पाद १ - खण्ड ६२

व्याकरणमहाभाष्य म्हणजे पाणिनि लिखीत अष्टाध्यायीतील काही निवडक सूत्रांवर पतञ्जलिने केलेले भाष्य. या ग्रंथाची रचना ई.पू २०० ते ई.पू १४० मध्ये केली गेली, असे मत व्याकरण पंडितांचे आहे.


१ - २५ - व्योः लोपे क्वौ उपसङ्ख्यानम् ।

२ - २५ - व्योः लोपे क्वौ उपसङ्ख्यानम् कर्तव्यम् इह अपि यथा स्यात् ।

३ - २५ - कण्डूयतेः अप्रत्ययः कण्डूः इति ।

४ - २५ - किम् पुनः कारणम् न सिध्यति ।

५ - २५ - वलि इति उच्यते न च अत्र वलादिम् पश्यामः ।

६ - २५ - ननु च अयम् क्विप् एव वलादिः भवति ।

७ - २५ - क्विब्लोपे कृते वलाद्यभावात् न प्राप्नोति ।

८ - २५ - इदम् इह सम्प्रधार्यम् ।

९ - २५ - क्विब्लोपः क्रियताम् यलोपः इति ।

१० - २५ - किम् अत्र कर्तव्यम् ।

११ - २५ - परत्वात् क्विब्लोपः नित्यत्वात् च ।

१२ - २५ - नित्यः खलु अपि क्विब्लोपः ।

१३ - २५ - कृते अपि यलोपे प्राप्नोति अकृते अपि प्राप्नोति ।

१४ - २५ - नित्यत्वात् परत्वात् च क्विब्लोपः ।

१५ - २५ - क्विब्लोपे कृते वलाद्यभावात् यलोपः न प्राप्नोति ।

१६ - २५ - एवम् तर्हि प्रत्ययलक्षणेन भविष्यति ।

१७ - २५ - वर्णाश्रये न अस्ति प्रत्ययलक्षणम् ।

१८ - २५ - यदि वा कानि चित् वर्णाश्रयाणि प्रत्ययलक्षणेन भवन्ति तथा इदम् अपि भविष्यति ।

१९ - २५ - अथ वा एवम् वक्ष्यामि ।

२० - २५ - लोपः व्योः वलि ।

२१ - २५ - ततः वेः ।

२२ - २५ - व्यन्तयोः च व्योः लोपः भवति ।

२३ - २५ - ततः अपृक्तस्य ।

२४ - २५ - अपृक्तस्य च लोपः भवति ।

२५ - २५ - वेः इति एव ।

१ - ३० - वलोपाप्रसिद्धिः ऊड्भाववचनात् ।

२ - ३० - वलोपस्य अप्रसिद्धिः ।

३ - ३० - आस्रेमाणम् , जीरदानुः इति ।

४ - ३० - किम् कारणम् ।

५ - ३० - ऊड्भाववचनात् ।

६ - ३० - च्छ्वोः शूट् अनुनासिके च इति ऊठ् प्राप्नोति ।

७ - ३० - अतिप्रसङ्गः व्रश्चादिषु ।

८ - ३० - व्रश्चादिषु च अतिप्रसङ्गः भवति ।

९ - ३० - इह अपि प्राप्नोति ।

१० - ३० - व्रश्चनः , व्रीहिः , व्रणः इति ।

११ - ३० - उपदेशसामर्थ्यात् सिद्धम् ।

१२ - ३० - उपदेशसामर्थ्यात् व्रश्चादिषु लोपः न भविष्यति ।

१३ - ३० - उपदेशसामर्थ्यात् सिद्धम् इति चेत् सम्प्रसारणहलादिशेषेषु सामर्थ्यम् ।

१४ - ३० - उपदेशसामर्थ्यात् सिद्धम् इति चेत् अस्ति अन्यत् उपदेशवचने प्रयोजनम् ।

१५ - ३० - सम्प्रसारणहलादिशेषेषु कृतेषु वकारस्य श्रवणम् यथा स्यात् ।

१६ - ३० - (ऋवृक्णः  - वृक्णवान् , (ऋ वृश्चति  - विव्रश्चिषति इति ।

१७ - ३० - न वा बहिरङ्गलक्षणत्वात् ।

१८ - ३० - न वा एतत् प्रयोजनम् अस्ति ।

१९ - ३० - किम् कारणम् ।

२० - ३० - बहिरङ्गलक्षणत्वात् ।

२१ - ३० - बहिरङ्गाः सम्प्रसारणहलादिशेषाः ।

२२ - ३० - अन्तरङ्गः लोपः ।

२३ - ३० - असिद्धम् बहिरङ्गम् अन्तरङ्गे ।

२४ - ३० - अनारम्भः वा ।

२५ - ३० - अनारम्भः वा पुनः वलोपस्य न्याय्यः ।

२६ - ३० - कथम् आस्रेमाणम् , जीरदानुः इति ।

२७ - ३० - आस्रेमाणम् जीरदानुः इति वर्णलोपात् ।

२८ - ३० - आस्रेमाणम् , जीरदानुः इति छान्दसात् वर्णलोपात् सिद्धम् ।

२९ - ३० - यथा संस्फानः गयस्फानः ।

३० - ३० - तत् यथा संस्फयनः , संस्फानः , गयस्फानः, गयस्फानः इति ।

१ - २६ - दर्विजागृव्योः प्रतिषेधः वक्तव्यः दर्विः , जागृविः ।

२ - २६ - किम् उच्यते दर्विजागृव्योः प्रतिषेधः वक्तव्यः इति यदा अपृक्तस्य इति उच्यति ।

३ - २६ - भवति वै किम् चित् आचार्याः क्रियमाणम् अपि चोदयन्ति ।

४ - २६ - तत् वा कर्तव्यम् दर्विजागृव्योः वा प्रतिषेधः वक्तव्यः ।वेः लोपे दर्विजागृव्योः अप्रतिषेधः अनुनासिकपरत्वात् ।

५ - २६ - वेः लोपे दर्विजागृव्योः अप्रतिषेधः ।

६ - २६ - अनर्थकः प्रतिषेधः अप्रतिषेधः ।

७ - २६ - लोपः कस्मात् न भवति ।

८ - २६ - अनुनासिकपरत्वात् ।

९ - २६ - अनुनासिकपरस्य विशब्दस्य ग्रहणम् न च अत्र अनुनासिकपरः विशब्दः ।

१० - २६ - शुद्धपरः च अत्र विशब्दः ।

११ - २६ - यदि अनुनासिकपरस्य विशब्दस्य ग्रहणम् इति उच्यते घृतस्पृक्, दलस्पृक् , अत्र न प्राप्नोति ।

१२ - २६ - न हि एतस्मात् विशब्दात् अनुनासिकम् परम् पश्यामः ।

१३ - २६ - अनुनासिकपरत्वात् इति न एवम् विज्ञायते ।

१४ - २६ - अनुनासिकः परः अस्मात् सः अयम् अनुनासिकपरः , अनुनासिकपरत्वात् इति ।

१५ - २६ - कथम् तर्हि ।

१६ - २६ - अनुनासिकः परः अस्मिन् सः अयम् अनुनासिकपरः , अनुनासिकपरत्वात् इति ।

१७ - २६ - एवम् अपि प्रियदर्वि , अत्र प्राप्नोति ।

१८ - २६ - असिद्धः अत्र अनुनासिकः ।

१९ - २६ - एवम् अपि धात्वन्तस्य प्रतिषेधः वक्तव्यः ।

२० - २६ - इवि दिवि धिवि ।

२१ - २६ - धात्वन्तस्य च अर्थवद्ग्रहणात् ।

२२ - २६ - अर्थवतः विशब्दस्य ग्रहणम् ।

२३ - २६ - न धात्वन्तः अर्थवान् ।

२४ - २६ - वस्य वा अनुनासिकत्वात् सिद्धम् ।

२५ - २६ - अथ वा वकारस्य एव इदम् अनुनासिकस्य ग्रहणम् ।

२६ - २६ - सन्ति हि यणः सानुनासिकाः निरनुनासिकाः च ।

१ - ५५ - यदि पुनः अयम् अपृक्तलोपः संयोगान्तलोपः विज्ञायेत ।

२ - ५५ - किम् कृतम् भवति ।

३ - ५५ - द्विहलपृक्तग्रहणम् तिस्योः च ग्रहणम् न कर्तव्यम् भवति ।

४ - ५५ - हलन्तात् अपृक्तलोपः संयोगान्तलोपः चेत् नलोपाभावः यथा पचन् इति ।

५ - ५५ - हलन्तात् अपृक्तलोपः संयोगान्तलोपः चेत् नलोपाभावः ।

६ - ५५ - राजा तक्षा ।

७ - ५५ - संयोगान्तलोपस्य असिद्धत्वात् नलोपः न प्राप्नोति यथा पचन् इति ।

८ - ५५ - तत् यथा पचन्, यजन् इति अत्र संयोगान्तलोपस्य असिद्धत्वात् नलोपः न भवति ।

९ - ५५ - न एषः दोषः ।

१० - ५५ - आचार्यप्रवृत्तिः ज्ञापयति सिद्धः संयोगान्तलोपः नलोपे इति यत् अयम् न ङिसम्बुद्ध्योः इति सम्बुद्धौ प्रतिषेधम् शास्ति ।

११ - ५५ - इह अपि तर्हि प्राप्नोति पचन्, यजन् ।

१२ - ५५ - तुल्यजातीयस्य ज्ञापकम् भवति ।

१३ - ५५ - कः च तुल्यजातीयः ।

१४ - ५५ - यः सम्बुद्धौ अनन्तरः ।

१५ - ५५ - वस्वादिषु दत्वम् संयोगादिलोपबलीयस्त्वात् ।

१६ - ५५ - वस्वादिषु दत्वम् न सिध्यति ।

१७ - ५५ - उखास्रत् , पर्णद्व्हत् ।

१८ - ५५ - किम् कारणम् ।

१९ - ५५ - संयोगादिलोपबलीयस्त्वात् । संयोगान्तलोपात् संयोगादिलोपः बलीयान् ।

२० - ५५ - यथा कूटतट् इति ।

२१ - ५५ - तत् यथा कूटतट् , काष्ठतट् इति अत्र संयोगान्तलोपात् संयोगादिलोपः बलीयान् भवति ।

२२ - ५५ - ननु च दत्वे कृते न भविष्यति ।

२३ - ५५ - असिद्धम् दत्वम् ।

२४ - ५५ - तस्य असिद्धत्वात् प्राप्नोति ।

२५ - ५५ - सिद्धकाण्डे पठितम् वस्वादिषु दत्वम् सौ दीर्घत्वे इति ।

२६ - ५५ - तत्र सौ दीर्घत्वग्रहणम् न करिष्यते ।

२७ - ५५ - वस्वादिषु दत्वम् इति एव ।

२८ - ५५ - एवम् अपि अपदान्तत्वात् न प्राप्नोति ।

२९ - ५५ - अथ सौ अपि पदम् भवति राजा तक्षा नलोपे कृते विभक्तेः श्रवणम् प्राप्नोति ।

३० - ५५ - सा एषा उभयतस्पाशा रज्जुः भवति ।

३१ - ५५ - रात्तलोपः नियमवचनात् ।

३२ - ५५ - रात् तस्य लोपः वक्तव्यः ।

३३ - ५५ - अबिभः भवान् ।

३४ - ५५ - अजागः भवान् ।

३५ - ५५ - किम् पुनः कारणम् न सिध्यति ।

३६ - ५५ - नियमवचनात् ।

३७ - ५५ - रात् सस्य इति एतस्मात् नियमात् न प्राप्नोति ।

३८ - ५५ - न एषः दोषः ।

३९ - ५५ - रात् सस्य इति अत्र तकारः अपि निर्दिश्यते ।

४० - ५५ - यदि एवम् कीर्तयतेः अप्रत्ययः कीः इति प्राप्नोति ।

४१ - ५५ - कीर्त् इति च इष्यते ।

४२ - ५५ - यथालक्षणम् अप्रयुक्ते ।

४३ - ५५ - रोः उत्त्वम् च ।

४४ - ५५ - रोः उत्त्वम् च वक्तव्यम् ।

४५ - ५५ - अभिनः अत्र, अच्छिनः अत्र ।

४६ - ५५ - संयोगान्तलोपस्य असिद्धत्वात् अतः अति इति उत्त्र्वम् न प्राप्नोति ।

४७ - ५५ - न वा संयोगान्तलोपस्य उत्त्वे सिद्धत्वात् ।

४८ - ५५ - न वा वक्तव्यम् ।

४९ - ५५ - किम् कारणम् ।

५० - ५५ - संयोगान्तलोपस्य उत्त्वे सिद्धत्वात् ।

५१ - ५५ - संयोगान्तलोपः उत्त्वे सिद्धः भवति ।

५२ - ५५ - यथा हरिवः मेदिनम् इति । तत् यथा हरिवः मेदिनम् त्वा इति अत्र संयोगान्तलोपः उत्त्वे सिद्धः भवति ।

५३ - ५५ - सः एव दर्हि दोषः सा एषा उभयतस्पाशा ।

५४ - ५५ - तस्मात् अशक्यः अपृक्तलोपः संयोगान्तलोपः विज्ञातुम् ।

५५ - ५५ - न चेत् विज्ञायते द्विहलपृक्तग्रहणम् तिस्योः च ग्रहणम् कर्तव्यम् एव ।

१ - ६६ - सम्बुद्धिलोपे डतरादिभ्यः प्रतिषेधः ।

२ - ६६ - सम्बुद्धिलोपे डतरादिभ्यः प्रतिषेधः वक्तव्यः ।

३ - ६६ - हे कतरत्, हे कतमत् ।

४ - ६६ - किम् उच्यते डतरादिभ्यः प्रतिषेधः वक्तव्यः इति यदा अपृक्तस्य इति अनुवर्तते ।

५ - ६६ - अपृक्ताधिकारस्य निवृत्तत्वात् ।

६ - ६६ - निवृत्तः अपृक्ताधिकारः ।

७ - ६६ - किम् डतरादिभ्यः प्रतिषेधम् वक्ष्यामि इति अपृक्ताधिकारः निवर्त्यते ।

८ - ६६ - न इति आह ।

९ - ६६ - तत् च अमर्थम् ।

१० - ६६ - सः च अवश्यम् अपृक्ताधिकारः निवर्त्यः ।

११ - ६६ - किमर्थम् ।

१२ - ६६ - अमर्थम् ।

१३ - ६६ - अमः लोपः यथा स्यात् ।

१४ - ६६ - हे कुण्ड , हे पीठ ।

१५ - ६६ - निवृत्ते अपि अपृक्ताधिकारे अमः लोपः न प्राप्नोति ।

१६ - ६६ - न हि लोपः सर्वापहारी ।

१७ - ६६ - मा भूत् सर्वस्य लोपः ।

१८ - ६६ - अलः अन्त्यस्य विधयः भवन्ति इति अन्त्यस्य लोपे कृते द्वयोः अकारयोः पररूपेण सिद्धम् रूपम् स्यात् हे कुण्ड , हे पीठ इति ।

१९ - ६६ - यदि एतत् लभ्येत कृतम् स्यात् ।

२० - ६६ - तत् तु न लभ्यते ।

२१ - ६६ - किम् कारणम् ।

२२ - ६६ - अत्र हि तस्मात् इति उत्तरस्य आदेः परस्य इति अकारस्य लोपः प्राप्नोति ।

२३ - ६६ - अकारलोपे च सति मकारे अतः दीर्घः यञि सुपि च इति दीर्घत्वे हे कुण्डाम् , हे पीठाम् इति एतत् रूपम् प्रसज्येत ।

२४ - ६६ - एवम् तर्हि हलः लोपः सम्बुद्धिलोपः ।

२५ - ६६ - तत् हल्ग्रहणम् कर्तव्यम् ।

२६ - ६६ - न कर्तव्यम् ।

२७ - ६६ - प्रकृतम् अनुवर्तते ।

२८ - ६६ - क्व प्रकृतम् ।

२९ - ६६ - हल्ङ्याब्भ्यः दीर्घात् सुतिसि अपृक्तम् हल् इति ।

३० - ६६ - तत् वै प्रथमानिर्दिष्टम् षष्ठीनिर्दिष्टेन च इह अर्थः ।

३१ - ६६ - न एषः दोषः ।

३२ - ६६ - एङ् ह्रस्वात् इति एषा पञ्चमी हल् इति अस्याः प्रथमायाः षष्ठीम् प्रकल्पयिष्यति तस्मात् इति उत्तरस्य इति ।

३३ - ६६ - एवम् अपि प्रथमयोः पूर्वसवर्णदीर्घत्वे कृते हे पीठा इति एतत् रूपम् प्रसज्येत ।

३४ - ६६ - अमि पूर्वत्वम् अत्र बाधकम् भविष्यति ।

३५ - ६६ - अमि इति उच्यते न च अत्र अमम् पश्यामः ।

३६ - ६६ - एकदेशविकृतम् अनन्यवत् भवति इति ।

३७ - ६६ - अथ वा इदम् इह सम्प्रधार्यम् ।

३८ - ६६ - सम्बुद्धिलोपः क्रियताम् एकादेशः इति ।

३९ - ६६ - किम् अत्र कर्तव्यम् ।

४० - ६६ - परत्वात् एकादेशः ।

४१ - ६६ - एवम् अपि एकादेशे कृते व्यपवर्गाभावात् सम्बुद्धिलोपः न प्राप्नोति ।

४२ - ६६ - अन्तादिवद्भावेन व्यपवर्गः भविष्यति ।

४३ - ६६ - उभयतः आश्रये न अन्तादिवत् ।

४४ - ६६ - न उभयतः आश्रयः करिष्यते ।

४५ - ६६ - कथम् ।

४६ - ६६ - न एवम् विज्ञायते ।

४७ - ६६ - ह्रस्वात् उत्तरस्याः सम्बुद्धेः लोपः भवति इति ।

४८ - ६६ - कथम् तर्हि ।

४९ - ६६ - ह्रस्वात् उत्तरस्य हलः लोपः भवति सः चेत् सम्बुद्धेः इति ।

५० - ६६ - सः तर्हि प्रतिषेधः वक्तव्यः ।

५१ - ६६ - न वक्तव्यः ।

५२ - ६६ - उक्तम् वा ।

५३ - ६६ - किम् उक्तम् ।

५४ - ६६ - सिद्धम् अनुनासिकोपधत्वात् इति ।

५५ - ६६ - एवम् अपि दलोपः साधीयः प्राप्नोति ।

५६ - ६६ - दुक्करणात् वा ।

५७ - ६६ - अथ वा दुक् डतरादीनाम् इति वक्ष्यामि ।

५८ - ६६ - डित्करणात् वा ।

५९ - ६६ - अथ वा डित् अयम् शब्दः करिष्यते ।

६० - ६६ - सः तर्हि डकारः कर्तव्यः ।

६१ - ६६ - न कर्तव्यः ।

६२ - ६६ - क्रियते न्यासे एव ।

६३ - ६६ - द्विडकारः निर्देशः अद्ड् डतरादिभ्यः इति ।

६४ - ६६ - एवम् अपि लोपः प्राप्नोति ।

६५ - ६६ - विहितविशेषणम् ह्रस्वग्रहणम् ।

६६ - ६६ - यस्मात् ह्रस्वात् सम्बुद्धिः विहिता इति ।

१ - २० - अपृक्तसम्बुद्धिलोपाभ्याम् लुक् ।

२ - २० - अपृक्तसम्बुद्धिलोपाभ्याम् लुक् भवति विप्रतिषेधेन ।

३ - २० - अपृक्तलोपस्य अवकाशः गोमान् , यवमान् ।

४ - २० - लुकः अवकाशः त्रपु, जतु ।

५ - २० - इह उभयम् प्राप्नोति ।

६ - २० - तत् ब्राह्मणकुलम् , यत् ब्राह्मणकुलम् ।

७ - २० - सम्बुद्धिलोपस्य अवकाशः हे अग्ने, हे वायो ।

८ - २० - लुकः सः एव ।

९ - २० - इह उभयम् प्राप्नोति ।

१० - २० - हे त्रपु , हे जतु ।

११ - २० - लुक् भवति विप्रतिषेधेन ।

१२ - २० - सः तर्हि विप्रतिषेधः वक्तव्यः ।

१३ - २० - न वा लोपलुकोः लुगवधारणात् यथा अनडुह्यते इति ।

१४ - २० - न वा अर्थः विप्रतिषेधेन ।

१५ - २० - किम् कारणम् ।

१६ - २० - लोपलुकोः लुगवधारणात् ।

१७ - २० - लोपलुकोः हि लुक् अवधार्यते ।

१८ - २० - लुक् लोपयणयवायावेकादेशेभ्यः ।

१९ - २० - यथा अनडुह्यते इति ।

२० - २० - तत् यथा अनड्वान् इव आचरति अनडुह्यते इति अत्र लोपलुकोः लुक् अवधार्यते एवम् इह अपि ।

१ - १६ - अयम् योगः शक्यः अवक्तुम् ।

२ - १६ - कथम् अग्ने त्री ते वजिना त्री सधस्था , त ता पिण्डानाम् इति ।

३ - १६ - पूर्वसवर्णेन अपि एतत् सिद्धम् ।

४ - १६ - न सिध्यति ।

५ - १६ - नुमा व्यवहितत्वात् पूर्वसवर्णः न प्राप्नोति ।

६ - १६ - छन्दसि नपुंसकस्य पुंवद्भावः वक्तव्यः मधोः गृह्णाति , महोः तृप्ता इव आसते इति एवमर्थम् ।

७ - १६ - तत्र पूंवद्भावेन नुमः निवृत्तिः ।

८ - १६ - नुमि निवृत्ते पूर्वसवर्णेन सिद्धम् ।

९ - १६ - भवेत् सिद्धम् अग्ने त्री ते वजिना त्री षधस्था इति ।

१० - १६ - इदम् तु न सिध्यति त ता पिण्डानाम् इति ।

११ - १६ - इदम् अपि सिद्धम् ।

१२ - १६ - कथम् ।

१३ - १६ - साप्तमिके पूर्वसवर्णे कृते पुनः षाष्ठिकः भविष्यति ।

१४ - १६ - एवम् अपि जसि गुणः प्राप्नोति ।

१५ - १६ - वक्ष्यति एतत् ।

१६ - १६ - जसादिषु छन्दोवावचनम् प्राक् णौ चङि उपधायाः इति ।

१ - ५५ - तुकि पूर्वान्ते नपुंसकोपसर्जनह्रस्वत्वम् द्विगुस्वरः च ।

२ - ५५ - तुकि पूर्वान्ते नपुंसकोपसर्जनह्रस्वत्वम् द्विगुस्वरः च न सिध्यति ।

३ - ५५ - आराशस्त्रि छत्रम् , धानाशष्कुलि छत्रम् ।

४ - ५५ - निष्कौशाम्बि छत्रम् , निर्वाराणसि छत्रम् ।

५ - ५५ - पञ्चारत्नि छत्रम् , दशारत्नि छत्रम् ।

६ - ५५ - तुके कृते अनन्त्यत्वात् एते विधयः न प्राप्नुवन्ति ।

७ - ५५ - न वा बहिरङ्गलक्षणत्वात् ।

८ - ५५ - न वा एषः दोषः ।

९ - ५५ - किम् कारणम् ।

१० - ५५ - बहिरङ्गलक्षणत्वात् ।

११ - ५५ - बहिरङ्गलक्षणः तुक् ।

१२ - ५५ - अन्तरङ्गाः एते विधयः ।

१३ - ५५ - असिद्धम् बहिरङ्गम् अन्तरङ्गे ।

१४ - ५५ - इदम् तर्हि ग्रामणिपुत्रः , सेनानिपुत्रः इति ह्रस्वत्वे कृते तुक् प्राप्नोति ।

१५ - ५५ - ग्रामणिपुत्रादिषु च अप्राप्तिः ।

१६ - ५५ - ग्रामणिपुत्रादिषु च अप्राप्तिः ।

१७ - ५५ - किम् कारणम् ।

१८ - ५५ - बहिरङ्गलक्षणत्वात् एव ।

१९ - ५५ - अथ वा परादिः करिष्यते ।

२० - ५५ - परादौ संयोगादेः इति अतिप्रसङ्गः ।

२१ - ५५ - परादौ संयोगादेः इति अतिप्रसङ्गः भवति ।

२२ - ५५ - अपच्छायात् ।

२३ - ५५ - वा अन्यस्य संयोगादेः इति एत्वम् प्रसज्येत ।

२४ - ५५ - विलोपवचनम् च ।

२५ - ५५ - वेः च लोपः वक्तव्यः ।

२६ - ५५ - अग्निचित् , सोमसुत् ।

२७ - ५५ - अपृक्तस्य इति वेः लोपः न प्राप्नोति ।

२८ - ५५ - न एषः दोषः ।

२९ - ५५ - अपृक्तग्रहणम् न करिष्यते ।

३० - ५५ - यदि न क्रियते दर्विः , जागृविः , अत्र अपि प्राप्नोति ।

३१ - ५५ - अनुनासिकपरस्य विशब्दस्य ग्रहणम् शुद्धपरः च अत्र विशब्दः ।

३२ - ५५ - एवम् अपि सतुक्कस्य लोपः प्राप्नोति ।

३३ - ५५ - निर्दिश्यमानस्य आदेशाः भवन्ति इति एवम् न भविष्यति ।

३४ - ५५ - इट्प्रतिषेधः च ।

३५ - ५५ - इट्प्रतिषेधः च वक्तव्यः ।

३६ - ५५ - परीतत् ।

३७ - ५५ - सतुक्कस्य वलादिलक्षणः इट् प्रसज्येत ।

३८ - ५५ - एवम् तर्हि अभक्तः ।

३९ - ५५ - अभक्ते स्वरः ।

४० - ५५ - यदि अभक्तः तर्हि स्वरे दोषः भवति ।

४१ - ५५ - दधि छादयति , मधु छादयति ।

४२ - ५५ - तिङ् अतिङः इति निघातः न प्राप्नोति ।

४३ - ५५ - ननु च तुक् एव अतिङ् ।

४४ - ५५ - न तुकः परस्य निघातः प्राप्नोति ।

४५ - ५५ - किम् कारणम् ।

४६ - ५५ - नञिवयुक्तम् अन्यसदृशाधिकरणे ।

४७ - ५५ - तथा हि अर्थगतिः ।

४८ - ५५ - नञ्युक्ते इवयुक्ते वा अन्यस्मिन् तत्सदृशे कार्यम् विज्ञायते ।

४९ - ५५ - तथा हि अर्थः गम्यते ।

५० - ५५ - तत् यथा ।

५१ - ५५ - अब्राह्मणम् आनय इति उक्ते ब्राह्मणसदृशम् एव आनयति ।

५२ - ५५ - न असौ लोष्टम् आनीय कृती भवति ।

५३ - ५५ - एवम् इह अपि अतिङ् इति तिङ्प्रतिषेधात् अन्यस्मात् अतिङः तिङ्सदृशात् कार्यम् विज्ञास्यते ।

५४ - ५५ - किम् च अन्यत् अतिङ् तिङ्सदृशम् ।

५५ - ५५ - पदम् ।

१ - ७ - अयम् योगः शक्यः अवक्तुम् ।

२ - ७ - कथम् ।

३ - ७ - अधिकरणम् नाम त्रिप्रकारम् व्यापकम् औपश्लेषिकम् वैषयिकम् इति ।

४ - ७ - शब्दस्य च शब्देन कः अन्यः अभिसम्बन्धः भवितुम् अर्हति अन्यत् अतः उपश्लेषात् ।

५ - ७ - इकः यण् अचि ।

६ - ७ - अचि उपश्लिष्टस्य इति ।

७ - ७ - तत्र अन्तरेण संहिताग्रहणम् संहितायाम् एव भविष्यति ।

१ - ६ - अथ किमर्थम् आङ्माङोः सानुबन्धकयोः निर्देशः ।

२ - ६ - आङ्माङोः सानुबन्धकनिर्देशः गतिकर्मप्रवचनीयप्रतिषेधसम्प्रत्ययार्थः ।

३ - ६ - आङ्माङोः सानुबन्धकयोः निर्देशः क्रियते आङः गतिकर्मप्रवचनीयसम्प्रत्ययार्थः माङः प्रतिषेधसम्प्रत्ययार्थः ।

४ - ६ - इह मा भूत् ।

५ - ६ - आ छाया, आच् छाया ।

६ - ६ - प्रमा छन्दः , प्रमाच् छन्दः ।

१ - ४ - दीर्घात् पदान्तात् वा विश्वजनादीनाम् छन्दसि ।

२ - ४ - दीर्घात् पदान्तात् वा इति अत्र विश्वजनादीनाम् छन्दसि उपसङ्ख्यनम् कर्तव्यम् ।

३ - ४ - विश्वजनस्य छत्रम् , विश्वजनस्य च्छत्रम् ।

४ - ४ - न छायाम् कुरवः अपराम् , नच् छायाम् कुरवः अपराम् ।

१ - ४९ - इग्ग्रहणम् किमर्थम् ।

२ - ४९ - इह मा भूत् ।

३ - ४९ - अग्निचित् अत्र , सोमसुत् अत्र ।

४ - ४९ - न एतत् अस्ति प्रयोजनम् ।

५ - ४९ - जश्त्वम् अत्र बाधकम् भविष्यति ।

६ - ४९ - जश्त्वम् न सिद्धम् यणम् अत्र पश्य । असिद्धम् अत्र जश्त्वम् ।

७ - ४९ - तस्य असिद्धत्वात् यणादेशः प्राप्नोति ।

८ - ४९ - यः च अपदान्तः हल् अचः च पूर्वः ।

९ - ४९ - यः च अपदान्तः हल् अचः च पूर्वः तस्य प्राप्नोति ।

१० - ४९ - पचति इति ।

११ - ४९ - एवम् तर्हि दीर्घस्य यण् ।

१२ - ४९ - दीर्घस्य यण् आदेशम् वक्ष्यामि ।

१३ - ४९ - तत् दीर्घग्रहणम् कर्तव्यम् ।

१४ - ४९ - न कर्तव्यम् ।

१५ - ४९ - प्रकृतम् अनुवर्तते ।

१६ - ४९ - क्व प्रकृतम् ।

१७ - ४९ - दीर्घात् पदान्तात् वा इति ।

१८ - ४९ - तत् वै पञ्चमीनिर्दिष्टम् षष्ठीनिर्दिष्टेन च इह अर्थः ।

१९ - ४९ - अचि इति एषा सप्तमी दीर्घात् इति पञ्चम्याः षष्ठीम् प्रकल्पयिष्यति तस्मिन् इति निर्दिष्टे पूर्वस्य इति ।

२० - ४९ - भवेत् सिद्धम् कुमारी अत्र , ब्रह्मबन्ध्वर्थम् इति ।

२१ - ४९ - इदम् तु न सिध्यति ।

२२ - ४९ - दधि अत्र , मधु अत्र इति ।

२३ - ४९ - ह्रस्वः इति प्र्तवृत्तम् ।

२४ - ४९ - ह्रस्वग्रहणम् अपि प्रकृतम् अनुवर्तते ।

२५ - ४९ - क्व प्रकृतम् ।

२६ - ४९ - ह्रस्व्यस्य पिति कृति तुक् इति ।

२७ - ४९ - यदि तत् अनुवर्तते दीर्घात् पदान्तात् वा इति ह्रस्वात् अपि पदान्तात् विकल्पेन प्राप्नोति ।

२८ - ४९ - सम्बन्धवृत्त्या ।

२९ - ४९ - सम्बन्धम् अनुवर्तिष्यते ।

३० - ४९ - ह्रस्व्यस्य पिति कृति तुक् ।

३१ - ४९ - संहितायाम् ह्रस्व्यस्य पिति कृति तुक् ।

३२ - ४९ - छे च ह्रस्व्यस्य पिति कृति तुक् ।

३३ - ४९ - आङ्माङोः च ह्रस्व्यस्य पिति कृति तुक् ।

३४ - ४९ - दीर्घात् पदान्तात् वा ह्रस्व्यस्य पिति कृति तुक् ।

३५ - ४९ - ततः इकः यण् अचि ।

३६ - ४९ - ह्रस्व्यस्य इति वर्तते ।

३७ - ४९ - पिति कृति तुक् इति निवृत्तम् ।

३८ - ४९ - इह तर्हि प्राप्नोति चयनम् , चायकः , लवणम् , लावकः ।

३९ - ४९ - अयादयः अत्र बाधकाः भविष्यन्ति ।

४० - ४९ - इह तर्हि प्राप्नोति खट्वा इन्द्रः , माला इन्द्रः , खट्वा एलका , माला एलका ।

४१ - ४९ - गुणवृद्धिबाध्यः ।

४२ - ४९ - गुणवृद्धी अत्र बाधिके भविष्यतः ।

४३ - ४९ - इदम् तर्हि प्रयोजनम् ।

४४ - ४९ - इकः अचि यण् एव स्यात् ।

४५ - ४९ - यत् अन्यत् प्राप्नोति तत् मा भूत् इति ।

४६ - ४९ - किम् च अन्यत् प्राप्नोति ।

४७ - ४९ - शाकलम् ।

४८ - ४९ - सिन्नित्यसमासयोः शाकलप्रतिषेधम् चोदयिष्यति ।

४९ - ४९ - स न वक्तव्यः भवति ।

१ - ३९ - यणादेशः प्लुतपूर्वस्य च ।

२ - ३९ - यणादेशः प्लुतपूर्वस्य च इति वक्तव्यम् ।

३ - ३९ - अग्ना३इ* इन्द्रम् , अग्ना३य् इन्द्रम् , पटा३उ* उदकम् , पटा३व् उदकम् , अग्ना३इ* आशा , अग्ना३य् आशा , पटा३उ* आशा , पटा३व् आशा ।

४ - ३९ - किम् पुनः कारणम् न सिध्यति ।

५ - ३९ - असिद्धः प्लुतः प्लुतविकारौ च इमौ ।

६ - ३९ - सिद्धः प्लुतः स्वरसन्धिषु ।

७ - ३९ - कथम् ज्ञायते ।

८ - ३९ - यत् अयम् प्लुतप्रगृह्याः अचि इति प्लुतस्य प्रकृतिभावम् शास्ति तत् ज्ञापयति आचार्यः सिद्धः प्लुतः स्वरसन्धिषु इति ।

९ - ३९ - कथम् कृत्वा ज्ञापकम् ।

१० - ३९ - सतः हि कार्यिणः कार्येण भवितव्यम् ।

११ - ३९ - इदम् तर्हि प्रयोजनम् दीर्घशाकलप्रतिषेधार्थम् ।

१२ - ३९ - दीर्घत्वम् शाकलम् च मा भूत् इति ।

१३ - ३९ - एतत् अपि न अस्ति प्रयोजनम् ।

१४ - ३९ - आरभ्यते प्लुतपूर्वस्य यणादेशः तयोः य्वौ अचि संहितायाम् इति ।

१५ - ३९ - तत् दीर्घशाकलप्रतिषेधार्थम् भविष्यति ।

१६ - ३९ - तत् न वक्तव्यम् भवति ।

१७ - ३९ - ननु च तस्मिन् अपि उच्यमाने इदम् न वक्तव्यम् भवति ।

१८ - ३९ - अवश्यम् इदम् वक्तव्यम् यौ प्लुतपूर्वौ इदुतौ अप्लुतविकारौ तदर्थम् ।

१९ - ३९ - भो३इ इन्द्रम् , भो३य् इन्द्रम् , भो३इ इह भो३य् इह इति ।

२० - ३९ - यद् तर्हि अस्य निबन्धनम् अस्ति इदम् एव वक्तव्यम् ।

२१ - ३९ - तत् न वक्तव्यम् ।

२२ - ३९ - तत् अपि अवश्यम् स्वरार्थम् वक्तव्यम् ।

२३ - ३९ - अनेन हि सति उदात्तस्वरितयोः यणः इति एषः स्वरः प्रसज्येत ।

२४ - ३९ - तेन पुनः सति असिद्धत्वात् न भविष्यति ।

२५ - ३९ - यदि तर्हि तस्य निबन्धनम् अस्ति तत् एव वक्तव्यम् ।

२६ - ३९ - इदम् न वक्तव्यम् ।

२७ - ३९ - ननु च उक्तम् इदम् अपि अवश्यम् वक्तव्यम् यौ प्लुतपूर्वौ इदुतौ अप्लुतविकारौ तदर्थम् ।

२८ - ३९ - भो३इ इन्द्रम् , भो३य् इन्द्रम् , भो३इ इह भो३य् इह इति ।

२९ - ३९ - छान्दसम् एतत् दृष्टानुविधिः छन्दसि भवति ।

३० - ३९ - यत् तर्हि न छान्दसम् भो३य् इन्द्रम् , भो३य् इह इति साम गायति ।

३१ - ३९ - एषः अपि छन्दसि दृष्टस्य अनुप्रयोगः क्रियते ।

३२ - ३९ - जश्त्वम् न सिद्धम् यणम् अत्र पश्य ।

३३ - ३९ - यः च अपदान्तः हल् अचः च पूर्वः ।

३४ - ३९ - दीर्घस्य यण् ।

३५ - ३९ - ह्रस्वः इति प्र्तवृत्तम् ।

३६ - ३९ - सम्बन्धवृत्त्या ।

३७ - ३९ - गुणवृद्धिबाध्यः ।

३८ - ३९ - नित्ये च यः शाकलभाक्समासे तदर्थम् एतद् भगवान् चकार ।

३९ - ३९ - सामर्थ्ययोगात् न हि किम् चित् अस्मिन् पश्यामि शास्त्रे यत् अनर्थकम् स्यात् ।

१ - २४ - वान्तादेशे स्थानिनिर्देशः ।

२ - २४ - वान्तादेशे स्थानिनिर्देशः कर्तव्यः ।

३ - २४ - ओकारौकारयोः इति वक्तव्यम् एकारैकारयोः मा भूत् इति ।

४ - २४ - सः तर्हि कर्तव्यः ।

५ - २४ - न कर्तव्यः ।

६ - २४ - वान्तग्रहणम् न करिष्यते ।

७ - २४ - एचः यि प्रत्यये अयादयः भवन्ति इति एव सिद्धम् ।

८ - २४ - यदि वान्तग्रहणम् न क्रियते चेयम् , जेयम् इति अत्र अपि प्राप्नोति ।

९ - २४ - क्षय्यजय्यौ शक्यार्थे इति एतत् नियमार्थम् भविष्यति ।

१० - २४ - क्षिज्योः एव इति ।

११ - २४ - तयोः तर्हि शक्यार्थात् अन्यत्र अपि प्राप्नोति ।

१२ - २४ - क्षेयम् पापम् , जेयः वृषलः इति ।

१३ - २४ - उभयतः नियमः विज्ञास्यते ।

१४ - २४ - क्षिज्योः एव एचः तयोः च शक्यार्थे एव इति ।

१५ - २४ - इह अपि तर्हि नियमात् न प्राप्नोति ।

१६ - २४ - लव्यम् , पव्यम् , अवश्यलाव्यम् , अवश्यपाव्यम् ।

१७ - २४ - तुल्यजातीयस्य नियमः ।

१८ - २४ - कः च तुल्यजातीयः ।

१९ - २४ - यथाजातीयकः क्षिज्योः एच् ।

२० - २४ - कथञ्जातीयकः क्षिज्योः एच् ।

२१ - २४ - एकारः ।

२२ - २४ - एवम् अपि रायम् इच्छति , रैयति , अत्र अपि प्राप्नोति ।

२३ - २४ - रायिः छान्दसः ।

२४ - २४ - दृष्टानुविधिः छन्दसि भवति ।

१ - ८ - गोः यूतौ छन्दसि ।

२ - ८ - गोः यूतौ छन्दसि उपसङ्ख्यानम् कर्तव्यम् ।

३ - ८ - अ नः मित्रावरुणा घृतैः गव्यूतिम् उक्षतम् ।

४ - ८ - गोयूतिम् इति एव अन्यत्र ।

५ - ८ - अध्वपरिमाणे च ।

६ - ८ - अध्वपरिमाणे च गोः यूतौ उपसङ्ख्यानम् कर्तव्यम् ।

७ - ८ - गव्यूतिम् अध्वानम् गतः ।

८ - ८ - गोयूतिम् इति एव अन्यत्र ।

१ - १३ - एवकारः किमर्थः ।

२ - १३ - नियमार्थः ।

३ - १३ - न एतत् प्रयोजनम् ।

४ - १३ - न एतत् अस्ति प्रयोजनम् ।

५ - १३ - सिद्धे विधिः आरभ्यमाणः अन्तरेण एवकारम् नियमार्थङ् भविष्यति ।

६ - १३ - इष्टतः अवधारणार्थः तर्हि ।

७ - १३ - यथा एवम् विज्ञायेत ।

८ - १३ - धातोः तन्निमित्तस्य एव इति ।

९ - १३ - मा एवम् विज्ञायि ।

१० - १३ - धातोः एव तन्निमित्तस्य इति ।

११ - १३ - किम् च स्यात् ।

१२ - १३ - अधातोः तन्निमित्तस्य न स्यात् ।

१३ - १३ - शङ्कव्यम् दारु , पिचव्यः कार्पासः इति ।

१ - ५ - तत् इति अनेन किम् प्रतिनिर्दिश्यते ।

२ - ५ - सः एव क्रीणात्यर्थः ।

३ - ५ - इह मा भूत् ।

४ - ५ - क्रेयम् नः धान्यम् ।

५ - ५ - न च अस्ति क्रय्यम् इति ।

१ - १४ - भय्यादिप्रकरणे ह्रदय्याः उपसङ्ख्यानम् ।

२ - १४ - भय्यादिप्रकरणे ह्रदय्याः उपसङ्ख्यानम् कर्तव्यम् ।

३ - १४ - ह्रदय्याः आपः ।

४ - १४ - अव् शरस्य च ।

५ - १४ - शरस्य च ह्रदस्य च अतः अव् वक्तयः ।

६ - १४ - ह्रदव्याः आपः ।

७ - १४ - शरव्याः वै तेजनम् ।

८ - १४ - शरव्यस्य पशून् अभिघातकः स्यात् ।

९ - १४ - शरुवृत्तात् वा सिद्धम् ।

१० - १४ - शरुवृत्तात् वा सिद्धम् पुनः सिद्धम् एतत् ।

११ - १४ - ऋञ्जती शरुः इति अपि दृश्यते ।

१२ - १४ - ऋञ्जती शरुः इति अपि शरुशब्दप्रवृत्तिः दृश्यते ।

१३ - १४ - शरुहस्तः इति च लोके ।

१४ - १४ - शरुहस्तः इति च लोके शरहस्तम् उपाचरन्ति ।

१ - ५१ - एकवचनम् किमर्थम् ।

२ - ५१ - एकवचनम् पृथक् आदेशप्रतिषेधार्थम् ।

३ - ५१ - एकवचनम् क्रियते एकः आदेशः यथा स्यात् ।

४ - ५१ - पृथक् आदेशः मा भूत् इति ।

५ - ५१ - न वा द्रव्यवत् कर्मचोदनायाम् द्वयोः एकस्य अभिनिर्वृत्तेः ।

६ - ५१ - न वा एतत् प्रयोजनम् अस्ति ।

७ - ५१ - किम् कारणम् ।

८ - ५१ - द्रव्यवत् कर्मचोदनायाम् द्वयोः एकस्य अभिनिर्वृत्तेः एकः आदेशः भविष्यति ।

९ - ५१ - तत् यथा द्रव्येषु कर्मचोदनायाम् द्वयोः एकस्य अभिनिर्वृत्तिः भवति ।

१० - ५१ - अनयोः पूलयोः कटम् कुरु ।

११ - ५१ - अनयोः मित्पिण्डयोः घटम् कुरु इति ।

१२ - ५१ - न च उच्यते एकम् इति एकम् च असौ करोति ।

१३ - ५१ - किम् पुनः कारणम् द्रव्येषु कर्मचोदनायाम् द्वयोः एकस्य अभिनिर्वृत्तिः भवति ।

१४ - ५१ - तत् च एकवाक्यभावात् ।

१५ - ५१ - एकवाक्यभावात् द्रव्येषु कर्मचोदनायाम् द्वयोः एकस्य अभिनिर्वृत्तिः भवति ।

१६ - ५१ - आतः च एकवाक्यभावात् ।

१७ - ५१ - व्याकरणे अपि हि अन्यत्र द्वयोः स्थानिनोः एकः आदेशः भवति ।

१८ - ५१ - ज्वरत्वरस्रिव्यविमवाम् उपधायाः च ।

१९ - ५१ - भ्रस्जः रोपधयोः रम् अन्यतरस्याम् इति ।

२० - ५१ - यत् तावत् उच्यते एकवाक्यभावात् इति तत् न ।

२१ - ५१ - अर्थात् प्रकरणात् वा लोके द्वयोः एकस्य अभिनिर्वृत्तिः भवति ।

२२ - ५१ - आतः च अर्थात् प्रकरणात् वा ।

२३ - ५१ - व्याकरणे अपि हि अन्यत्र द्वयोः स्थानिनोः द्वौ आदेशौ भवतः ।

२४ - ५१ - रदाभ्याम् निष्ठातः नः पूर्वस्य च दः ।

२५ - ५१ - उभौ साभ्यासस्य इति ।

२६ - ५१ - कथम् यत् तत् उक्तम् व्याकरणे अपि हि अन्यत्र द्वयोः स्थानिनोः एकः आदेशः भवति ।

२७ - ५१ - ज्वरत्वरस्रिव्यविमवाम् उपधायाः च ।

२८ - ५१ - भ्रस्जः रोपधयोः रम् अन्यतरस्याम् इति ।

२९ - ५१ - इह तावत् ज्वरत्वरस्रिव्यविमवाम् उपधायाः च इति ।

३० - ५१ - स्ताम् द्वौ ऊठौ ।

३१ - ५१ - न अस्ति दोषः ।

३२ - ५१ - सवर्णदीर्घत्वेन सिद्धम् ।

३३ - ५१ - इह भ्रस्जः रोपधयोः रम् अन्यतरस्याम् इति ।

३४ - ५१ - वक्ष्यति हि एतत् ।

३५ - ५१ - भ्रस्जः रोपधयोः लोपः आगमः रम् विधीयते इति ।

३६ - ५१ - यत् उच्यते अर्थात् प्रकरणात् वा इति तत् न ।

३७ - ५१ - किम् कारणम् ।

३८ - ५१ - एकवाक्यभावात् एव लोके द्वयोः एकस्य अभिनिर्वृत्तिः भवति ।

३९ - ५१ - आतः च एकवाक्यभावात् ।

४० - ५१ - अङ्ग हि भवान् ग्राम्यम् पांसुलपादम् अप्रकरणज्ञम् आगतम् ब्रवीतु अनयोः पूलयोः कटम् कुरु ।

४१ - ५१ - अनयोः मित्पिण्डयोः घटम् कुरु इति ।

४२ - ५१ - एकम् एव असौ करिष्यति ।

४३ - ५१ - कथम् यत् उक्तम् व्याकरणे अपि हि अन्यत्र द्वयोः स्थानिनोः द्वौ आदेशौ भवतः ।

४४ - ५१ - रदाभ्याम् निष्ठातः नः पूर्वस्य च दः ।

४५ - ५१ - उभौ साभ्यासस्य इति ।

४६ - ५१ - इह तावत् रदाभ्याम् निष्ठातः नः पूर्वस्य च दः इति द्वे वाक्ये ।

४७ - ५१ - कथम् ।

४८ - ५१ - योगविभागः करिष्यते ।

४९ - ५१ - रदाभ्याम् निष्ठातः नः ।

५० - ५१ - ततः पूर्वस्य च दः इति ।

५१ - ५१ - इह उभौ साभ्यासस्य इति उभौग्रहणसामर्थ्यात् द्वौ आदेशौ भविष्यतः ।

१ - ५९ - तत्र अवयवे शास्त्रार्थसम्प्रत्ययः यथा लोके टत्र अवयवे शास्त्रार्थसम्प्रत्ययः प्राप्नोति यथा लोके ।

२ - ५९ - तत् यथा लोके ।

३ - ५९ - वसन्ते ब्राह्मणः अग्नीन् आदधीत इति सकृत् आधाय कृतः शास्त्रार्थः इति कृत्वा पुनः प्रवृत्तिः न भवति ।

४ - ५९ - तथा गर्भाष्टमे ब्राह्मणः उपनेयः इति सकृत् उपनीय कृतः शास्त्रार्थः इति कृत्वा पुनः प्रवृत्तिः न भवति ।

५ - ५९ - तथा त्रिः हृदयङ्गमाभिः अद्भिः अशब्दाभिः उपस्पृशेत् इति सकृत् उपस्पृश्य कृतः शास्त्रार्थः इति कृत्वा पुनः प्रवृत्तिः न भवति ।

६ - ५९ - एवम् इह अपि खट्वेन्द्रे कृतः शास्त्रार्थः इति कृत्वा मालेन्द्रादिषु न स्यात् ।

७ - ५९ - सिद्धम् तु धर्मोपदेशने अनवयवविज्ञानात् यथा लौकिकवैदिकेषु ।

८ - ५९ - सिद्धम् एतत् ।

९ - ५९ - कथम् ।

१० - ५९ - धर्मोपदेशनम् इदम् शास्त्रम् ।

११ - ५९ - धर्मोपदेशने च अस्मिन् शास्त्रे अनवयवेन शास्त्रार्थः सम्प्रतीयते यथा लौकिकेषु वैदिकेषु च कृतान्तेषु ।

१२ - ५९ - लोके तावत् ब्राह्मणः न हन्तव्यः ।

१३ - ५९ - सुरा न पेया इति ।

१४ - ५९ - ब्राह्मणमात्रम् न हन्यते सुरामात्रम् च न पीयते ।

१५ - ५९ - यदि च अवयवेन शास्त्रार्थसम्प्रत्ययः स्यात् एकम् च ब्राह्मणम् अहत्वा एकाम् च सुराम् अपीत्वा अन्यत्र कामचारः स्यात् ।

१६ - ५९ - तथा पूर्ववयाः ब्राह्मणः प्रत्युत्थेयः इति पूर्ववयोमात्रम् प्रत्युत्थीयते ।

१७ - ५९ - यदि अवयवेन शास्त्रार्थसम्प्रत्ययः स्यात् एकम् पूर्ववयसम् प्रत्युत्थाय अन्यत्र कामचारः स्यात् ।

१८ - ५९ - तथा वेदे खलु अपि ।

१९ - ५९ - वसन्ते ब्राह्मणः अग्निष्टोमादिभिः क्रतुभिः यजेत इति अग्न्याधाननिमित्तम् वसन्ते वसन्ते इज्यते ।

२० - ५९ - यदि अवयवेन शास्त्रार्थसम्प्रत्ययः स्यात् सकृत् इष्ट्वा पुनः इज्या न प्रवर्तेत ।

२१ - ५९ - उभयथा इह लोके दृश्यते ।

२२ - ५९ - अवयवेन अपि शास्त्रार्थसम्प्रत्ययः अनवयवेन अपि ।

२३ - ५९ - कथम् पुनः इदम् उभयम् लभ्यम् ।

२४ - ५९ - लभ्यम् इति आह ।

२५ - ५९ - कथम् ।

२६ - ५९ - इह तावत् वसन्ते ब्राह्मणः अग्नीन् आदधीत इति ।

२७ - ५९ - अग्न्याधानम् यज्ञमुखप्र्तिपत्त्यर्थम् ।

२८ - ५९ - सकृत् आधाय कृतः शास्त्रार्थः प्रतिपन्नम् यज्ञम् इति कृत्वा पुनः प्रवृत्तिः न भवति ।

२९ - ५९ - अतः अत्र अवयवेन शास्त्रार्थः सम्प्रतीयते ।

३० - ५९ - तथा गर्भाष्टमे ब्राह्मणः उपनेयः इति ।

३१ - ५९ - उपनयनम् संस्कारार्थम् ।

३२ - ५९ - सकृत् च असौ उपनीतः संस्कृतः भवति ।

३३ - ५९ - अतः अत्र अपि अवयवेन शास्त्रार्थः सम्प्रतीयते ।

३४ - ५९ - तथा त्रिः हृदयङ्गमाभिः अद्भिः अशब्दाभिः उपस्पृशेत् इति ।

३५ - ५९ - उपस्पर्शनम् शौचार्थम् ।

३६ - ५९ - सकृत् च असौ उपस्पृश्य शुचिः भवति ।

३७ - ५९ - अतः अत्र अपि अवयवेन शास्त्रार्थः सम्प्रतीयते ।

३८ - ५९ - इह इदानीम् ब्राह्मणः न हन्तव्यः ।

३९ - ५९ - सुरा न पेया इति ।

४० - ५९ - ब्राह्मणवधे सुरापाने च महान् दोषः उक्तः ।

४१ - ५९ - सः ब्राह्मणवधमात्रे सुरापानमात्रे च प्रसक्तः ।

४२ - ५९ - अतः अत्र अनवयवेन शास्त्रार्थः सम्प्रतीयते ।

४३ - ५९ - तथा पूर्ववयाः ब्राह्मणः प्रत्युत्थेयः इति ।

४४ - ५९ - पूर्ववयसः अप्रत्युत्थाने दोषः उक्तः प्रत्युत्थाने च गुणः ।

४५ - ५९ - कथम् ।

४६ - ५९ - ऊर्ध्वम् प्राणाः हि उत्क्रामन्ति यूनः स्थविरे आयति ।

४७ - ५९ - प्रत्युत्थानाभाभिवादाभ्याम् पुनः तान् प्रतिपद्यते इति ।

४८ - ५९ - सः च प्रूर्ववयोमात्रे प्रसक्तः ।

४९ - ५९ - अतः अत्र अपि अनवयवेन शास्त्रार्थः सम्प्रतीयते ।

५० - ५९ - तथा वसन्ते ब्राह्मणः अग्निष्टोमादिभिः क्रतुभिः यजेत इति इज्यायाः किम् चित् प्रयोजनम् उक्तम् ।

५१ - ५९ - किम् ।

५२ - ५९ - स्वर्गे लोके अप्सरसः एनम् जायाः भूत्वा उपशेरते इति ।

५३ - ५९ - तत् च द्वितीयस्याः तृतीयस्याः च इज्यायाः भवितुम् अर्हति ।

५४ - ५९ - अतः अत्र अपि अनवयवेन शास्त्रार्थः सम्प्रतीयते ।

५५ - ५९ - तथा शब्दस्य अपि ज्ञाने प्रयोगे प्रयोजनम् उक्तम् ।

५६ - ५९ - किम् ।

५७ - ५९ - एकः शब्दः सम्यक् ज्ञातः शास्त्रान्वितः सुप्रयुक्तः स्वर्गे लोके कामधुक् भवति इति ।

५८ - ५९ - यदि एकः शब्दः सम्यक् ज्ञातः शास्त्रान्वितः सुप्रयुक्तः स्वर्गे लोके कामधुक् भवति किमर्थम् द्वितीयः तृतीयः च प्रयुज्यते ।

५९ - ५९ - न वै कामानाम् तृप्तिः अस्ति ।

१ - २३ - अथ पूर्वग्रहणम् किमर्थम् ।

२ - २३ - पूर्वपरग्रहणम् परस्य आदेशप्रतिषेधार्थम् ।

३ - २३ - पूर्वपरग्रहणम् क्रियते परस्य आदेशप्रतिषेधार्थम् ।

४ - २३ - परस्य आदेशः मा भूत् ।

५ - २३ - आत् गुणः इति ।

६ - २३ - कथम् च प्राप्नोति ।

७ - २३ - पञ्चमीनिर्दिष्टात् हि परस्य ।

८ - २३ - पञ्चमीनिर्दिष्टात् हि परस्य कार्यम् उच्यते ।

९ - २३ - तत् यथा द्व्यन्तरुपसर्गेभ्यः अपः ईत् इति ।

१० - २३ - षष्ठीनिर्दिष्टार्थम् तु ।

११ - २३ - षष्ठीनिर्दिष्टार्थम् च पूर्वपरग्रहणम् क्रियते ।

१२ - २३ - षष्ठीनिर्देशः यथा पकल्पेत ।

१३ - २३ - अनिर्दिष्टे हि षष्ठ्यर्थाप्रसिद्धिः ।

१४ - २३ - अक्रियमाणे हि पूर्वपरग्रहणे षष्ठ्यर्थस्य अप्रसिद्धिः स्यात् ।

१५ - २३ - कस्य ।

१६ - २३ - स्थानेयोगत्वस्य ।

१७ - २३ - न एषः दोषः ।

१८ - २३ - आत् इति एषा पञ्चमी अचि इति सप्तम्याः षष्ठीम् प्रकल्पयिष्यति तस्मात् इति उत्तरस्य इति ।

१९ - २३ - तथा च अचि इति एषा सप्तमी आत् इति पञ्चम्याः षष्ठीम् प्रकल्पयिष्यति तस्मिन् इति निर्दिष्टे पूर्वस्य इति ।

२० - २३ - एवम् तर्हि सिद्धे सति यत् पूर्वग्रहणम् करोति तत् ज्ञापयति आचार्यः न उभे युगपत् प्रकल्पिके भवतः इति ।

२१ - २३ - किम् एतस्य ज्ञापने प्रयोजनम् ।

२२ - २३ - यत् उक्तम् सप्तमीपञ्चम्योः च भावात् उभयत्र षष्ठीप्रक्ल्̥प्तिः तत्र उभयकार्यप्रसङ्गः इति ।

२३ - २३ - सः न दोषः भवति ।
"http: -  - sa.wikibooks.org - wiki - %E0%A4%B5%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%95%E0%A4%B0%

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP