ततो रात्रौ कीर्तनश्रवणादिना जागरणं कृत्वा आमावास्यायां प्रातर्विष्णुं पूर्ववत्संपूज्य अग्निं प्रतिष्ठाप्य आज्यभागांते समित्तिलाज्यचरुद्रव्यैः । ॐ अतोदेवा० इति षण्मंत्रैरयुतम् अथवा इदंविष्णुरिति मंत्रेण सहस्त्रं वाष्टोत्तरशतं होम कृत्वा पूर्वोक्तैस्त्रयस्त्रिंशन्ना मभिः सर्वतोभद्रदेवतानामभिश्वैकाज्याहुतिं जुहुयात् । ततो होमशेषं समाप्य सपत्नीकमाचांर्य वस्त्रादिभिः संपूज्य त्रयस्त्रिंशदपूपान् कांस्यपात्रे निधायस घृतं सहिरण्यं दद्यात् । तत्र मंत्रः । दाता दिवाकरो देवो ग्रहीता च दिवाकरः । दानेनानेन विप्रेंद्र सूर्यो मे प्रीयतामिति ॥१॥
प्रीयंतां देवदे वेशाः ब्रह्मशंभुजनार्दनाः । तेषां प्रसादात्सकला मम संतु मनोरथाः ॥२॥
ततो व्रतपूर्त्तये सवत्सां गां सोपस्करां शय्यां प्रतिमायुतं पीठं च आचार्याय दत्त्वा ऋत्विग्भ्यो वासांसि दद्यात् । ततस्त्रस्त्रिंश त्कुंभान् कांस्यपात्रसमायुक्तान् घृतापूपान् वटकैः सहितान् यथाशक्ति दक्षिणासहितांश्व दत्त्वा शर्क राघृतपायसैर्ब्राह्मणान् भोजयित्वा दक्षिणां दत्त्वा आशिषो गृहीत्वा बंधुभिः सह भुंजीत ॥ इति भविष्योक्तं मलमासव्रतोद्यापनम् ॥ अथ कार्तिकमासोद्यापनम् ॥ कार्तिकशुल्कचतुर्दश्यां प्रातर्नद्यादौ स्नात्वा नित्यकर्म समाप्य चतुर्द्वारं मंडपं कृत्वा द्वारेषु पूर्वदिक्रमेण मृन्मयान् पुण्य शीलं १ सुशीलं २ जयं ३ विजयं ४ च एतान् द्वारपालान्स्थपयेत् । ततस्तुलसीमूलदेशे वेद्यांसर्वतोभद्रं विलिख्य तत्पश्चिमतः प्राङ्मुख उपविश्य । देशकालौ स्मृत्वा । मम समस्तपापक्षयपूर्वकं धर्मार्थकाममोक्षसिद्धिद्वारा श्रीदामोदरप्रीतये कार्तिकोद्यापनं करिष्ये । इति संकल्प्य । आचार्यवर्णातं पूर्ववत्कुर्यात् । ततः सर्वतोभद्रे ब्रह्मदिदेवताः संपूज्य तत्र ताम्रकलशोप्रि सौवर्णी लक्ष्मीसहितां दामोदरप्रतिमां प्रतिष्ठाप्य । ॐ इदंविष्णुरितिः मंत्रेणावाह्य पुरुषसूक्तेन षोडशोपचारैः संपूज्य परितो लोकपालांश्वावाह्य पूजयेत् । ततो गीतवाद्यादिमंगले रात्रौ जागरणं कृत्वा पौर्णमास्यां प्रातरग्निं प्रतिष्ठाप्य । आज्यभागांते । अतो देवाऽअवन्तुनोयतोविष्णुर्विचक्रमे । पृथिव्याः सप्तधा मभिःस्वाहा १ इदं विष्णवे० । ॐ इदंविष्णुर्विचक्रमेत्रेधानिदधेपदम । समूढमस्यपा सुरेस्वाहा २ इदं विष्णवे । इति द्वाभ्यां मंत्राभ्यां तिलाज्यपायसैरष्टोतरशतं हुत्वा सर्वतोभद्रदेवताभ्यश्वैकैकाज्या हुतिं हुत्वा होमशेषं समापयेत् । ततः सपत्नीकान् एकत्रिंशद्वाह्यणान्निमंत्र्य आचांर्य वस्त्रालंकारैः संपूज्य तांश्व संपूज्य प्रार्थयेत् । युष्मत्प्रसादाद्देवेशः प्रसन्नो मम सर्वदा । व्रतादस्माच्च यत्पापं सप्तजन्मकृतं मया ॥१॥
तत्संर्व नाशमायातु स्थिरा मे चास्तु संततिः । मनोरथाश्व सफलाः संतु नित्यं तवार्चनात् ॥ देहांते वैष्णवं स्थानं प्राप्नुयामतिदुर्लभम् ॥२॥
इति क्षमाप्य देवं विसृज्य सोपस्करां प्रतिमां व्रतपूर्त्तये कपिलां गां सोपस्करां शय्यां च आचार्याय दद्यात् । ततो ब्राह्यणान् भोजयित्वा तैराशिषो गृहीत्वा बंधुभिः सह भुंजीत ॥ एवमेव माघवैशाखोद्यापनं च कार्यम् । इतिल स्कांदोक्तं कार्तिकमाद्यापनम् ॥ अथ स्वस्तिकव्रतोद्यापनम् ॥ एवद्वतं तु आषाढादि आश्विनांतं कार्यम् । देवालये गोष्ठे तुलस्यालये गृहे वा गोमयोपलिप्तशुद्धभूमौ पंचंरंगैर्वर्णैः प्रत्यहं सहस्त्राणि स्वस्तिकानि लिखित्वा तत्र गोपालं संपूजयेत् । एवं चरित्वा अंत्य उद्यापनं कुर्यात् । (तस्य प्रयोगः ) देशकालौ संकीर्त्य मम शत्रुपराजयपापक्षयवैधव्यादिदुःखनिरसनपूर्वकं पुत्रपौत्र सौभाग्ययुरारोग्यैश्वर्यादिवृद्धिद्वारा श्रीपरमेश्वरप्रीत्यर्थमाचरितस्वस्तिकव्रतोद्यापनं करिष्ये । इति संकल्प्य आचार्यवरणांतं पूर्वत्कुर्यात् । ततः सर्वतोभद्रे ब्रह्मदिदेवताः संपूज्य । तत्र मध्यस्थे ताम्रकलशे सौवर्ण गोपालरुपिणं विष्णुम् । इदं विष्णुर्विचक्रमे० १ इति मंत्रेण प्रतिष्ठाप्य नाममंत्रेण पुरुषसूक्तेन च पूजयेत् । ततः प्रातरग्निं प्रतिष्ठाप्य आज्यभागांते स्वास्तेकदशांशेन शतांशेन वा । ॐ स्वस्त्ययनंतार्क्ष्यमरिष्टनेमिं महद्धूतं वायसं देवतानामसुरघ्नमिन्द्रसखंसमत्सुबृहद्यशोनावमिवारुहेम १ इति मंत्रेण । अथवा ॐ स्वस्तिनऽइन्द्रो वृद्धश्रवाः १ इत्यनेन पौराणिकमंत्रेण वाघृताक्तपायसहोमं कुर्यात् । (पौराणिकमंत्रः ) स्वस्तिना परमं दैवं स्वस्तिकगणकारणात् । स्वस्तये पायसं यच्छ संयुक्तं ममाग्रये स्वाहा ॥१॥
ततो ब्रह्मदिदेवताभ्यश्वैकैकाज्याहुतिं हुत्वा होमशेषं समाप्य होमदशांशेन होम मंत्रेण तर्पणम् । तद्दशांशेन मार्जनं तद्दशांशेन ब्राह्मणभोजनम् । ततो विशिष्टान् दश ब्राह्मणान् वस्त्रादिना संपूज्य तेभ्यः पंचरंगयुतान्योर्णानि तदभावे दर्भजान्यासनानि दक्षिणासहितानि दत्त्वा आचार्याय सोपस्करां प्रतिमां व्रतपूर्तये गोमिथुनं च दद्यात् । तदभावे यवानां द्रोणं दत्त्वा पूरिकामोदकादिभिर्ब्राह्मणान् भोजयित्वा आशिषो गृहीत्वा स्वयं भुंजीत ॥ इति भविष्योक्तं स्वस्तिकव्रतोद्यापनम् ॥ अथ वारव्रतोद्यापनानि ॥ तावत् रविवारे सूर्यव्रतं तदुद्यापनं च लिख्यते । एतद्रतं मार्गशीर्षाद्यरविचारे प्रगृह्य वर्षपर्यतं कार्यम् । तद्यथा । प्रातर्नद्यादों स्त्रात्वा संध्यातर्पणादिनित्यकर्म विधाय देशकालौ स्मृत्वा मम समस्तरो गनिरासार्थमायुरारोग्यपुत्रपौत्रसौभाग्यदिप्राप्तिद्वारा श्रीसूर्यनारायणप्रीतये आदित्यव्रतं करिष्ये इति संकल्प्य । गोमयोपलिप्ते शुचौ देशे पंचरंगैर्द्वादशारं पद्मं विलिख्य तत्र ताम्रपात्रं निधाय तन्मध्ये रक्तचंदनादिना अष्टदलं पद्मं कृत्वा तत्र सुवर्णमयी सूर्यप्रतिमां संस्थाप्य वक्ष्यमाणरीत्या प्रतिमासं रविवारे पुरुषसूक्तेन स्त्री चेन्नाम मंत्रेण षोडशोपचारैः पूजयेत् । मार्गशीर्षादिप्रत्यर्कवारे अर्घ्यनैवे द्यस्वभक्ष्यादिषु विशेषः । तद्यथा । मार्गशीर्षे मित्रो नाम सूर्यदेवता । नालिकेरेणार्घ्यदानम् । नैवेद्ये गुडौदनम् । स्वयं तुलसीपत्रत्रयभक्षणम् । साज्यगुडौदनेन सदक्षिणं ब्राह्मणमेकं भोजयेत् ॥१॥
पौषे विष्णुर्नाम देवता । बीजपूरेणार्घ्यम् । नैवेद्ये कृसरम् । पलत्रयघृतप्राशनम् । विप्राय घृतकृसरभोजनम् ॥२॥
माघे वरुणदेवता । पूगीफलेनार्घ्यम् । सतिलगुडं नैवेद्यम् । मुष्टित्रयं तिलाः प्राश्याः । विप्राय गुडतिलदानम् ॥३॥
फालगुनेसूर्यदेवता । जंबीरेणार्घ्यम् । सघृतं दधि नैवेद्यम् पलत्रयदधिप्रा शनम् । दधितंडुलान्नेन विप्रभोजनम् ॥४॥
चैत्रे भानुर्नाम देवता । दाडिमीफलसहितमर्घ्यम् । घृतपूरिका नैवेद्यम् । पलत्रयदुग्धप्राशनम् । विप्राय मिष्टान्नं सदक्षिणम् ॥५॥
वैशाखे तपनः सूर्यः । द्राक्षासहितमर्घ्यम् । सघृतमाषान्नं नैवेद्यम् । गोमयप्राशनम् । सघृतसदक्षिणं माषान्नं विप्रायदानम् ॥६॥
ज्येष्ठे इंद्रनामा सूर्यः सहकारेणार्घ्यम् । दधिसक्तवो नैवेद्यम् । अंजलित्रयजलप्राश नम् । दध्योदनेन विप्रभोजनम् ॥७॥
आषाढे रविर्नाम् देवता । जातीफलेनार्घ्यम् । पृथुका नैवेद्यम् । मरिचत्रयभक्षणम् । चिपिटकान्नेन विप्रभोजनम् ॥८॥
श्रावणे गभस्तिनामा सूर्यः । त्रपुषी (काकडी ) फलेनार्घ्यम् । यवसक्तु पूरिका नैवेद्यम् । मुष्टित्रयसक्तुप्राशनम् । यथेष्टं विप्राय भोजनम् ॥९॥
भाद्रपदे यमो नाम देवता । कूष्मांडेनार्घ्यम् । साज्यौदनं नैवेद्यम् । गोमूत्रप्राशनम् । यथेष्टं विप्रभोजनम् ॥१०॥
आश्विने हिरण्यरेता नाम देवता । दाडिमेनार्घ्यम । नैवेद्ये शुद्धशर्करा । पलत्रयशुद्ध शर्कराप्राशनम् । शालिशर्करया विप्रभोजनम् ॥११॥
कार्त्तिके दिवाकरनामा सूर्यः । रंभाफलेनार्घ्यम् । पायसनैवेद्यम् । पायसप्राशनम् । पायसेन विप्रभोजनम् ॥१२॥
एवं वर्षपर्यंतं कुर्यात् । कुष्ठादिमहारोगशांतिकामस्तु द्वादशवर्षपर्यंतं कृत्वा अंते मार्गशीर्षाद्य विवासरे उद्यापनं कुर्यात् ।