पाद १ - खण्ड ५९
व्याकरणमहाभाष्य म्हणजे पाणिनि लिखीत अष्टाध्यायीतील काही निवडक सूत्रांवर पतञ्जलिने केलेले भाष्य. या ग्रंथाची रचना ई.पू २०० ते ई.पू १४० मध्ये केली गेली, असे मत व्याकरण पंडितांचे आहे.
१ - १३० - एकाचः इति किम् अयम् बहुव्रीहिः ।
२ - १३० - एकः अच् अस्मिन् सः एकाच् ।
३ - १३० - एकाचः इति ।
४ - १३० - आहोस्वित् तत्पुरुषः अयम् समानाधिकरणः ।
५ - १३० - एकः अच् एकाच् ।
६ - १३० - एकाचः ।
७ - १३० - किम् च अतः ।
८ - १३० - यदि बहुव्रीहिः सिद्धम् पपाच पपाठ ।
९ - १३० - इयाय ।
१० - १३० - आर इति न सिध्यति ।
११ - १३० - अथ तत्पुरुषः समानाधिकरणः सिद्धम् इयाय ।
१२ - १३० - आर इति ।
१३ - १३० - पपाच पपाठ इति न सिध्यति ।
१४ - १३० - अतः उत्तरम् पठति ।
१५ - १३० - एकाचः द्वे प्रथमस्य इति बहुव्रीहिनिर्देशः ।
१६ - १३० - एकाचः द्वे प्रथमस्य इति बहुव्रीहिनिर्देशः अयम् ।
१७ - १३० - एकवर्णेषु कथम् ।
१८ - १३० - एकवर्णेषु व्यपदेशिवद्वचनात् ।
१९ - १३० - व्यपदेशिवत् एकस्मिन् कार्यम् भवति इति वक्तव्यम् ।
२० - १३० - एवम् एकवर्णेषु द्विर्वचनम् भविष्यति ।
२१ - १३० - एकाचः द्वे भवतः इति उच्यते ।
२२ - १३० - तत्र न ज्ञायते कस्य एकाचः द्वे भवतः इति ।
२३ - १३० - वक्ष्यति लिटि धातोः अनभ्यासस्य इति ।
२४ - १३० - तेन धातोः एकाचः इति विज्ञायते ।
२५ - १३० - यदि धातोः एकाचः सिद्धम् पपाच पपाठ ।
२६ - १३० - जजागार पुपुत्रीयिषति इति न सिध्यति ।
२७ - १३० - धातोः इति न एषा एकाच्समानाधिकरणा षष्ठी ।
२८ - १३० - धातोः एकाचः इति ।
२९ - १३० - किम् तर्हि अवयवयोगा एषा षष्ठी ।
३० - १३० - धातोः यः एकाच् अवयवः इति ।
३१ - १३० - अवयवयोगा एषा षष्ठी इति चेत् सिद्धम् जजागार पुपुत्रीयिषति इति ।
३२ - १३० - पपाच पपाठ इति न सिध्यति ।
३३ - १३० - एषः अपि व्यपदेशिवद्भावेन धातोः एकाच् अवयवः भवति ।
३४ - १३० - एकाचः द्वे प्रथमस्य इति उच्यते ।
३५ - १३० - तेन यत्र एव प्रथमः च अप्रथमः च तत्र द्विर्वचनम् स्यात् ।
३६ - १३० - जजागार पुपुत्रीयिषति इति ।
३७ - १३० - पपाच पपाठ इति अत्र न स्यात् ।
३८ - १३० - प्रथमत्वे च ।
३९ - १३० - प्रथमत्वे च किम् ।
४० - १३० - व्यपदेशिवद्वचनात् सिद्धम् इति एव ।
४१ - १३० - सः तर्हि व्यपदेशिवद्भावः वक्तव्यः ।
४२ - १३० - न वक्तव्यः ।
४३ - १३० - उक्तम् वा ।
४४ - १३० - किम् उक्तम् ।
४५ - १३० - तत्र व्यपदेशिवद्वचनम् ।
४६ - १३० - एकाचः द्वे प्रथमार्थम् ।
४७ - १३० - षत्वे च आदेशसम्प्रत्ययार्थम् ।
४८ - १३० - अवचनात् लोकविज्ञानात् सिद्धम् इति एव ।
४९ - १३० - योगविभागः वा ।
५० - १३० - अथ वा योगविभागः करिष्यते ।
५१ - १३० - एकाचः द्वे भवतः ।
५२ - १३० - किमर्थः योगविभागः ।
५३ - १३० - एकाज्मात्रस्य द्विर्वचनार्थः ।
५४ - १३० - एकाज्मात्रय्त द्विर्वचनम् यथा स्यात् ।
५५ - १३० - इयाय पपाच ।
५६ - १३० - ततः प्रथमस्य ।
५७ - १३० - प्रथमस्य एकाचः द्वे भवतः ।
५८ - १३० - इदम् इदानीम् किमर्थम् ।
५९ - १३० - नियमाऋथम् ।
६० - १३० - यत्र प्रथमः च अप्रथमः च अस्ति तत्र प्रथमस्य एकाचः द्विर्वचनम् यथा स्यात् ।
६१ - १३० - अप्रथमस्य मा भूत् ।
६२ - १३० - जजागार पुपुत्रीयिषति इति ।
६३ - १३० - एकाचः अवयवैकाच्त्वात् अवयवानाम् द्विर्वचनप्रसङ्गः ।
६४ - १३० - एकाचः अवयवैकाच्त्वात् अवयवानाम् द्विर्वचनम् प्राप्नोति ।
६५ - १३० - नेनिजति इति अत्र निज्शब्दः अपि एकाच् इज्शब्दः अपि एकाच् इकारः अपि एकाच् निशब्दः अपि ।
६६ - १३० - तत्र निज्शब्दस्य द्विर्वचने रूपम् सिद्धम् दोषाः च न सन्ति ।
६७ - १३० - इज्शब्दस्य द्विर्वचने रूपम् न सिध्यति दोषाः च न सन्ति ।
६८ - १३० - इकारस्य द्विर्वचने रूपम् न सिधति दोषाः च न सन्ति ।
६९ - १३० - निशब्दस्य द्विर्वचने रूपम् सिद्धम् दोषाः तु सन्ति ।
७० - १३० - तत्र कः दोषः ।
७१ - १३० - तत्र जुस्भाववचनम् ।
७२ - १३० - तत्र जुस्भावः वक्तव्यः ।
७३ - १३० - अनेनिजुः ।
७४ - १३० - पर्यवेविषुः ।
७५ - १३० - अभ्यस्तात् झेः जुस्भावः भवति इति जुस्भावः न प्राप्नोति जकारेणव्यवधानात् ।
७६ - १३० - स्वरः च ।
७७ - १३० - स्वरः च न सिध्यति ।
७८ - १३० - नेनिजति ।
७९ - १३० - यत् परिवेविषति इति ।
८० - १३० - अभ्यस्तानाम् आदिः उदात्तः भवति अजादौ लसार्वधातुके इति एषः स्वरः न प्राप्नोति ।
८१ - १३० - अद्भावः च ।
८२ - १३० - अद्भावः च न सिध्यति ।
८३ - १३० - नेनिजति ।
८४ - १३० - परिवेविषति इति ।
८५ - १३० - अभ्यस्तात् इति अद्भावः न प्राप्नोति ।
८६ - १३० - नुम्प्रतिषेधः च ।
८७ - १३० - नुम्प्रतिषेधः च न सिध्यति ।
८८ - १३० - नेनिजत् ।
८९ - १३० - परिवेविषत् ।
९० - १३० - न अभ्यास्तात् शतुः इत् नुम्प्रतिषेधः न प्राप्नोति जकारेणव्यवधानात् ।
९१ - १३० - शास्त्रहानिः च ।
९२ - १३० - शास्त्रहानिः च भवति ।
९३ - १३० - समुदायैकाचः शास्त्रम् हीयते ।
९४ - १३० - सिद्धम् तु तत्समुदायैकाच्त्वात् शास्त्राहानेः ।
९५ - १३० - सिद्धम् एतत् ।
९६ - १३० - कथम् ।
९७ - १३० - तत्समुदायैकाच्त्वात् ।
९८ - १३० - किम् इदम् तत्समुदायैकाच्त्वात् इति ।
९९ - १३० - तस्य समुदायः तत्समुदायः ।
१०० - १३० - एकाज्भावः एकाच्त्वम् ।
१०१ - १३० - तत्समुदायस्य एकाच्त्वम् तत्समुदायैकाच्त्वम् ।
१०२ - १३० - तत्समुदायैकाच्त्वात् ।
१०३ - १३० - तत्समुदायैकाचः द्विर्वचनम् भविष्यति ।
१०४ - १३० - कुतः ।
१०५ - १३० - शास्त्राहानेः ।
१०६ - १३० - एवम् हि शास्त्रम् अहीनम् भवति ।
१०७ - १३० - ननु च समुदायैकाचः द्विर्वचने क्रियमाणे अपि अवयवैकाचः शास्त्रम् हीयते ।
१०८ - १३० - न हीयते ।
१०९ - १३० - किम् कारणम् ।
११० - १३० - अवयवात्मकत्वात् समुदायस्य ।
१११ - १३० - अवयवात्मकः समुदायः ।
११२ - १३० - अभ्यन्तरः हि समुदाये अवयवः ।
११३ - १३० - तत् यथा वृक्षः प्रचलन् सहावयवैः प्रचलति ।
११४ - १३० - तत्र बहुव्रीहिनिर्देशे अनच्कस्य द्विर्वचनम् अन्यपदार्थत्वात् ।
११५ - १३० - तत्र बहुव्रीहिनिर्देशे अनच्कस्य द्विर्वचनम् प्राप्नोति ।
११६ - १३० - आटतुः ।
११७ - १३० - आटुः ।
११८ - १३० - किम् कारणम् ।
११९ - १३० - अन्यपदार्थत्वात् बहुव्रीहेः ।
१२० - १३० - अन्यपदार्थे बहुव्रीहिः वर्तते ।
१२१ - १३० - तेन यत् अन्यत् अचः तस्य द्विर्वचनम् स्यात् ।
१२२ - १३० - तत् यथा चित्रगुः आनीयताम् इति उक्ते यस्य ताः गावः सन्ति सः आनीयते न गावः ।
१२३ - १३० - सिद्धम् तु तद्गुणसंविज्ञानात् पाणिनेः यथा लोके ।
१२४ - १३० - सिद्धम् एतत् ।
१२५ - १३० - कथम् ।
१२६ - १३० - तद्गुणसंविज्ञानात् भगवतः पाणिनेः आचार्यस्य यथा लोके ।
१२७ - १३० - लोके शुक्लवाससम् आनय ।
१२८ - १३० - लोहितोष्णीषाः प्रचरन्ति इति ।
१२९ - १३० - तद्गुणः आनीयते तद्गुणाः च प्रचरन्ति ।
१३० - १३० - एवम् इह अपि ।
१ - ८७ - अथ यस्य द्विर्वचनम् आरभ्यते किम् तस्य स्थाने भवति आहोस्वित् द्विःप्रयोगः इति ।
२ - ८७ - कः च अत्र विशेषः ।
३ - ८७ - स्थाने द्विर्वचने णिलोपवचनम् समुदायादेशत्वात् ।
४ - ८७ - स्थाने द्विर्वचने णिलोपः वक्तव्यः ।
५ - ८७ - आटिटत् ।
६ - ८७ - आशिशत् ।
७ - ८७ - किम् कारणम् ।
८ - ८७ - समुदायादेशत्वात् ।
९ - ८७ - समुदायस्य समुदायः आदेशः ।
१० - ८७ - तत्र सम्प्रमुग्धत्वात् प्रकृतिप्रत्ययसमुदायस्य नष्टः णिः भवति इति णेः अनिटि इति णिलोपः न प्राप्नोति ।
११ - ८७ - इदम् इह सम्प्रधार्यम् ।
१२ - ८७ - द्विर्वचनम् क्रियताम् णिलोपः इति किम् अत्र कर्तव्यम् ।
१३ - ८७ - परत्वात् णिलोपः ।
१४ - ८७ - नित्यम् द्विर्वचनम् ।
१५ - ८७ - कृते अपि णिलोपे प्राप्नोति अकृते अपि ।
१६ - ८७ - द्विर्वचनम् अपि नित्यम् ।
१७ - ८७ - अन्यस्य कृते णिलोपे प्राप्नोति अन्यस्य अकृते ।
१८ - ८७ - शब्दान्तरस्य च प्राप्नुवन् विधिः अनित्यः भवति ।
१९ - ८७ - नित्यम् एव द्विर्वचनम् ।
२० - ८७ - कथम् ।
२१ - ८७ - रूपस्य स्थानिवत्वात् ।
२२ - ८७ - यत् च सन्यङन्तस्य द्विर्वचने ।
२३ - ८७ - यत् च सन्यङन्तस्य द्विर्वचने चोद्यम् तत् इह अपि चोद्यम् ।
२४ - ८७ - किम् पुनः तत् ।
२५ - ८७ - सन्यङन्तस्य चेत् अशेः सनि अनिटः ।
२६ - ८७ - दीर्घकुत्वप्रसारणषत्वम् अधिकस्य द्विर्वचनात् ।
२७ - ८७ - आबृध्योः च अभ्यस्तविप्रतिषेधः ।
२८ - ८७ - सङाश्रये च समुदायस्य समुदायादेशत्वात् झलाश्रये च अव्यपदेशः आमिश्रत्वात् इति ।
२९ - ८७ - अस्तु तर्हि द्विःप्रयोगः द्विर्वचनम् ।
३० - ८७ - द्विःप्रयोगः इति चेत् णकारषकारादेशादेः एत्त्ववचनम् लिटि ।
३१ - ८७ - द्विःप्रयोगः इति चेत् णकारषकारादेशादेः एत्त्वम् लिटि वक्तव्यम् ।
३२ - ८७ - नेमतुः ।
३३ - ८७ - नेमुः ।
३४ - ८७ - सेहे ।
३५ - ८७ - सेहाते ।
३६ - ८७ - सहिरे ।
३७ - ८७ - अनादेशादेः इति प्रतिषेधः प्राप्नोति ।
३८ - ८७ - स्थाने पुनः द्विर्वचने सति समुदायस्य समुदायः आदेशः ।
३९ - ८७ - तत्र सम्प्रमुग्धत्वात् प्रकृतिप्रत्ययस्य नष्टः सः आदेशादिः भवति ।
४० - ८७ - द्विःप्रयोगे अपि द्विर्वचने सति न दोषः ।
४१ - ८७ - वक्ष्यति तत्र लिड्ग्रहणस्य प्रयोजनम् ।
४२ - ८७ - लिटि यः आदेशादिः तदादेः न इति ।
४३ - ८७ - इड्वचनम् च यङ्लोपे ।
४४ - ८७ - इट् च यङ्लोपे वक्तव्यः ।
४५ - ८७ - बेभिदिता ।
४६ - ८७ - बेभिदितुम् ।
४७ - ८७ - एकाचः उपदेशे अनुदात्तात् इति इट्प्रतिषेधः प्राप्नोति ।
४८ - ८७ - स्थाने पुनः द्विर्वचने सति समुदायस्य समुदायः आदेशः ।
४९ - ८७ - तत्र सम्प्रमुग्धत्वात् प्रकृतिप्रत्ययस्य नष्टः सः भवति यः एकाच् उपदेशे अनुदात्तः ।
५० - ८७ - द्विःप्रयोगे अपि द्विर्वचने सति न दोषः ।
५१ - ८७ - एकाज्ग्रहणेन अङ्गम् विशेषयिष्यामः ।
५२ - ८७ - एकाचः अङ्गात् इति ।
५३ - ८७ - ननु च एकैकम् अत्र अङ्गम् ।
५४ - ८७ - समुदाये या वाक्यपरिसमाप्तिः तस्य अङ्गसञ्ज्ञा भविष्यति ।
५५ - ८७ - कुतः एतत् ।
५६ - ८७ - शास्त्राहानेः ।
५७ - ८७ - एवम् हि शास्त्रम् अहीनम् भवति । इड्दीर्घप्रतिषेधः च ।
५८ - ८७ - इटः दीर्घत्वस्य च प्रतिषेधः वक्तव्यः ।
५९ - ८७ - जरीगृहिता ।
६० - ८७ - जरीगृहितुम् ।
६१ - ८७ - ग्रहः अलिटि दीर्घः इति दीर्घत्वम् प्राप्नोति ।
६२ - ८७ - स्थाने पुनः द्विर्वचने समुदायस्य समुदायः आदेशः ।
६३ - ८७ - तत्र सम्प्रमुग्धत्वात् प्रकृतिप्रत्ययस्य नष्टः ग्रहिः ।
६४ - ८७ - द्विःप्रयोगे अपि द्विर्वचने न दोषः ।
६५ - ८७ - ग्रहिणा अङ्गम् विशेषयिष्यामः ।
६६ - ८७ - ग्रहेः अङ्गात् इति ।
६७ - ८७ - ननु च एकैकम् अत्र अङ्गम् ।
६८ - ८७ - समुदाये या वाक्यपरिसमाप्तिः तस्य अङ्गसञ्ज्ञा भविष्यति ।
६९ - ८७ - कुतः एतत् ।
७० - ८७ - शास्त्राहानेः ।
७१ - ८७ - एवम् हि शास्त्रम् अहीनम् भवति । पदादिविधिप्रतिषेधः च ।
७२ - ८७ - पदादिलक्षण विधेः प्रतिषेधः वक्तव्यः ।
७३ - ८७ - सिषेच ।
७४ - ८७ - सुष्वाप ।
७५ - ८७ - सात्पदाद्योः इति षत्वप्रतिषेधः प्राप्नोति ।
७६ - ८७ - स्थाने पुनः द्विर्वचने सति समुदायस्य समुदायः आदेशः ।
७७ - ८७ - तत्र सम्प्रमुग्धत्वात् प्रकृतिप्रत्ययस्य नष्टः सः पदादिः भवति ।
७८ - ८७ - द्विःप्रयोगे च अपि द्विर्वचने न दोषः ।
७९ - ८७ - सुप्तिङ्भ्याम् पदम् विशेषयिष्यामः ।
८० - ८७ - यस्मात् सुप्तिङ्विधिः तदादि सुबन्तम् तिङन्तम् च ।
८१ - ८७ - ननु च एकैकस्मात् [अपि अत्र (ऋ)] सुप्तिङ्विधिः ।
८२ - ८७ - समुदाये या वाक्यपरिसमाप्तिः तया पदसञ्ज्ञा भविष्यति ।
८३ - ८७ - कुतः एतत् ।
८४ - ८७ - शास्त्राहानेः ।
८५ - ८७ - एवम् हि शास्त्रम् अहीनम् भवति । तौ एव सुप्तिङौ ततः परौ सा एव च प्रकृतिः आद्या ।
८६ - ८७ - आदिग्रहणम् प्रकृतम् ।
८७ - ८७ - समुदायपदत्वम् एतेन.
१ - १० - द्वितीयस्य इति अवचनम् अजादेः इति कर्मधारयात् पञ्चमी ।
२ - १० - द्वितीयस्य इति शक्यम् अवक्तुम् ।
३ - १० - कथम् ।
४ - १० - अजादेः इति न एषा बहुव्रीहेः षष्ठी ।
५ - १० - अच् आदिः यस्य सः अयम् अजादिः ।
६ - १० - अजादेः ।
७ - १० - किम् तर्हि कर्मधारयात् पञ्चमी ।
८ - १० - अच् आदिः अजादिः ।
९ - १० - अजादेः परस्य इति ।
१० - १० - तत्र अन्तरेण द्वितीयग्रहणम् द्वितीयस्य एव भविष्यति ।
१ - ९९ - द्वितीयद्विर्वचने प्रथमनिवृत्तिः प्राप्तत्वात् ।
२ - ९९ - द्वितीयद्विर्वचने प्रथमस्य निवृत्तिः वक्तव्या ।
३ - ९९ - अटिटिषति ।
४ - ९९ - अशिशिषति इति ।
५ - ९९ - किम् कारणम् ।
६ - ९९ - प्राप्तत्वात् ।
७ - ९९ - प्राप्नोति एकाचः द्वे प्रथमस्य इति ।
८ - ९९ - ननु च द्वितीयद्विर्वचनम् प्रथमद्विर्वचनम् बाधिष्यते ।
९ - ९९ - कथम् अन्यस्य उच्यमानस्य बाधकम् स्यात् ।
१० - ९९ - असति खलु अपि सम्भवे बाधनम् भवति अस्ति च सम्भवः यत् उभयम् स्यात् ।
११ - ९९ - न वा प्रथमविज्ञाने हि द्वितीयाप्राप्तिः अद्वितीयत्वात् ।
१२ - ९९ - न वा वक्तव्यम् ।
१३ - ९९ - किम् कारणम् ।
१४ - ९९ - प्रथमविज्ञाने हि सति द्वितीयस्य अप्राप्तिः स्यात् ।
१५ - ९९ - किम् कारणम् ।
१६ - ९९ - अद्वितीयत्वात् ।
१७ - ९९ - न हि इदानीम् प्रथमद्विर्वचने कृते द्वितीयः द्वितीयः भवति ।
१८ - ९९ - कः तर्हि ।
१९ - ९९ - तृतीयः ।
२० - ९९ - तत् यथा द्वयोः आसीनयोः तृतीये उपजाते न द्वितीयः द्वितीयः भवति ।
२१ - ९९ - कः तर्हि ।
२२ - ९९ - तृतीयः ।
२३ - ९९ - न हि किम् चित् उच्यते अकृते द्विर्वचने यः द्वितीयः तस्य भवितव्यम् इति ।
२४ - ९९ - किम् तर्हि कृते द्विर्वचने यः द्वितीयः तस्य भविष्यति ।
२५ - ९९ - अनारम्भसमम् एवम् स्यात् ।
२६ - ९९ - अटेः प्रथमस्य द्विर्वचनम् स्यात् ।
२७ - ९९ - हलादिशेषः ।
२८ - ९९ - द्वितीयस्य द्विर्वचनम् ।
२९ - ९९ - हलादिशेषः ।
३० - ९९ - त्रयाणाम् अकाराणाम् पररूपत्वे अटिषति इति एवम् रूपम् स्यात् ।
३१ - ९९ - न अनारम्भसमम् ।
३२ - ९९ - अटेः प्रथमस्य द्विर्वचनम् ।
३३ - ९९ - हलादिशेषः ।
३४ - ९९ - इत्त्वम् ।
३५ - ९९ - द्वितीयस्य द्विर्वचनम् ।
३६ - ९९ - हलादिशेषः ।
३७ - ९९ - इत्त्वम् ड्वयोः इकारयोः सवर्णदीर्घत्वम् ।
३८ - ९९ - अभ्यासस्य असवर्णे इति इयङादेशः ।
३९ - ९९ - इयटिषति इति एतत् रूपम् यथा स्यात् ।
४० - ९९ - ओणेः च उवणिषति इति ।
४१ - ९९ - न अनिष्टार्था शास्त्रप्रवृत्तिः भवितुम् अर्हति ।
४२ - ९९ - यथा वा आदिविकारे अलः अन्त्यविकाराभावः ।
४३ - ९९ - यथा वा आदिविविधौ अलः अन्त्यविधिः न भवति एवम् द्वितीयद्विर्वचने प्रथमद्विर्वचनम् न भविष्यति ।
४४ - ९९ - विषमः उपन्यासः ।
४५ - ९९ - न अप्राप्ते अलः अन्त्यविधौ आदिविधिः आरभ्यते ।
४६ - ९९ - सः तस्य बाधकः भविष्यति ।
४७ - ९९ - इदम् अपि एवञ्जातीयकम् ।
४८ - ९९ - न अप्राप्ते प्रथमद्विर्वचने द्वितीयद्विर्वचनमारभ्यते ।
४९ - ९९ - तत् बाधकम् भविष्यति ।
५० - ९९ - यत् अपि उच्यते असति खलु अपि सम्भवे बाधनम् भवति अस्ति च सम्भवः यत् उभयम् स्यात् इति ।
५१ - ९९ - न एतत् अस्ति ।
५२ - ९९ - सति अपि सम्भवे बाधनम् भवति ।
५३ - ९९ - तत् यथा दधि ब्राह्मणेभ्यः दीयताम् तक्रम् कौण्डिन्याय इति ।
५४ - ९९ - सति अपि दधिदानस्य सम्भवे तक्रदानम् निवर्तकम् भवति ।
५५ - ९९ - एवम् इह अपि सति अपि सम्भवे प्रथमद्विर्वचनस्य द्वितीयद्विर्वचनम् बाधिष्यते ।
५६ - ९९ - तत्र पूर्वस्य अचः निवृत्तौ व्यञ्जनस्य अनिवृत्तिः वक्तव्या ।
५७ - ९९ - अटिटिषति इति ।
५८ - ९९ - यथा एव अचः निवृत्तिः भवति एवम् व्यञ्जनस्य अपि प्राप्नोति ।
५९ - ९९ - तत्र पूर्वस्य अचः निवृत्तौ व्यञ्जनानिवृत्तिः अशासनात् पूर्वस्य ।
६० - ९९ - तत्र पूर्वस्य अचः निवृत्तौ व्यञ्जनस्य अनिवृत्तिः सिद्धा ।
६१ - ९९ - कुतः ।
६२ - ९९ - अशासनात् पूर्वस्य ।
६३ - ९९ - न इह वयम् पूर्वस्य प्रतिषेधम् शिष्मः ।
६४ - ९९ - किम् तर्हि द्वितीयस्य द्विर्वचनम् आरभामहे ।
६५ - ९९ - व्यञ्जनानि पुनः नटभार्यवत् भवन्ति ।
६६ - ९९ - तत् यथा ।
६७ - ९९ - नटानाम् स्त्रियः रङ्गम् गताः यः यः पृच्छति कस्य यूयम् कस्य यूयम् इति तम् तम् तव तव इति आहुः ।
६८ - ९९ - एवम् व्यञ्जनानि यस्य यस्य अचः कार्यम् उच्यते तम् तम् भजन्ते ।
६९ - ९९ - न्द्रादिप्रतिषेधात् च ।
७० - ९९ - यत् अयम् न न्द्राः संयोगादयः इति प्रतिषेधम् शास्ति तत् ज्ञापयति आचार्यः पूर्वनिवृत्तौ व्यञ्जनस्य अनिवृत्तिः इति ।
७१ - ९९ - तत्र द्वितीयाभावे प्रथमाद्विर्वचनम् प्रतिषिद्धत्वात् ।
७२ - ९९ - तत्र द्वितीयस्य एकाचः अभावे प्रथमस्य द्विर्वचनम् न प्राप्नोति ।
७३ - ९९ - आटतुः ।
७४ - ९९ - आटुः ।
७५ - ९९ - किम् कारणम् ।
७६ - ९९ - प्रतिषिद्धत्वात् ।
७७ - ९९ - अजादेः द्वितीयस्य इति प्रतिषेधात् ।
७८ - ९९ - न एष दोषः ।
७९ - ९९ - सति तस्मिन् प्रतिषेधः ।
८० - ९९ - सति द्वितीयद्विर्वचने प्रथमस्य प्रतिषेधः ।
८१ - ९९ - सति तस्मिन् प्रतिषेधः इति चेत् हलादिशेषे दोषः ।
८२ - ९९ - सति तस्मिन् प्रतिषेधः इति चेत् हलादिशेषे दोषः भवति ।
८३ - ९९ - हलादिशेषे सति आद्ये हलि अनाद्यस्य लोपः स्यात् ।
८४ - ९९ - इह एव स्यात् ।
८५ - ९९ - पपाच ।
८६ - ९९ - पपाठ इति ।
८७ - ९९ - इह न स्यात् ।
८८ - ९९ - आटतुः ।
८९ - ९९ - आटुः इति ।
९० - ९९ - लोकवत् हलादिशेषे ।
९१ - ९९ - लोकवत् हलादिशेषे सिद्धम् ।
९२ - ९९ - तत् यथा लोके ईश्वरः आज्ञापयति ग्रामात् ग्रामात् मनुष्याः आनीयन्ताम् प्रागाङ्गम् ग्रामेभ्यः ब्राह्मणाः आनीयन्ताम् इति ।
९३ - ९९ - येषु तत्र ग्रामेषु ब्राह्मणाः न सन्ति न तर्हि इदानीम् ततः अन्यस्य आनयनम् भवति ।
९४ - ९९ - यथा तत्र क्व चित् अपि ब्राह्मणस्य सत्ता (ऋसर्वत्र - अब्राह्मणस्य निवर्त्तिका भवति एवम् इह अपि क्व चित् अपि हल् आद्यः सन् सर्वस्य अनाद्यस्य हलः निवर्तकः भवति ।
९५ - ९९ - क्व चित् अन्यत्र लोपः इति चेत् द्विर्वचनम् ।
९६ - ९९ - क्व चित् अन्यत्र लोपः इति चेत् द्विर्वचनम् अपि एवम् प्राप्नोति ।
९७ - ९९ - क्व चित् अपि द्वितीयः सन् सर्वस्य प्रथमस्य निवर्तकः स्यात् ।
९८ - ९९ - तस्मात् अस्तु सति तस्मिन् प्रतिषेधः इति एव. ननु च उक्तम् सति तस्मिन् प्रतिषेधः इति चेत् हलादिशेषे दोषः इति ।
९९ - ९९ - प्रतिविधास्यते हलादिशेषे ।
१ - २२ - किमर्थम् इदम् उच्यते ।
२ - २२ - न्द्रादेः द्विर्वचनप्रसङ्गः तत्र न्द्राणाम् प्रतिषेधः ।
३ - २२ - न्द्रादेः एकाचः द्विर्वचनम् प्राप्नोति ।
४ - २२ - तत्र न्द्राणाम् संयोगादीनाम् प्रतिषेधः उच्यते ।
५ - २२ - ईर्ष्यतेः तृतीयस्य ।
६ - २२ - ईर्ष्यतेः तृतीयस्य द्वे भवतः इति वक्तव्यम् ।
७ - २२ - के चित् तावत् आहुः एकाचः इति ।
८ - २२ - ईर्ष्यिषिषति ।
९ - २२ - अपरः आह ॒व्यञ्जनस्य इति ईर्ष्यियिषति ।
१० - २२ - कण्ड्वादीनाम् च ।
११ - २२ - कण्ड्वादीनाम् च तृतीयस्य द्वे भवतः इति वक्तव्यम् ।
१२ - २२ - कण्डूयियिषति ।
१३ - २२ - असूयियिषति ।
१४ - २२ - वा नामधातूनाम् ।
१५ - २२ - वा नामधातूनाम् तृतीयस्य द्वे भवतः इति वक्तव्यम् ।
१६ - २२ - अश्वीयियिषति ।
१७ - २२ - अशिश्वीयिषति ।
१८ - २२ - अपरः आह यथेष्टम् वा ।
१९ - २२ - यथेष्टम् वा नामधातूनाम् इति ।
२० - २२ - पुपुत्रीयिषति ।
२१ - २२ - पुतित्रीयिषति ।
२२ - २२ - पुत्रीयियिषति ।
१ - १६ - पूर्वः अभ्यासः इति उच्यते ।
२ - १६ - कस्य पूर्वः अभ्याससञ्ज्ञः भवति ।
३ - १६ - द्वे इति वर्तते ।
४ - १६ - द्वयोः इति वक्तव्यम् ।
५ - १६ - सः तर्हि तथा निर्देशः कर्तव्यः ।
६ - १६ - न कर्तव्यः ।
७ - १६ - अर्थात् विभक्तिविपरिणामः भविष्यति ।
८ - १६ - तत् यथा ।
९ - १६ - उच्चानि देवदत्तस्य गृहाणि ।
१० - १६ - आमन्त्रयस्व एनम् ।
११ - १६ - देवदत्तम् इति गम्यते ।
१२ - १६ - देवदत्तस्य गावः अश्वाः हिरण्यम् इति ।
१३ - १६ - आढ्यः वैधवेयः ।
१४ - १६ - देवदत्तः इति गम्यते ।
१५ - १६ - पुरस्तात् षष्ठीनिर्दिष्टम् सत् अर्थात् द्वितीयानिर्दिष्टम् प्रथमानिर्दिष्टम् च भवति ।
१६ - १६ - एवम् इह अपि पुरस्तात् प्रथमानिर्दिष्टम् सत् अर्थात् षष्ठीनिर्दिष्टम् भविष्यति ।
१ - ९७ - अभ्यस्तसञ्ज्ञायाम् सहवचनम् ।
२ - ९७ - अभ्यस्तसञ्ज्ञायाम् सहग्रहणम् कर्तव्यम् ।
३ - ९७ - किम् प्रयोजनम् ।
४ - ९७ - आद्युदात्तत्वे पृथगप्रसङ्गार्थम् ।
५ - ९७ - आद्युदात्तत्वम् सह भूतयोः यथा स्यात् ।
६ - ९७ - एकैकस्य मा भूत् इति ।
७ - ९७ - यस्मिन् एव अभ्यस्तकार्ये अदोषः तत् एव पठितम् अनुदात्तम् पदम् एकवर्जम् इति ।
८ - ९७ - न अस्ति यौगपद्येन सम्भवः ।
९ - ९७ - पर्यायः तर्हि प्रसज्येत ।
१० - ९७ - पर्यायः च ।
११ - ९७ - पूर्वस्य तावत् परेण रूपेण व्यवहितत्वात् न भविष्यति ।
१२ - ९७ - परस्य तर्हि स्यात् ।
१३ - ९७ - तत्र आचार्यप्रवृत्तिः ज्ञापयति न परस्य भवति इति यत् अयम् बिभेत्यादीनाम् पिति प्रत्ययात् पूर्वम् उदात्तम् भवति इति आह ।
१४ - ९७ - एवम् व्यवधानात् न पूर्वस्य ज्ञापकात् न परस्य उच्यते च इदम् अभ्यस्तानाम् आदिः उदात्तः भवति इति ।
१५ - ९७ - तत्र सः एव दोषः पर्यायः प्रसज्येत ।
१६ - ९७ - तस्मात् सहग्रहणम् कर्तव्यम् ।
१७ - ९७ - न कर्तव्यम् ।
१८ - ९७ - उभेग्रहणम् क्रियते ।
१९ - ९७ - तत् सहार्थम् विज्ञास्यते ।
२० - ९७ - अस्ति अन्यत् उभेग्रहणस्य प्रयोजनम् ।
२१ - ९७ - किम् ।
२२ - ९७ - उभेग्रहणम् सञ्ज्ञिनिर्देशार्थम् ।
२३ - ९७ - अन्तरेण अपि उभेग्रहणम् प्रक्ल्̥प्तः सञ्ज्ञिनिर्देशः ।
२४ - ९७ - कथम् ।
२५ - ९७ - द्वे इति वर्तते ।
२६ - ९७ - इदम् तर्हि प्रयोजनम् ।
२७ - ९७ - यत्र उभे शब्दरूपे श्रूयेते तत्र अभ्यस्तसञ्ज्ञा यथा स्यात् ।
२८ - ९७ - इह मा भूत् ईर्त्सन्ति , ईप्सन्ति , ईर्त्सन् , ईप्सन् , ऐर्त्सन् , ऐप्सन् ।
२९ - ९७ - किम् च स्यात् ।
३० - ९७ - अद्भावः नुम्प्रतिषेधः जुस्भावः इति एते विधयः प्रसज्येरन् ।
३१ - ९७ - अद्भावे तावत् न दोषः ।
३२ - ९७ - सप्तमे योगविभागः करिष्यते ।
३३ - ९७ - इदम् अस्ति अत् अभ्यस्तात् ।
३४ - ९७ - ततः आत्मनेपदेषु ।
३५ - ९७ - आत्मनेपदेषु च अत् भवति ।
३६ - ९७ - अनतः इति उभयोः शेषः ।
३७ - ९७ - यत् अपि उच्यते नुम्प्रतिषेधः इति एकादेशे कृते व्यपवर्गाभावात् न भविष्यति ।
३८ - ९७ - इदम् इह सम्प्रधार्यम् ।
३९ - ९७ - नुम्प्रतिषेधः क्रियताम् एकादेशः इति ।
४० - ९७ - किम् अत्र कर्तव्यम् ।
४१ - ९७ - परत्वात् नुम्प्रतिषेधः ।
४२ - ९७ - नित्यः एकादेशः ।
४३ - ९७ - कृते अपि नुम्प्रतिषेधे प्राप्नोति अकृते अपि ।
४४ - ९७ - एकादेशः अपि नित्यः ।
४५ - ९७ - अन्यस्य कृते नुम्प्रतिषेधे प्राप्नोति अन्यस्य अकृते ।
४६ - ९७ - शब्दान्तरस्य च प्राप्नुवन् विधिः अनित्यः भवति ।
४७ - ९७ - अन्तरङ्गः तर्हि एकादेशः ।
४८ - ९७ - का अन्तरङ्गता ।
४९ - ९७ - वर्णौ आश्रित्य एकादेशः ।
५० - ९७ - विधिविषये नुम्प्रतिषेधः विधिः च नुमः सर्वनामस्थाने प्राक् तु सर्वनामस्थानोत्पत्तेः एकादेशः ।
५१ - ९७ - तत्र नित्यत्वात् च अन्तरङ्गत्वात् च एकादेशः ।
५२ - ९७ - एकादेशे कृते व्यपवर्गाभावात् न भविष्यति ।
५३ - ९७ - यत् अपि उच्यते जुस्भावः इति एकादेशे कृते व्यपवर्गाभावात् न भविष्यति ।
५४ - ९७ - एकादेशे इति उच्यते केन च अत्र एकादेशः ।
५५ - ९७ - अन्तिना ।
५६ - ९७ - न अत्र अन्तिभावः प्राप्नोति ।
५७ - ९७ - किम् कारणम् ।
५८ - ९७ - जुस्भावेन बाध्यते ।
५९ - ९७ - न अत्र जुस्भावः प्राप्नोति ।
६० - ९७ - किम् कारणम् ।
६१ - ९७ - शपा व्यवहितत्वात् ।
६२ - ९७ - एकादेशे कृते न अस्ति व्यवधानम् ।
६३ - ९७ - एकादेशः पूर्वविधौ स्थानिवत् भवति इति व्यवधानम् एव ।
६४ - ९७ - किम् पुणः कारणम् निमित्तवान् अन्तिः एकादेशम् तावत् प्रतीक्षते न पुनः तावति एव निमित्तम् अस्ति इति अन्तिभावेन भाव्यम् ।
६५ - ९७ - इह अपि तर्हि तावति एव निमित्तम् अस्ति इति अन्तिभावः स्यात् ।
६६ - ९७ - अनेनिजुः ।
६७ - ९७ - पर्यवेविषुः इति ।
६८ - ९७ - अस्तु ।
६९ - ९७ - अन्तिभावे कृते स्थानिवद्भावात् झिग्रहणेन ग्रहणात् जुस्भावः भविष्यति ।
७० - ९७ - अथ वा यदि अपि निमित्तवान् अन्तिः अयम् तस्य जुस्भावः अपवादः ।
७१ - ९७ - न च अपवादविषये उत्सर्गाः अभिनिविशन्ते ।
७२ - ९७ - पूर्वम् हि अपवादाः अभिनिविशन्ते पश्चात् उत्सर्गाः ।
७३ - ९७ - प्रकल्प्य वा अपवादविषयम् ततः उतस्र्गः प्रवर्तते ।
७४ - ९७ - न तावत् अत्र कदा चित् अपि अन्तिभावः भवति ।
७५ - ९७ - अपवादम् जुस्भावम् प्रतीक्षते ।
७६ - ९७ - न खलु अपि क्व चित् अभ्यस्तानाम् झेः च आनन्तर्यम् ।
७७ - ९७ - सर्वत्र विकरणैः व्यवधानम् ।
७८ - ९७ - तेन अनेन अवश्यम् विकरणनाशः प्रतीक्ष्यः क्व चित् लुका क्व चित् श्लुना क्व चित् एकादेशेन ।
७९ - ९७ - सः यथा श्लुलुकौ प्रतीक्षते एवम् एकादेशम् अपि प्रतीक्षते ।
८० - ९७ - एवम् तर्हि इदम् इह व्यपदेश्यम् सत् आचार्यः न व्यपदिशति ।
८१ - ९७ - किम् ।
८२ - ९७ - स्थानिवद्भावम् ।
८३ - ९७ - स्थानिवद्भावात् व्यवधानम् ।
८४ - ९७ - व्यवधानात् न भविष्यति ।
८५ - ९७ - पूर्वविधौ स्थानिवद्भावः न च अयम् पूर्वस्य विधिः ।
८६ - ९७ - पूर्वस्मात् अपि विधिः पूर्वविधिः ।
८७ - ९७ - तत् एतत् असति प्रयोजने उभेग्रहणम् सहार्थम् विज्ञास्यते ।
८८ - ९७ - कथम् कृत्वा एकैकस्य अभ्यस्तसञ्ज्ञा प्राप्नोति ।
८९ - ९७ - प्रत्येकम् वाक्यपरिसमाप्तिः दृष्टा ।
९० - ९७ - तत् यथा ।
९१ - ९७ - वृद्धिगुणसञ्ज्ञे प्रत्येकम् भवतः ।
९२ - ९७ - ननु च अयम् अपि अस्ति दृष्टान्तः समुदाये वाक्यपरिसमाप्तिः इति ।
९३ - ९७ - तत् यथा ।
९४ - ९७ - गर्गाः शतम् दण्ड्यन्ताम् इति ।
९५ - ९७ - अर्थिनः च राजानः हिरण्येन भवन्ति न च प्रत्येकम् दण्डयन्ति ।
९६ - ९७ - सति एतस्मिन् दृष्टान्ते यदि तत्र प्रत्येकम् इति उच्यते इह अपि सहग्रहणम् कर्तव्यम् ।
९७ - ९७ - अथ तत्र अन्तरेण प्रत्येकम् इति वचनम् प्रत्येकम् गुण्वृद्धिसञ्ज्ञे भवतः इह अपि न अर्थः सहग्रहणेन ।
१ - ३० - जक्षित्यादिषु सप्तग्रहणम् वेवीत्यर्थम् ।
२ - ३० - जक्षित्यादिषु सप्तग्रहणम् कर्तव्यम् ।
३ - ३० - सप्त जक्षित्यादयः अभ्यस्तसञ्ज्ञकाः भवन्ति इति वक्तव्यम् ।
४ - ३० - किम् प्रयोजनम् ।
५ - ३० - वेवीत्यर्थम् ।
६ - ३० - वेवीतेः अभ्यस्तसञ्ज्ञा यथा स्यात् ।
७ - ३० - वेव्यते ।
८ - ३० - अपरिगणनम् वा आगणान्तत्वात् ।
९ - ३० - न वा अर्थः परिगणनेन ।
१० - ३० - अस्तु आगणान्तम् अभ्यस्तसञ्ज्ञा ।
११ - ३० - इह अपि तर्हि प्राप्नोति ।
१२ - ३० - आङः शासु ।
१३ - ३० - अस्तु ।
१४ - ३० - अभ्यस्तकार्याणि कस्मात् न भवन्ति ।
१५ - ३० - भूयिष्ठानि परस्मैपदेषु आत्मनेपदी च अयम् ।
१६ - ३० - स्वरः तर्हि प्राप्नोति ।
१७ - ३० - यत्र अपि अस्य आत्मनेपदेषु अभ्यस्तकार्यम् स्वरः तत्र अपि अनुदात्तेतः परम् लसार्वधातुकम् अनुदात्तम् भवति इति अनुदात्तत्वे कृते न अस्ति विशेषः धातुस्वरेण उदात्तत्वे सति अभ्यस्तस्वरेण वा ।
१८ - ३० - षसिवशी छान्दसौ ।
१९ - ३० - दृष्टानुविधिः छन्दसि भवति ।
२० - ३० - चर्करीतम् अभ्यस्तम् एव ।
२१ - ३० - ह्नुङः तर्हि प्राप्नोति ।
२२ - ३० - अस्तु ।
२३ - ३० - अभ्यस्तकार्याणि कस्मात् न भवन्ति ।
२४ - ३० - भूयिष्ठानि परस्मैपदेषु आत्मनेपदी च अयम् ।
२५ - ३० - स्वरः तर्हि प्राप्नोति ।
२६ - ३० - अह्न्विङोः इति प्रतिषेधविधानसामर्थ्यात् स्वरः न भविष्यति ।
२७ - ३० - अथ वा सप्त एव इमे धातवः पठ्यन्ते ।
२८ - ३० - जक्ष् अभ्यस्तसञ्ज्ञः भवति ।
२९ - ३० - इत्यादयः च षट् ।
३० - ३० - जक्ष् इत्यादयः षट् इति ।
१ - २१ - तुजादिषु छन्दःप्रत्ययग्रहणम् ।
२ - २१ - तुजादिषु छन्दःप्रत्ययग्रहणम् कर्तव्यम् ।
३ - २१ - छन्दसि तुजादीनाम् दीर्घः भवति इति वक्तव्यम् ।
४ - २१ - अस्मिन् च अस्मिन् च प्रत्यये इति वक्तव्यम् ।
५ - २१ - इह मा भूत् ।
६ - २१ - तुतोज शबलान् हरान् ।
७ - २१ - अनारम्भः वा अपरिगणितत्वात् ।
८ - २१ - अनारम्भः वा छन्दसि दीर्घत्वस्य न्याय्यः ।
९ - २१ - कुतः ।
१० - २१ - अपरिगणितत्वात् ।
११ - २१ - न हि छन्दसि दीर्घत्वस्य परिगणनम् कर्तुम् शक्यम् ।
१२ - २१ - किम् कारणम् ।
१३ - २१ - अन्येषाम् च दर्शनात् ।
१४ - २१ - येषाम् अपि दीर्घत्वम् न आरभ्यते तेषाम् अपि छन्दसि दीर्घत्वम् दृश्यते ।
१५ - २१ - तत् यथा पूरुषः ।
१६ - २१ - नारकः इति ।
१७ - २१ - अनेकान्तत्वात् च ।
१८ - २१ - येषाम् च अपि आरभ्यते तेषाम् अपि अनेकान्तः ।
१९ - २१ - यस्मिन् एव च प्रत्यये दीर्घत्वम् दृश्यते तस्मिन् एव च न दृश्यते ।
२० - २१ - मामहानः उक्थपात्रम् ।
२१ - २१ - ममहानः इति च ।
१ - ३३ - धातोः इति किमर्थम् ।
२ - ३३ - ईहाम् चक्रे ।
३ - ३३ - न एतत् अस्ति ।
४ - ३३ - लिटि इति उच्यते न च अत्र लिटम् पश्यामः ।
५ - ३३ - प्रत्ययलक्षणेन ।
६ - ३३ - न लुमता तस्मिन् इति प्रत्ययलक्षणप्रतिषेधः ।
७ - ३३ - इदम् तर्हि ।
८ - ३३ - ससृवांसः विशृण्विरे ।
९ - ३३ - लिटि द्विर्वचने जागर्तेः वावचनम् ।
१० - ३३ - लिटि द्विर्वचने जागर्तेः वा इति वक्तव्यम् ।
११ - ३३ - यः जागर तम् ऋचः कामयन्ते ।
१२ - ३३ - यः जजागार तम् ऋचः कामयन्ते ।
१३ - ३३ - अनभ्यासस्य इति किम् ।
१४ - ३३ - कृष्णः नोनाव वृषभः यदि इदम् ।
१५ - ३३ - नोनूयतेः नोनाव ।
१६ - ३३ - अभ्यासप्रतिषेधानर्थक्यम् च छन्दसि वावचनात् ।
१७ - ३३ - अभ्यासप्रतिषेधः च अनर्थकः ।
१८ - ३३ - किम् कारणम् ।
१९ - ३३ - छन्दसि वावचनात् ।
२० - ३३ - अवश्यम् छन्दसि वा द्वे भवतः इति वक्तव्यम् ।
२१ - ३३ - किम् प्रयोजनम् ।
२२ - ३३ - प्रयोजनम् आदित्यान् याचिषामहे ।
२३ - ३३ - यियाचिषामहे इति प्राप्ते ।
२४ - ३३ - देवता नो दाति प्रियाणि ।
२५ - ३३ - ददाति प्रियाणि ।
२६ - ३३ - मघवा दातु ।
२७ - ३३ - मघवा ददातु ।
२८ - ३३ - सः नः स्तुतः वीरवत् धातु ।
२९ - ३३ - वीरवत् दधातु ।
३० - ३३ - यावता इदानीम् छन्दसि वा द्वे भवतः इति उच्यते धातुग्रहणेन अपि न अर्थः ।
३१ - ३३ - कस्मात् न भवति ससृवांसः विशृण्विरे इति ।
३२ - ३३ - छन्दसि वावचनात् ।
३३ - ३३ - तत् एतत् धातुग्रहणम् सान्न्यासिकम् तिष्ठतु तावत् ।
१ - १५९ - किम् इयम् षष्ठी आहोस्वित् सप्तमी ।
२ - १५९ - कुतः सन्देहः ।
३ - १५९ - समानः निर्देशः ।
४ - १५९ - किम् च अतः ।
५ - १५९ - यदि षष्ठी सन्यङन्तस्य द्विर्वचनेन भवितव्यम् ।
६ - १५९ - अथ सप्तमी सन्यङोः परतः पूर्वस्य द्विर्वचनम् ।
७ - १५९ - कः च अत्र विशेषः ।
८ - १५९ - सन्यङोः परतः इति चेत् इटः द्विर्वचनम् परादित्वात् ।
९ - १५९ - सन्यङोः परतः इति चेत् इटः द्विर्वचनम् कर्तव्यम् ।
१० - १५९ - अटिटिषति ।
११ - १५९ - अशिशिषति ।
१२ - १५९ - किम् पुनः कारणम् न सिध्यति ।
१३ - १५९ - परादित्वात् ।
१४ - १५९ - इट् परादिः ।
१५ - १५९ - हन्तेः च ईटः ।
१६ - १५९ - हन्तेः च ईटः द्विर्वचनम् कर्तव्यम् ।
१७ - १५९ - जेघ्नीयते ।
१८ - १५९ - ननु च यस्य अपि सन्यङन्तस्य द्विर्वचनम् तस्य अपि स्थानिवद्भावप्रसङ्गः ।
१९ - १५९ - ईटि स्थानिवद्भावात् ईटः द्विर्वचनम् न प्राप्नोति ।
२० - १५९ - न एषः दोषः ।
२१ - १५९ - द्विर्वचननिमित्ते अचि स्थानिवत् इति उच्यते न च असौ द्विर्वचननिमित्तम् ।
२२ - १५९ - यस्मिन् अपि द्विर्वचनम् यस्य अपि द्विर्वचनम् सर्वः असौ द्विर्वचननिमित्तम् ।
२३ - १५९ - तस्मात् ईटः द्विर्वचनम् ।
२४ - १५९ - तस्मात् उभाभ्याम् ईटः द्विर्वचनम् कर्तव्यम् ।
२५ - १५९ - यः च उभयोः दोषः न तम् एकः चोद्यः भवति ।
२६ - १५९ - एकाचः उपदेशे अनुदात्तात् इति उपदेशवचनम् उदात्तविशेषणम् चेत् सनः इट्प्रतिषेधः ।
२७ - १५९ - एकाचः उपदेशे अनुदात्तात् इति उपदेशवचनम् उदात्तविशेषणम् चेत् सनः इट्प्रतिषेधः वक्तव्यः ।
२८ - १५९ - बिभित्सति ।
२९ - १५९ - चिच्छित्सति ।
३० - १५९ - द्विर्वचने कृते उपदेशे अनुदात्तात् एकाचः श्रूयमाणात् इति इट्प्रतिषेधः न प्राप्नोति ।
३१ - १५९ - अस्तु तर्हि सन्यङन्तस्य ।
३२ - १५९ - सन्यङन्तस्य इति चेत् अशेः सनि अनिटः ।
३३ - १५९ - सन्यङन्तस्य इति चेत् अशेः सनि अनिटः द्विर्वचनम् वक्तव्यम् ।
३४ - १५९ - इयक्षमाणाः भृगुभिः सजोषाः ।
३५ - १५९ - यस्य अपि सन्यङोः परतः द्विर्वचनम् तेन अपि अत्र अवश्यम् इडभावे यत्नः कर्तव्यः ।
३६ - १५९ - किम् कारणम् ।
३७ - १५९ - अशेः हि प्रतिपदम् इट् विधीयते स्मिपूङ्रञ्ज्वशाम् सनि इति ।
३८ - १५९ - तेन एव द्वितीयद्विर्वचनम् अपि न भविष्यति ।
३९ - १५९ - अथ वा न एतत् अशेः रूपम् ।
४० - १५९ - यजेः एषः छान्दसः वर्णलोपः ।
४१ - १५९ - तत् यथा तुभ्य इदम् अग्ने ।
४२ - १५९ - तुभ्यम् इदम् अग्ने इति प्राप्ते ।
४३ - १५९ - अम्बानाम् चरुम् ।
४४ - १५९ - नाम्बानाम् चरुम् इति प्राप्ते ।
४५ - १५९ - आव्याधिनीः उगणाः ।
४६ - १५९ - सुगणाः इति प्राप्ते ।
४७ - १५९ - इष्कर्तरम् अध्वरस्य ।
४८ - १५९ - निष्कर्तारम् इति प्राप्ते ।
४९ - १५९ - शिवा उद्रस्य भेषजी ।
५० - १५९ - शिवा रुद्रस्य भेषजी इति प्राप्ते ।
५१ - १५९ - अश्यर्थः वै गम्यते ।
५२ - १५९ - कः पुनः अशेः अर्थः ।
५३ - १५९ - अश्नोतिः व्यप्तिकर्मा ।
५४ - १५९ - यजिः अपि अश्यर्थे वर्तते ।
५५ - १५९ - कथम् पुनः अन्यः नाम अन्यस्य अर्थे वर्तते ।
५६ - १५९ - बह्वर्थाः अपि धातवः भवन्ति इति ।
५७ - १५९ - तत् यथा ।
५८ - १५९ - वपिः प्रकिरणे दृष्टः छेदने च अपि वर्तते ।
५९ - १५९ - केशान् वपति इति ।
६० - १५९ - ईडिः स्तुदिचोदनायाच्ञासु दृष्टः ईरणे च अपि वर्तते ।
६१ - १५९ - अग्निः वै इतः वृष्टिम् ईट्टे ।
६२ - १५९ - मरुतः अमुतः च्यावयन्ति ।
६३ - १५९ - करोतिः अयम् अभूतप्रादुर्भावे दृष्टः निर्मलीकरणे च अपि वर्तते ।
६४ - १५९ - पृष्ठम् कुरु ।
६५ - १५९ - पादौ कुरु ।
६६ - १५९ - उन्मृदान इति गम्यते ।
६७ - १५९ - निक्षेपणे च अपि दृश्यते ।
६८ - १५९ - कटे कुरु ।
६९ - १५९ - घटे कुरु ।
७० - १५९ - अश्मानम् इतः कुरु ।
७१ - १५९ - स्थापय इति गम्यते ।
७२ - १५९ - एवम् तर्हि दीर्घकुत्वप्रसारणषत्वम् अधिकस्य द्विर्वचनात् । दीर्घत्वम् द्विर्वचनाधिकस्य न सिध्यति ।
७३ - १५९ - चिचीषति ।
७४ - १५९ - तुष्टूषति ।
७५ - १५९ - समुदायस्य समुदायः आदेशः ।
७६ - १५९ - तत्र सम्प्रमुग्धत्वात् प्रकृतिप्रत्ययस्य नष्टः सन् भवति ।
७७ - १५९ - तत्र अजन्तानाम् सनि इति दीर्घत्वम् न प्राप्नोति ।
७८ - १५९ - इदम् इह सम्प्रधार्यम् दीर्घत्वम् क्रियताम् द्विर्वचनम् इति किम् अत्र कर्तव्यम् ।
७९ - १५९ - परत्वात् दीर्घत्वम् ।
८० - १५९ - नित्यम् द्विर्वचनम् ।
८१ - १५९ - कृते अपि दीर्घत्वे प्राप्नोति अकृते अपि प्राप्नोति ।
८२ - १५९ - दीर्घत्वम् अपि नित्यम् ।
८३ - १५९ - कृते अपि द्विर्वचने प्राप्नोति अकृते अपि प्राप्नोति ।
८४ - १५९ - अनित्यम् दीर्घत्वम् ।
८५ - १५९ - न हि कृते द्विर्वचने प्राप्नोति ।
८६ - १५९ - किम् कारणम् ।
८७ - १५९ - समुदायस्य समुदायः आदेशः ।
८८ - १५९ - तत्र सम्प्रमुग्धत्वात् प्रकृतिप्रत्ययस्य अजन्तता न अस्ति इति दीर्घत्वम् न प्राप्नोति ।
८९ - १५९ - द्विर्वचनम् अपि अनित्यम् ।
९० - १५९ - अन्यस्य कृते दीर्घत्वे प्राप्नोति अन्यस्य अकृते ।
९१ - १५९ - शब्दान्तरस्य च प्राप्नुवन् विधिः अनित्यः भवति ।
९२ - १५९ - उभयोः अनित्ययोः परत्वात् दीर्घत्वम् ।
९३ - १५९ - यत् तर्हि न अकृते द्विर्वचने दीर्घत्वम् तत् न सिध्यति ।
९४ - १५९ - जुहूषति इति ।
९५ - १५९ - कुत्वम् द्विर्वचनाधिकस्य न सिध्यति ।
९६ - १५९ - जिघांसति ।
९७ - १५९ - जङ्घन्यते ।
९८ - १५९ - किम् कारणम् ।
९९ - १५९ - समुदायस्य समुदायः आदेशः ।
१०० - १५९ - तत्र सम्प्रमुग्धत्वात् प्रकृतिप्रत्ययस्य नष्टः हन्तिः भवति ।
१०१ - १५९ - तत्र अभ्यासात् हन्तिहकारस्य इति कुत्वम् न सिध्यति ।
१०२ - १५९ - सम्प्रसारणम् च द्विर्वचनाधिकस्य न सिध्यति ।
१०३ - १५९ - जुहूषति. जोहूयते ।
१०४ - १५९ - समुदायस्य समुदायः आदेशः ।
१०५ - १५९ - तत्र सम्प्रमुग्धत्वात् प्रकृतिप्रत्ययस्य नष्टः हवयतिः भवति ।
१०६ - १५९ - तत्र ह्वः सम्प्रसारणम् अभ्यस्तस्य इति सम्प्रसारणम् न प्राप्नोति ।
१०७ - १५९ - न एषः दोषः ।
१०८ - १५९ - वक्ष्यति हि एतत् ह्वः अभ्यस्तनिमित्तस्य इति ।
१०९ - १५९ - यावता च इदानीम् ह्वः अभ्यस्तनिमित्तस्य इति उच्यते सः अपि अदोषः भवति यत् उक्तम् यत् तर्हि न अकृते द्विर्वचने दीर्घत्वम् तत् न सिध्यति इति ।
११० - १५९ - षत्वम् च द्विर्वचनाधिकस्य न सिध्यति ।
१११ - १५९ - पिपक्षति ।
११२ - १५९ - यियक्षति ।
११३ - १५९ - समुदायस्य समुदायः आदेशः ।
११४ - १५९ - तत्र सम्प्रमुग्धत्वात् प्रकृतिप्रत्ययस्य नष्टः सन् भवति ।
११५ - १५९ - तत्र इण्कुभ्याम् उत्तरस्य प्रत्ययसकारस्य इति षत्वम् न प्रापोति ।
११६ - १५९ - इदम् इह सम्प्रधार्यम् द्विर्वचनम् क्रियताम् षत्वम् इति किम् अत्र कर्तव्यम् ।
११७ - १५९ - परत्वात् षत्वम् ।
११८ - १५९ - पूर्वत्रासिद्धे षत्वम् सिद्धासिद्धयोः च न अस्ति सम्प्रधारणा ।
११९ - १५९ - आबृध्योः च अभ्यस्तविधिप्रतिषेधः ।
१२० - १५९ - आबृध्योः च अभ्यस्ताश्रयः विधिः प्राप्नोति ।
१२१ - १५९ - सः प्रतिषेध्यः ।
१२२ - १५९ - ईप्सति ।
१२३ - १५९ - ईर्त्सति ।
१२४ - १५९ - ईप्सन् ।
१२५ - १५९ - ईर्त्सन् ।
१२६ - १५९ - ऐप्सन् ।
१२७ - १५९ - ऐर्त्सन् ।
१२८ - १५९ - किम् च स्यात् ।
१२९ - १५९ - अद्भावः नुम्प्रतिषेधः जुस्भावः इति एते विधयः प्रसज्येरन् ।
१३० - १५९ - न एषः दोषः ।
१३१ - १५९ - उक्ताः अत्र परिहाराः ।
१३२ - १५९ - सङाश्रये च समुदायस्य समुदायादेशत्वात् झलाश्रये च अव्यपदेशः आमिश्रत्वात् ।
१३३ - १५९ - सङाश्रये च कार्ये समुदायस्य समुदायादेशत्वात् झलाश्रये च अव्यपदेशः ।
१३४ - १५९ - किम् कारणम् ।
१३५ - १५९ - आमिश्रत्वात् ।
१३६ - १५९ - आमिश्रीभूतम् इदम् भवति ।
१३७ - १५९ - तत् यथा ।
१३८ - १५९ - क्षीरोदके सम्पृक्ते ।
१३९ - १५९ - आमिश्रत्वात् न ज्ञायते कियत् क्षीरम् कियत् उदकम् इति ।
१४० - १५९ - कस्मिन् अवकाशे क्षीरम् कस्मिन् अवकाशे उदकम् इति ।
१४१ - १५९ - एवम् इह अपि आमिश्रत्वात् न ज्ञायते का प्रकृतिः कः प्रत्ययः कस्मिन् अवकाशे प्रकृतिः कस्मिन् अवकाशे प्रत्ययः इति ।
१४२ - १५९ - तत्र कः दोषः ।
१४३ - १५९ - सङि झलि इति कुत्वादीनि न सिध्यन्ति ।
१४४ - १५९ - इदम् इह सम्प्रधार्यम् द्विर्वचनम् क्रियताम् कुत्वादीनि इति किम् अत्र कर्तव्यम् ।
१४५ - १५९ - परत्वात् कुत्वादीनि ।
१४६ - १५९ - पूर्वत्रासिद्धे कुत्वादीनि सिद्धासिद्धयोः च न अस्ति सम्प्रधारणा ।
१४७ - १५९ - एवम् तर्हि पूर्वत्रासिद्धीयम् अद्विर्वचने इति वक्तव्यम्. तत् च अवश्यम् वक्तव्यम् ।
१४८ - १५९ - विभाषिताः प्रयोजयन्ति ।
१४९ - १५९ - द्रोग्धा द्रोग्धा ।
१५० - १५९ - द्रोढा द्रोढा ।
१५१ - १५९ - यावता च इदानीम् पूर्वत्रासिद्धीयम् अद्विर्वचने इति उच्यते सः अपि अदोषः भवति यत् उक्तम् षत्वम् न सिध्यति ।
१५२ - १५९ - इह स्थाने द्विर्वचने णिलोपः अपरिहृतः ।
१५३ - १५९ - सन्यङोः परतः द्विर्वचने इटः द्विर्वचनम् वक्तव्यम् ।
१५४ - १५९ - सन्यङन्तस्य द्विर्वचने हन्तेः कुत्वम् अपरिहृतम् ।
१५५ - १५९ - तत्र सन्यङन्तस्य द्विर्वचनम् द्विःप्रयोगः च इति एषः पक्षः निर्दोषः ।
१५६ - १५९ - तत्र इदम् अपरिहृतम् सनः इटः प्रतिषेधः इति ।
१५७ - १५९ - एतस्य अपि परिहारम् वक्ष्यति उभयविशेषणत्वात् सिद्धम् इति ।
१५८ - १५९ - कथम् जेघ्नीयते ।
१५९ - १५९ - वक्ष्यति एतत् यङ्प्रकरणे हन्तेः हिंसायाम् घ्नी इति ।
N/A
References : N/A
Last Updated : January 17, 2018
TOP