१ - ६५ - ह्वः सम्प्रसारणे योगविभागः ।
२ - ६५ - ह्वः सम्प्रसारणे योगविभागः कर्तव्यः ।
३ - ६५ - ह्वः सम्प्रसारणम् भवति णौ च संश्चङोः ।
४ - ६५ - ततः अभ्यस्तस्य च ।
५ - ६५ - अभ्यस्तस्य च ह्वः सम्प्रसारणम् भवति इति ।
६ - ६५ - किमर्थः योगविभागः ।
७ - ६५ - णौ संश्चङ्विषयाऋथः ।
८ - ६५ - णौ च संश्चङ्विषये ह्वः सम्प्रसारणम् यथा स्यात् ।
९ - ६५ - जुहावयिषति , अजूहवत् ।
१० - ६५ - किम् पुनः कारणम् न सिध्यति ।
११ - ६५ - ह्वः अभ्यस्तस्य इति उच्यते न च एतत् ह्वः अभ्यस्तम् ।
१२ - ६५ - कस्य तर्हि ।
१३ - ६५ - ह्वाययतेः ।
१४ - ६५ - ह्वः एतत् अभ्यस्तम् ।
१५ - ६५ - कथम् ।
१६ - ६५ - एकाचः द्वे प्रथमस्य ।
१७ - ६५ - एवम् तर्हि ह्वयतेः अभ्यस्तस्य इति उच्यते न च अत्र ह्वयतिः अभ्यस्तः ।
१८ - ६५ - कः तर्हि ।
१९ - ६५ - ह्वाययतिः ।
२० - ६५ - ह्वयतिः एव अत्र अभ्यस्तः ।
२१ - ६५ - कथम् ।
२२ - ६५ - एकाचः द्वे प्रथमस्य इति ।
२३ - ६५ - एवम् अपि अभ्यस्तिनिमित्ते अनभ्यस्तप्रसारणार्थम् ।
२४ - ६५ - अभ्यस्तिनिमित्ते इति वक्तव्यम् ।
२५ - ६५ - किम् प्रयोजनम् ।
२६ - ६५ - अनभ्यस्तप्रसारणार्थम् ।
२७ - ६५ - अनभ्यस्तस्य प्रसारणम् यथा स्यात् ।
२८ - ६५ - जुहूषति , जोहूयते ।
२९ - ६५ - अभ्यस्तप्रसारणे हि अभ्यासप्रसारणाप्राप्तिः ।
३० - ६५ - अभ्यस्तप्रसारणे हि अभ्यासप्रसारणस्य अप्राप्तिः स्यात् ।
३१ - ६५ - न सम्प्रसारणे सम्प्रसारणम् इति प्रतिषेधः प्रसज्येत ।
३२ - ६५ - न एषः दोषः ।
३३ - ६५ - व्यवहितत्वात् न भविष्यति ।
३४ - ६५ - समानाङ्गे प्रसारणप्रतिषेधात् प्रतिषेधः ।
३५ - ६५ - समानाङ्गे प्रसारणप्रतिषेधात् प्रतिषेधः प्राप्नोति ।
३६ - ६५ - समानाङ्गग्रहणम् तत्र चोदयिष्यति ।
३७ - ६५ - कृदन्तप्रतिषेधार्थम् च ।
३८ - ६५ - कृदन्तप्रतिषेधार्थम् च अभ्यस्तिनिमित्ते इति वक्तव्यम् ।
३९ - ६५ - किम् प्रयोजनम् ।
४० - ६५ - ह्वायकम् इच्छति ह्वायकीयति ।
४१ - ६५ - ह्वायकीयतेः सन् ।
४२ - ६५ - जिह्वायकीयिषति ।
४३ - ६५ - सः तर्हि निमित्तशब्दः उपादेयः ।
४४ - ६५ - न हि अन्तरेण निमित्तशब्दम् निमित्तार्थः गम्यते ।
४५ - ६५ - अन्तरेण अपि निमित्तशब्दम् निमित्तार्थः गम्यते ।
४६ - ६५ - तत् यथा दधित्रपुसम् प्रत्यक्षः ज्वरः ।
४७ - ६५ - ज्वरनिमित्तम् इति गम्यते ।
४८ - ६५ - नड्वलोदकम् पादरोगः ।
४९ - ६५ - पादरोगनिमित्तम् इति गम्यते ।
५० - ६५ - आयुः घृतम् ।
५१ - ६५ - आयुषः निमित्तम् इति गम्यते ।
५२ - ६५ - अथ वा अकारः मत्वर्थीयः ।
५३ - ६५ - अभ्यस्तम् अस्मिन् अस्ति सः अयम् अभ्यस्तः ।
५४ - ६५ - अभ्यस्तस्य इति ।
५५ - ६५ - अथ वा अभ्यस्तस्य इति न एषा ह्वयतिसमानाधिकरणा षष्ठी ।
५६ - ६५ - का तर्हि ।
५७ - ६५ - सम्बन्धषष्ठी ।
५८ - ६५ - अभ्यस्तस्य यः ह्वयतिः ।
५९ - ६५ - किम् च अभ्यस्तस्य ह्वयतिः ।
६० - ६५ - प्रकृतिः ।
६१ - ६५ - ह्वः अभ्यस्तस्य प्रकृतेः इति ।
६२ - ६५ - योगविभागः तु कर्तव्यः एव ।
६३ - ६५ - न अत्र ह्वयतिः अभ्यस्तस्य प्रकृतिः ।
६४ - ६५ - किम् तर्हि ।
६५ - ६५ - ह्वाययतिः ।
१ - १५ - अपस्पृधेथाम् इति किम् निपात्यते ।
२ - १५ - स्पर्धेः लङि आत्मनेपदानाम् मध्यमपुरुषस्य द्विवचने आथामि द्विर्वचनम् सम्प्रसारणम् अकारलोपः च निपात्यते ।
३ - १५ - इन्द्रः च विष्णो यत् अपस्पृधेथाम् ।
४ - १५ - अस्पृधेथाम् इति भाषायाम् ।
५ - १५ - अपरः आह अपपूर्वात् स्पर्धेः लङि आत्मनेपदानाम् मध्यमपुरुषस्य द्विवचने आथामि द्विर्वचनम् सम्प्रसारणम् अकारलोपः च निपात्यते ।
६ - १५ - इन्द्रः च विष्णो यत् अपस्पृधेथाम् ।
७ - १५ - अपास्पृधेथाम् इति भाषायाम् ।
८ - १५ - श्राताः श्रितम् इति किम् निपात्यते ।
९ - १५ - श्रीणातेः क्ते श्राभावश्रिभावौ निपात्येते ।
१० - १५ - क्व पुनः श्राभावः क्व वा श्रिभावः ।
११ - १५ - सोमे श्राभावः अन्यत्र श्रिभावः ।
१२ - १५ - न तर्हि इदानीम् इदम् भवति श्रितः सोमः इति ।
१३ - १५ - बहुवचने श्राभावः ।
१४ - १५ - न तर्हि इदानीम् इदम् भवति श्रिताः नः ग्रहाः इति ।
१५ - १५ - सोमबहुत्वे श्राभावः अन्यत्र श्रिभावः ।
१ - ६१ - किमर्थम् इदम् उच्यते ।
२ - ६१ - वचिस्पवियजादीनाम् ग्रहादीनाम् च सम्प्रसारणम् उक्तम् ।
३ - ६१ - तत्र यावन्तः यणः सर्वेषाम् सम्प्रसारणम् प्राप्नोति ।
४ - ६१ - इष्यते च परस्य यथा स्यात् न पूर्वस्य तत् च अन्तरेण यत्नम् न सिध्यति इति न सम्प्रसारणे सम्प्रसारणम् ।
५ - ६१ - किम् अन्ये अपि एवम् विधयः भवन्ति ।
६ - ६१ - अतः दीर्घः यञि ।
७ - ६१ - सुपि च इति ।
८ - ६१ - घटाभ्याम् ।
९ - ६१ - अकारमात्रस्य दीर्घत्वम् कस्मात् न भवति ।
१० - ६१ - अस्ति अत्र विशेषः ।
११ - ६१ - इयम् अत्र परिभाषा उपतिष्ठते ।
१२ - ६१ - अलः अन्त्यस्य इति ।
१३ - ६१ - ननु च इदानीम् एतया परिभाषया इह (ऋइह अपि - शक्यम् उपस्थातुम् ।
१४ - ६१ - न इति आह ।
१५ - ६१ - न हि वचिस्पवियजादीनाम् ग्रहादीनाम् च अन्त्यः यण् अस्ति ।
१६ - ६१ - एवम् तर्हि अनन्त्यविकारे अन्त्यसदेशस्य कार्यम् भवति इति अन्त्यसस्देशः यः यण् तस्य कार्यम् भविष्यति ।
१७ - ६१ - न एतस्याः परिभाषायाः सन्ति प्रयोजनानि ।
१८ - ६१ - एवम् तर्हि आचार्यप्रवृत्तिः ज्ञापयति न सर्वस्य यणः सम्प्रसारणम् भवति इति यत् अयम् प्यायः पीभावम् शास्ति ।
१९ - ६१ - कथम् कृत्वा ज्ञापकम् ।
२० - ६१ - पीभाववचने एतत् प्रयोजनम् आपीनः अन्धुः , आपीनम् ऊधः एतत् रूपम् यथा स्यात् इति ।
२१ - ६१ - यदि च अत्र सर्वस्य यणः सम्प्रसारणम् स्यात् पीभाववचनम् अनर्थकम् स्यात् ।
२२ - ६१ - सम्प्रसारणे कृते सम्प्रसारणपरपूर्वत्वे च द्वयोः इकारयोः एकादेशे सिद्धम् रूपम् स्यात् आपीनः अन्धुः , आपीनम् ऊधः इति ।
२३ - ६१ - पश्यति तु आचार्यः न सर्वस्य यणः सम्प्रसारणम् भवति इति ।
२४ - ६१ - ततः अयम् प्यायः पीभावम् शास्ति ।
२५ - ६१ - न एतत् अस्ति ज्ञापकम् ।
२६ - ६१ - सिद्धे हि विधिः आरभ्यमाणः ज्ञापकार्थः भवति न च प्यायः सम्प्रसारणेन सिध्यति ।
२७ - ६१ - सम्प्रसारणे हि सति अन्त्यस्य प्रसज्येत ।
२८ - ६१ - एवम् अपि ज्ञापकम् एव ।
२९ - ६१ - कथम् ।
३० - ६१ - प्यायः इति न एषा स्थानषष्ठी ।
३१ - ६१ - का तर्हि ।
३२ - ६१ - विशेषणषष्ठी ।
३३ - ६१ - प्यायः यः यण् इति ।
३४ - ६१ - तत् एतत् ज्ञापयति आचार्यः न सर्वस्य यणः सम्प्रसारणम् भवति इति यत् अयम् प्यायः पीभावम् शास्ति ।
३५ - ६१ - एवम् अपि अनैकान्तिकम् एतत् ।
३६ - ६१ - एतावत् ज्ञाप्यते न सर्वस्य यणः सम्प्रसारणम् भवति इति ।
३७ - ६१ - तत्र कुतः एतत् परस्य भविष्यति न पूर्वस्य इति ।
३८ - ६१ - उच्यमाने अपि एतस्मिन् कुतः एतत् परस्य भविष्यति न पूर्वस्य इति ।
३९ - ६१ - एकयोगक्षणम् खलु अपि सम्प्रसारणम् ।
४० - ६१ - तत् यदि तावत् परम् अभिनिर्वृत्तम् पूर्वम् अपि अभिनिर्वृत्तम् एव ।
४१ - ६१ - प्रसक्तस्य अनभिनिर्वृत्तस्य प्रतिषेधेन निवृत्तिः शक्या कर्तुम् न अभिनिर्वृत्तस्य ।
४२ - ६१ - यः हि भुक्तवन्तम् ब्रूयात् मा भुक्थाः इति किम् तेन कृतम् स्यात् ।
४३ - ६१ - अथ अपि पूर्वम् अनभिनिर्वृत्तम् परम् अपि अनभिनिर्वृत्तम् एव ।
४४ - ६१ - तत्र निमित्तसंश्रयः अनुपपन्नः न सम्प्रसारणे सम्प्रसारणम् इति ।
४५ - ६१ - न एषः दोषः ।
४६ - ६१ - यत् तावत् उच्यते उच्यमाने अपि एतस्मिन् कुतः एतत् परस्य भविष्यति न पूर्वस्य इति ।
४७ - ६१ - इह इङ्गितेन चेष्टितेन निमिषितेन महता वा सूत्रप्रबन्धेन आचार्याणाम् अभिप्रायः गम्यते ।
४८ - ६१ - एतत् एव ज्ञापयति परस्य भविष्यति न पूर्वस्य इति यत् अयम् न सम्प्रसारणे सम्प्रसारणम् इति प्रतिषेधम् शास्ति ।
४९ - ६१ - यत् अपि उच्यते एकयोगलक्षणम् खलु अपि सम्प्रसारणम् ।
५० - ६१ - तत् यदि तावत् परम् अभिनिर्वृत्तम् पूर्वम् अपि अभिनिर्वृत्तम् एव ।
५१ - ६१ - प्रसक्तस्य अनभिनिर्वृत्तस्य प्रतिषेधेन निवृत्तिः शक्या कर्तुम् इति ।
५२ - ६१ - अस्तु उभयोः अभिनिर्वृत्तिः ।
५३ - ६१ - न वयम् पूर्वस्य प्रतिषेधम् शिष्मः ।
५४ - ६१ - किम् तर्हि ।
५५ - ६१ - सम्प्रसारणाश्रयम् यत् प्राप्नोति तस्य प्रतिषेधम् ।
५६ - ६१ - ततः पूर्वत्वे प्रतिषिद्धे यणादेशेन सिद्धम् ।
५७ - ६१ - यत् अपि उच्यते अथ अपि पूर्वम् अनभिनिर्वृत्तम् परम् अपि अनभिनिर्वृत्तम् एव ।
५८ - ६१ - तत्र निमित्तसंश्रयः अनुपपन्नः इति ।
५९ - ६१ - तादर्थ्यात् ताच्छब्द्यम् भविष्यति ।
६० - ६१ - तत् यथा इन्द्रार्था स्थूणा इन्द्रः इति एवम् इह अपि सम्प्रसारणार्थम् सम्प्रसारणम् ।
६१ - ६१ - तत् यत् प्रसारणार्थम् प्रसारणम् तस्मिन् प्रतिषेधः भविष्यति ।
१ - ३० - अथ सम्प्रसारणम् इति वर्तमाने पुनः सम्प्रसारणग्रहणम् किमर्थम् ।
२ - ३० - प्रसारणप्रकरणे पुनः प्रसारणग्रहणम् अतः अन्यत्र प्रसारणप्रतिषेधार्थम् ।
३ - ३० - सम्प्रसारणप्रकरणे पुनः प्रसारणग्रहणे (ऋसम्प्रसारणग्रहणे - एतत् प्रयोजनम् ।
४ - ३० - विदेशस्थम् अपि यत् सम्प्रसारणम् तस्य अपि प्रतिषेधः यथा स्यात् ।
५ - ३० - व्यथः लिटि ।
६ - ३० - विव्यथे ।
७ - ३० - न एतत् अस्ति प्रयोजनम् ।
८ - ३० - हलादिशेषापवादः अत्र सम्प्रसारणम् ।
९ - ३० - इदम् तर्हि श्वयुवमघोनाम् अतद्धिते ।
१० - ३० - यूना , यूने ।
११ - ३० - उच्यमाने अपि एतस्मिन् न सिध्यति ।
१२ - ३० - किम् कारणम् ।
१३ - ३० - उकारेण व्यवधानात् ।
१४ - ३० - एकादेशे कृते न अस्ति व्यवधानम् ।
१५ - ३० - एकादेशः पूर्वविधौ स्थानिवत् भवति इति स्थानिवद्भावात् व्यवधानम् एव ।
१६ - ३० - एवम् तर्हि समानाङ्गग्रहणम् च ।
१७ - ३० - समानाङ्गग्रहणम् च कर्तव्यम् ।
१८ - ३० - न सम्प्रसारणे सम्प्रसारणम् समानाङ्गे इति वक्तव्यम् ।
१९ - ३० - तत्र उपोषुषि दोषः ।
२० - ३० - तत्र उपोषुषि दोषः भवति ।
२१ - ३० - न वा यस्य अङ्गस्य प्रसारणप्राप्तिः तस्मिन् प्राप्तिप्रतिषेधात् ।
२२ - ३० - न वा एषः दोषः ।
२३ - ३० - किम् कारणम् यस्य अङ्गस्य प्रसारणप्राप्तिः तस्मिन् द्वितीया या प्राप्तिः सा प्रतिषिध्यते ।
२४ - ३० - अत्र च वसिः क्वसौ अङ्गम् क्वसन्तम् पुनः विभक्तौ ।
२५ - ३० - अथ वा यस्य अङ्गस्य प्रसारणप्राप्तिः इति अनेन किम् क्रियते ।
२६ - ३० - यावत् ब्रूयात् प्रसक्तस्य अनभिनिर्वृत्तस्य प्रतिषेधेन निवृत्तिः शक्या कर्तुम् इति ।
२७ - ३० - अत्र च यदा वसेः न तदा क्वसोः यदा च क्वसोः अभिनिर्वृत्तम् तदा वसेः भवति ।
२८ - ३० - अथ वा यस्य अङ्गस्य प्रसारणप्राप्तिः इति अनेन किम् क्रियते ।
२९ - ३० - यावत् ब्रूयात् असिद्धम् बहिरङ्गम् अन्तरङ्गे इति ।
३० - ३० - असिद्धत्वात् बहिरङ्गलक्षणस्य वसौसम्प्रसारणस्य अन्तरङ्गलक्षणः प्रतिषेधः न भविष्यति ।
१ - १८ - ऋचि त्रेः उत्तरपदादिलोपः छन्दसि ।
२ - १८ - ऋचि त्रेः सम्प्रसारणम् वक्तव्यम् ।
३ - १८ - उत्तरपदादिलोपः छन्दसि वक्तव्यः ।
४ - १८ - तृचम् सूक्तम् ।
५ - १८ - तृचम् साम ।
६ - १८ - छन्दसि इति किम् ।
७ - १८ - त्र्यृचानि ।
८ - १८ - रयेः मतौ बहुलम् ।
९ - १८ - रयेः मतौ सम्प्रसारणम् बहुलम् वक्तव्यम् ।
१० - १८ - आ रेवान् एतु नः विशः ।
११ - १८ - न च भवति ।
१२ - १८ - रयिमन् पुष्टिवर्धनः ।
१३ - १८ - कक्ष्यायाः सञ्ज्ञायाम् ।
१४ - १८ - कक्ष्यायाः सञ्ज्ञायाम् मतौ सम्प्रसारणम् वक्तव्यम् ।
१५ - १८ - कक्षीवन्तम् यः आशिजः ।
१६ - १८ - कण्वः कक्षीवान् ।
१७ - १८ - सञ्ज्ञायाम् इति किम् ।
१८ - १८ - कष्यावान् हस्ती ।
१ - ११ - वश्चास्यग्रहणम् शक्यम् अकर्तुम् ।
२ - ११ - अन्यतरस्याम् किति वेञः न सम्प्रसारणम् भवति इति एव सिद्धम् ।
३ - ११ - कथम् ।
४ - ११ - सम्प्रसारणे कृते उवङादेशे च द्विर्वचनम् सवर्णदीर्घत्वम् ।
५ - ११ - तेन सिद्धम् ववतुः, ववुः , ऊवतुः, ऊवुः ।
६ - ११ - वयेः अपि नित्यम् यकारस्य प्रतिषेधः सम्प्रसारणस्य ऊयतुः , ऊयुः ।
७ - ११ - त्रैशब्यम् च इह साध्यम् ।
८ - ११ - तत् च एवम् सति सिद्धम् भवति ।
९ - ११ - यदि एवम् ववौ, वविथ इति न सिध्यति ।
१० - ११ - ल्यपि च इति अनेन चकारेण लिट् अपि अनुकृष्यते ।
११ - ११ - तस्मिन् नित्ये प्रसारणप्रतिषेधे प्राप्ते इयम् किति विभाषा आरभ्यते ।
१ - ८४ - कथम् इदम् विज्ञायते एच् यः उपदेशे इति आहोस्वित् एजन्तन्तम् यत् उपदेशे इति ।
२ - ८४ - किम् च अतः ।
३ - ८४ - यदि विज्ञायते एच् यः उपदेशे इति ढौकिता त्रौकिता इति अत्र अपि प्राप्नोति ।
४ - ८४ - अथ विज्ञायते एजन्तन्तम् यत् उपदेशे इति न दोषः भवति ।
५ - ८४ - ननु च एजन्तन्तम् यत् उपदेशे इति अपि विज्ञायमाने अत्र अपि प्राप्नोति ।
६ - ८४ - एतत् अपि व्यपदेशिवद्भावेन एजन्तम् भवति उपदेशे ।
७ - ८४ - अर्थवता व्यपदेशिवद्भावः ।
८ - ८४ - ननु च एच् यः उपदेशे इति अपि विज्ञायमाने न दोषः भवति ।
९ - ८४ - अशिति इति उच्यते न च अत्र अशितम् पश्यामः ।
१० - ८४ - ननु च ककारः एव अत्र अशित् ।
११ - ८४ - न ककारे भवितव्यम् ।
१२ - ८४ - किम् कारणम् ।
१३ - ८४ - नञिवयुक्तम् अन्यसदृशाधिकरणे ।
१४ - ८४ - तथा हि अर्थगतिः ।
१५ - ८४ - नञ्युक्तम् इवयुक्तम् च अन्यस्मिन् तत्सदृशे कार्यम् विज्ञायते ।
१६ - ८४ - तथा हि अर्थः गम्यते ।
१७ - ८४ - तत् यथा लोके अब्राह्मणम् आनय इति उक्ते ब्राह्मणसदृशम् आनयति ।
१८ - ८४ - न असौ लोष्टम् आनीय कृती भवति ।
१९ - ८४ - एवम् इह अपि अशिति इति शित्प्रतिषेधात् अन्यस्मिन् अशिति शित्सदृशे कार्यम् विज्ञास्यते ।
२० - ८४ - किम् च अन्यत् शित्सदृशम् ।
२१ - ८४ - प्रत्ययः ।
२२ - ८४ - इह तर्हि ग्लै ग्लानीयम् , म्लै म्लानीयम् , वेञ् वानीयम् , शो निशामीयम् परत्वात् आयादयः प्राप्नुवन्ति ।
२३ - ८४ - ननु च एजन्तन्तम् यत् उपदेशे इति अपि विज्ञायमाने परत्वात् आयादयः प्राप्नुवन्ति ।
२४ - ८४ - सन्तु ।
२५ - ८४ - आयादिषु कृतेषु स्थानिवद्भावात् एज्ग्रहणेन ग्रहणात् पुनः आत्त्वम् भविष्यति ।
२६ - ८४ - ननु च एच् यः उपदेशे इति अपि विज्ञायमाने परत्वात् आयादिषु कृतेषु स्थानिवद्भावात् एज्ग्रहणेन ग्रहणात् आत्त्वम् भविष्यति ।
२७ - ८४ - न भविष्यति ।
२८ - ८४ - अनल्विधौ स्थानिवद्भावः अल्विधिः च अयम् ।
२९ - ८४ - एवम् तर्हि एजन्तन्तम् यत् उपदेशे इति अपि विज्ञायमाने हूतः , हूतवान् इति अत्र अपि प्राप्नोति ।
३० - ८४ - भवतु एव अत्र आत्त्वम् ।
३१ - ८४ - श्रवणम् कस्मात् न भवति ।
३२ - ८४ - पूर्वत्वम् अस्य भविष्यति ।
३३ - ८४ - न सिध्यति ।
३४ - ८४ - इदम् इह सम्प्रधार्यम् आत्त्वम् क्रियताम् पूर्वत्वम् इति ।
३५ - ८४ - किम् अत्र कर्तव्यम् ।
३६ - ८४ - परत्वात् पूर्वत्वम् ।
३७ - ८४ - एवम् तर्हि इदम् इह सम्प्रधार्यम् ।
३८ - ८४ - आत्त्वम् क्रियताम् सम्प्रसारणम् इति ।
३९ - ८४ - किम् अत्र कर्तव्यम् ।
४० - ८४ - परत्वात् आत्त्वम् ।
४१ - ८४ - नित्यम् सम्प्रसारणम् ।
४२ - ८४ - कृते अपि आत्त्वे प्राप्नोति अकृते अपि ।
४३ - ८४ - आत्त्वम् अपि नित्यम् ।
४४ - ८४ - कृते अपि सम्प्रसारणे प्राप्नोति अकृते अपि ।
४५ - ८४ - अनित्यम् आत्त्वम् ।
४६ - ८४ - न हि कृते सम्प्रसारणे प्राप्नोति ।
४७ - ८४ - किम् कारणम् ।
४८ - ८४ - अन्तरङ्गम् पूर्वत्वम् ।
४९ - ८४ - तेन बाध्यते ।
५० - ८४ - यस्य लक्षणन्तरेण निमित्तम् विहन्यते न तत् अनित्यम् ।
५१ - ८४ - न च सम्प्रसारणम् एव आत्त्वस्य निमित्तम् हन्ति ।
५२ - ८४ - अवश्यम् लक्षणान्तरम् पूर्वत्वम् प्रतीक्ष्यम् ।
५३ - ८४ - उभयोः नित्ययोः परत्वात् आत्त्वे कृते सम्प्रसारणम् सम्प्रसारणपूर्वत्वम् ।
५४ - ८४ - कार्यकृतत्वात् पुनः आत्त्वम् न भविष्यति ।
५५ - ८४ - अथ अपि कथम् चित् आत्त्वम् अनित्यम् स्यात् एवम् अपि न दोषः ।
५६ - ८४ - उपदेशग्रहणम् न करिष्यते ।
५७ - ८४ - यदि न क्रियते चेता स्तोता इति अत्र अपि प्राप्नोति ।
५८ - ८४ - न एषः दोषः ।
५९ - ८४ - आचार्यप्रवृत्तिः ज्ञापयति न परनिमित्तकस्य आत्त्वम् भवति इति यत् अयम् क्रीङ्जीणाम् णौ आत्त्वम् शास्ति ।
६० - ८४ - न एतत् अस्ति ज्ञापकम् ।
६१ - ८४ - नियमार्थम् एतत् स्यात् ।
६२ - ८४ - क्रीङ्जीणाम् णौ एव इति ।
६३ - ८४ - यत् तर्हि मीनातिमिनोतिदीङाम् ल्यपि च इति अत्र एज्ग्रहणम् अनुवर्तयति ।
६४ - ८४ - इह तर्हि ग्लै ग्लानीयम् , म्लै म्लानीयम् , वेञ् वानीयम् , शो निशामीयम् परत्वात् आयादयः प्राप्नुवन्ति ।
६५ - ८४ - अत्र अपि आचार्यप्रवृत्तिः ज्ञापयति न आयादयः आत्त्वम् बाधन्ते इति यत् अयम् अशिति इति प्रतिषेधम् शास्ति ।
६६ - ८४ - यदि हि बाधेरन् शिति अपि बाधेरन् ।
६७ - ८४ - अथ वा पुनः अस्तु एच् यः उपदेशे इति ।
६८ - ८४ - ननु च उक्तम् ग्लै ग्लानीयम् , म्लै म्लानीयम् , वेञ् वानीयम् , शो निशामीयम् परत्वात् आयादयः प्राप्नुवन्ति इति ।
६९ - ८४ - अत्र अपि शित्प्रतिषेधः ज्ञापकः न आयादयः आत्त्वम् बाधन्ते इति ।
७० - ८४ - आत्त्वे एशि उपसङ्ख्यानम् ।
७१ - ८४ - आत्त्वे एशि उपसङ्ख्यानम् कर्तव्यम् ।
७२ - ८४ - जग्ले मम्ले ।
७३ - ८४ - अशिति इति प्रतिषेधः प्राप्नोति ।
७४ - ८४ - न एषः दोषः ।
७५ - ८४ - न एवम् विज्ञायते ।
७६ - ८४ - शकारः इत् यस्य सः अयम् शित् ।
७७ - ८४ - न शित् अशित् ।
७८ - ८४ - अशिति इति ।
७९ - ८४ - कथम् तर्हि ।
८० - ८४ - शकारः इत् शित् ।
८१ - ८४ - न शित् शित् अशित् ।
८२ - ८४ - अशिति इति ।
८३ - ८४ - यदि एवम् स्तनन्धयः इति अत्र अपि प्राप्नोति ।
८४ - ८४ - अत्र अपि शप् शित् भवति ।
१ - ७३ - किम् पुनः अयम् पर्युदासः यत् अन्यत् शितः इति आहोस्वित् प्रसज्य अयम् प्रतिषेधः शिति न इति ।
२ - ७३ - कः च अत्र विशेषः ।
३ - ७३ - अशिति एकादेशे प्रतिषेधः आदिवत्त्वात् ।
४ - ७३ - अशिति एकादेशे प्रतिषेधः वक्तव्यः ग्लायन्ति म्लयन्ति ।
५ - ७३ - किम् कारणम् ।
६ - ७३ - आदिवत्त्वात् ।
७ - ७३ - शिदशितोः एकादेशः आदिवत् स्यात् ।
८ - ७३ - अस्ति अन्यत् शितः इति कृत्वा आत्त्वम् प्राप्नोति ।
९ - ७३ - प्रत्ययविधिः ।
१० - ७३ - प्रत्ययविधिः च न सिध्यति ।
११ - ७३ - सुग्लः सुम्लः ।
१२ - ७३ - आकारान्तलक्षणः प्रत्ययविधिः न प्राप्नोति ।
१३ - ७३ - अनिष्टस्य प्रत्ययस्य श्रवणम् प्रसज्येत ।
१४ - ७३ - अभ्यासरूपम् च ।
१५ - ७३ - अभ्यासरूपम् च न सिध्यति जग्ले मम्ले ।
१६ - ७३ - इवर्णाभ्यासता प्राप्नोति ।
१७ - ७३ - अयवायावाम् प्रतिषेधः च ।
१८ - ७३ - अयवायावाम् च प्रतिषेधः वक्तव्यः ग्लै ग्लानीयम् , म्लै म्लानीयम् , वेञ् वानीयम् , शो निशामीयम् परत्वात् आयादयः प्राप्नुवन्ति ।
१९ - ७३ - अस्तु तर्हि प्रसज्य प्रतिषेधः शिति न इति ।
२० - ७३ - शिति प्रतिषेधे श्लुलुकोः उपसङ्ख्यानम् ररीध्वम् त्राध्वम् शिशीते ।
२१ - ७३ - शिति प्रतिषेधे श्लुलुकोः उपसङ्ख्यानम् कर्तव्यम् ।
२२ - ७३ - दिवः नः वृष्टिम् मरुतः ररीध्वम् ।
२३ - ७३ - लुक् ।
२४ - ७३ - त्राध्वम् नः देवा निजुरः वृकस्य ।
२५ - ७३ - शिशीते शृङ्गे रक्षसे विनिक्षे ।
२६ - ७३ - न एषः दोषः ।
२७ - ७३ - इह तावत् दिवः नः वृष्टिम् मरुतः ररीध्वम् इति ।
२८ - ७३ - न एतत् रै इति अस्य रूपम् ।
२९ - ७३ - कस्य तर्हि ।
३० - ७३ - रातेः दानकर्मणः ।
३१ - ७३ - शिशीते शृङ्गे इति न एतत् श्यतेः रूपम् ।
३२ - ७३ - कस्य तर्हि ।
३३ - ७३ - शीङः ।
३४ - ७३ - श्यत्यर्थः वै गम्यते ।
३५ - ७३ - कः पुनः श्यतेः अर्थः ।
३६ - ७३ - श्यतिः निशाने वर्तते ।
३७ - ७३ - शीङ् अपि श्यत्यर्थे वर्तते ।
३८ - ७३ - कथम् पुनः अन्यः नाम अन्यस्य अर्थे वर्तते ।
३९ - ७३ - बह्वर्थाः अपि धातवः भवन्ति इति ।
४० - ७३ - तत् यथा ।
४१ - ७३ - वपिः प्रकिरणे दृष्टः छेदने च अपि वर्तते ।
४२ - ७३ - केशान् वपति इति ।
४३ - ७३ - ईडिः स्तुदिचोदनायाच्ञासु दृष्टः ईरणे च अपि वर्तते ।
४४ - ७३ - अग्निः वै इतः वृष्टिम् ईट्टे ।
४५ - ७३ - मरुतः अमुतः च्यावयन्ति ।
४६ - ७३ - करोतिः अयम् अभूतप्रादुर्भावे दृष्टः निर्मलीकरणे च अपि वर्तते ।
४७ - ७३ - पृष्ठम् कुरु ।
४८ - ७३ - पादौ कुरु ।
४९ - ७३ - उन्मृदान इति गम्यते ।
५० - ७३ - निक्षेपणे च अपि दृश्यते ।
५१ - ७३ - कटे कुरु ।
५२ - ७३ - घटे कुरु ।
५३ - ७३ - अश्मानम् इतः कुरु ।
५४ - ७३ - स्थापय इति गम्यते ।
५५ - ७३ - सर्वेषाम् एव परिहारः ।
५६ - ७३ - शिति इति उच्यते न च अत्र शितम् पश्यामः ।
५७ - ७३ - प्रत्ययलक्षणेन ।
५८ - ७३ - न लुमता तस्मिन् इति प्रत्ययलक्षणप्रतिषेधः ।
५९ - ७३ - त्राध्वम् इति लुङि एषः व्यत्ययेन भविष्यति ।
६० - ७३ - अथ वा पुनः अस्तु पर्युदासः ।
६१ - ७३ - ननु च उक्तम् अशिति एकादेशे प्रतिषेधः आदिवत्त्वात् इति ।
६२ - ७३ - न एषः दोषः ।
६३ - ७३ - एकादेशः पूर्वविधौ स्थानिवत् भवति इति स्थानिवद्भावात् व्यवधानम् ।
६४ - ७३ - यत् अपि प्रत्ययविधिः इति ।
६५ - ७३ - आचार्यप्रवृत्तिः ज्ञापयति भवति एजन्तेभ्यः आकारान्तलक्षणः प्रत्ययविधिः इति यत् अयम् ह्वावामः च इति अणम् कबाधनार्थम् शास्ति ।
६६ - ७३ - यत् अपि अभ्यासरूपम् इति प्रत्याख्यायते सः योगः ।
६७ - ७३ - अथ अपि क्रियते एवम् अपि न दोषः ।
६८ - ७३ - कथम् ।
६९ - ७३ - लिटि इति अनुवर्तते ।
७० - ७३ - द्विलकारकः च अयम् निर्देशः लिटि लकारादौ इति ।
७१ - ७३ - एवम् च कृत्वा सः अपि अदोषः भवति यत् उक्तम् आत्त्वे एशि उपसङ्ख्यानम् इति ।
७२ - ७३ - यत् अपि उक्तम् अयवायावाम् प्रतिषेधः च इति ।
७३ - ७३ - शिति प्रतिषेधः ज्ञापकः न अयादयः आत्त्वम् बाधन्ते इति ।
१ - २१ - प्रातिपदिकप्रतिषेधः ।
२ - २१ - प्रातिपदिकानाम् प्रतिषेधः वक्तव्यः ।
३ - २१ - गोभ्याम् , गोभिः , नौभ्याम् , नौभिः ।
४ - २१ - सः तर्हि वक्तव्यः ।
५ - २१ - न वक्तव्यः ।
६ - २१ - आचार्यप्रवृत्तिः ज्ञापयति न प्रातिपदिकानाम् आत्त्वम् भवति इति यत् अयम् रायः हलः इति आत्त्वम् शास्ति ।
७ - २१ - न एतत् अस्ति ज्ञापकम् ।
८ - २१ - नियमार्थम् एतत् स्यात् ।
९ - २१ - रायः हलि एव इति ।
१० - २१ - यत् तर्हि आ ओतः अम्शसोः इति आत्त्वम् शास्ति ।
११ - २१ - एतस्य अपि अस्ति वचने प्रयोजनम् ।
१२ - २१ - अमि वृद्धिबाधनार्थम् एतत् स्यात् शसि प्रतिषेधार्थम् च ।
१३ - २१ - तस्मात् प्रातिपदिकानाम् प्रतिषेधः वक्तव्यः ।
१४ - २१ - न वक्तव्यः ।
१५ - २१ - धात्वधिकारात् प्रातिपदिकस्याप्राप्तिः ।
१६ - २१ - धात्वधिकारात् प्रातिपदिकस्य आत्त्वम् न भविष्यति ।
१७ - २१ - धातोः इति वर्तते ।
१८ - २१ - क्व प्रकृतम् ।
१९ - २१ - लिटि धातोः अनभ्यासस्य इति ।
२० - २१ - अथ अपि निवृत्तम् एवम् अपि अदोषः ।
२१ - २१ - उपदेशे इति उच्यते उद्देशः च प्रातिपदिकानाम् न उपदेशः ।
१ - १० - आत्त्वे णौ लीयतेः उपसङ्ख्यानम् प्रलम्भनशालीनीकरणयोः ।
२ - १० - आत्त्वे णौ लीयतेः उपसङ्ख्यानम् कर्तव्यम् ।
३ - १० - किम् प्रयोजनम् ।
४ - १० - प्रलम्भने च अर्थे शालीनीकरणे च नित्यम् आत्त्वम् यथा स्यात् ।
५ - १० - प्रलम्भने तावत् ।
६ - १० - जटाभिः आलापयते ।
७ - १० - श्मश्रुभिः आलापयते ।
८ - १० - शालीनीकरणे ।
९ - १० - श्येनः वार्तिकम् उल्लापयते ।
१० - १० - रथी रथिनम् उपलपयते ।
१ - ११ - सिध्यतेः अज्ञानार्थस्य ।
२ - ११ - सिध्यतेः अज्ञानार्थस्य इति वक्तव्यम् ।
३ - ११ - इतरथा हि अनिष्टप्रसङ्गः ।
४ - ११ - अपारलौकिके इति उच्यमाने अनिष्टम् प्रसज्येत ।
५ - ११ - अन्नम् साधयति ब्राह्मणेभ्यः दास्यामि इति ।
६ - ११ - अस्ति पुनः अयम् सिध्यतिः क्व चित् अन्यत्र वर्तते ।
७ - ११ - अस्ति इति आह ।
८ - ११ - तपः तापसम् सेधयति ।
९ - ११ - ज्ञानम् अस्य प्रकाशयति ।
१० - ११ - स्वानि एव एनम् कर्माणि सेधयन्ति ।
११ - ११ - ज्ञानम् अस्य प्रकाशयन्ति इति अर्थः ।
१ - ५३ - मीनात्यादीनाम् आत्त्वे उपदेशवचनम् प्रत्ययविध्यर्थम् ।
२ - ५३ - मीनात्यादीनाम् आत्त्वे उपदेशिवद्भावः वक्तव्यः ।
३ - ५३ - उपदेशावस्थायाम् आत्त्वम् भवति इति वक्तव्यम् ।
४ - ५३ - किम् प्रयोजनम् ।
५ - ५३ - प्रत्ययविध्यर्थम् ।
६ - ५३ - उपदेशावस्थायाम् आत्त्वे कृते इष्टः प्रत्ययविधिः यथा स्यात् ।
७ - ५३ - के पुनः प्रत्ययाः उपदेशिवद्भावम् प्रयोजयन्ति ।
८ - ५३ - काः ।
९ - ५३ - काः तावत् न प्रयोजयन्ति ।
१० - ५३ - किम् कारणम् ।
११ - ५३ - एचः इति उच्यते न च केषु एच् अस्ति ।
१२ - ५३ - णघञ्युज्विधयः तर्हि प्रयोजयन्ति ।
१३ - ५३ - ण ।
१४ - ५३ - अवदायः ।
१५ - ५३ - आतः इति णः सिद्धः भवति ।
१६ - ५३ - घञ् ।
१७ - ५३ - अवदायः वर्तते ।
१८ - ५३ - आतः इति घञ् सिद्धः भवति ।
१९ - ५३ - किम् च भो आतः इति भञ् उच्यते ।
२० - ५३ - न खलु अपि आतः इति उच्यते आतः तु विज्ञायते ।
२१ - ५३ - कथम् ।
२२ - ५३ - अविशेषेण घञ् उत्सर्गः ।
२३ - ५३ - तस्य इवर्णान्तात् उवर्णान्तात् च अजपौ अपवादौ ।
२४ - ५३ - तत्र उपदेशावस्थायाम् आत्त्वे कृते अपवादस्य निमित्तम् न अस्ति इति कृत्वा उत्सर्गेण घञ् सिद्धः भवति ।
२५ - ५३ - एवम् च कृत्वा न च आतः इति उच्यते आतः तु विज्ञायते ।
२६ - ५३ - युच् ।
२७ - ५३ - ईषदवदानम् स्ववदानम् ।
२८ - ५३ - आतः इति युच् सिद्धः भवति ।
२९ - ५३ - इदम् विप्रतिषिद्धम् एचः उपदेशः इति ।
३० - ५३ - यदि एचः न उपदेशे अथ उपदेशे न एचः ।
३१ - ५३ - एचः च उपदेशे च इति विप्रतिषिद्धम् ।
३२ - ५३ - न एतत् विप्रतिषिद्धम् ।
३३ - ५३ - आह अयम् एचः उपदेशे इति ।
३४ - ५३ - यदि एचः न उपदेशे अथ उपदेश न एचः ।
३५ - ५३ - ते वयम् विषयम् विज्ञास्यामः ।
३६ - ५३ - एज्विषये इति ।
३७ - ५३ - तत् तर्हि उपदेशग्रहणम् कर्तव्यम् ।
३८ - ५३ - न कर्तव्यम् ।
३९ - ५३ - प्रकृतम् अनुवर्तते ।
४० - ५३ - क्व प्रकृतम् ।
४१ - ५३ - आत् एचः उपदेशे इति ।
४२ - ५३ - तत् वै प्रकृतिविशेषणम् विषयविशेषणेन च इह अर्थः ।
४३ - ५३ - न च अन्यार्थम् प्रकृतम् अन्यार्थम् भवति ।
४४ - ५३ - न खलु अपि अन्यत् प्रकृतम् अनुवर्तनात् अन्यत् भवति ।
४५ - ५३ - न हि गोधा सर्पन्ती सर्पणात् अहिः भवति ।
४६ - ५३ - यत् तावत् उच्यते न च अन्यार्थम् प्रकृतम् अन्यार्थम् भवति इति अन्यार्थम् अपि प्रकृतम् अन्यार्थम् भवति टत् यथा ।
४७ - ५३ - शाल्यर्थम् कुल्याः प्रणीयन्ते ताभ्यः च पाणीयम् पीयते उपश्पृश्यते च शालयः च भाव्यन्ते ।
४८ - ५३ - यत् अपि उच्यते न खलु अपि अन्यत् प्रकृतम् अनुवर्तनात् अन्यत् भवति ।
४९ - ५३ - न हि गोधा सर्पन्ती सर्पणात् अहिः भवति इति ।
५० - ५३ - भवेत् द्रव्येषु एतत् एवम् स्यात् ।
५१ - ५३ - शब्दः तु खलु येन येन विशेषेण अभिसम्बध्यते तस्य तस्य विशेषकः भवति ।
५२ - ५३ - तत् यथ गौः शुक्लः अश्वः च ।
५३ - ५३ - शुक्लः इति गम्यते ।
१ - ९ - निमिमीलियाम् खलचोः प्रतिषेधः ।
२ - ९ - निमिमीलियाम् खलचोः प्रतिषेधः वक्तव्यः ।
३ - ९ - ईषन्निमयम् , सुनिमयम् , निमयः वर्तते ।
४ - ९ - मि ।
५ - ९ - मी ।
६ - ९ - ईषप्रमयम् , सुप्रमयम् , प्रमयः वर्तते , प्रमयः ।
७ - ९ - मी ।
८ - ९ - ली ।
९ - ९ - ईषद्विलयम् , सुविलयम् , विलयः वर्तते , विलयः ।
१ - २ - किम् इदम् लीयतेः इति ।
२ - २ - लिनातिलीयत्योः यका निर्देशः ।
१ - १२ - हेतुभये इति किमर्थम् ।
२ - १२ - कुञ्चिकया एनम् भाययति ।
३ - १२ - अहिना एनम् भाययति ।
४ - १२ - हेतुभये इति उच्यमाने अपि अत्र प्राप्नोति ।
५ - १२ - एतत् अपि हि हेतुभयम् ।
६ - १२ - हेतुभये इति न एवम् विज्ञायते ।
७ - १२ - हेतोः भयम् हेतुभयम् ।
८ - १२ - हेतुभये इति ।
९ - १२ - कथम् तर्हि ।
१० - १२ - हेतुः एव भयम् हेतुभयम् ।
११ - १२ - हेतुभये इति ।
१२ - १२ - यदि सः एव हेतुः भयम् भवति इति ।
१ - १२ - अमि सङ्ग्रहणम् ।
२ - १२ - अमि सङ्ग्रहणम् ।
३ - १२ - किम् इदम् सङ् इति ।
४ - १२ - प्रत्याहारग्रहणम् ।
५ - १२ - क्व सन्निविष्टानाम् प्रत्याहारः ।
६ - १२ - सनः प्रभृति आ महिङः ङकारात् ।
७ - १२ - किम् प्रयोजनम् । क्विप्प्रतिषेधाऋथम् ।
८ - १२ - क्विबन्तस्य मा भूत् ।
९ - १२ - रज्जुसृड्भ्याम् , रज्जुसृड्भिः , देवदृग्भ्याम् , देवदृग्भिः ।
१० - १२ - उक्तम् वा ।
११ - १२ - किम् उक्तम् ।
१२ - १२ - धातोः स्वरूपग्रहणे तत्प्रत्ययविज्ञानात् सिद्धम् इति ।
१ - १२ - शीर्षन् छन्दसि प्रकृत्यन्तरम् ।
२ - १२ - शीर्षन् छन्दसि प्रकृत्यन्तरम् द्रष्टव्यम् ।
३ - १२ - किम् प्रयोजनम् ।
४ - १२ - किम् प्रयोजनम् ।
५ - १२ - आदेशप्रतिषेधार्थम् ।
६ - १२ - आदेशः मा विज्ञायि ।
७ - १२ - प्रकृत्यन्तरम् यथा विज्ञायेत ।
८ - १२ - किम् च स्यात् ।
९ - १२ - अस्कारान्तस्य छन्दसि श्रवणम् न स्यात् ।
१० - १२ - शिरः मे शीर्यशः मुखम् (ऋशीर्यते मुखे - ।
११ - १२ - इदम् ते शिरः भिनद्मि इति ।
१२ - १२ - तत् वै अथर्वणः शिरः ।
१ - ३६ - ये च तद्धिते शिरसः आदेशार्थम् ।
२ - ३६ - ये च तद्धिते इति अत्र शिरसः ग्रहणम् कर्तव्यम् ।
३ - ३६ - किम् प्रयोजनम् ।आदेशार्थम् ।
४ - ३६ - आदेशः यथा विज्ञायेत ।
५ - ३६ - प्रकृत्यन्तरम् मा विज्ञायि ।
६ - ३६ - किम् च स्यात् ।
७ - ३६ - यकारादौ तद्धिते अस्कारान्तस्य श्रवणम् प्रसज्येत ।
८ - ३६ - शीर्षण्यः हि मुख्यः भवति ।
९ - ३६ - शीर्षण्यः खरः ।
१० - ३६ - वा केशेषु ।
११ - ३६ - वा केशेषु शिरसः शीर्षन्भावः वक्तव्यः ।
१२ - ३६ - शीर्षण्याः केशाः , शिरस्याः ।
१३ - ३६ - अचि शीर्षः ।
१४ - ३६ - अचि परतः शिरसः शीर्षभावः वक्तव्यः ।
१५ - ३६ - हास्तिशीर्षिः , स्थौल्यशीर्षिः, पैलुशीर्षिः ।
१६ - ३६ - छन्दसि च ।
१७ - ३६ - छन्दसि च शिरसः शीर्षभावः वक्तव्यः ।
१८ - ३६ - द्वे शीर्षे ।
१९ - ३६ - इह हास्तिशीर्ष्या पैलुशीर्ष्या इति शिरसः ग्रहणेन ग्रहणात् शीर्षन्भावः प्राप्नोति ।
२० - ३६ - अस्तु ।
२१ - ३६ - नः तद्धिते इति टिलोपः भविष्यति ।
२२ - ३६ - न सिध्यति ।
२३ - ३६ - ये च अभावकर्मणोः इति प्रकृतिभावः प्रसज्येत ।
२४ - ३६ - यदि पुनः ये अचि तद्धिते इति उच्येत ।
२५ - ३६ - किम् कृतम् भवति ।
२६ - ३६ - इञि शीर्षन्भावे कृते टिलोपेन सिद्धम् ।
२७ - ३६ - न एवम् शक्यम् ।
२८ - ३६ - इह हि स्थूलशिरसः इदम् स्थौलशीर्षम् इति अनणि इति प्रकृतिभावः प्रसज्येत ।
२९ - ३६ - तस्मात् न एवम् शक्यम् ।
३० - ३६ - न चेत् एवम् शिरसः ग्रहणेन ग्रहणात् शीर्षन्भावः प्राप्नोति ।
३१ - ३६ - पाक्षिकः एषः दोषः ।
३२ - ३६ - कतरस्मिन् पक्षे ।
३३ - ३६ - ष्यङ्विधौ द्वैतम् भवति ।
३४ - ३६ - अणिञोः वा आदेशः ष्यङ् अणिञ्भ्याम् वा परः इति ।
३५ - ३६ - तत् यदा तावद् अणिञोः आदेशः तदा एषः दोषः ।
३६ - ३६ - यदा हि अणिञ्भ्याम् परः न तदा दोषः भवति अणिञ्भ्याम् व्यवहितत्वात् ।
१ - ३५ - शस्प्रभृतिषु इति उच्यते ।
२ - ३५ - अशस्प्रभृतिषु अपि दृश्यते ।
३ - ३५ - शला दोषणी ।
४ - ३५ - ककुत् दोषणी ।
५ - ३५ - याचते महादेवः ।
६ - ३५ - पदादिषु मांस्पृत्स्नूनाम् उपसङ्ख्यानम् ।
७ - ३५ - पदादिषु मांस्पृत्स्नूनाम् उपसङ्ख्यानम् कर्तव्यम् ।
८ - ३५ - मांस् ।
९ - ३५ - यत् नीक्षणम् मांस्पचन्याः ।
१० - ३५ - मांसपचन्याः इति प्राप्ते ।
११ - ३५ - मांस् ।
१२ - ३५ - पृत्. पृत्सु मर्त्यम् ।
१३ - ३५ - पृतनासु मर्त्यम् इति प्राप्ते ।
१४ - ३५ - पृत् ।
१५ - ३५ - स्नु ।
१६ - ३५ - न ते दिवः न पृथिव्यः अधि स्नुषु ।
१७ - ३५ - अधि सानुषु इति प्राप्ते ।
१८ - ३५ - नस् नासिकायाः यत्तस्क्षुद्रेषु ।
१९ - ३५ - यत्तस्क्षुद्रेषु परतः नासिकायाः नस्भावः वक्तव्यः ।
२० - ३५ - यत् ।
२१ - ३५ - नस्यम् ।
२२ - ३५ - यत् ।
२३ - ३५ - तस् ।
२४ - ३५ - नस्तः ।
२५ - ३५ - तस्. क्षुद्र ।
२६ - ३५ - नःक्षुद्रः ।
२७ - ३५ - अवर्णनगरयोः इति वक्तव्यम् ।
२८ - ३५ - इह मा भूत् ।
२९ - ३५ - नासिक्यः वर्णः , नासिक्यम् नगरम् ।
३० - ३५ - तत् तर्हि वक्तव्यम् ।
३१ - ३५ - न वक्तव्यम् ।
३२ - ३५ - इह तावत् नासिक्यः वर्णः इति ।
३३ - ३५ - परिमुखादिषु पाठः करिष्यते ।
३४ - ३५ - नासिक्यम् नगरम् इति ।
३५ - ३५ - सङ्काशादिषु पाठः करिष्यते ।
१ - ५० - धातुग्रहणम् किमर्थम् ।
२ - ५० - इह मा भूत् षोडन् , षण्डः , षोडिकः ।
३ - ५० - अथ आदिग्रहणम् किमर्थम् ।
४ - ५० - इह मा भूत् पेष्टा पेष्टुम् ।
५ - ५० - न एतत् अस्ति प्रयोजनम् ।
६ - ५० - अस्तु अत्र सत्वम् ।
७ - ५० - सत्वे कृते इणः उत्तरस्य आदेशसकारस्य इति षत्वम् भविष्यति ।
८ - ५० - इदम् तर्हि लषिता लषितुम् ।
९ - ५० - इदम् च अपि उदार्हरणम् पेष्टा पेष्टुम् ।
१० - ५० - ननु च उक्तम् अस्तु अत्र सत्वम् ।
११ - ५० - सत्वे कृते इणः उत्तरस्य आदेशसकारस्य इति षत्वम् भविष्यति इति ।
१२ - ५० - न एवम् शक्यम् ।
१३ - ५० - इह हि पेक्ष्यति इति षत्वस्य असिद्धत्वात् षढोः कः सि इति कत्वम् न स्यात् ।
१४ - ५० - सादेशे सुब्धातुष्ठिवुष्वष्कतीनाम् प्रतिषेधः ।
१५ - ५० - सादेशे सुब्धातुष्ठिवुष्वष्कतीनाम् प्रतिषेधः वक्तव्यः ।
१६ - ५० - सुब्धातु षोडीयति षण्डीयति ।
१७ - ५० - ष्ठिवु ष्ठीवति ।
१८ - ५० - ष्वष्क् ष्वष्कते ।
१९ - ५० - सुब्धातूनाम् तावत् न वक्तव्यः ।
२० - ५० - उपदेशे इति वर्तते उद्देशः च प्रातिपदिकानाम् न उपदेशः ।
२१ - ५० - यदि एवम् न अर्थः धातुग्रहणेन ।
२२ - ५० - कस्मात् न भवति षोडन् , षण्डः , षोडिकः इति ।
२३ - ५० - उपदेशे इति वर्तते उद्देशः च प्रातिपदिकानाम् न उपदेशः ।
२४ - ५० - ष्ठिवेः अपि द्वितीयः वर्णः ठकारः ।
२५ - ५० - यदि ठकारः तेष्ठीव्यते इति न सिध्यति ।
२६ - ५० - एवम् तर्हि थकारः ।
२७ - ५० - यदि थकारः टुष्ठ्यूषति टेष्ठीव्यतिए इति न सिध्यति ।
२८ - ५० - एवम् तर्हि द्वौ इमौ ष्ठिवू ।
२९ - ५० - अकस्य द्वितीयः वर्णः ठकारः अपरस्य थकारः ।
३० - ५० - यस्य थकारः तस्य सत्वम् प्राप्नोति ।
३१ - ५० - एवम् तर्हि द्वौ इमौ द्विषकारौ ष्ठिवुष्वष्कती ।
३२ - ५० - किम् कृतम् भवति ।
३३ - ५० - पूर्वस्य सत्वे कृते परेण सन्निपाते ष्टुत्वम् भविष्यति ।
३४ - ५० - न एवम् शक्यम् ।
३५ - ५० - इह हि श्वलिट् ष्ठीवति मधुलिट् ष्वष्कते ष्टुत्वस्य असिद्धत्वात् डः सि धुट् इति धुट् प्रसज्येत ।
३६ - ५० - एवम् तर्हि यकारादी द्विषकारौ ष्ठिवुष्वष्कती ।
३७ - ५० - किम् यकारः न श्रूयते ।
३८ - ५० - लुप्तनिर्दिष्टः यकारः ।
३९ - ५० - अथ किमर्थम् षकारम् उपदिश्य तस्य सकारः आदेशः क्रियते न सकारः एव उपदिश्येत ।
४० - ५० - लघ्वर्थम् इति आह ।
४१ - ५० - कथम् ।
४२ - ५० - अविशेषेण अयम् षकारम् उपदिश्य सकारम् आदेशम् उक्त्वा लघुना उपायेन षत्वम् निर्वर्तयति आदेशप्रत्यययोः इति ।
४३ - ५० - इतरथा हि येषाम् षत्वम् इष्यते तेषाम् तत्र ग्रहणम् कर्तव्यम् स्यात् ।
४४ - ५० - के पुनः षोपदेशाः धातवः ।
४५ - ५० - पठितव्याः ।
४६ - ५० - कः अत्र भवतः पुरुषकारः ।
४७ - ५० - यदि अन्तरेण पाठम् किम् चित् शक्यते वक्तुम् तत् उच्यताम् ।
४८ - ५० - अन्तरेण अपि पाठम् किम् चित् शक्यते वक्तुम् ।
४९ - ५० - कथम् ।
५० - ५० - अज्दन्त्यपराः सादयः षोपदेशाः स्मिङ्स्वदिस्विदिस्वञ्जिस्वपयः च सृपिसृजिस्तृस्त्यासेकृसृवर्जम् ।
१ - १२ - अथ किमर्थम् णकारम् उपदिश्य तस्य नकारः आदेशः क्रियते न नकारः एव उपदिश्येत ।
२ - १२ - लघ्वर्थम् इति आह ।
३ - १२ - कथम् ।
४ - १२ - अविशेषेण अयम् णकारम् उपदिश्य नकारम् आदेशम् उक्त्वा लघुना उपायेन णत्वम् निर्वर्तयति उपसर्गात् असमासे अपि णोपदेशस्य इति ।
५ - १२ - इतरथा हि येषाम् णत्वम् इष्यते तेषाम् तत्र ग्रहणम् कर्तव्यम् स्यात् ।
६ - १२ - के पुनः णोपदेशाः धातवः ।
७ - १२ - पठितव्याः ।
८ - १२ - कः अत्र भवतः पुरुषकारः ।
९ - १२ - यदि अन्तरेण पाठम् किम् चित् शक्यते वक्तुम् तत् उच्यताम् ।
१० - १२ - अन्तरेण अपि पाठम् किम् चित् शक्यते वक्तुम् ।
११ - १२ - कथम् ।
१२ - १२ - सर्वे नादयः णोपदेशाः नृतिनन्दिनर्दिनक्किनाटिनाथृनाधृनृ̄वर्जम् ।