१ - ३३ - दाश्वान् इति किम् निपात्यते ।
२ - ३३ - दाशेः वसौ द्वित्वेट्प्रतिषेधौ ।
३ - ३३ - दाशेः वसौ द्वित्वेट्प्रतिषेधौ निपात्येते ।
४ - ३३ - दाश्वंसः दाशुषः सुतम् ।
५ - ३३ - दाश्वान् ।
६ - ३३ - साह्वान् इति किम् निपात्यते ।
७ - ३३ - सहेः दीर्घत्वम् च ।
८ - ३३ - किम् च ।
९ - ३३ - द्वित्वेट्प्रतिषेधौ च ।
१० - ३३ - साह्वान् बलाहकः ।
११ - ३३ - साह्वान् ।
१२ - ३३ - मीढ्वान् इति किम् निपात्यते ।
१३ - ३३ - मिहेः ढत्वम् च ।
१४ - ३३ - किम् च ।
१५ - ३३ - यत् च पूर्वयोः ।
१६ - ३३ - किम् च पूर्वयोः ।
१७ - ३३ - द्वित्वेट्प्रतिषेधौ दीर्घत्वम् च ।
१८ - ३३ - मीढ्वः तोकय तनयाय मृडय ।
१९ - ३३ - यथा इयम् इन्द्र मीढ्वः ।
२० - ३३ - मह्यर्थः वै गम्यते ।
२१ - ३३ - कः पुनः मह्यर्थः ।
२२ - ३३ - महतिः दानकर्मा ।
२३ - ३३ - अतः किम् ।
२४ - ३३ - इत्वम् अपि निपात्यम् ।
२५ - ३३ - मह्यर्थः इति चेत् मिहेः तदर्थत्वात् सिद्धम् ।
२६ - ३३ - मह्यर्थः इति चेत् मिहिः अपि मह्यर्थे वर्तते ।
२७ - ३३ - कथम् पुनः अन्यः नाम अन्यस्य अर्थे वर्तते ।
२८ - ३३ - बह्वर्थाः अपि धातवः भवन्ति इति ।
२९ - ३३ - अस्ति पुनः अन्यत्र अपि क्व चित् मिहिः मह्यर्थे वर्तते ।
३० - ३३ - अस्ति इति आह ।
३१ - ३३ - मिहेः मेघः ।
३२ - ३३ - मेघः च कस्मात् भवति ।
३३ - ३३ - अपः ददाति इति ।
१ - २३ - द्विर्वचनप्रकरणे कृञादीनाम् के ।
२ - २३ - द्विर्वचनप्रकरणे कृञादीनाम् के उपसङ्ख्यानम् कर्तव्यम् ।
३ - २३ - चक्रम् ।
४ - २३ - चिक्लिदम् ।
५ - २३ - चक्नम् इति ।
६ - २३ - कादिषु इति वक्तव्यम् इह अपि यथा स्यात् ।
७ - २३ - बभ्रुः ।
८ - २३ - ययुः इति ।
९ - २३ - चरिचलिपतिवदीनाम् अचि आक् च अभ्यासस्य ।
१० - २३ - चरिचलिपतिवदीनाम् अचि द्वे भवतः इति वक्तव्यम् आक् च अभ्यासस्य ।
११ - २३ - चराचरः ।
१२ - २३ - चलाचलः ।
१३ - २३ - पतापतः ।
१४ - २३ - वदावदः ।
१५ - २३ - हन्तेः घः च ।
१६ - २३ - हन्तेः घः च वक्तव्यः ।
१७ - २३ - अचि द्वे भवतः आक् च अभ्यासस्य ।
१८ - २३ - घनाघनः ।
१९ - २३ - पाटेः णिलुक् च दीर्घः च अभ्यासस्य ऊक् च ।
२० - २३ - पाटयतेः णिलुक् च वक्तव्यः ।
२१ - २३ - अचि द्वे भवतः इति वक्तव्यम् ।
२२ - २३ - दीर्घः च अभ्यासस्य ऊक् च आगमः ।
२३ - २३ - पाटुपटः ।
१ - १६१ - द्विर्वचनम् यणयवायावादेशाल्लोपोपधालोपणिलोपकिकिनोरुत्त्वेभ्यः ।
२ - १६१ - यणयवायावादेशाल्लोपोपधालोपणिलोपकिकिनोरुत्त्वेभ्यः द्विर्वचनम् भवति विप्रतिषेधेन ।
३ - १६१ - द्विर्वचनस्य अवकाशः ।
४ - १६१ - बिभिदतुः ।
५ - १६१ - बिभिदुः ।
६ - १६१ - यणादेशस्य अवकाशः ।
७ - १६१ - दधि अत्र ।
८ - १६१ - मधु अत्र ।
९ - १६१ - इह उभयम् प्राप्नोति ।
१० - १६१ - चक्रतुः ।
११ - १६१ - चक्रुः ।
१२ - १६१ - अयवायावादेशानाम् अवकाशः ।
१३ - १६१ - चयनम् ।
१४ - १६१ - चायकः ।
१५ - १६१ - लवनम् ।
१६ - १६१ - लावकः ।
१७ - १६१ - द्विर्वचनस्य सः एव ।
१८ - १६१ - इह उभयम् प्राप्नोति ।
१९ - १६१ - चिचाय ।
२० - १६१ - चिचयिथ ।
२१ - १६१ - लुलाव ।
२२ - १६१ - लुलविथ ।
२३ - १६१ - आल्लोपस्य अवकाशः ।
२४ - १६१ - । गोदः ।
२५ - १६१ - कम्बलदः ।
२६ - १६१ - द्विर्वचनस्य सः एव ।
२७ - १६१ - इह उभयम् प्राप्नोति ।
२८ - १६१ - ययतुः ।
२९ - १६१ - ययुः ।
३० - १६१ - तस्थतुः ।
३१ - १६१ - तस्थुः ।
३२ - १६१ - उपधालोपास्य अवकाशः ।
३३ - १६१ - श्लेष्मघ्नम् मधु ।
३४ - १६१ - पित्तघ्नम् घृतम् ।
३५ - १६१ - द्विर्वचनस्य सः एव ।
३६ - १६१ - इह उभयम् प्राप्नोति ।
३७ - १६१ - आटितत् ।
३८ - १६१ - आशिशत् ।
३९ - १६१ - उत्त्वस्य अवकाशः निपूर्ताः पिण्डाः ।
४० - १६१ - द्विर्वचनस्य सः एव ।
४१ - १६१ - इह उभयम् प्राप्नोति ।
४२ - १६१ - मित्रात्वरुणौ ततुरिः ।
४३ - १६१ - दूरे ह्यध्वा जगुरिः ।
४४ - १६१ - द्विर्वचनम् भवति पूर्वविप्रतिषेधेन ।
४५ - १६१ - सः तर्हि पूर्वविप्रतिषेधः वक्तव्यः ।
४६ - १६१ - न वक्तव्यः ।
४७ - १६१ - इष्टवाची परशब्दः ।
४८ - १६१ - विप्रतिषेधे परम् यत् इष्टम् तत् भवति इति ।
४९ - १६१ - द्विर्वचनात् प्रसारणात्त्वधात्वादिविकाररीत्वेत्त्वोत्त्वगुणवृद्धिविधयः ।
५० - १६१ - द्विर्वचनात् प्रसारणात्त्वधात्वादिविकाररीत्वेत्त्वोत्त्वगुणवृद्धिविधयः भवन्ति विप्रतिषेधेन ।
५१ - १६१ - द्विर्वचनस्य अवकाशः ।
५२ - १६१ - बिभिदतुः ।
५३ - १६१ - बिभिदुः ।
५४ - १६१ - सम्प्रसारणस्य अवकाशः ।
५५ - १६१ - इष्टम् ।
५६ - १६१ - सुप्तम् ।
५७ - १६१ - इह उभयम् प्राप्नोति ।
५८ - १६१ - ईजतुः ।
५९ - १६१ - ईजुः ।
६० - १६१ - न एतत् अस्ति प्रयोजनम् ।
६१ - १६१ - अस्तु अत्र द्विर्वचनम् ।
६२ - १६१ - द्विर्वचने कृते परस्य रूपस्य किति इति भविष्यति पूर्वस्य लिटि अभ्यासस्य उभयेषाम् इति ।
६३ - १६१ - इदम् तर्हि सोषुप्यते ।
६४ - १६१ - इदम् च अपि उदाहरणम् ।
६५ - १६१ - ईजतुः , ईजुः इति ।
६६ - १६१ - ननु च उक्तम् ।
६७ - १६१ - अस्तु अत्र द्विर्वचनम् ।
६८ - १६१ - द्विर्वचने कृते परस्य रूपस्य किति इति भविष्यति पूर्वस्य लिटि अभ्यासस्य उभयेषाम् इति ।
६९ - १६१ - न सिध्यति ।
७० - १६१ - न सम्प्रसारणे सम्प्रसारणम् इति प्रतिषेधः प्राप्नोति ।
७१ - १६१ - अकारेण व्यव्हितत्वात् न भविष्यति ।
७२ - १६१ - एकादेशे कृते न अस्ति व्यवधानम् ।
७३ - १६१ - एकादेशः पूर्वविधौ स्थानिवत् भवति इति स्थानिवद्भावात् व्यवधानम् एव ।
७४ - १६१ - एवम् तर्हि समानाङ्गग्रहणम् तत्र चोदयिष्यति ।
७५ - १६१ - आत्त्वस्य अवकाशः ।
७६ - १६१ - ग्लाता ।
७७ - १६१ - म्लाता ।
७८ - १६१ - द्विर्वचनस्य सः एव ।
७९ - १६१ - इह उभयम् प्राप्नोति ।
८० - १६१ - जग्ले ।
८१ - १६१ - मम्ले ।
८२ - १६१ - धात्वादिविकाराणाम् अवकाशः ।
८३ - १६१ - नमति ।
८४ - १६१ - सिञ्चति ।
८५ - १६१ - द्विर्वचनस्य सः एव ।
८६ - १६१ - इह उभयम् प्राप्नोति ।
८७ - १६१ - ननाम ।
८८ - १६१ - सिसेच ।
८९ - १६१ - सस्नौ ।
९० - १६१ - रीत्वस्य अवकाशः ।
९१ - १६१ - मात्रीयति ।
९२ - १६१ - पित्रीयति ।
९३ - १६१ - द्विर्वचनस्य सः एव ।
९४ - १६१ - इह उभयम् प्राप्नोति ।
९५ - १६१ - चेक्रीयते ।
९६ - १६१ - जेह्रीयते ।
९७ - १६१ - ईत्वस्य अवकाशः ।
९८ - १६१ - पीयते ।
९९ - १६१ - गीयते ।
१०० - १६१ - द्विर्वचनस्य सः एव ।
१०१ - १६१ - इह उभयम् प्राप्नोति ।
१०२ - १६१ - पेपीयते ।
१०३ - १६१ - जेगीयते ।
१०४ - १६१ - इत्त्वोत्त्वयोः अवकाशः ।
१०५ - १६१ - आस्तीर्णम् ।
१०६ - १६१ - निपूर्ताः ।
१०७ - १६१ - द्विर्वचनस्य सः एव ।
१०८ - १६१ - इह उभयम् प्राप्नोति ।
१०९ - १६१ - आतेस्तीर्यते ।
११० - १६१ - निपोपूर्यते ।
१११ - १६१ - गुणवृद्ध्योः अवकाशः ।
११२ - १६१ - चेता ।
११३ - १६१ - गौः ।
११४ - १६१ - द्विर्वचनस्य सः एव ।
११५ - १६१ - इह उभयम् प्राप्नोति ।
११६ - १६१ - चिचाय ।
११७ - १६१ - चिचयिथ ।
११८ - १६१ - लुलाव ।
११९ - १६१ - लुलविथ ।
१२० - १६१ - न एतत् अस्ति प्रयोजनम् ।
१२१ - १६१ - अस्तु अत्र द्विर्वचनम् ।
१२२ - १६१ - द्विर्वचने कृते परस्य रूपस्य गुणवृद्धी भविष्यतः ।
१२३ - १६१ - इदम् तर्हि प्रयोजनम् ।
१२४ - १६१ - इयाय ।
१२५ - १६१ - इययिथ ।
१२६ - १६१ - ननु च उक्तम् न एतत् अस्ति प्रयोजनम् ।
१२७ - १६१ - अस्तु अत्र द्विर्वचनम् ।
१२८ - १६१ - द्विर्वचने कृते परस्य रूपस्य गुणवृद्धी भविष्यतः ।
१२९ - १६१ - न सिध्यति ।
१३० - १६१ - अन्तरङ्गत्वात् सवर्णदीर्घत्वम् प्राप्नोति ।
१३१ - १६१ - वार्णात् आङ्गम् बलीयः इति गुणवृद्धी भविष्यतः ।
१३२ - १६१ - किम् वक्तव्यम् एतत् ।
१३३ - १६१ - न हि ।
१३४ - १६१ - कथम् अनुच्यमानम् गंस्यते ।
१३५ - १६१ - आचार्यप्रवृत्तिः ज्ञापयति वार्णात् आङ्गम् बलीयः भवति इति यत् अयम् अभ्यासस्य असवर्णे इति असवर्णग्रहणम् करोति ।
१३६ - १६१ - कथम् कृत्वा ज्ञापकम् ।
१३७ - १६१ - न हि अन्तरेण गुणवृद्धी असवर्णपरः अभ्यासः भवति ।
१३८ - १६१ - न एतत् अस्ति ज्ञापकम् ।
१३९ - १६१ - अर्त्यर्थम् एतत् स्यात् ।
१४० - १६१ - इयृतः ।
१४१ - १६१ - इयृथः ।
१४२ - १६१ - [उवोण ।
१४३ - १६१ - उवोणिथः (ऋ)] ।
१४४ - १६१ - यत् तर्हि दीर्घः इणः किति इति दीर्घत्वम् शास्ति ।
१४५ - १६१ - एतस्य अपि अस्ति वचने प्रयोजनम् ।
१४६ - १६१ - किम् ।
१४७ - १६१ - सवर्णदीर्घबाधनार्थम् एतत् स्यात् ।
१४८ - १६१ - सः यथा एव तर्हि सवर्णदीर्घत्वम् बाधते एवम् यणादेशम् अपि बाधेत ।
१४९ - १६१ - एवम् तर्हि यणादेशे योगविभागः करिष्यते ।
१५० - १६१ - इदम् अस्ति इणः यण् भवति ।
१५१ - १६१ - ततः एः अनेकाचः ।
१५२ - १६१ - एः च अनेकाचः इणः यण् भवति ।
१५३ - १६१ - ततः असंयोगपूर्वस्य ।
१५४ - १६१ - एः अनेकाचः इति एव ।
१५५ - १६१ - असवर्णग्रहणम् एव तर्हि ज्ञापकम् ।
१५६ - १६१ - ननु च उक्तम् अर्त्यर्थम् एतत् स्यात् इति ।
१५७ - १६१ - न एकम् उदाहरणम् असवर्णग्रहणम् प्रयोजयति ।
१५८ - १६१ - एवम् अपि स्थानिवद्भावात् इयङ् न प्राप्नोति ।
१५९ - १६१ - अथ सति अपि विप्रतिषेधे यावता स्थानिवद्भावः कथम् एव एतत् सिध्यति ।
१६० - १६१ - यः अनादिष्टात् अचः पूर्वः तस्य विधिम् प्रति स्थानिवद्भावः ।
१६१ - १६१ - आदिष्टात् च एषः अचः पूर्वः भवति ।
१ - ३६ - ष्यङः सम्प्रसारणे पुत्रपत्योः तदादौ अतिप्रसङ्गः ।
२ - ३६ - ष्यङः सम्प्रसारणे पुत्रपत्योः तदादौ अतिप्रसङ्गः भवति ।
३ - ३६ - पुत्रपत्यादौ सम्प्रसारणम् प्राप्नोति ।
४ - ३६ - कारीषगन्ध्यापुत्रकुलम् , कारीषगन्ध्यापतिकुलम् ।
५ - ३६ - वर्णग्रहणात् सिद्धम् ।
६ - ३६ - वर्णग्रहणे एतत् भवति यस्मिन् विधिः तदादौ इति न च इदम् वर्णग्रहणम् ।
७ - ३६ - वर्णग्रहणे इति चेत् तदन्तप्रतिषेधः ।
८ - ३६ - वर्णग्रहणे इति चेत् तदन्तस्य प्रतिषेधः वक्तव्यः ।
९ - ३६ - पुत्रपत्यन्ते सम्प्रसारणम् प्राप्नोति ।
१० - ३६ - कारीषगन्ध्यापरमपुत्रः , कारीषगन्ध्यापरमपतिः ।
११ - ३६ - कौमुदगन्ध्यापरमपुत्रः , कौमुदगन्ध्यापरमपतिः ।
१२ - ३६ - किम् कारणम् ।
१३ - ३६ - यत्र हि तदादिविधिः न अस्ति तदन्तविधिना तत्र भवितव्यम् ।
१४ - ३६ - सिद्धम् तु उत्तरपदवचनात् ।
१५ - ३६ - सिद्धम् एतत् ।
१६ - ३६ - कथम् ।
१७ - ३६ - उत्तरपदवचनात् ।
१८ - ३६ - पुत्रपत्योः उत्तरपदयोः इति वक्तव्यम् ।
१९ - ३६ - तत् तर्हि वक्तव्यम् ।
२० - ३६ - न वक्तव्यम् ।
२१ - ३६ - पूर्वपदम् उत्तरपदम् इति सम्बन्धिशब्दौ एतौ ।
२२ - ३६ - सति पूर्वपदे उत्तरपदम् भवति सति च उत्तरपदे पूर्वपदम् इति ।
२३ - ३६ - न च अत्र पुत्रपती उत्तरपदे ।
२४ - ३६ - इह अपि तर्हि न प्राप्नोति ।
२५ - ३६ - कारीषगन्धीपुत्रः , कारीषगन्धीपतिः इति ।
२६ - ३६ - किम् कारणम् ।
२७ - ३६ - पूर्वपदम् इति उच्यते ।
२८ - ३६ - न हि अत्र ष्यङ् पूर्वपदम् अस्ति ।
२९ - ३६ - ष्यङन्तम् एतत् पूर्वपदम् ।
३० - ३६ - कथम् ।
३१ - ३६ - प्रत्ययग्रहणे यस्मात् सः तदादेः ग्रहणम् भवति ।
३२ - ३६ - यदि प्रत्ययग्रहणे यस्मात् सः तदादेः ग्रहणम् भवति इति उच्यते परमकारीषगन्धीपुत्रः , परमकारीषगन्धीपतिः इति न सिध्यति ।
३३ - ३६ - प्रत्ययग्रहणे यस्मात् सः तदादेः ग्रहणम् भवति अस्त्रीप्रत्ययेन इति ।
३४ - ३६ - यदि अस्त्रीप्रत्ययेन इति उच्यते अतिक्रान्तः कारीषगन्ध्याम् अतिकारीषगन्ध्यः , तस्य पुत्रः अतिकारीषगन्ध्यपुत्रः , अतिकारीषगन्ध्यपतिः इति अत्र अपि प्राप्नोति ।
३५ - ३६ - अस्त्रीप्रत्ययेन अनुपसर्जनेन ।
३६ - ३६ - यः हि उपसर्जनम् स्त्रीप्रत्ययः भवति एषा तत्र परिभाषा प्रत्ययग्रहणे यस्मात् सः तदादेः ग्रहणम् भवति इति ।
१ - १५६ - ष्यङन्ते यावन्तः यणः तेषाम् सर्वेषाम् सम्प्रसारणम् प्राप्नोति ।
२ - १५६ - वाराहिपुत्रः , तार्णकर्णीपुत्रः ।
३ - १५६ - तत्र अप्रत्ययस्थस्य प्रतिषेधः वक्तव्यः ।
४ - १५६ - यथागृहीतस्य आदेशवचनात् अप्रत्ययस्थे सिद्धम् ।
५ - १५६ - निर्दिश्यमानस्य आदेशाः भवन्ति इति एवम् अप्रत्ययस्थस्य न भविष्यति ।
६ - १५६ - अनन्त्यविकारे अन्त्यसदेशस्य वा ।
७ - १५६ - अथ वा अनन्त्यविकारे अन्त्यसदेशस्य कार्यम् भवति इति एषा परिभाषा कर्तव्या ।
८ - १५६ - कः पुनः अत्र विशेषः एषा वा परिभाषा क्रियेत अप्रत्ययस्थस्य वा प्रतिषेधः उच्येत ।
९ - १५६ - अवश्यम् एषा परिभाषा कर्तव्या ।
१० - १५६ - बहूनि एतस्याः परिभाषायाः प्रयोजनानि ।
११ - १५६ - कानि ।
१२ - १५६ - प्रयोजनम् न सम्प्रसारणे सम्प्रसारणम् ।
१३ - १५६ - न सम्प्रसारणे सम्प्रसारणम् इति एतत् न वक्तव्यम् भवति ।
१४ - १५६ - कथम् व्यधेः विद्धः इति ।
१५ - १५६ - अनन्त्यविकारे अन्त्यसदेशस्य कार्यम् भवति इति न दोषः भवति ।
१६ - १५६ - न एतत् अस्ति प्रयोजनम् ।
१७ - १५६ - क्रियते न्यासे एव ।
१८ - १५६ - सान्तमहतः दीर्घत्वे ।
१९ - १५६ - सान्तमहतः दीर्घत्वे प्रयोजनम् ।
२० - १५६ - पयांसि, यशांसि ।
२१ - १५६ - प इति अस्य अपि प्राप्नोति ।
२२ - १५६ - अनन्त्यविकारे अन्त्यसदेशस्य कार्यम् भवति इति न दोषः भवति ।
२३ - १५६ - एतत् अपि न अस्ति प्रयोजनम् ।
२४ - १५६ - नोपधायाः इति तत्र वर्तते ।
२५ - १५६ - एवम् अपि अनांसि, मनांसि इति अत्र अपि प्राप्नोति ।
२६ - १५६ - न एषः दोषः ।
२७ - १५६ - सान्तसंयोगेन नोपधाम् विशेषयिष्यामः ।
२८ - १५६ - सान्तसंयोगस्य नोपाधायाः इति ।
२९ - १५६ - एवम् अपि हंसशिरांसि , ध्वंसशिरांसै इति अत्र अपि प्राप्नोति ।
३० - १५६ - न एषः दोषः ।
३१ - १५६ - हम्मतेः हंसः ।
३२ - १५६ - कः पुनः आह हम्मतेः हंसः इति ।
३३ - १५६ - किम् तर्हि हन्तेः हंसः ।
३४ - १५६ - हन्ति अध्वानम् इति ।
३५ - १५६ - एवम् तर्हि सर्वनामस्थाने इति वर्तते ।
३६ - १५६ - सर्वनामस्थानपरतया सान्तसंयोगम् विशेषयिष्यामः ।
३७ - १५६ - सर्वनामस्थानपरस्य सान्तसंयोगस्य नोपाधायाः इति ।
३८ - १५६ - अन्कारान्तस्य अल्लोपे ।
३९ - १५६ - अन्कारान्तस्य अल्लोपे प्रयोजनम् ।
४० - १५६ - तक्ष्णा , तक्ष्णे इति ।
४१ - १५६ - त इति अत्र अपि प्राप्नोति ।
४२ - १५६ - अनन्त्यविकारे अन्त्यसदेशस्य कार्यम् भवति इति न दोषः भवति ।
४३ - १५६ - एतत् अपि न अस्ति प्रयोजनम् ।
४४ - १५६ - अना अकारम् विशेषयिष्यामः ।
४५ - १५६ - अनः यः अकारः इति ।
४६ - १५६ - एवम् अपि अनसा , अनसे इति अत्र अपि प्राप्नोति ।
४७ - १५६ - अन्कारेण अङ्गम् विशेषयिष्यामः ।
४८ - १५६ - अन्कारान्तस्य अङ्गस्य अनः यः अकारः इति ।
४९ - १५६ - एवम् अपि अनस्तक्ष्णा , अनस्तक्ष्णे इति अत्र अपि प्राप्नोति ।
५० - १५६ - एवम् तर्हि कार्यकालम् सञ्ज्ञापरिभाषम् ।
५१ - १५६ - यत्र कार्यम् तत्र उपस्थितम् द्रष्टव्यम् ।
५२ - १५६ - भस्य इति उपस्थितम् इदम् भवति यचि भम् इति ।
५३ - १५६ - तत्र यजादिपरत्या अन्कारम् विशेषयिष्यामः अना अकारम् ।
५४ - १५६ - यजादिपरस्य अनः यः अकारः इति ।
५५ - १५६ - मृजेः वृद्धिविधौ ।
५६ - १५६ - मृजेः वृद्धिविधौ प्रयोजनम् ।
५७ - १५६ - न्यमार्ट् ।
५८ - १५६ - अटः अपि वृद्धिः प्राप्नोति ।
५९ - १५६ - अनन्त्यविकारे अन्त्यसदेशस्य कार्यम् भवति इति न दोषः भवति ।
६० - १५६ - एतत् अपि न अस्ति प्रयोजनम् ।
६१ - १५६ - यथापरिभाषितम् इकः गुणवृद्धी इति इकः एव वृद्धिः भविष्यति ।
६२ - १५६ - एवम् अपि मिमार्जिषति इति अत्र प्राप्नोति ।
६३ - १५६ - अस्तु ।
६४ - १५६ - अभ्यासनिर्ह्रासेन ह्रस्वः भविष्यति ।
६५ - १५६ - वसोः सम्प्रसारणे च ।
६६ - १५६ - वसोः सम्प्रसारणे च प्रयोजनम् ।
६७ - १५६ - विदुषः पश्य ।
६८ - १५६ - विदिवकारस्य अपि प्राप्नोति ।
६९ - १५६ - अनन्त्यविकारे अन्त्यसदेशस्य कार्यम् भवति इति न दोषः भवति ।
७० - १५६ - एतत् अपि न अस्ति प्रयोजनम् ।
७१ - १५६ - न सम्प्रसारणे सम्प्रसारणम् इति प्रतिषेधः भविष्यति ।
७२ - १५६ - दकारेण (ऋइद्कारेण - व्यवहितत्वात् न प्राप्नोति ।
७३ - १५६ - एवम् तर्हि निर्दिश्यमानस्य आदेशाः भवन्ति इति न भविष्यति ।
७४ - १५६ - युवादीनाम् च ।
७५ - १५६ - युवादीनाम् च सम्प्रसारणे प्रयोजनम् ।
७६ - १५६ - यूनः , यूना , यूने ।
७७ - १५६ - यकारस्य अपि प्राप्नोति ।
७८ - १५६ - अनन्त्यविकारे अन्त्यसदेशस्य कार्यम् भवति इति न दोषः भवति ।
७९ - १५६ - एतत् अपि न अस्ति प्रयोजनम् ।
८० - १५६ - न सम्प्रसारणे सम्प्रसारणम् इति न भविष्यति ।
८१ - १५६ - उकारेण व्यवहितत्वात् न प्राप्नोति ।
८२ - १५६ - एकादेशे कृते न अस्ति व्यवधानम् ।
८३ - १५६ - एकादेशः पूर्वविधौ स्थानिवत् भवति इति स्थानिवद्भावात् व्यवधानम् एव ।
८४ - १५६ - एवम् तर्हि समानाङ्गग्रहणम् अत्र चोदयिष्यति ।
८५ - १५६ - र्वोः उपधाग्रहणम् च ।
८६ - १५६ - र्वोः उपधाग्रहणम् च न कर्तव्यम् भवति ।
८७ - १५६ - इह कस्मात् न भवति ।
८८ - १५६ - अबिभः भवान् ।
८९ - १५६ - अनन्त्यविकारे अन्त्यसदेशस्य कार्यम् भवति इति न दोषः भवति ।
९० - १५६ - एतत् अपि न अस्ति प्रयोजनम् ।
९१ - १५६ - क्रियते न्यासे एव ।
९२ - १५६ - आदित्यदादिविधिसंयोगादिलोपकुत्वढत्वभष्भावषत्वणत्वेषु अतिप्रसङ्गः ।
९३ - १५६ - आदिविधौ अतिप्रसङ्गः भवति ।
९४ - १५६ - धात्वादेः षः सः ।
९५ - १५६ - णः नः ।
९६ - १५६ - इह एव स्यात् ।
९७ - १५६ - नेता , सोता ।
९८ - १५६ - इह न स्यात् ।
९९ - १५६ - नमति , सिञ्चति ।
१०० - १५६ - आदि ।
१०१ - १५६ - त्यदादिविधि ।
१०२ - १५६ - इह एव स्यात् ।
१०३ - १५६ - तत् , सः ।
१०४ - १५६ - त्यत् , स्यः इति अत्र न स्यात् ।
१०५ - १५६ - त्यदादिविधि ।
१०६ - १५६ - संयोगादिलोप ।
१०७ - १५६ - इह एव स्यात् ।
१०८ - १५६ - मङ्क्ता ।
१०९ - १५६ - मङ्क्तव्यम् इति अत्र न स्यात् ।
११० - १५६ - संयोगादिलोप ।
१११ - १५६ - कुत्व ।
११२ - १५६ - इह एव स्यात् ।
११३ - १५६ - पक्ता ।
११४ - १५६ - पक्तव्यम्भष्भाव ।
११५ - १५६ - इति अत्र न स्यात् ।
११६ - १५६ - कुत्व ।
११७ - १५६ - ढत्व ।
११८ - १५६ - इह एव स्यात् ।
११९ - १५६ - लेढा ।
१२० - १५६ - लेढव्यम् इति अत्र न स्यात् ।
१२१ - १५६ - ढत्व ।
१२२ - १५६ - भष्भाव ।
१२३ - १५६ - इह एव स्यात् ।
१२४ - १५६ - अभुत्सि ।
१२५ - १५६ - अभुत्साताम् इति अत्र न स्यात् ।
१२६ - १५६ - भष्भाव ।
१२७ - १५६ - षत्व ।
१२८ - १५६ - इह एव स्यात् ।
१२९ - १५६ - द्रष्टा ।
१३० - १५६ - द्रष्टव्यम् इति अत्र न स्यात् ।
१३१ - १५६ - षत्व ।
१३२ - १५६ - णत्व ।
१३३ - १५६ - इह एव स्यात् ।
१३४ - १५६ - माषावापेण ।
१३५ - १५६ - माषावापाणाम् इति अत्र न स्यात् ।
१३६ - १५६ - णत्व ।
१३७ - १५६ - एते दोषाः समाः भूयांसः वा ।
१३८ - १५६ - तस्मात् न अर्थः अनया परिभाषया ।
१३९ - १५६ - न हि दोषा सन्ति इति परिभाषा न कर्तव्या लक्षणम् वा न प्रणेयम् ।
१४० - १५६ - न हि भिक्षुकाः सन्ति इति स्थाल्यः न अधिश्रीयन्ते न च मृगाः सन्ति इति यवाः न उप्यन्ते ।
१४१ - १५६ - दोषाः खलु अपि साकल्येन परिगणिताः प्रयोजनानाम् उदाहरणमात्रम् ।
१४२ - १५६ - कुत एतत् ।
१४३ - १५६ - न हि दोषाणाम् लक्षणम् अस्ति ।
१४४ - १५६ - तस्मात् यानि एतस्याः परिभाषायाः प्रयोजनानि तदर्थम् एषा परिभाषा कर्तव्या प्रतिविधेयम् च दोषेषु ।
१४५ - १५६ - इदम् प्रतिविधीयते ।
१४६ - १५६ - उदात्तनिर्देशात् सिद्धम् ।
१४७ - १५६ - यत्र एषा परिभाषा इष्यते तत्र उदात्तनिर्देशः कर्तव्यः ।
१४८ - १५६ - ततः वक्तव्यम् अनन्त्यविकारे अन्त्यसदेशस्य कार्यम् भवति उदात्तनिर्देशे इति ।
१४९ - १५६ - सः तर्हि उदात्तनिर्देश्ः कर्तव्यः ।
१५० - १५६ - न कर्तव्यः ।
१५१ - १५६ - यत्र एव अन्त्यसदेशः च अनन्त्यसदेशः च युगपत् समवस्थितौ तत्र एषा परिभाषा भवति ।
१५२ - १५६ - दोषेषु च अन्यत्र अन्त्यसदेशः अन्यत्र अनन्त्यसदेशः ।
१५३ - १५६ - प्रयोजनेषु पुनः तत्र एव अन्त्यसदेशः च अनन्त्यसदेशः च ।
१५४ - १५६ - तथाजातीयकानि खलु अपि आचार्येण प्रयोजनानि पठितानि यानि उभयवन्ति ।
१५५ - १५६ - इदम् एकम् यथा दोषः तथा र्वोः उपधाग्रहणम् इति ।
१५६ - १५६ - तत् च अपि क्रियते न्यासे एव ।
१ - ९ - मातच् ।
२ - ९ - कारीषगन्ध्या माता अस्य कारीषगन्धीमातः , कारीषगन्ध्यामातः ।
३ - ९ - मातच् ।
४ - ९ - मातृक ।
५ - ९ - कारीषगन्धीमातृकः , कारीषगन्ध्यामातृकः ।
६ - ९ - मातृक ।
७ - ९ - मातृ ।
८ - ९ - कारीषगन्धीमाता , कारीषगन्ध्यामाता ।
९ - ९ - मातृ ।
१ - ३९ - वयिग्रहणम् किमर्थम् न वेञ् यजादिषु पठ्यते वेञः च वयिः आदेशः क्रियते तत्र यजादीनाम् किति इति एव सिद्धम् ।
२ - ३९ - तत्र एतत् स्यात् ।
३ - ३९ - ङिदर्थः अयम् आरम्भः इति ।
४ - ३९ - तत् च न ।
५ - ३९ - लिटि अयम् आदेशः लिट् च कित् एव ।
६ - ३९ - अतः उत्तरम् पठति ।
७ - ३९ - वयिग्रहणम् वेञः प्रतिषेधात् ।
८ - ३९ - वयिग्रहणम् क्रियते वेञः प्रतिषेधात् ।
९ - ३९ - वेञः लिटि प्रतिषेधम् वक्ष्यति ।
१० - ३९ - सः वयेः मा भूत् इति ।
११ - ३९ - यथा एव हि वेञ्ग्रहणात् विधिः प्रार्थ्यते एवम् प्रतिषेधः अपि प्राप्नोति ।
१२ - ३९ - न वा यकारप्रतिषेधः ज्ञापकः अप्रतिषेधस्य ।
१३ - ३९ - न वा एषः दोषः ।
१४ - ३९ - किम् कारणम् ।
१५ - ३९ - यत् अयम् लिटि वयः यः इति वयेः यकारस्य सम्प्रसारणप्रतिषेधम् शास्ति तत् ज्ञापति आचार्यः न वेञ्ग्रहणात् सम्प्रसारणप्रतिषेधः भवति इति ।
१६ - ३९ - न एतत् अस्ति ज्ञापकम् ।
१७ - ३९ - पिति अभ्यासार्थम् एतत् स्यात् ।
१८ - ३९ - वयेः पित्सु वचनेषु अभ्यासस्य यकारस्य सम्प्रसारणम् मा भूत् इति ।
१९ - ३९ - ननु च वेञ्ग्रहणात् वयेः पित्सु अपि वचनेषु अभ्यासयकारस्य सम्प्रसारणप्रतिषेधः सिद्धः ।
२० - ३९ - न सिध्यति ।
२१ - ३९ - किम् कारणम् ।
२२ - ३९ - किति इति तत्र अनुवर्तते ।
२३ - ३९ - एवम् अपि वयेः पित्सु अपि वचनेषु अभ्यासयकारस्य सम्प्रसारणम् न प्राप्नोति ।
२४ - ३९ - किम् कारणम् ।
२५ - ३९ - हलादिशेषेण बाध्यते ।
२६ - ३९ - न अत्र हलादिशेषः प्राप्नोति ।
२७ - ३९ - किम् कारणम् ।
२८ - ३९ - वक्ष्यति हि एतत् अभ्याससम्प्रसारणम् हलादिशेषात् विप्रतिषेधेन इति ।
२९ - ३९ - सः एषः वयेः यकारस्य सम्प्रसारणप्रतिषेधः पिति अभ्यासार्थः न ज्ञापकार्थः भवति ।
३० - ३९ - पिति अभ्यासार्थम् इति चेत् न अविशिष्टत्वात् ।
३१ - ३९ - पिति अभ्यासार्थम् इति चेत् तत् न ।
३२ - ३९ - किम् कारणम् ।
३३ - ३९ - अविशिष्टत्वात् ।
३४ - ३९ - अविशेषेण प्रतिषेधः ।
३५ - ३९ - निवृत्तम् तत्र किति इति ।
३६ - ३९ - आतः च अविशेषेण ।
३७ - ३९ - वेञः अपि हि पित्सु वचनेषु अभ्यासस्य सम्प्रसारणम् न इष्यते ।
३८ - ३९ - ववौ वविथ इति ।
३९ - ३९ - विकृतिग्रहणम् खलु अपि प्रतिषेधे क्रियते न च विकृतिः प्रकृतिम् गृह्णाति ।
१ - ५ - ग्रहिवृश्चतिपृच्छतिभृज्जतीनाम् अविशेषः ।
२ - ५ - यत् उच्यते वृश्चेः अविशेषः इति तत् न ।
३ - ५ - यदि अत्र रेफस्य सम्प्रसारणम् न स्यात् वकारस्य प्रसज्येत ।
४ - ५ - रेफस्य पुनः सम्प्रसारणे सति उः अदत्त्वस्य स्थानिवद्भावात् न सम्प्रसारणे सम्प्रसारणम् इति प्रतिषेधः सिद्धः भवति ।
५ - ५ - तस्मात् वक्तव्यम् ग्रहेः अविषेषः पृच्छतिभृज्जत्योः अविशेषः इति ।
१ - २६ - अथ उभयग्रहणम् किमर्थम् ।
२ - २६ - उभयेषाम् अभ्यासस्य सम्प्रसारणम् यथा स्यात् वचिस्वपियजादीनाम् ग्रहादीनाम् च ।
३ - २६ - न एतत् अस्ति प्रयोजनम् ।
४ - २६ - प्रकृतम् उभयेषाम् ग्रहणम् अनुवर्तते ।
५ - २६ - यदि अनुवर्तते ग्रहिज्यावयिव्यधिवष्टिविचतिवृश्चतिपृच्छतिभृज्जतीनाम् ङिति च इति यजादीनाम् ङिति अपि प्राप्नोति ।
६ - २६ - न एषः दोषः ।
७ - २६ - सम्बन्धम् अनुवर्तिष्यते ।
८ - २६ - वचिस्वपियजादीनाम् किति ।
९ - २६ - ग्रहादीनाम् ङिति च वचिस्वपियजादीनाम् किति ।
१० - २६ - ततः लिटि अभ्यासस्य उभयेषाम् ।
११ - २६ - किति ङिति इति निवृत्तम् ।
१२ - २६ - अथ वा मण्डूकगतयः अधिकाराः ।
१३ - २६ - यथा मण्डूकाः उत्प्लुत्य उत्प्लुत्य गच्छन्ति तद्वत् अधिकाराः ।
१४ - २६ - अथ वा एकयोगः करिष्यते ।
१५ - २६ - वचिस्वपियजादीनाम् किति ग्रहादीनाम् ङिति च इति ।
१६ - २६ - ततः लिटि अभ्यासस्य इति ।
१७ - २६ - न च एकयोगे अनुवृत्तिः भवति ।
१८ - २६ - अथ वा उभयम् निवृत्तम् ।
१९ - २६ - तत् अपेक्षिष्यामहे ।
२० - २६ - इदम् तर्हि उभयेषाङ्ग्रहणस्य प्रयोजनम् ।
२१ - २६ - उभयेषाम् अभ्यासस्य सम्प्रसारणम् एव यथा स्यात् ।
२२ - २६ - यत् अन्यत् प्राप्नोति तत् मा भूत् इति ।
२३ - २६ - किम् च अन्यत् प्राप्नोति ।
२४ - २६ - हलादिशेषः ।
२५ - २६ - अभ्याससम्प्रसारणम् हलादिशेषात् विप्रतिषेधेन इति वक्ष्यति ।
२६ - २६ - सः पूर्वविप्रतिषेधः न पठितव्यः भवति ।
१ - ६१ - अभ्याससम्प्रसारणम् हलादिशेषात् विप्रतिषेधेन ।
२ - ६१ - अभ्याससम्प्रसारणम् हलादिशेषात् भवति [भवति हलादिशेषात् ऋ] विप्रतिषेधेन ।
३ - ६१ - अभ्याससम्प्रसारणस्य अवकाशः इयाज, उवाप ।
४ - ६१ - हलादिशेषस्य अवकाशः बिभिदतुः , बिभिदुः ।
५ - ६१ - इह उभयम् प्राप्नोति विव्याध , विव्यधिथ ।
६ - ६१ - अभ्याससम्प्रसारणम् भवति पूर्वविप्रतिषेधेन ।
७ - ६१ - सः तर्हि पूर्वविप्रतिषेधः वक्तव्यः ।
८ - ६१ - न वा सम्प्रसारणाश्रयबलीयस्त्वात् अन्यत्र अपि ।
९ - ६१ - न वा वक्तव्यः ।
१० - ६१ - किम् कारणम् ।
११ - ६१ - सम्प्रसारणाश्रयबलीयस्त्वात् अन्यत्र अपि ।
१२ - ६१ - सम्प्रसारणम् सम्प्रसारणाश्रयम् च बलीयः भवति इति वक्तव्यम् ।
१३ - ६१ - अन्यत्र अपि न अवश्यम् इह एव वक्तव्यम् ।
१४ - ६१ - किम् प्रयोजनम् ।
१५ - ६१ - प्रयोजनम् रमाल्लोपेयिअङ्यणः ।
१६ - ६१ - रम् ।
१७ - ६१ - भृष्टः, भृष्टवान् ।
१८ - ६१ - सम्प्रसारणम् च प्राप्नोति रम्भावः च ।
१९ - ६१ - परत्वात् रम्भावः स्यात् ।
२० - ६१ - सम्प्रसारणम् बलीयः भवति इति वक्तव्यम् सम्प्रसारणम् यथा स्यात् ।
२१ - ६१ - रम् ।
२२ - ६१ - आल्लोपः ।
२३ - ६१ - जुहुवतुः , जुहुवुः ।
२४ - ६१ - सम्प्रसारणम् च प्राप्नोति आल्लोपः च ।
२५ - ६१ - परत्वात् आल्लोपः स्यात् ।
२६ - ६१ - सम्प्रसारणम् बलीयः भवति इति वक्तव्यम् सम्प्रसारणम् यथा स्यात् ।
२७ - ६१ - सम्प्रसारणे कृते पूर्वत्वम् च प्राप्नोति आल्लोपः च ।
२८ - ६१ - परत्वात् आल्लोपः स्यात् ।
२९ - ६१ - सम्प्रसारणाश्रयम् बलीयः भवति इति वक्तव्यम् पूर्वत्वम् यथा स्यात् ।
३० - ६१ - इयङ् ।
३१ - ६१ - शुशुवतुः , शुशुवुः ।
३२ - ६१ - सम्प्रसारणम् च प्राप्नोति इयङादेशः च ।
३३ - ६१ - परत्वात् इयङादेशः स्यात् ।
३४ - ६१ - सम्प्रसारणम् बलीयः भवति इति वक्तव्यम् सम्प्रसारणम् यथा स्यात् ।
३५ - ६१ - यण् ।
३६ - ६१ - सम्प्रसारणे कृते पूर्वत्वम् च प्राप्नोति यणादेशः च ।
३७ - ६१ - परत्वात् यणादेशः स्यात् ।
३८ - ६१ - सम्प्रसारणाश्रयम् बलीयः भवति इति वक्तव्यम् पूर्वत्वम् यथा स्यात् ।
३९ - ६१ - इयङ् ।
४० - ६१ - न एतानि सन्ति प्रयोजनानि ।
४१ - ६१ - यत् तावत् उच्यते रम् इति इदम् इह सम्प्रधार्यम् रम्भावः क्रियताम् सम्प्रसारणम् इति ।
४२ - ६१ - किम् अत्र कर्तव्यम् ।
४३ - ६१ - परत्वात् रम्भावः ।
४४ - ६१ - नित्यम् सम्प्रसारणम् ।
४५ - ६१ - कृते अपि रम्भाबे प्राप्नोति अकृते अपि ।
४६ - ६१ - रम्भावः अपि नित्यः ।
४७ - ६१ - कृते अपि सम्प्रसारणे प्राप्नोति अकृते अपि ।
४८ - ६१ - कथम् ।
४९ - ६१ - यः असौ ऋकारे रेफः तस्य च उपधायाः च प्राप्नोति ।
५० - ६१ - अनित्यः रम्भावः ।
५१ - ६१ - न हि कृते सम्प्रसारणे प्राप्नोति ।
५२ - ६१ - किम् कारणम् ।
५३ - ६१ - उपदेशे इति वर्तते ।
५४ - ६१ - तत् च अवश्यम् उपदेशग्रहणम् अनुवर्त्यम् बरीभृज्यते इति एवमर्थम् ।
५५ - ६१ - आल्लोपेयङ्यणः इति ।
५६ - ६१ - नित्यम् सम्प्रसारणम् ।
५७ - ६१ - अन्तरङ्गम् पूर्वत्वम् ।
५८ - ६१ - तत् एतत् अनन्यार्थम् सम्प्रसारणाश्रयम् बलीयः भवति इति वक्तव्यम् पूर्वविप्रतिषेधः वा वक्तव्यः ।
५९ - ६१ - उभयम् न वक्तव्यम् ।
६० - ६१ - उक्तम् अत्र उभयेषाङ्ग्रहणस्य प्रयोजनम् उभयेषाम् अभ्यासस्य सम्प्रसारणम् एव यथा स्यात् ।
६१ - ६१ - यत् अन्यत् प्राप्नोति तत् मा भूत् इति ।
१ - ८ - व्यचेः कुटादित्वम् अनसि अञ्णिति सम्प्रसारणार्थम् ।
२ - ८ - व्यचेः कुटादित्वम् अनसि इति वक्तव्यम् ।
३ - ८ - किम् प्रयोजनम् ।
४ - ८ - अञ्णिति सम्प्रसारणार्थम् ।
५ - ८ - अञ्णिति सम्प्रसारणम् यथा स्यात् ।
६ - ८ - उद्विचिता , उद्विचितुम् , उद्विचितव्यम् ।
७ - ८ - अनसि इति किमर्थम् ।
८ - ८ - उरुव्यचाः कण्टकः ।
१ - ३ - चङ्ग्रहणम् शक्यम् अकर्तुम् ।
२ - ३ - कथम् ।
३ - ३ - ङिति इति वर्तते न च अन्यः स्वापेः ङित् अस्ति अन्यत् अतः चङः ।
१ - ११ - वशेः यङि प्रतिषेधः ।
२ - ११ - वशेः यङि प्रतिषेधः वक्तव्यः सम्प्रसारणस्य ।
३ - ११ - वावश्यते ।
४ - ११ - क्व मा भूत् ।
५ - ११ - उष्टः , उशन्ति इति ।
६ - ११ - सः तर्हि तथा प्रतिषेधः वक्तव्यः ।
७ - ११ - न वक्तव्यः ।
८ - ११ - यङि इति वर्तते ।
९ - ११ - एवम् तर्हि अन्वाचष्टे यङि इति वर्तते इति ।
१० - ११ - न एतत् अन्वाख्येयम् अधिकाराः अनुवर्तन्ते इति ।
११ - ११ - एषः एव न्यायः यत् उत अधिकाराः अनुवर्तेरन् इति ।
१ - ११ - किम् निपात्यते ।
२ - ११ - श्रास्रप्योः शृभावः ।
३ - ११ - श्रास्रप्योः शृभावः निपात्यते ।
४ - ११ - क्षीरहविषोः इति वक्तव्यम् ।
५ - ११ - शृतम् क्षीरम् ।
६ - ११ - शृतम् हविः ।
७ - ११ - क्व मा भूत् ।
८ - ११ - श्राणा यवागूः , श्रपिता यवागूः इति ।
९ - ११ - श्रपेः शृतम् अन्यत्र हेतोः ।
१० - ११ - श्रपेः शृतम् अन्यत्र हेतोः इति वक्तव्यम् इह मा भूत् ।
११ - ११ - श्रपितम् क्षीरम् देवदत्तेन यज्ञदत्तेन इति ।
१ - १४ - आङ्पूर्वात् अन्धूधसोः ।
२ - १४ - आङ्पूर्वात् अन्धूधसोः इति वक्तव्यम् ।
३ - १४ - आपीनः अन्धुः , आपीनम् ऊधः ।
४ - १४ - किम् प्रयोजनम् ।
५ - १४ - नियमार्थम् ।
६ - १४ - आङ्पूर्वात् अन्धूधसोः एव ।
७ - १४ - क्व मा भूत् ।
८ - १४ - आप्यानः चन्द्रमाः इति ।
९ - १४ - उभयतः नियमः च अयम् द्रष्टव्यः ।
१० - १४ - आङ्पूर्वात् एव अन्धूधसोः , अन्धूधसोः एव आङ्पूर्वात् इति ।
११ - १४ - क्व मा भूत् ।
१२ - १४ - प्रप्यानः अन्धुः , प्रप्यानम् ऊधः ।
१३ - १४ - आङ्पूर्वात् च एष नियमः द्रष्टव्यः ।
१४ - १४ - भवति हि पीनम् मुखम् , पीनाः शम्बट्यः , श्लक्ष्णपीनमुखी कन्या इति ।
१ - ३१ - श्वेः लिटि अभ्यासलक्षणप्रतिषेधः ।
२ - ३१ - श्वेः लिटि अभ्यासलक्षणम् सम्प्रसारणम् नित्यम् प्राप्नोति ।
३ - ३१ - तस्य प्रतिषेधः वक्तव्यः ।
४ - ३१ - शिश्वियतुः , शिश्वियुः ।
५ - ३१ - किम् उच्यते लिटि अभ्यासलक्षणस्य इति न पुनः किल्लक्षणस्य अपि ।
६ - ३१ - किल्लक्षणम् अपि हि नित्यम् अत्र प्राप्नोति ।
७ - ३१ - किल्लक्षणम् श्वयतिलक्षणम् बाधिष्यते ।
८ - ३१ - यथा एव तर्हि किल्लक्षणम् श्वयतिलक्षणम् बाधते एवम् अभ्यासलक्षणम् अपि बाधेत ।
९ - ३१ - न ब्रूमः अपवादत्वात् किल्लक्षणम् श्वयतिलक्षणम् बाधिष्यते इति ।
१० - ३१ - किम् तर्हि ।
११ - ३१ - परत्वात् ।
१२ - ३१ - श्वयतिलक्षणस्य अवकाशः पिति वचनानि ।
१३ - ३१ - शुशाव, शुशविथ , शिश्वाय, शिश्वयिथ ।
१४ - ३१ - किल्लक्षणस्य अवकाशः अन्ये कितः ।
१५ - ३१ - शूनः, शूनवान् ।
१६ - ३१ - इह उभयम् प्राप्नोति ।
१७ - ३१ - शिश्वियतुः , शिश्वियुः इति ।
१८ - ३१ - श्वयतिलक्षणम् भवति विप्रतिषेधेन ।
१९ - ३१ - अभ्यासलक्षणात् अपि तर्हि श्वयतिलक्षणम् भविष्यति विप्रतिषेधेन ।
२० - ३१ - अभ्यासलक्षणस्य अवकाशः अन्ये यजादयः ।
२१ - ३१ - इयाज, उवाप ।
२२ - ३१ - श्वयतिलक्षणस्य अवकाशः परम् धातुरूपम् ।
२३ - ३१ - शुशुवतुः , शुशुवुः , शुशुविथ ।
२४ - ३१ - श्वयतेः अभ्यासस्य उभयम् प्राप्नोति ।
२५ - ३१ - शिशिवियतुः , शिश्वियुः ।
२६ - ३१ - श्वयतिलक्षणम् भविष्यति विप्रतिषेधेन ।
२७ - ३१ - न एषः युक्तः विप्रतिषेधः ।
२८ - ३१ - न हि श्वयतेः अभ्यासस्य अन्ये यजादयः अवकाशः ।
२९ - ३१ - श्वयतेः यजादिषु यः पाठः सः अनवकाशः ।
३० - ३१ - तस्य अनवकाशत्वात् अयुक्तः विप्रतिषेधः ।
३१ - ३१ - तस्मात् सुष्ठु उक्तम् श्वेः लिटि अभ्यासलक्षणप्रतिषेधः इति ।