पाद १ - खण्ड ६४

व्याकरणमहाभाष्य म्हणजे पाणिनि लिखीत अष्टाध्यायीतील काही निवडक सूत्रांवर पतञ्जलिने केलेले भाष्य. या ग्रंथाची रचना ई.पू २०० ते ई.पू १४० मध्ये केली गेली, असे मत व्याकरण पंडितांचे आहे.


१ - ७७ - ओतः तिङि प्रतिषेधः ।

२ - ७७ - ओतः तिङि प्रतिषेधः वक्तव्यः ।

३ - ७७ - अचिनवम् , असुनवम् ।

४ - ७७ - सः तर्हि प्रतिषेधः वक्तव्यः ।

५ - ७७ - न वक्तव्यः ।

६ - ७७ - गोग्रहणम् करिष्यते ।

७ - ७७ - आ गोतः इति वक्तव्यम् ।

८ - ७७ - गोग्रहणे द्योः उपसङ्ख्यनम् ।

९ - ७७ - गोग्रहणे द्योः उपसङ्ख्यनम् कर्तव्यम् ।

१० - ७७ - द्यम् गच्छ ।

११ - ७७ - समासात् च प्रतिषेधः ।

१२ - ७७ - समासात् च प्रतिषेधः वक्तव्यः ।

१३ - ७७ - चित्रगुम् पश्य ।

१४ - ७७ - शबलगुम् पश्य ।

१५ - ७७ - ननु च आ ओतः इति उच्यमाने अपि समासात् प्रतिषेधः वक्तव्यः ।

१६ - ७७ - न वक्तव्यः ।

१७ - ७७ - ह्रस्वत्वे कृते न भविष्यति ।

१८ - ७७ - इदम् इह सम्प्रधार्यम् ।

१९ - ७७ - आत्वम् क्रियताम् ह्रस्वत्वम् इति किम् अत्र कर्तव्यम् ।

२० - ७७ - परत्वात् आत्वम् ।

२१ - ७७ - न वा बहिरङ्गलक्षणत्वात् ।

२२ - ७७ - न वा वक्तव्यः ।

२३ - ७७ - किम् कारणम् ।

२४ - ७७ - बहिरङ्गलक्षणत्वात् ।

२५ - ७७ - बहिरङ्गलक्षणम् आत्वम् ।

२६ - ७७ - अन्तरङ्गम् ह्रस्वत्वम् ।

२७ - ७७ - असिद्धम् बहिरङ्गम् अन्तरङ्गे ।

२८ - ७७ - ननु च आ गोतः इति उच्यमाने अपि समासात् प्रतिषेधः न वक्तव्यः ।

२९ - ७७ - कथम् ।

३० - ७७ - ह्रस्वत्वे कृते न भविष्यति ।

३१ - ७७ - स्थानिवद्भावात् प्राप्नोति ।

३२ - ७७ - ननु च आ ओतः इति उच्यमाने अपि स्थानिवद्भावात् प्राप्नोति ।

३३ - ७७ - न इति आह ।

३४ - ७७ - अनल्विधौ स्थानिवद्भावः ।

३५ - ७७ - आ गोतः इति उच्यमाने अपि न दोषः ।

३६ - ७७ - प्रतिषिध्यते अत्र स्थानिवद्भावः ।

३७ - ७७ - गोः पूर्वणित्वात्वस्वरेषु स्थानिवत् न भवति इति ।

३८ - ७७ - सः एव तर्हि दोषः ।

३९ - ७७ - गोग्रहणे द्योः उपसङ्ख्यनम् इति ।

४० - ७७ - सूत्रम् च भिद्यते ।

४१ - ७७ - यथान्यासम् एव अस्तु ।

४२ - ७७ - ननु च उक्तम् ओतः तिङि प्रतिषेधः इति ।

४३ - ७७ - सुबधिकारात् सिद्धम् ।

४४ - ७७ - सुपि इति वर्तते ।

४५ - ७७ - क्व प्रकृतम् ।

४६ - ७७ - वा सुपि आपिशलेः इति ।

४७ - ७७ - यदि अनुवर्तते इह अपि विभाषा प्राप्नोति ।

४८ - ७७ - सुब्ग्रहणम् अनुवर्तते ।

४९ - ७७ - वाग्रहणम् निवृत्तम् ।

५० - ७७ - कथम् पुनः एकयोगनिर्दिष्टयोः एकदेशः अनुवर्तते एकदेशः न ।

५१ - ७७ - एकयोगे च एकदेशानुवृत्तिः अन्यत्र अपि ।

५२ - ७७ - एकयोग्निर्दिष्टानाम् अपि एकदेशानुवृत्तिः भवति ।

५३ - ७७ - अन्यत्र अपि ।

५४ - ७७ - न अवश्यम् इह एव ।

५५ - ७७ - क्व अन्यत्र ।

५६ - ७७ - अलुगधिकारः प्राक् आनङः ।

५७ - ७७ - उत्तरपदाहिकारः प्राक् अङ्गाधिकारः ।

५८ - ७७ - एवम् अपि अमि उपसङ्ख्यानम् वृद्धिबलीयस्त्वात् ।

५९ - ७७ - अमि उपसङ्ख्यानम् कर्तव्यम् ।

६० - ७७ - गाम् पश्य ।

६१ - ७७ - किम् पुनः कारणम् न सिध्यति ।

६२ - ७७ - वृद्धिबलीयस्त्वात् ।

६३ - ७७ - परत्वात् वृद्धिः प्राप्नोति ।

६४ - ७७ - न वा अनवकाशत्वात् ।

६५ - ७७ - न वा वक्तव्यम् ।

६६ - ७७ - किम् कारणम् ।

६७ - ७७ - अनवकाशत्वात् ।

६८ - ७७ - अनवकाशम् आत्वम् वृद्धिम् बाधिष्यते ।

६९ - ७७ - सावकाशम् आत्वम् ।

७० - ७७ - कः अवकाशः ।

७१ - ७७ - द्याम् गच्छ ।

७२ - ७७ - द्योः च सर्वनामस्थाने वृद्धिविधिः ।

७३ - ७७ - द्योः च सर्वनामस्थाने वृद्धिः विधेया ।

७४ - ७७ - किम् प्रयोजनम् ।

७५ - ७७ - यत् द्यावः इन्द्र इति दर्शनात् ।

७६ - ७७ - यत् द्यवः इन्द्र ते शतं शतम् भुमीः उत स्युः ।

७७ - ७७ - यावता च इदानीम् द्योः अपि सर्वनामस्थाने वृद्धिः उच्यते अनवकाशम् आत्वम् वृद्धिम् बाधिष्यते ।

१ - ३१ - पररूपप्रकरणे तुन्वोः वि निपाते उपसङ्ख्यानम् ।

२ - ३१ - पररूपप्रकरणे तु , नु, इति एतयोः वकारादौ निपाते उपसङ्ख्यानम् कर्तव्यम् ।

३ - ३१ - तु वै त्वै , नु वै न्वै ।

४ - ३१ - वकारादौ इति किमर्थम् ।

५ - ३१ - त्वावत् , न्वावत् ।

६ - ३१ - निपाते इति किमर्थम् ।

७ - ३१ - तु वानि , नु वानि ।

८ - ३१ - न वा निपातैकत्वात् ।

९ - ३१ - न वा कर्तव्यम् ।

१० - ३१ - किम् कारणम् ।

११ - ३१ - निपातैकत्वात् ।

१२ - ३१ - एकः एव अयम् निपातः ।

१३ - ३१ - त्वै , न्वै ।

१४ - ३१ - एवे च अनियोगे ।

१५ - ३१ - एवे च अनियोगे पररूपम् वक्तव्यम् ।

१६ - ३१ - इह एव , इहेव ।

१७ - ३१ - अद्येव ।

१८ - ३१ - अनियोगे इति किमर्थम् ।

१९ - ३१ - इहैव भव म स्म गाः ।

२० - ३१ - अत्रैव त्वम् इह वयम् सुशेवाः ।

२१ - ३१ - शकन्ध्वादिषु च ।

२२ - ३१ - शकन्ध्वादिषु च पररूपम् वक्तव्यम् ।

२३ - ३१ - शक-अन्धुः शकन्धुः , कुल-अटा , कुलटा , सीम-अन्तः सीमन्तः ।

२४ - ३१ - केशेषु इति वक्तव्यम् ।

२५ - ३१ - यः हि सीम्नः अन्तः सीमान्तः सः भवति ।

२६ - ३१ - ओत्वोष्ठयोः समासे वा । ओत्वोष्ठयोः समासे वा पररूपम् वक्तव्यम् ।

२७ - ३१ - स्थूलौतुः , स्थूलोतुः ।

२८ - ३१ - बिम्बौष्थी , बिम्बोष्ठी ।

२९ - ३१ - एमनादिषु छन्दसि ।

३० - ३१ - एमनादिषु छन्दसि पररूपम् वक्तव्यम् ।

३१ - ३१ - अपम् त्वेमन् सादयामि अपम् तोदयन् सादयामि इति ।

१ - १७ - किमर्थः चकारः ।

२ - १७ - एङि इति अनुकृष्यते ।

३ - १७ - किम् प्रयोजनम् ।

४ - १७ - इह मा भूत् ।

५ - १७ - अद्य आ ऋश्यात् , अद्यार्श्यात् , कदार्श्यात् ।

६ - १७ - न एतत् अस्ति प्रयोजनम् ।

७ - १७ - अद्यर्श्यात् इति एव भवितव्यम् ।

८ - १७ - एवम् हि सौनागाः पठन्ति ।

९ - १७ - चः अनर्थकः अनधिकारात् एङः ।

१० - १७ - उस्योमाङ्क्षु आटः प्रतिषेधः ।

११ - १७ - उसि पररूपे ओमाङोः च आटः प्रतिषेधः वक्तव्यः ।

१२ - १७ - औस्रीयत् , औढीयत् , औङ्कारीयत् ।

१३ - १७ - सः तर्हि प्रतिषेधः वक्तव्यः ।

१४ - १७ - न वक्तव्यः ।

१५ - १७ - उक्तम् आतः च इति अत्र चकारस्य प्रयोजनम् ।

१६ - १७ - वृद्धिः एव यथा स्यात् ।

१७ - १७ - यत् अन्यत् प्राप्नोति तत् मा भूत् इति ।

१ - १३ - अपदान्तात् इति किमर्थम् ।

२ - १३ - का , उस्रा , कोस्रा ।

३ - १३ - अपदान्तात् इति शक्यम् अकर्तुम् ।

४ - १३ - कस्मात् न भवति का , उस्रा , कोस्रा ।

५ - १३ - अर्थवद्ग्रहणे न अनर्थकस्य इति ।

६ - १३ - न एषा परिभाषा इह शक्या विज्ञातुम् ।

७ - १३ - इह हि दोषः स्यात् ।

८ - १३ - भिन्द्या-उस् , भिन्द्युः , छिन्द्या-उस्, छिन्द्युः ।

९ - १३ - एवम् तर्हि लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्य एव इति एवम् न भविष्यति ।

१० - १३ - उत्तरार्थम् तर्हि अपदान्तग्रहणम् कर्तव्यम् ।

११ - १३ - अतः गुणे अपदान्तात् यथा स्यात् ।

१२ - १३ - इह मा भूत् ।

१३ - १३ - दण्डाग्रम् , क्षुपाग्रम् इति ।

१ - ५ - इतौ अनेकाज्ग्रहणम् श्रदर्थम् ।

२ - ५ - इतौ अनेकाज्ग्रहणम् कर्तव्यम् ।

३ - ५ - किम् प्रयोजनम् ।

४ - ५ - श्रदर्थम् ।

५ - ५ - श्रत् इति ।

१ - ९ - नित्यम् आम्रेडिते डाचि ।

२ - ९ - नित्यम् आम्रेडिते डाचि पररूपम् कर्तव्यम् ।

३ - ९ - पटपटायति ।

४ - ९ - अकारन्तात् अनुकरणात् वा ।

५ - ९ - अथ वा अकारान्तम् एतद् उदाहरणम् ।

६ - ९ - भवेत् सिद्धम् यदा अकारान्तम् ।

७ - ९ - यदा तु खलु अच्छब्दान्तम् तदा न सिध्यति ।

८ - ९ - विचित्राः तद्धितवृत्तयः ।

९ - ९ - न अतः तद्धितः उत्पद्यते ।

१ - ६ - सवर्णदीर्घत्वे ऋति ऋवावचनम् ।

२ - ६ - सवर्णदीर्घत्वे ऋति ऋ वा भवति इति वक्तव्यम् ।

३ - ६ - होतृ ऋकारः , होतृ̄कारः ।

४ - ६ - लृति लृवावचनम् ।

५ - ६ - लृति ल्̥ वा भवति इति वक्तव्यम् ।

६ - ६ - होतृ ल्̥कारः , होत्ल्ल्̥̄कारः ।

१ - ४० - प्रथम्योः इति उच्यते ।

२ - ४० - कयोः इह प्रथम्योः ग्रहणम् ।

३ - ४० - किम् विभक्त्योः आहोस्वित् प्रत्यययोः ।

४ - ४० - विभक्त्योः इति आह ।

५ - ४० - कथम् ज्ञायते ।

६ - ४० - अचि इति वर्तते न च अजादौ प्रथमौ प्रत्ययौ स्तः ।

७ - ४० - ननु च एवम् विज्ञायते ।

८ - ४० - अजादी यौ प्रथमौ अजादीनाम् वा यौ प्रथमौ इति ।

९ - ४० - यत् तर्हि तस्मात् शसः नः पुंसि इति अनुक्रान्तम् पूर्वसवर्णम् प्रतिनिर्दिशति तत् ज्ञापयति आचार्यः विभक्त्योः ग्रहणम् इति ।

१० - ४० - अथ वा सुपि इति वर्तते ।

११ - ४० - अथम् किमर्थम् पूर्वसवर्णदीर्घः अमि पूर्वत्वम् च उच्यते न प्रथम्योः पूर्वसवर्णः इति एव सिद्धम् ।

१२ - ४० - न सिध्यति ।

१३ - ४० - प्रथम्योः पूर्वसवर्णः इति उच्यमाने अमि अपि दीर्घः प्राप्नोति ।

१४ - ४० - वृक्षम् , प्लक्षम् ।

१५ - ४० - न एषः दोषः ।

१६ - ४० - यत् पूर्वस्मिन् योगे दीर्घग्रहणम् तत् उत्तरत्र निवृत्तम् ।

१७ - ४० - एवम् अपि इदम् इह पूर्वसवर्णग्रहणम् क्रियते ।

१८ - ४० - तेन अमि अपि पूर्वसवर्णः प्रसज्येत ।

१९ - ४० - वृक्षम् , प्लक्षम् ।

२० - ४० - द्विमात्रः प्राप्नोति ।

२१ - ४० - न एषः दोषः ।

२२ - ४० - सवर्णग्रहणम् न करिष्यते ।

२३ - ४० - यदि सवर्णग्रहणम् न क्रियते कुतः व्यवस्था ।

२४ - ४० - आन्तर्यतः ।

२५ - ४० - यदि एवम् अग्नी वायू त्रिमात्रः प्राप्नोति वृक्षम् , प्लक्षम् द्विमात्रः ।

२६ - ४० - तस्मात् सवर्णग्रहणम् कर्तव्यम् ।

२७ - ४० - तस्मिन् च क्रियमाणे दीर्घग्रहणम् अनुवर्तते ।

२८ - ४० - तस्मिन् अनुवर्तमाने अमि पूर्वः इति अपि वक्तव्यम् ।

२९ - ४० - अथ किमर्थम् पृथक् उच्यते न इह एक एव उच्येत ।

३० - ४० - प्रथमयोः पूर्वसवर्णः अमि च इति ।

३१ - ४० - यदि प्रथमयोः पूर्वसवर्णदीर्घः अमि च इति उच्यते तन अमि अपि दीर्घः प्रसज्येत ।

३२ - ४० - वृक्षम् , प्लक्षम् ।

३३ - ४० - न एषः दोषः ।

३४ - ४० - दीर्घग्रहणम् निवर्तयिष्यते ।

३५ - ४० - एवम् अपि पूर्वसवर्णः प्रसज्येत ।

३६ - ४० - सवर्णग्रहणम् न करिष्यते ।

३७ - ४० - यदि सवर्णग्रहणम् न क्रियते पूर्वस्मिन् योगे विप्रतिषिद्धम् ।

३८ - ४० - यदि पूर्वः न दीर्घः अथ दीर्घः न पूर्वः ।

३९ - ४० - पूर्वः दीर्घः च इति विप्रतिषिद्धम् ।

४० - ४० - तस्मात् उभयम् आरब्धव्यम् पृथक् च कर्तव्यम् ।

१ - १०७ - प्रथमयोः इति योगविभागः सवर्णदीर्घार्थः ।

२ - १०७ - प्रथमयोः इति योगविभागः कर्तव्यः ।

३ - १०७ - प्रथमयोः एकः सवर्णदीर्घः भवति ।

४ - १०७ - ततः पूर्वसवर्णः ।

५ - १०७ - पूर्वसवर्णदीर्घः भवति एकः प्रथमयोः इति ।

६ - १०७ - किमर्थः योगविभागः ।

७ - १०७ - सवर्णदीर्घत्वम् यथा स्यात् ।

८ - १०७ - एकयोगे हि जश्शहोः पररूपप्रसङ्गः ।

९ - १०७ - एकयोगे हि सति जश्शहोः पररूपम् प्रसज्येत ।

१० - १०७ - वृक्षाः , प्लक्षाः , वृक्षान् , प्लक्षान् ।

११ - १०७ - ननु च पूर्वसवर्णदीर्घत्वम् पररूपम् बाधिष्यते ।

१२ - १०७ - न उत्सहते बाधितुम् ।

१३ - १०७ - किम् कारणम् ।

१४ - १०७ - आद्गुणयणादेशयोः अपवादाः वृद्धिसवर्णदीर्घपूर्वसवर्णादेशाः तेषाम् पररूपम् स्वरसन्धिषु ।

१५ - १०७ - आद्गुणयणादेशौ उत्सर्गौ ।

१६ - १०७ - तयोः अपवादाः वृद्धिसवर्णदीर्घपूर्वसवर्णादेशाः तेषाम् सर्वेषाम् पररूपम् अपवादः ।

१७ - १०७ - तत् सर्वबाधकम् ।

१८ - १०७ - सर्वबाधकत्वात् प्राप्नोति ।

१९ - १०७ - अथ क्रियमाणे अपि योगविभागे यावता पररूपम् अपवादः कस्मात् एव न बाधते ।

२० - १०७ - योगविभागः अन्यशास्त्रनिवृत्तियर्थः ।

२१ - १०७ - योगविभागः अन्यशास्त्रनिवृत्तियर्थः विज्ञायते ।

२२ - १०७ - योगविभागः अन्यशास्त्रनिवृत्तियर्थः चेत् अमि अतिप्रसङ्गः । योगविभागः अन्यशास्त्रनिवृत्तियर्थः चेत् अमि अतिप्रसङ्गः भवति ।

२३ - १०७ - वृक्षम् , प्लक्षम् ।

२४ - १०७ - यथा एव हि योगविभागः पररूपम् बाधते एवम् अमि पूर्वत्वम् अपि बाधेत ।

२५ - १०७ - नकाराभावः च तस्मात् इति अनन्तरनिर्देशात् ।

२६ - १०७ - नत्वस्य च अभावः ।

२७ - १०७ - वृक्षान् , प्लक्षान् ।

२८ - १०७ - किम् कारणम् ।

२९ - १०७ - च तस्मात् इति अनन्तरनिर्देशात् ।

३० - १०७ - तस्मात् इति अनेन अनन्तरः योगः प्रतिनिर्दिश्यते ।

३१ - १०७ - किम् पुनः कारणम् तस्मात् इति अनेन अनन्तरः योगः प्रतिनिर्दिश्यते ।

३२ - १०७ - इह मा भूत् ।

३३ - १०७ - एतान् गाः पश्य [ऋएतान् गाः चतुरः बलिवर्दान् पश्य] इति ।

३४ - १०७ - अस्तु तर्हि एकयोगः एव ।

३५ - १०७ - ननु च उक्तम् एकयोगे हि जश्शहोः पररूपप्रसङ्गः इति ।

३६ - १०७ - न एषः दोषः ।

३७ - १०७ - इज्ग्रहणम् तु ज्ञापकम् पररूपाभावस्य ।

३८ - १०७ - यत् अयम् न आत् इचि इति इज्ग्रहणम् करोति तत् ज्ञापयति आचार्यः न जश्शसोः पररूपम् भवति इति ।

३९ - १०७ - कथम् कृत्वा ज्ञापकम् ।

४० - १०७ - इज्ग्रहणस्य इदम् प्रयोजनम् ।

४१ - १०७ - इह मा भूत् ।

४२ - १०७ - वृक्षाः , प्लक्षाः , वृक्षान् , प्लक्षान् ।

४३ - १०७ - यदि च जश्शसोः पररूपम् स्यात् इज्ग्रहणम् अनर्थकम् स्यात् ।

४४ - १०७ - पश्यति तु आचार्यः न जश्शसोः पररूपम् भवति इति ।

४५ - १०७ - ततः इज्ग्रहणम् करोति ।

४६ - १०७ - न एतत् अस्ति ज्ञापकम् ।

४७ - १०७ - उत्तरार्थम् एतत् स्यात् ।

४८ - १०७ - दीर्घात् जसि च इचि च इति ।

४९ - १०७ - यदि उत्तरार्थम् एतत् स्यात् अत्र एव अयम् इज्द्ग्रहणम् कुर्वीत ।

५० - १०७ - इह अपि तर्हि क्रियमाणम् यदि उत्तरार्थम् न ज्ञापकम् भवति ।

५१ - १०७ - एवम् तर्हि यदि उत्तरार्थम् एतत् स्यात् न एव अयम् इज्द्ग्रहणम् कुर्वीत न अपि जस्ग्रहणम् ।

५२ - १०७ - एतावत् अयम् ब्रूयात् ।

५३ - १०७ - दीर्घात् शसि पूर्वसवर्णः भवति इति ।

५४ - १०७ - तत् नियमार्थम् भविष्यति ।

५५ - १०७ - दीर्घात् शसि एव न अन्यत्र इति ।

५६ - १०७ - सः अयम् एवम् लघीयसा न्यासेन सिद्धे यत् इज्ग्रहणम् करोति तत् ज्ञापयति आचार्यः न जश्शसोः पररूपम् भवति इति ।

५७ - १०७ - अथ वा पुनः अस्तु योगविभागः ।

५८ - १०७ - ननु च उक्तम् योगविभागः अन्यशास्त्रनिवृत्तियर्थः चेत् अमि अतिप्रसङ्गः इति ।

५९ - १०७ - न एषः दोषः ।

६० - १०७ - अमि अपि योगविभागः करिष्यते ।

६१ - १०७ - अमि ।

६२ - १०७ - अमि यत् उक्तम् तत् न भवति इति ।

६३ - १०७ - ततः पूर्वः ।

६४ - १०७ - पूर्वः च भवति अमि इति ।

६५ - १०७ - यत् अपि उच्यते नकाराभावः च तस्मात् इति अनन्तरनिर्देशात् इति ।

६६ - १०७ - कः पुनः अर्हति तस्मात् इति अनेन अनन्तरम् योगम् प्रतिनिर्देष्टुम् ।

६७ - १०७ - एवम् किल प्रतिनिर्दिश्यते ।

६८ - १०७ - तस्मात् पूर्वसवर्णदीर्घात् इति ।

६९ - १०७ - तत् च न ।

७० - १०७ - एवम् प्रतिनिर्दिश्यते ।

७१ - १०७ - तस्मात् अकः सवर्णात् इति ।

७२ - १०७ - अथ वा तस्मात् प्रथम्योः दीर्घात् इति ।

७३ - १०७ - अथ वा पुनः अस्तु अमि एकयोगः ।

७४ - १०७ - ननु च उक्तम् योगविभागः अन्यशास्त्रनिवृत्तियर्थः चेत् अमि अतिप्रसङ्गः इति ।

७५ - १०७ - न एषः दोषः ।

७६ - १०७ - मध्ये अपवादाः पूर्वान् विधीन् बाधन्ते इति एवम् अयम् योगविभागः पररूपम् बाधिष्यते अमि पूर्वत्वम् न बाधिष्यते ।

७७ - १०७ - यदि एतत् अस्ति मध्ये अपवादाः पुरस्तात् अपवादाः इति न अर्थः एकेन अपि योगविभागेन ।

७८ - १०७ - पुरस्तात् अपवादाः अनन्तरान् विधीन् बाधन्ते इति एवम् पररूपम् सवर्णदीर्घत्वम् बाधिष्यते प्रथमयोः पूर्वसवर्णदीर्घत्वम् न बाधिष्यते ।

७९ - १०७ - अथ वा सप्तमे योगविभागः करिष्यते ।

८० - १०७ - इदम् अस्ति अतः दीर्घः यञि सुपि च इति ।

८१ - १०७ - ततः वक्ष्यामि बहुवचने ।

८२ - १०७ - बहुवचने च अतः दीर्घः भवति ।

८३ - १०७ - एकारः च भवति बहुवचने झलि इति ।

८४ - १०७ - इह अपि तर्हि प्राप्नोति ।

८५ - १०७ - वृषाणाम् , प्लक्षाणाम् ।

८६ - १०७ - तत्र कः दोषः ।

८७ - १०७ - दीर्घत्वे कृते ह्रस्वाश्रयः नुट् न प्राप्नोति ।

८८ - १०७ - इदम् इह सम्प्रधार्यम् ।

८९ - १०७ - दीर्घत्वम् क्रियताम् नुट् इति किम् अत्र कर्तव्यम् ।

९० - १०७ - परत्वात् दीर्घत्वम् ।

९१ - १०७ - नित्यम् खलु अपि दीर्घत्वम् ।

९२ - १०७ - कृते अपि नुटि प्राप्नोति अकृते अपि ।

९३ - १०७ - नित्यत्वात् परत्वात् च दीर्घत्वे कृते ह्रस्वाश्रयः नुट् न प्राप्नोति ।

९४ - १०७ - एवम् तर्हि आद्ग्रहणम् इह अपि प्रकृतम् अनुवर्तते ।

९५ - १०७ - क्व प्रकृतम् ।

९६ - १०७ - आत् जसेः असुक् इति ।

९७ - १०७ - तेन कृते अपि दीर्घत्वे नुट् भविष्यति ।

९८ - १०७ - इह अपि तर्हि प्राप्नोति ।

९९ - १०७ - कीलालपाम् , शुभंयाम् ।

१०० - १०७ - आतः लोपः अत्र बाधकः भविष्यति ।

१०१ - १०७ - इदम् इह सम्प्रधार्यम् ।

१०२ - १०७ - लोपः क्रियताम् नुट् इति किम् अत्र कर्तव्यम् ।

१०३ - १०७ - परत्वात् नुट् ।

१०४ - १०७ - एवम् तर्हि ह्रस्वनद्यापः नुट् इति अत्र आतः धातोः इति आतः लोपः सम्बन्धम् अनुवर्तिष्यते ।

१०५ - १०७ - इह अपि तर्हि प्राप्नोति ।

१०६ - १०७ - कीलालपानाम् ब्राह्मणकुलानाम् ।

१०७ - १०७ - नपुंसकस्य न इति अनुवर्तिष्यते ।

१ - २६ - किम् इदम् नत्वम् पुंसाम् बहुत्वे भवति आहोस्वित् पुंशब्दात् बहुषु ।

२ - २६ - कः च अत्र विशेषः ।

३ - २६ - नत्वम् पुंसाम् बहुत्वे चेत् पुंशब्दात् इष्यते स्त्रियाम् ।

४ - २६ - तत् न सिध्यति ।

५ - २६ - भ्रूकुंसान् पश्य इति ।

६ - २६ - नपुंसके तथा एव इष्टम् ।

७ - २६ - तत् न सिध्यति ।

८ - २६ - षण्ढान् पश्य ।

९ - २६ - पण्डकान् पश्य इति ।

१० - २६ - स्त्रीशब्दात् च प्रसज्यते । स्त्रीशब्दात् च प्राप्नोति चञ्चाः पश्य , वध्रिकाः पश्य , खरकुटीः पश्य ।

११ - २६ - अस्तु तर्हि पुंशब्दात् बहुषु ।

१२ - २६ - पुंशबात् इति चेत् इष्टम् स्थूरापत्यम् न सिध्यति । स्थूरान् पश्य इति ।

१३ - २६ - कुण्डिन्याः अररकायाः ।

१४ - २६ - अपत्यम् च न सिध्यति ।

१५ - २६ - कुण्डिनान् पश्य ।

१६ - २६ - अररकान् पश्य ।

१७ - २६ - पुंस्प्राधान्यात् प्रसिध्यति । पुंस्प्रधाना एते शब्दाः ।

१८ - २६ - ततः नत्वम् भविष्यति ।

१९ - २६ - पुंस्प्राधान्ये ते एव स्युः ये दोषाः पूर्वचोदिताः ।

२० - २६ - भ्रूकुंसान् पश्य ।

२१ - २६ - षण्ढान् पश्य ।

२२ - २६ - पण्डकान् पश्य ।

२३ - २६ - चञ्चाः पश्य ।

२४ - २६ - वध्रिकाः पश्य ।

२५ - २६ - खरकुटीः पश्य इति ।

२६ - २६ - तस्मात् यस्मिन् पक्षे अल्पीयांसः दोषाः तम् आस्थाय प्रतिविधेयम् दोषेषु ।

१ - ५ - वा छन्दसि इति एव ।

२ - ५ - यमीम् च यम्यम् च ।

३ - ५ - शमीम् च शम्यम् च ।

४ - ५ - गरुईम् च गौर्यम् च ।

५ - ५ - किशोरीम् च किशोर्यम् च ।

१ - ३ - वा छन्दसि इति एव ।

२ - ३ - मित्रावरुणौ यज्यमानः ।

३ - ३ - मित्रावरुणौ इज्यमानः ।

१ - २९ - सम्प्रसारणात् पूर्वत्वे समानाङ्गग्रहणम् असमानाङ्गप्रतिषेधार्थम् ।

२ - २९ - सम्प्रसारणात् पूर्वत्वे समानाङ्गग्रहणम् कर्तव्यम् ।

३ - २९ - किम् प्रयोजनम् ।

४ - २९ - असमानाङ्गप्रतिषेधार्थम् ।

५ - २९ - असमानाङ्गस्य मा भूत् इति ।

६ - २९ - शकह्वर्थम् , परिव्यर्थम् ।

७ - २९ - सिद्धम् असम्प्रसारणात् ।

८ - २९ - सिद्धम् एतत् ।

९ - २९ - कथम् ।

१० - २९ - असम्प्रसारणात् ।

११ - २९ - वाक्यस्य सम्प्रसारणसञ्ज्ञा न वर्णस्य ।

१२ - २९ - अथ वर्णस्य सम्प्रसारणसञ्ज्ञायाम् दोषः एव ।

१३ - २९ - वर्णस्य च सम्प्रसारणसञ्ज्ञायाम् न दोषः ।

१४ - २९ - कथम् ।

१५ - २९ - अन्यः अयम् सम्प्रसारणासम्प्रसारणयोः स्थाने एकः आदिश्यते ।

१६ - २९ - कार्यकृतत्वात् वा ।

१७ - २९ - अथ वा सकृत् कृतम् पूर्वत्वम् इति कृत्वा पुनः न भविष्यति ।

१८ - २९ - तत् यथा वसन्ते ब्राह्मणः अग्नीन् आदधीत इति सकृत् आधाय कृतः शास्त्रार्थः इति कृत्वा पुनः प्रवृत्तिः न भवति ।

१९ - २९ - विषमः उपन्यासः ।

२० - २९ - युक्तम् यत् तस्य पुनः प्रवृत्तिः न भवति ।

२१ - २९ - यः तु तदाश्रयम् प्राप्नोति न तत् शक्यम् बाधितुम् ।

२२ - २९ - तत् यथा वसन्ते ब्राह्मणः अग्निष्टोमादिभिः क्रतुभिः यजेत इति अग्न्याधाननिमित्तम् वसन्ते वसन्ते इज्यते ।

२३ - २९ - तस्मात् पूर्वोक्तः एव परिहारः सिद्धम् असम्प्रसारणात् इति ।

२४ - २९ - यदि तर्हि न इदम् सम्प्रसारणम् हूतः इति दीर्घत्वम् न प्राप्नोति ।

२५ - २९ - दीर्घत्वम् वचनप्रामाण्यात् ।

२६ - २९ - अनवकाशम् दीर्घत्वम् ।

२७ - २९ - तत् वचनप्रामाण्यात् भविष्यति ।

२८ - २९ - अन्तवत्त्वात् वा ।

२९ - २९ - अथ वा पूर्वस्य कार्यम् प्रति अन्तवत् भवति इति दीर्घत्वम् भविष्यति ।

१ - १०३ - आटः वृद्धेः इयङ् ।

२ - १०३ - आटः वृद्धिः भवति इति एतस्मात् इयङ् भवति विप्रतिषेधेन ।

३ - १०३ - आटः वृद्धिः भवति इति अस्य अवकाशः ऐक्षिष्ट , ऐहिष्ट ।

४ - १०३ - इयङः अवकाशः अधीयाते , अधीयते ।

५ - १०३ - इह उभयम् प्राप्नोति अध्यैयाताम् अध्यैयत ।

६ - १०३ - इयङादेशः भवति विप्रतिषेधेन ।

७ - १०३ - न एषः युक्तः विप्रतिषेधः ।

८ - १०३ - अन्तरङ्गा आटः वृद्धिः ।

९ - १०३ - का अन्तरङ्गता ।

१० - १०३ - वर्णौ आश्रित्य आटः वृद्धिः ।

११ - १०३ - अङ्गस्य इयङ् आदेशः ।

१२ - १०३ - एवम् तर्हि इदम् इह सम्प्रधार्यम् ।

१३ - १०३ - आट् क्रियताम् इयङादेशः इति किम् अत्र कर्तव्यम् ।

१४ - १०३ - परत्वात् इयङ् ।

१५ - १०३ - नित्यः आट् आगमः ।

१६ - १०३ - कृते अपि इयङि प्राप्नोति अकृते अपि ।

१७ - १०३ - इयङ् अपि नित्यः ।

१८ - १०३ - कृते अपि आटि प्राप्नोति अकृते अपि ।

१९ - १०३ - अनित्यः इयङ् ।

२० - १०३ - न हि कृते आति प्राप्नोति ।

२१ - १०३ - किम् कारणम् ।

२२ - १०३ - अन्तरङ्गा आटः वृद्धिः ।

२३ - १०३ - यस्य च लक्षणान्तरेण निमित्तम् विहन्यते न तत् अनित्यम् ।

२४ - १०३ - न च अत्र आत् एव इयङः निमित्तम् विहन्ति ।

२५ - १०३ - अवश्यम् लक्षणान्तरम् आटः वृद्धिः प्रतीक्ष्या ।

२६ - १०३ - उभयोः नित्ययोः परत्वात् इयङ् आदेशः ।

२७ - १०३ - आत् गुणात् सवर्णदीर्घत्वम् आङभ्यासयोः ।

२८ - १०३ - आत् गुणात् सवर्णदीर्घत्वम् भवति विप्रतिषेधेन ।

२९ - १०३ - क्व ।

३० - १०३ - आङभ्यासयोः ।

३१ - १०३ - आत् गुणस्य अवकाशः खट्वेन्द्रः , खट्वोदकम् ।

३२ - १०३ - सवर्णदीर्घत्वस्य अवकाशः दण्डाग्रम् , क्षुपाग्रम् ।

३३ - १०३ - इह उभयम् प्राप्नोति अद्य , आ , ऊढा अद्योढा , कदा , आ , ऊढा कदोढा , उप , इ , इजतुः उपेजतुः , उप , उ , उपतुः उपोपतुः ।

३४ - १०३ - सवर्णदीर्घत्वम् भवति विप्रतिषेधेन ।

३५ - १०३ - अभ्यासार्थेन तावत् न अर्थः ।

३६ - १०३ - अस्तु अत्र आत् गुणः अयवौ च हलादिशेषः ।

३७ - १०३ - पुनः आत् गुणः भविष्यति ।

३८ - १०३ - भवेत् सिद्धम् उपेजतुः , उपेजतुः इति ।

३९ - १०३ - इदम् तु न सिध्यति उपोपतुः , उपोपुः इति ।

४० - १०३ - अत्र हि आत् गुणे कृते ओदन्तः निपातः इति प्रगृह्यसञ्ज्ञा , प्रगृह्यः प्रकृत्या इति प्रगृह्याश्रयः प्रकृतिभावः प्राप्नोति ।

४१ - १०३ - पदान्तप्रकरणे प्र्कृतिभावः न च एषः पदान्तः ।

४२ - १०३ - पदान्तभक्तः पदान्तग्रहणेन ग्राहीष्यते ।

४३ - १०३ - एवम् तर्हि एतत् एव अत्र न अस्ति ओदन्तः निपातः इति ।

४४ - १०३ - किम् कारणम् ।

४५ - १०३ - लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्य एव इति ।

४६ - १०३ - इह अपि तर्हि अद्योढा , कदोढा इति भवेत् रूपम् सिद्धम् स्यात् । स्वरे दोषः तु ।

४७ - १०३ - स्वरे तु दोषः भवति ।

४८ - १०३ - अद्योढा* एवम् स्वरः प्रसज्येत. अद्योढा* इति च इष्यते ।

४९ - १०३ - आङि पररूपवचनम् च इदानीम् अनर्थकम् स्यात् ।

५० - १०३ - न अनर्थकम् ।

५१ - १०३ - ज्ञापकार्थम् ।

५२ - १०३ - किम् ज्ञाप्यम् ।

५३ - १०३ - आङि पररूपवचनम् तु ज्ञापकम् अन्तरङ्गबलीयस्त्वात् ।

५४ - १०३ - एतत् ज्ञापयति आचार्यः ।

५५ - १०३ - अन्तरङ्गम् बलीयः भवति इति ।

५६ - १०३ - किम् पुनः इह अन्तरङ्गम् किम् बहिरङ्गम् यावता द्वे पदे आश्रित्य सवर्णदीर्घत्वम् भवति आत् गुणः अपि ।

५७ - १०३ - धातूपसर्गयोः यत् कार्यम् तत् अन्तरङ्गम् ।

५८ - १०३ - कुतः एतत् ।

५९ - १०३ - पूर्वम् उपसर्गस्य धातुन योगः भवति न अद्य शब्देन ।

६० - १०३ - किमर्थम् तर्हि अद्यशब्दः प्रयुज्यते ।

६१ - १०३ - अद्यशब्दय्स अपि समुदायेन योगः भवति ।

६२ - १०३ - किम् एतस्य ज्ञापने प्रयोजनम् ।

६३ - १०३ - प्रयोजनम् पूर्वसवर्णपूर्वत्वतहिलोपटेनङेय्यङिस्मिन्ङिणलौत्वम् अन्तरङ्गम् बहिरङ्गलक्षणात् वर्णविकारात् ।

६४ - १०३ - पूर्वसवर्णः प्रयोजनम् ।

६५ - १०३ - अग्नी अत्र , वायू अत्र ।

६६ - १०३ - पूर्वसवर्णः च प्राप्नोति बहिरङ्गलक्षणः च वर्णविकारः आवादेशः ।

६७ - १०३ - पूर्वसवर्णदीर्घत्वम् भवति अन्तरङ्गतः ।

६८ - १०३ - पूर्वत्व ।

६९ - १०३ - शकह्वर्थम् , परिव्यर्थम् ।

७० - १०३ - पूर्वत्वम् च प्राप्नोति बहिरङ्गलक्षणः च वर्णविकारः सवर्णदीर्घत्वम् ।

७१ - १०३ - पूर्वत्वम् भवति अन्तरङ्गतः ।

७२ - १०३ - तहिलोप ।

७३ - १०३ - अकारि अत्र ।

७४ - १०३ - अहारि अत्र ।

७५ - १०३ - पच इदम् ।

७६ - १०३ - तहिलोपौ च प्राप्नुतः बहिरङ्गलक्षणः च वर्णविकारः सवर्णदीर्घत्वम् ।

७७ - १०३ - तहिलोपौ भवतः अन्तरङ्गतः ।

७८ - १०३ - टेन ।

७९ - १०३ - वृक्षेण अत्र , प्लक्षेण अत्र ।

८० - १०३ - इनादेशः च प्राप्नोति बहिरङ्गलक्षणः च वर्णविकारः सवर्णदीर्घत्वम् ।

८१ - १०३ - इनादेशः भवति अन्तरङ्गतः ।

८२ - १०३ - ङेर्य ।

८३ - १०३ - वृक्षाय अत्र , प्लक्षाय अत्र ।

८४ - १०३ - ङेः यादेशः च प्राप्नोति बहिरङ्गलक्षणः च वर्णविकारः एङः पदान्तात् अति इति पररूपत्वम् ।

८५ - १०३ - ङेः यादेशः भवति अन्तरङ्गतः ।

८६ - १०३ - ङिस्मिन् ।

८७ - १०३ - यस्मिन् इदम् , तस्मिन् इदम् ।

८८ - १०३ - स्मिन्भावः च प्राप्नोति बहिरङ्गलक्षणः च वर्णविकारः सवर्णदीर्घत्वम् ।

८९ - १०३ - स्मिन्भावः भवति अन्तरङ्गतः ।

९० - १०३ - ङिणलौत्वम् ।

९१ - १०३ - अग्नौ इदम् , ययौ अत्र ।

९२ - १०३ - ङिणलौत्वम् प्राप्नोति बहिरङ्गलक्षणः च वर्णविकारः सवर्णदीर्घत्वम् ।

९३ - १०३ - औत्वम् भवति अन्तरङ्गतः ।

९४ - १०३ - न एतानि सन्ति प्रयोजनानि ।

९५ - १०३ - विप्रतिषेधेन अपि एतानि सिद्धानि ।

९६ - १०३ - इदम् तर्हि प्रयोजनम् ।

९७ - १०३ - वृक्षाः अत्र ।

९८ - १०३ - प्लक्षाः अत्र ।

९९ - १०३ - पूर्वसवर्णः च प्राप्नोति बहिरङ्गलक्षणः च वर्णविकारः रोः अप्लुतात् अप्लुते इति उत्त्वम् ।

१०० - १०३ - पूर्वसवर्णः भवति अन्तरङ्गतः ।

१०१ - १०३ - न च अवश्यम् इदम् एव प्रयोजनम् ।

१०२ - १०३ - आद्ये योगे बहूनि प्रयोजनानि सन्ति यदर्थम् एषा परिभाषा कर्तव्या ।

१०३ - १०३ - प्रतिविधेयम् दोषेषु ।

१ - १० - किम् इदम् ख्यत्यात् इति ।

२ - १० - सखिपत्योः विकृतग्रहणम् ।

३ - १० - किम् पुनः कारणम् सखिपत्योः विकृतग्रहणम् क्रियते न सखिपतिभ्याम् इति एव उच्येत ।

४ - १० - न एवम् शक्यम् ।

५ - १० - गरीयान् च एव हि निर्देशः स्यात् इह च प्रसज्येत ।

६ - १० - अतिसखेः आगच्छामि ।

७ - १० - अतिसखेः स्वम् ।

८ - १० - इह च न स्यात् सखीयतेः अप्रत्ययः सख्युः , पत्युः ।

९ - १० - लुनीयतेः अप्रत्ययः ।

१० - १० - लून्युः , पून्युः ।

१ - ३९ - किमर्थम् अप्लुतात् अप्लुते इति उच्यते ।

२ - ३९ - प्लुतात् परस्य प्लुते वा परतः मा भूत् इति ।

३ - ३९ - प्लुतात् परस्य सुस्रोता३ अत्र नु असि ।

४ - ३९ - प्लुते परतः तिष्ठतु पयः आ३ग्निदत्त ।

५ - ३९ - अतः अति इति उच्यते ।

६ - ३९ - कः प्रसङ्गः प्लुतात् परस्य प्लुते वा परतः ।

७ - ३९ - असिद्धः प्लुतः ।

८ - ३९ - तस्य असिद्धत्वात् प्राप्नोति ।

९ - ३९ - अथ अप्लुतात् अप्लुते इति उच्यमाने यावता असिद्धः प्लुतः कस्मात् एव अत्र न प्राप्नोति ।

१० - ३९ - अप्लुतभाविनः अप्लुतभाविनि इति एवम् एतत् विज्ञायते ।

११ - ३९ - न एतत् अस्ति प्रयोजनम् ।

१२ - ३९ - सिद्धः प्लुतः स्वरसन्धिषु ।

१३ - ३९ - कथम् ज्ञायते ।

१४ - ३९ - यत् अयम् प्लुतः प्रकृत्या इति प्लुतस्य प्रकृतिभावम् शास्ति ।

१५ - ३९ - सतः हि कार्यिणः कार्येण भवितव्यम् ।

१६ - ३९ - अप्लुतादप्लुतवचने अकारहशोः समानपदे प्रतिषेधः ।

१७ - ३९ - अप्लुतादप्लुतवचने अकारहशोः समानपदे प्रतिषेधः वक्तव्यः ।

१८ - ३९ - पयो३ट् , पयो३द ।

१९ - ३९ - न वा बहिरङ्गलक्षणत्वात् ।

२० - ३९ - न वा वक्तव्यः ।

२१ - ३९ - किम् कारणम् ।

२२ - ३९ - बहिरङ्गलक्षणत्वात् ।

२३ - ३९ - बहिरङ्गः प्लुरः ।

२४ - ३९ - अन्तरङ्गम् उत्त्वम् ।

२५ - ३९ - असिद्धम् बहिरङ्गम् अन्तरङ्गे ।

२६ - ३९ - इह अपि तर्हि प्राप्नोति ।

२७ - ३९ - सुस्रोता३ अत्र नु असि ।

२८ - ३९ - अन्तरङ्गः अत्र प्लुतः बहिरङ्गम् उत्त्वम् ।

२९ - ३९ - क्व पुनः इह अन्तरङ्गः प्लुतः क्व वा बहिरङ्गम् उत्त्वम् उत्त्वम् वा अन्तरङ्गम् प्लुतः वा बहिरङ्गः ।

३० - ३९ - वाक्यान्तस्य वाक्यादौ अन्तरङ्गः प्लुतः बहिरङ्गम् उत्त्वम् ।

३१ - ३९ - समानवाक्ये पदान्तस्य पदादौ उत्त्वम् अन्तरङ्गम् बहिरङ्गः प्लुतः ।

३२ - ३९ - किम् पुनः कारणम् बहिरङ्गत्वम् उत्त्वे हेतुः व्यपदिश्यते न पुनः असिद्धत्वम् अपि ।

३३ - ३९ - यथा एव हि अयम् बहिरङ्गः एवम् असिद्धः अपि ।

३४ - ३९ - एवम् मन्यते ।

३५ - ३९ - असिद्धः प्लुतः आश्रयात् सिद्धः भवति ।

३६ - ३९ - अथ वा यस्याम् न अप्राप्तायाम् परिभाषायाम् उत्त्वम् आरभ्यते सा आश्रयात् सिद्धा स्यात् ।

३७ - ३९ - कस्याम् च न अप्राप्तायाम् ।

३८ - ३९ - असिद्धपरिभाषायाम् ।

३९ - ३९ - बहिरङ्गपरिभाषायाम् पुनः प्राप्तायाम् अप्राप्तायाम् च ।

१ - ३५ - कस्य अयम् प्रतिषेधः ।

२ - ३५ - नान्तःपादम् इति सर्वप्रतिषेधः ।

३ - ३५ - नान्तःपादम् इति सर्वस्य अयम् प्रतिषेधः ।

४ - ३५ - कथम् ।

५ - ३५ - अचि इति वर्तते ।

६ - ३५ - अचि यत् प्राप्नोति तस्य प्रतिषेधः ।

७ - ३५ - नान्तःपादम् इति सर्वप्रतिषेधः चेत् अतिप्रसङ्गः ।

८ - ३५ - नान्तःपादम् इति सर्वप्रतिषेधः चेत् अतिप्रसङ्गः भवति ।

९ - ३५ - इह अपि प्राप्नोति ।

१० - ३५ - अनु अग्निः उषसाम् अग्रम् अख्यत् , प्रति अग्निः उषसाम् अग्रम् अख्यत् ।

११ - ३५ - एवम् तर्हि अति इति वर्तते ।

१२ - ३५ - अकाराश्रयम् यत् प्राप्नोति तस्य प्रतिषेधः ।

१३ - ३५ - अकाराश्रयम् इति चेत् उत्त्ववचनम् ।

१४ - ३५ - अकाराश्रयम् इति चेत् उत्त्वम् वक्तव्यम् ।

१५ - ३५ - कालः अश्वः ।

१६ - ३५ - शतधारः अयम् मणिः ।

१७ - ३५ - अयवोः प्रतिषेधः च ।

१८ - ३५ - अयवोः च प्रतिषेधः च वक्तव्यः ।

१९ - ३५ - सुजाते अश्वसूनृते ।

२० - ३५ - अध्वरो अद्रिभिः सुतम् ।

२१ - ३५ - शुक्रम् ते अन्यत् ।

२२ - ३५ - एङ्प्रकरणात् सिद्धम् ।

२३ - ३५ - एङः अति इति वर्तते ।

२४ - ३५ - एङः अति यत् प्राप्नोति तस्य प्रतिषेधः ।

२५ - ३५ - एङ्प्रकरणात् सिद्धम् चेत् उत्त्वप्रतिषेधः ।

२६ - ३५ - एङ्प्रकरणात् सिद्धम् चेत् उत्त्वप्रतिषेधः वक्तव्यः ।

२७ - ३५ - अग्नेः अत्र , वायोः अत्र. अतः रोः अप्लुतात् अप्लुते एङः च इति उत्त्वम् प्राप्नोति ।

२८ - ३५ - पुनः एङ्ग्रहणात् सिद्धम् ।

२९ - ३५ - पुनः एङ्ग्रहणम् कर्तव्यम् ।

३० - ३५ - तत् तर्हि कर्तव्यम् ।

३१ - ३५ - न कर्तव्यम् ।

३२ - ३५ - प्रकृतम् अनुवर्तते ।

३३ - ३५ - ननु च उक्तम् एङ्प्रकरणात् सिद्धम् चेत् उत्त्वप्रतिषेधः इति ।

३४ - ३५ - न एषः दोषः ।

३५ - ३५ - पदान्ताभिसम्बद्धम् एङ्ग्रहणम् अनुवर्तते न च एङः पदान्तात् परः रुः अस्ति ।

१ - ४२ - गोः अग्वचनम् गवाग्रे स्वरसिद्ध्यर्थम् ।

२ - ४२ - गोः अक् वक्तव्यः ।

३ - ४२ - किम् प्रयोजनम् ।

४ - ४२ - गवाग्रे स्वरसिद्ध्यर्थम् ।

५ - ४२ - गवाग्रे स्वरसिद्धिः यथा स्यात् ।

६ - ४२ - गवाग्रम् ।

७ - ४२ - अवङादेशे हि स्वरे दोषः ।

८ - ४२ - अवङादेशे हि स्वरे दोषः स्यात् ।

९ - ४२ - अन्तोदात्तस्य आन्तर्यतः अन्तोदात्तः आदेशः प्रस्ज्यते ।

१० - ४२ - कथम् पुनः अयम् अन्तोदात्तः यदा एकाच् ।

११ - ४२ - व्यपदेशिवद्भावेन ।

१२ - ४२ - यथा एव तर्हि व्यपदेशिवद्भावेन अन्तोदात्तः एवम् आद्युदात्तः अपि ।

१३ - ४२ - तत्र आन्तर्यतः आद्युदात्तस्य आद्युदात्तः आदेशः भवति ।

१४ - ४२ - सत्यम् एवम् एतत् ।

१५ - ४२ - न तु इदम् लक्षणम् अस्ति ।

१६ - ४२ - प्रातिपदिकस्य आदिः उदात्तः भवति इति ।

१७ - ४२ - इदम् पुनः अस्ति ।

१८ - ४२ - प्रातिपदिकस्य अन्तः उदात्तः भवति इति ।

१९ - ४२ - सः असौ लक्षणेन अन्तोदात्तः ।

२० - ४२ - तत्र आन्तर्यतः अन्तोदात्तस्य अन्तोदात्तः आदेशः प्रस्ज्येत ।

२१ - ४२ - यदि पुनः गमेः डो विधीयेत ।

२२ - ४२ - किम् कृतम् भवति ।

२३ - ४२ - प्रत्ययाद्युदात्तत्वे कृते आन्तर्यतः आद्युदात्तस्य आद्युदात्तः आदेशः भविष्यति ।

२४ - ४२ - कथम् पुनः अयम् आद्युदात्तः यदा एकाच् ।

२५ - ४२ - व्यपदेशिवद्भावेन ।

२६ - ४२ - यथा एव तर्हि व्यपदेशिवद्भावेन आद्युदात्तः एवम् अन्तोदात्तः अपि ।

२७ - ४२ - तत्र आन्तर्यतः अन्तोदात्तस्य अन्तोदात्तः आदेशः प्रस्ज्येत ।

२८ - ४२ - सत्यम् एवम् एतत् ।

२९ - ४२ - न तु इदम् लक्षणम् अस्ति ।

३० - ४२ - प्रत्ययस्य अन्तः उदात्तः भवति इति ।

३१ - ४२ - इदम् पुनः अस्ति ।

३२ - ४२ - प्रत्ययस्य आदिः उदात्तः भवति इति ।

३३ - ४२ - सः असौ लक्षणेन आद्युदात्तः ।

३४ - ४२ - तत्र आन्तर्यतः आद्युदात्तस्य आद्युदात्तः आदेशः भविष्यति ।एतत् अपि आदेशे न अस्ति ।

३५ - ४२ - आदेशस्य आदिः उदात्तः भवति इति ।

३६ - ४२ - प्रकृतितः अनेन स्वरः लभ्यः ।

३७ - ४२ - प्रकृतिः च अस्य यथा एव आद्युदात्ता एवम् अन्तोदात्ता अपि ।

३८ - ४२ - एवम् तर्हि आद्युदात्तनिपातनम् करिष्यते ।

३९ - ४२ - सः निपातनस्वरः प्रकृतिस्वरस्य बाधकः भविष्यति ।

४० - ४२ - एवम् अपि उपदेशिवद्भावः वक्तयः ।

४१ - ४२ - यथा एव निपातनस्वरः प्रकृत्स्वरस्य बाधकः एवम् समासस्वरस्य अपि ।

४२ - ४२ - गवास्थि , गवाक्षि ।

१ - ९ - इन्द्रादौ इति वक्तव्यम् इह अपि यथा स्यात् ।

२ - ९ - गवेन्द्रयज्ञे वीहि इति ।

३ - ९ - तत् तर्हि वक्तव्यम् ।

४ - ९ - न वक्तव्यम् ।

५ - ९ - न एवम् विज्ञायते इन्द्रे अचि इति ।

६ - ९ - कथम् तर्हि ।

७ - ९ - अचि भवति ।

८ - ९ - कतरस्मिन् ।

९ - ९ - इन्द्रे अचि इति ।

१ - २७ - नित्यग्रहणम् किमर्थम् ।

२ - २७ - विभाषा मा भूत् इति ।

३ - २७ - म एतत् अस्ति प्रयोजनम् ।

४ - २७ - पूर्वस्मिन् एव योगे विभाषाग्रहणम् निवृत्तम् ।

५ - २७ - इदम् तर्हि प्रयोजनम् ।

६ - २७ - प्लुतप्रगृह्याणम् अचि प्रकृतिभावः एव यथा स्यात् ।

७ - २७ - यत् अन्यत् प्राप्नोति तत् मा भूत् इति ।

८ - २७ - किम् च अन्यत् प्राप्नोति ।

९ - २७ - शाकलम् ।

१० - २७ - सिन्नित्यसमासयोः शाकलप्रतिषेधम् वक्ष्यति ।

११ - २७ - सः न वक्तव्यः भवति ।

१२ - २७ - अथ अज्ग्रहणम् किमर्थम् ।

१३ - २७ - अचि प्रकृतिभावः यथा स्यात् ।

१४ - २७ - प्लुतप्रगृह्येषु अज्ग्रहणम् अनर्थकम् अधिकारात् सिद्धम् ।

१५ - २७ - प्लुतप्रगृह्येषु अज्ग्रहणम् अनर्थकम् ।

१६ - २७ - किम् कारणम् ।

१७ - २७ - अधिकारात् एव सिद्धम् ।

१८ - २७ - अचि इति प्रकृतम् अनुवर्तते ।

१९ - २७ - क्व प्रकृतम् ।

२० - २७ - इकः यण् अचि इति ।

२१ - २७ - तत् तु तस्मिन् प्रकृतिभावार्थम् ।

२२ - २७ - तत् तु द्वितीयम् अज्ग्रहणम् कर्तव्यम् प्रकृतिभावार्थम् ।

२३ - २७ - तस्मिन् अचि पूर्वस्य प्रकृतिभावः यथा स्यात् ।

२४ - २७ - इह मा भूत् ।

२५ - २७ - जानु उ अस्य रुजति ।

२६ - २७ - जानू अस्य रुजति ।

२७ - २७ - जान्व् अस्य रुजति इति ।

१ - १८ - अथ किमर्थम् प्लुतस्य प्रकृतिभावः उच्यते ।

२ - १८ - स्वरसन्धिः मा भूत् इति ।

३ - १८ - उच्यमाने अपि एतस्मिन् स्वर्सन्धिः प्राप्नोति ।

४ - १८ - प्लुते कृते न भविष्यति ।

५ - १८ - असिद्धः प्लुतः ।

६ - १८ - तस्य असिद्धत्वात् प्राप्नोति ।

७ - १८ - प्लुतप्रकृतिभाववचनम् तु ज्ञापकम् एकादेशात् प्लुतः विप्रतिषेधेन इति ।

८ - १८ - यत् अयम् प्लुतः प्रकृत्या इति प्रकृतिभावम् शास्ति तत् ज्ञापयति आचार्यः एकादेशात् प्लुतः भवति विप्रतिषेधेन इति ।

९ - १८ - एकादेशात् प्लुतः विप्रतिषेधेन इति चेत् शालेन्द्रे अतिप्रसङ्गः ।

१० - १८ - एकादेशात् प्लुतः विप्रतिषेधेन इति चेत् शालेन्द्रे अतिप्रसङ्गः भवति ।

११ - १८ - शालायाम् इन्द्रः शालेन्द्रः ।

१२ - १८ - न वा बहिरङ्गलक्षणत्वात् ।

१३ - १८ - न वा अतिप्रसङ्गः ।

१४ - १८ - किम् कारणम् ।

१५ - १८ - बहिरङ्गलक्षणत्वात् ।

१६ - १८ - बहिरङ्गः प्लुतः ।

१७ - १८ - अन्तरङ्गः एकादेशः ।

१८ - १८ - असिद्धम् बहिरङ्गम् अन्तरङ्गे ।

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP