षोढशी सप्तरात्रश् चोच्छिष्टाज् जज्ञिरे सर्वे ये यज्ञा अमृते हिताः ॥११॥

११,७[९]।१२अ - प्रतीहारो निधनं विश्वजिच् चाभिजिच् च यः ।
११,७[९]।१२च् - साह्नातिरात्राव् उच्छिष्टे द्वादशाहो 'पि तन् मयि ॥१२॥

११,७[९]।१३अ - सूनृता संनतिः क्षेमः स्वधोर्जामृतं सहः ।
११,७[९]।१३च् - उच्छिष्टे सर्वे प्रत्यञ्चः कामाः कामेन तातृपुः ॥१३॥

११,७[९]।१४अ - नव भूमीः समुद्रा उच्छिष्टे 'धि श्रिता दिवः ।
११,७[९]।१४च् - आ सूर्यो भात्य् उच्छिष्टे 'होरात्रे अपि तन् मयि ॥१४॥
११,७[९]।१५अ - उपहव्यं विषूवन्तं ये च यज्ञा गुहा हिताः ।
११,७[९]।१५च् - बिभर्ति भर्ता विश्वस्योच्छिष्टो जनितुः पिता ॥१५॥

११,७[९]।१६अ - पिता जनितुर् उच्छिष्टो 'सोः पौत्रः पितामहः ।
११,७[९]।१६च् - स क्षियति विश्वस्येशानो वृषा भूम्याम् अतिघ्न्यः ॥१६॥

११,७[९]।१७अ - ऋतं सत्यं तपो राष्ट्रं श्रमो धर्मश् च कर्म च ।
११,७[९]।१७च् - भूतं भविष्यद् उच्छिष्टे वीर्यं लक्ष्मीर् बलं बले ॥१७॥

११,७[९]।१८अ - समृद्धिर् ओज आकूतिः क्षत्रं राष्ट्रं षढ् उर्व्यः ।
११,७[९]।१८च् - संवत्सरो 'ध्य् उच्छिष्ट इढा प्रैषा ग्रहा हविः ॥१८॥

११,७[९]।१९अ - चतुर्होतार आप्रियश् चातुर्मास्यानि नीविदः ।
११,७[९]।१९च् - उच्छिष्टे यज्ञा होत्राः पशुबन्धास् तद् इष्टयः ॥१९॥

११,७[९]।२०अ - अर्धमासाश् च मासाश् चार्तवा ऋतुभिः सह ।
११,७[९]।२०च् - उच्छिष्टे घोषिणीर् आप स्तनयित्नुः श्रुतिर् मही ॥२०॥ {२०}

११,७[९]।२१अ - शर्कराः सिकता अश्मान ओषधयो वीरुधस् तृणा ।
११,७[९]।२१च् - अभ्राणि विद्युतो वर्षम् उच्छिष्टे संश्रिता श्रिता ॥२१॥

११,७[९]।२२अ - राद्धिः प्राप्तिः समाप्तिर् व्याप्तिर् मह एधतुः ।
११,७[९]।२२च् - अत्याप्तिर् उच्छिष्टे भूतिश् चाहिता निहिता हिता ॥२२॥

११,७[९]।२३अ - यच् च प्राणति प्राणेन यच् च पश्यति चक्षुषा ।
११,७[९]।२३च् - उच्छिष्टाज् जज्ञिरे सर्वे दिवि देवा दिविश्रितः ॥२३॥

११,७[९]।२४अ - ऋचः सामानि छन्दांसि पुराणं यजुषा सह ।
११,७[९]।२४च् - उच्छिष्टाज् जज्ञिरे सर्वे दिवि देवा दिविश्रितः ॥२४॥

११,७[९]।२५अ - प्राणापानौ चक्षुः श्रोत्रम् अक्षितिश् च क्षितिश् च या ।
११,७[९]।२५च् - उच्छिष्टाज् जज्ञिरे सर्वे दिवि देवा दिविश्रितः ॥२५॥

११,७[९]।२६अ - आनन्दा मोदाः प्रमुदो 'भीमोदमुदश् च ये ।
११,७[९]।२६च् - उच्छिष्टाज् जज्ञिरे सर्वे दिवि देवा दिविश्रितः ॥२६॥

११,७[९]।२७अ - देवाः पितरो मनुष्या गन्धर्वाप्सरसश् च ये ।
११,७[९]।२७च् - उच्छिष्टाज् जज्ञिरे सर्वे दिवि देवा दिविश्रितः ॥२७॥ {२१}


११,८[१०]।१अ - यन् मन्युर् जायाम् आवहत् संकल्पस्य गृहाद् अधि ।
११,८[१०]।१च् - क आसं जन्याः के वराः क उ ज्येष्ठवरो 'भवत् ॥१॥

११,८[१०]।२अ - तपश् चैवास्तां कर्म चान्तर् महत्य् अर्णवे ।
११,८[१०]।२च् - त आसं जन्यास् ते वरा ब्रह्म ज्येष्ठवरो 'भवत् ॥२॥

११,८[१०]।३अ - दश साकम् अजायन्त देवा देवेभ्यः पुरा ।
११,८[१०]।३च् - यो वै तान् विद्यात् प्रत्यक्षं स वा अद्य महद् वदेत् ॥३॥

११,८[१०]।४अ - प्राणापानौ चक्षुः श्रोत्रम् अक्षितिश् च क्षितिश् च या ।
११,८[१०]।४च् - व्यानोदानौ वाङ् मनस् ते वा आकूतिम् आवहन् ॥४॥

११,८[१०]।५अ - अजाता आसन्न् ऋतवो 'थो धाता बृहस्पतिः ।
११,८[१०]।५च् - इन्द्राग्नी अश्विना तर्हि कं ते ज्येष्ठम् उपासत ॥५॥

११,८[१०]।६अ - तपश् चैवास्तां कर्म चान्तर् महत्य् अर्णवे ।
११,८[१०]।६च् - तपो ह जज्ञे कर्मणस् तत् ते ज्येष्ठम् उपासत ॥६॥

११,८[१०]।७अ - येत आसीद् भूमिः पूर्वा याम् अद्धातय इद् विदुः ।
११,८[१०]।७च् - यो वै तां विद्यान् नामथा स मन्येत पुराणवित् ॥७॥

११,८[१०]।८अ - कुत इन्द्रः कुतः सोमः कुतो अग्निर् अजायत ।
११,८[१०]।८च् - कुतस् त्वष्टा सम् अभवत् कुतो धाताजायत ॥८॥

११,८[१०]।९अ - इन्द्राद् इन्द्रः सोमात् सोमो अग्नेर् अग्निर् अजायत ।
११,८[१०]।९च् - त्वष्टा ह जज्ञे त्वष्टुर् धातुर् धाताजायत ॥९॥

११,८[१०]।१०अ - ये त आसन् दश जाता देवा देवेभ्यः पुरा ।
११,८[१०]।१०च् - पुत्रेभ्यो लोकं दत्त्वा कस्मिंस् ते लोक आसते ॥१०॥ {२२}

११,८[१०]।११अ - यदा केशान् अस्थि स्नाव मांसं मज्जानम् आभरत् ।
११,८[१०]।११च् - शरीरं कृत्वा पादवत् कं लोकम् अनु प्राविशत् ॥११॥

११,८[१०]।१२अ - कुतः केशान् कुतः स्नाव कुतो अस्थीन्य् आभरत् ।
११,८[१०]।१२च् - अङ्गा पर्वाणि मज्जानं को मांसं कुत आभरत् ॥१२॥

११,८[१०]।१३अ - संसिचो नाम ते देवा ये संभारान्त् समभरन् ।
११,८[१०]।१३च् - सर्वं संसिच्य मर्त्यं देवाः पुरुषम् आविशन् ॥१३॥

११,८[१०]।१४अ - ऊरू पादाव् अष्ठीवन्तौ शिरो हस्ताव् अथो मुखम् ।
११,८[१०]।१४च् - पृष्टीर् बर्जह्ये पार्श्वे कस् तत् सम् अदधाद् ऋषिः ॥१४॥

११,८[१०]।१५अ - शिरो हस्ताव् अथो मुखं जिह्वां ग्रीवाश् च कीकसाः ।
११,८[१०]।१५च् - त्वचा प्रावृत्य सर्वं तत् संधा सम् अदधान् मही ॥१५॥

११,८[१०]।१६अ - यत् तच् छरीरम् अशयत् संधया संहितं महत् ।
११,८[१०]।१६च् - येनेदम् अद्य रोचते को अस्मिन् वर्णम् आभरत् ॥१६॥

११,८[१०]।१७अ - सर्वे देवा उपाशिक्षन् तद् अजानाद् वधूः सती ।
११,८[१०]।१७च् - ईशा वशस्य या जाया सास्मिन् वर्णम् आभरत् ॥१७॥

११,८[१०]।१८अ - यदा त्वष्टा व्यतृणत् पिता त्वष्टुर् य उत्तरः ।
११,८[१०]।१८च् - गृहं कृत्वा मर्त्यं देवाः पुरुषम् आविशन् ॥१८॥

११,८[१०]।१९अ - स्वप्नो वै तन्द्रीर् निरृतिः पाप्मानो नाम देवताः ।
११,८[१०]।१९च् - जरा खालत्यं पालित्यं शरीरम् अनु प्राविशन् ॥१९॥

११,८[१०]।२०अ - स्तेयं दुष्कृतं वृजिनं सत्यं यज्ञो यशो बृहत् ।
११,८[१०]।२०च् - बलं च क्षत्रम् ओजश् च शरीरम् अनु प्राविशन् ॥२०॥ {२३}

११,८[१०]।२१अ - भूतिश् च वा अभूतिश् च रातयो 'रातयश् च याः ।
११,८[१०]।२१च् - क्षुधश् च सर्वास् तृष्णाश् च शरीरम् अनु प्राविशन् ॥२१॥

११,८[१०]।२२अ - निन्दाश् च वा अनिन्दाश् च यच् च हन्तेति नेति च ।
११,८[१०]।२२च् - शरीरं श्रद्धा दक्षिणाश्रद्धा चानु प्राविशन् ॥२२॥

११,८[१०]।२३अ - विद्याश् च वा अविद्याश् च यच् चान्यद् उपदेश्यम् ।
११,८[१०]।२३च् - शरीरं ब्रह्म प्राविशद् ऋचः सामाथो यजुः ॥२३॥

११,८[१०]।२४अ - आनन्दा मोदाः प्रमुदो 'भीमोदमुदश् च ये ।
११,८[१०]।२४च् - हसो नरिष्टा नृत्तानि शरीरम् अनु प्राविशन् ॥२४॥

११,८[१०]।२५अ - आलापाश् च प्रलापाश् चाभीलापलपश् च ये ।
११,८[१०]।२५च् - शरीरं सर्वे प्राविशन्न् आयुजः प्रयुजो युजः ॥२५॥

११,८[१०]।२६अ - प्राणापानौ चक्षुः श्रोत्रम् अक्षितिश् च क्षितिश् च या ।
११,८[१०]।२६च् - व्यानोदानौ वाङ् मनः शरीरेण त ईयन्ते ॥२६॥

११,८[१०]।२७अ - आशिषश् च प्रशिषश् च संशिषो विशिषश् च याः ।
११,८[१०]।२७च् - चित्तानि सर्वे संकल्पाः शरीरम् अनु प्राविशन् ॥२७॥

११,८[१०]।२८अ - आस्तेयीश् च वास्तेयीश् च त्वरणाः कृपणाश् च याः ।
११,८[१०]।२८च् - गुह्याः शुक्रा स्थूला अपस् ता बीभत्साव् असादयन् ॥२८॥

११,८[१०]।२९अ - अस्थि कृत्वा समिधं तद् अष्टापो असादयन् ।
११,८[१०]।२९च् - रेतः कृत्वाज्यं देवाः पुरुषम् आविशन् ॥२९॥

११,८[१०]।३०अ - या आपो याश् च देवता या विराढ् ब्रह्मणा सह ।
११,८[१०]।३०च् - शरीरं ब्रह्म प्राविशच् छरीरे 'धि प्रजापतिः ॥३०॥

११,८[१०]।३१अ - सूर्यश् चक्षुर् वातः प्राणं पुरुषस्य वि भेजिरे ।
११,८[१०]।३१च् - अथास्येतरम् आत्मानं देवाः प्रायछन्न् अग्नये ॥३१॥

११,८[१०]।३२अ - तस्माद् वै विद्वान् पुरुषम् इदं ब्रह्मेति मन्यते ।
११,८[१०]।३२च् - सर्वा ह्य् अस्मिन् देवता गावो गोष्ठ इवासते ॥३२॥

११,८[१०]।३३अ - प्रथमेन प्रमारेण त्रेधा विष्वङ् वि गछति ।
११,८[१०]।३३च् - अद एकेन गछत्य् अद एकेन गछतीहैकेन नि षेवते ॥३३॥

११,८[१०]।३४अ - अप्सु स्तीमासु वृद्धासु शरीरम् अन्तरा हितम् ।
११,८[१०]।३४च् - तस्मिं छवो 'ध्य् अन्तरा तस्माच् छवो 'ध्य् उच्यते ॥३४॥ {२४}


११,९[११]।१अ - ये बाहवो या इषवो धन्वनां वीर्याणि च ।
११,९[११]।१च् - असीन् परशून् आयुधं चित्ताकूतं च यद् धृदि ।
११,९[११]।१ए - सर्वं तद् अर्बुदे त्वम् अमित्रेभ्यो दृशे कुरूदारांश् च प्र दर्शय ॥१॥

११,९[११]।२अ - उत् तिष्ठत सं नह्यध्वं मित्रा देवजना यूयम् ।
११,९[११]।२च् - संदृष्टा गुप्ता वः सन्तु या नो मित्राण्य् अर्बुदे ॥२॥

११,९[११]।३अ - उत् तिष्ठतम् आ रभेताम् आदानसंदानाभ्याम् ।
११,९[११]।३च् - अमित्राणां सेना अभि धत्तम् अर्बुदे ॥३॥

११,९[११]।४अ - अर्बुदिर् नाम यो देव ईशानश् च न्यर्बुदिः ।
११,९[११]।४च् - याभ्याम् अन्तरिक्षम् आवृतम् इयं च पृथिवी मही ।
११,९[११]।४ए - ताभ्याम् इन्द्रमेदिभ्याम् अहं जितम् अन्व् एमि सेनया ॥४॥

११,९[११]।५अ - उत् तिष्ठ त्वं देवजनार्बुदे सेनया सह ।
११,९[११]।५च् - भञ्जन्न् अमित्राणां सेनां भोगेभिः परि वारय ॥५॥

११,९[११]।६अ - सप्त जातान् न्यर्बुद उदाराणां समीक्षयन् ।
११,९[११]।६च् - तेभिष् ट्वम् आज्ये हुते सर्वैर् उत् तिष्ठ सेनया ॥६॥

११,९[११]।७अ - प्रतिघ्नानाश्रुमुखी कृधुकर्णी च क्रोशतु ।
११,९[११]।७च् - विकेशी पुरुषे हते रदिते अर्बुदे तव ॥७॥

११,९[११]।८अ - संकर्षन्ती करूकरं मनसा पुत्रम् इछन्ती ।
११,९[११]।८च् - पतिं भ्रातरम् आत् स्वान् रदिते अर्बुदे तव ॥८॥

११,९[११]।९अ - अलिक्लवा जाष्कमदा गृध्राः श्येनाः पतत्रिणः ।
११,९[११]।९च् - ध्वाङ्क्षाः शकुनयस् तृप्यन्त्व् अमित्रेषु समीक्षयन् रदिते अर्बुदे तव ॥९॥

११,९[११]।१०अ - अथो सर्वं श्वापदं मक्षिका तृप्यतु क्रिमिः ।
११,९[११]।१०च् - पौरुषेये 'धि कुणपे रदिते अर्बुदे तव ॥१०॥ {२५}

११,९[११]।११अ - आ गृह्णीतं सं बृहतं प्राणापानान् न्यर्बुदे ।
११,९[११]।११च् - निवाशा घोषाः सं यन्त्व् अमित्रेषु समीक्षयन् रदिते अर्बुदे तव ॥११॥

११,९[११]।१२अ - उद् वेपय सं विजन्तां भियामित्रान्त् सं सृज ।
११,९[११]।१२च् - उरुग्राहैर् बाह्वङ्कैर् विध्यामित्रान् न्यर्बुदे ॥१२॥

११,९[११]।१३अ - मुह्यन्त्व् एषां बाहवश् चित्ताकूतं च यद् धृदि ।
११,९[११]।१३च् - मैषाम् उच् छेषि किं चन रदिते अर्बुदे तव ॥१३॥

११,९[११]।१४अ - प्रतिघ्नानाः सं धावन्तूरः पटौराव् आघ्नानाः ।
११,९[११]।१४च् - अघारिणीर् विकेश्यो रुदत्यः पुरुषे हते रदिते अर्बुदे तव ॥१४॥

११,९[११]।१५अ - श्वन्वतीर् अप्सरसो रूपका उतार्बुदे ।
११,९[११]।१५च् - अन्तःपात्रे रेरिहतीं रिशां दुर्णिहितैषिणीम् ।
११,९[११]।१५ए - सर्वास् ता अर्बुदे त्वम् अमित्रेभ्यो दृशे कुरूदारांश् च प्र दर्शय ॥१५॥

११,९[११]।१६अ - खढूरे 'धिचङ्क्रमां खर्विकां खर्ववासिनीम् ।
११,९[११]।१६च् - य उदारा अन्तर्हिता गन्धर्वाप्सरसश् च ये ।
११,९[११]।१६ए - सर्पा इतरजना रक्षांसि ॥१६॥

११,९[११]।१७अ - चतुर्दंष्ट्रां छ्यावदतः कुम्भमुष्कां असृङ्मुखान् ।
११,९[११]।१७च् - स्वभ्यसा ये चोद्भ्यसाः ॥१७॥

११,९[११]।१८अ - उद् वेपय त्वम् अर्बुदे 'मित्राणाम् अमूः सिचः ।
११,९[११]।१८च् - जयंश् च जिष्णुश् चामित्रां जयताम् इन्द्रमेदिनौ ॥१८॥

११,९[११]।१९अ - प्रब्लीनो मृदितः शयां हतो 'मित्रो न्यर्बुदे ।
११,९[११]।१९च् - अग्निजिह्वा धूमशिखा जयन्तीर् यन्तु सेनया ॥१९॥

११,९[११]।२०अ - तयार्बुदे प्रणुत्तानाम् इन्द्रो हन्तु वरंवरम् ।
११,९[११]।२०च् - अमित्राणां शचीपतिर् मामीषां मोचि कश् चन ॥२०॥ {२६}

११,९[११]।२१अ - उत् कसन्तु हृदयान्य् ऊर्ध्वः प्राण उद् ईषतु ।
११,९[११]।२१च् - शौष्कास्यम् अनु वर्तताम् अमित्रान् मोत मित्रिणः ॥२१॥

११,९[११]।२२अ - ये च धीरा ये चाधीराः पराञ्चो बधिराश् च ये ।
११,९[११]।२२च् - तमसा ये च तूपरा अथो बस्ताभिवासिनः ।
११,९[११]।२२ए - सर्वांस् तां अर्बुदे त्वम् अमित्रेभ्यो दृशे कुरूदारांश् च प्र दर्शय ॥२२॥

११,९[११]।२३अ - अर्बुदिश् च त्रिषन्धिश् चामित्रान् नो वि विध्यताम् ।
११,९[११]।२३च् - यथैषाम् इन्द्र वृत्रहन् हनाम शचीपते 'मित्राणां सहस्रशः ॥२३॥

११,९[११]।२४अ - वनस्पतीन् वानस्पत्यान् ओषधीर् उत वीरुधः ।
११,९[११]।२४च् - गन्धर्वाप्सरसः सर्पान् देवान् पुण्यजनान् पितॄन् ।
११,९[११]।२४ए - सर्वांस् तां अर्बुदे त्वम् अमित्रेभ्यो दृशे कुरूदारांश् च प्र दर्शय ॥२४॥

११,९[११]।२५अ - ईशां वो मरुतो देव आदित्यो ब्रह्मणस्पतिः ।
११,९[११]।२५च् - ईशां व इन्द्रश् चाग्निश् च धाता मित्रः प्रजापतिः ।
११,९[११]।२५ए - ईशां व ऋषयश् चक्रुर् अमित्रेषु समीक्षयन् रदिते अर्बुदे तव ॥२५॥

११,९[११]।२६अ - तेषां सर्वेषाम् ईशाना उत् तिष्ठत सं नह्यध्वम् ।
११,९[११]।२६च् - मित्रा देवजना यूयम् इमं संग्रामं संजित्य यथालोकं वि तिष्ठध्वम् ॥२६॥ {२७}


११,१०[१२]।१अ - उत् तिष्ठत सं नह्यध्वम् उदाराः केतुभिः सह ।
११,१०[१२]।१च् - सर्पा इतरजना रक्षांस्य् अमित्रान् अनु धावत ॥१॥

११,१०[१२]।२अ - ईशां वो वेद राज्यं त्रिषन्धे अरुणैः केतुभिः सह ।
११,१०[१२]।२च् - ये अन्तरिक्षे ये दिवि पृथिव्यां ये च मानवाः ।
११,१०[१२]।२ए - त्रिषन्धेस् ते चेतसि दुर्णामान उपासताम् ॥२॥

११,१०[१२]।३अ - अयोमुखाः सूचीमुखा अथो विकङ्कतीमुखाः ।
११,१०[१२]।३च् - क्रव्यादो वातरंहस आ सजन्त्व् अमित्रान् वज्रेण त्रिषन्धिना ॥३॥

११,१०[१२]।४अ - अन्तर् धेहि जातवेद आदित्य कुणपं बहु ।
११,१०[१२]।४च् - त्रिषन्धेर् इयं सेना सुहितास्तु मे वशे ॥४॥

११,१०[१२]।५अ - उत् तिष्ठ त्वं देवजनार्बुदे सेनया सह ।
११,१०[१२]।५च् - अयं बलिर् व आहुतस् त्रिषन्धेर् आहुतिः प्रिया ॥५॥

११,१०[१२]।६अ - शितिपदी सं द्यतु शरव्येयं चतुष्पदी ।
११,१०[१२]।६च् - कृत्ये 'मित्रेभ्यो भव त्रिषन्धेः सह सेनया ॥६॥

११,१०[१२]।७अ - धूमाक्षी सं पततु कृधुकर्णी च क्रोशतु ।
११,१०[१२]।७च् - त्रिषन्धेः सेनया जिते अरुणाः सन्तु केतवः ॥७॥

११,१०[१२]।८अ - अवायन्तां पक्षिणो ये वयांस्य् अन्तरिक्षे दिवि ये चरन्ति ।
११,१०[१२]।८च् - श्वापदो मक्षिकाः सं रभन्ताम् आमादो गृध्राः कुणपे रदन्ताम् ॥८॥

११,१०[१२]।९अ - याम् इन्द्रेण संधां समधत्था ब्रह्मणा च बृहस्पते ।
११,१०[१२]।९च् - तयाहम् इन्द्रसंधया सर्वान् देवान् इह हुव इतो जयत मामुतः ॥९॥

११,१०[१२]।१०अ - बृहस्पतिर् आङ्गिरस ऋषयो ब्रह्मसंशिताः ।
११,१०[१२]।१०च् - असुरक्षयणं वधं त्रिषन्धिं दिव्य् आश्रयन् ॥१०॥ {२८}

११,१०[१२]।११अ - येनासौ गुप्त आदित्य उभाव् इन्द्रश् च तिष्ठतः ।
११,१०[१२]।११च् - त्रिषन्धिं देवा अभजन्तौजसे च बलाय च ॥११॥

११,१०[१२]।१२अ - सर्वांल् लोकान्त् सम् अजयन् देवा आहुत्यानया ।
११,१०[१२]।१२च् - बृहस्पतिर् आङ्गिरसो वज्रं यम् असिञ्चतासुरक्षयणं वधम् ॥१२॥

११,१०[१२]।१३अ - बृहस्पतिर् आङ्गिरसो वज्रं यम् असिञ्चतासुरक्षयणं वधम् ।
११,१०[१२]।१३च् - तेनाहम् अमूं सेनां नि लिम्पामि बृहस्पते 'मित्रान् हन्म्य् ओजसा ॥१३॥

११,१०[१२]।१४अ - सर्वे देवा अत्यायन्ति ये अश्नन्ति वषट्कृतम् ।
११,१०[१२]।१४च् - इमां जुषध्वम् आहुतिम् इतो जयत मामुतः ॥१४॥

११,१०[१२]।१५अ - सर्वे देवा अत्यायन्तु त्रिषन्धेर् आहुतिः प्रिया ।
११,१०[१२]।१५च् - संधां महतीं रक्षत ययाग्रे असुरा जिताः ॥१५॥

११,१०[१२]।१६अ - वायुर् अमित्राणाम् इष्वग्राण्य् आञ्चतु ।
११,१०[१२]।१६च् - इन्द्र एषां बाहून् प्रति भनक्तु मा शकन् प्रतिधाम् इषुम् ।
११,१०[१२]।१६ए - आदित्य एषाम् अस्त्रं वि नाशयतु चन्द्रमा युताम् अगतस्य पन्थाम् ॥१६॥

११,१०[१२]।१७अ - यदि प्रेयुर् देवपुरा ब्रह्म वर्माणि चक्रिरे ।
११,१०[१२]।१७च् - तनूपानं परिपाणं कृण्वाना यद् उपोचिरे सर्वं तद् अरसं कृधि ॥१७॥

११,१०[१२]।१८अ - क्रव्यादानुवर्तयन् मृत्युना च पुरोहितम् ।
११,१०[१२]।१८च् - त्रिषन्धे प्रेहि सेनया जयामित्रान् प्र पद्यस्व ॥१८॥
११,१०[१२]।१९अ - त्रिषन्धे तमसा त्वम् अमित्रान् परि वारय ।
११,१०[१२]।१९च् - पृषदाज्यप्रणुत्तानां मामीषां मोचि कश् चन ॥१९॥

११,१०[१२]।२०अ - शितिपदी सं पतत्व् अमित्राणाम् अमूः सिचः ।
११,१०[१२]।२०च् - मुह्यन्त्व् अद्यामूः सेना अमित्राणां न्यर्बुदे ॥२०॥ {२९}

११,१०[१२]।२१अ - मूडा अमित्रा न्यर्बुदे जह्य् एषां वरंवरम् ।
११,१०[१२]।२१च् - अनया जहि सेनया ॥२१॥

११,१०[१२]।२२अ - यश् च कवची यश् चाकवचो 'मित्रो यश् चाज्मनि ।
११,१०[१२]।२२च् - ज्यापाशैः कवचपाशैर् अज्मनाभिहतः शयाम् ॥२२॥

११,१०[१२]।२३अ - ये वर्मिणो ये 'वर्माणो अमित्रा ये च वर्मिणः ।
११,१०[१२]।२३च् - सर्वांस् तां अर्बुदे हतां छ्वानो 'दन्तु भूम्याम् ॥२३॥

११,१०[१२]।२४अ - ये रथिनो ये अरथा असादा ये च सादिनः ।
११,१०[१२]।२४च् - सर्वान् अदन्तु तान् हतान् गृध्राः श्येनाः पतत्रिणः ॥२४॥

११,१०[१२]।२५अ - सहस्रकुणपा शेताम् आमित्री सेना समरे वधानाम् ।
११,१०[१२]।२५च् - विविद्धा ककजाकृता ॥२५॥

११,१०[१२]।२६अ - मर्माविधं रोरुवतं सुपर्णैर् अदन्तु दुश्चितं मृदितं शयानम् ।
११,१०[१२]।२६च् - य इमां प्रतीचीम् आहुतिम् अमित्रो नो युयुत्सति ॥२६॥

११,१०[१२]।२७अ - यां देवा अनुतिष्ठन्ति यस्या नास्ति विराधनम् ।
११,१०[१२]।२७च् - तयेन्द्रो हन्तु वृत्रहा वज्रेण त्रिषन्धिना ॥२७॥ {३०}

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP