संस्कृत सूची|पूजा विधीः|व्रतोद्यापन प्रयोगः| पूजा भाग ५ व्रतोद्यापन प्रयोगः पूजा भाग १ पूजा भाग २ पूजा भाग ३ पूजा भाग ४ पूजा भाग ५ पूजा भाग ६ पूजा भाग ७ पूजा भाग ८ पूजा भाग ९ पूजा भाग १० पूजा भाग ११ पूजा भाग १२ पूजा भाग १३ पूजा भाग १४ पूजा भाग १५ पूजा भाग १६ पूजा भाग १७ पूजा भाग १८ पूजा भाग १९ पूजा भाग २० पूजा भाग २१ पूजा भाग २२ पूजा भाग २३ पूजा भाग २४ पूजा भाग २५ पूजा भाग २६ पूजा भाग २७ पूजा भाग २८ पूजा भाग २९ पूजा भाग ३० पूजा भाग ३१ पूजा भाग ३२ पूजा भाग ३३ पूजा भाग ३४ पूजा भाग ३५ पूजा भाग ३६ पूजा भाग ३७ पूजा भाग ३८ पूजा भाग ३९ पूजा भाग ४० पूजा भाग ४१ पूजा भाग ४२ पूजा भाग ४३ पूजा भाग ४४ पूजा भाग ४५ पूजा भाग ४६ पूजा भाग ४७ पूजा भाग ४८ पूजा भाग ४९ पूजा भाग ५० पूजा भाग ५१ पूजा भाग ५२ पूजा भाग ५३ व्रतोद्यापन प्रयोगः - पूजा भाग ५ व्रत केल्यावर त्याचे उद्यापन पूर्ण झाल्याशिवाय फळ मिळत नाही, म्हणून उद्यापनांच्या प्रयोगांचा संग्रह. व्रत उद्यापनाने यजमानाची कर्मपूर्ति होते. Tags : dharmavratउद्यापनधर्मव्रत पूजा भाग ५ Translation - भाषांतर अथ मातृकापूजन ॥ (पीठे अक्षतपुंजेषु वा गौर्यादि मातृका निवेश्याः) तद्यथा । ॐ गणेशाय नमः गणेशमावाहयामि ॥१॥ॐ गौर्यै नमः गौरीमावा ह्यामि ॥१॥ॐ पद्मायै नमः पद्मामाहयामि ॥२॥ॐ शच्यै नमः शचीमावाहयामि ॥३॥ॐ मेधायै नमः मेधा० ॥४॥ॐ सावित्र्यै नमः सावित्रीम्०॥५॥ॐ विजयायै नमः विजयाम्०॥६॥ॐ जयायै नमः जया०॥७॥ॐ देवसेनायै नमः देवसेना०॥८॥ॐ स्वधायै नमः स्वधा०॥९॥ॐ स्वाहायै नमः स्वाहा० ॥१०॥ॐ मातृभ्योनमः मातृरावाहयामि ॥११॥ॐ लोकमातृभ्यो नमः लोकमातृरावाहयामि ॥१२॥ॐ ह्रष्टयै नमः ह्रष्टि० ॥१३॥ॐ पुष्टयै नः पुष्टिमावा०॥१४॥ॐ तुष्ट्यै नमः तुष्टिमावाह० ॥१५॥ॐ कुलदेवतायै नमः कुलदेवतामावाहयामि ॥१६॥इत्यावाह्य । ॐ मनोजूतिर्जुषतामाज्यस्यबृहस्पतिर्यज्ञमिमन्तनी त्वरिष्टंयज्ञर्ठसमिमंदधातु ॥ विश्वेदेवासऽएहमादयन्तामो ३ म्प्रतिष्ठ ॥१॥इतिप्रतिष्ठाप्य । ॐ गौर्य्या दिषोडशमातृकाभ्यो नमः । इतिनाममंत्रेणषोडशोपचारैः संपूजयेत् ॥ ततः कुड्ये आवाहितमातृणा मुपरि घृतेन कुंकुमाक्तेन दक्षिणोत्तराः सप्त पंच तिस्त्रो वा धारा दयात् ॥ ॐ व्वसोः पवित्रमसिशत धारं वसोः पवित्रमासिसहस्त्रधारं देवस्त्वा पुनातु ॥ व्वसोः पवित्रेण शतधारेण सुष्वाकामधुक्षः ॥१॥अथ घृतमातृकानामानि ॥ श्रीश्व लक्ष्मीर्धृतिर्मेधा पुष्टिःश्रद्धा सरस्वती ॥ मांगल्येषु प्रपूज्यंते सप्तैता घृतमातरः ॥१॥ॐ श्रियै नमः श्रियमावाहयामि ॥१॥ॐ लक्ष्म्यै नमः लक्ष्मीमा वाह्यामि ॥२॥ॐ धृत्यै नमः धृतिमावा० ॥३॥ॐ मेधायै नमः मेधामा०॥४॥ॐ पुष्टयै नमः पुष्टिमावा०॥५॥ॐ श्रद्धायै नमः श्रद्धामा०॥६॥ॐ सरस्वत्यै नमः सरस्वतीमावाहयामि ॥७॥इत्यावाह्य ॥ ॐ घृतमातृकाभ्यो नमः । इति षोडशोपचारैः संपूजयेत् ॥ अथायुष्यम् ॥ ॐ आयुष्यंवर्चस्यर्ठरायस्पोषमौद्धिदम् ॥ इदर्ठहिरण्यम्वर्चस्वज्जैत्रायाविशतादुमाम् ॥१॥नतद्रक्षार्ठः सि न पिशाजास्तरन्तिदेवानामोजः प्रथमर्ठःह्येतत् ॥ योबिभर्तिदाक्षायणर्ठः हिरण्यर्ठः सदेवेषुरुणुतेदीर्घमायुः समनुष्येकृणुतेदीर्घमायुः ॥२॥यदाबध्नंदाक्षायणाहिरण्यर्ठःशतानीकायसुमनस्यामानाः ॥ तन्मऽआबघ्नामिशतशारदायायुष्माञ्जदष्टिर्यथासम् ॥३॥इतिमातृकापूजनम् ॥ततो नांदीश्राद्धं कुर्यात् ॥(तत्प्रयोगस्तु मत्कृतशांतिप्रकाशादिषु द्रष्टव्यः ) ॥ अथाचार्यादिवरणमू ॥ यजमानः आचार्यस्य जान्वालभ्य । देशकालौ संकीर्त्यामुकगोत्रोऽमुकशर्माहमकुमव्रतोद्या पनकर्मणि विहितकर्मकर्तुममुकगोत्रममुकशर्माणं ब्राह्मणमे भिर्गधाक्षततांबूलद्रिकावासोभिराचार्यत्वेनत्वामहं वृणे । इति वृत्वा वृतोस्मीति प्रतिवचनानंतरं गंधादिभिः संपूज्य । आचार्यस्तु यथा स्वर्गे शक्रदीनां बृहस्पतिः ॥ तथा त्वं मप यज्ञेस्मिन्नाचार्यो भव सुव्रत ॥१॥इति प्रार्थयेत् ॥ ततो ब्रह्मवरणम् ॥ देशकालौ संकीर्त्य० अमुकगोत्रोऽमुकशर्माअमुकव्रतोपनकर्मणि विहितकर्मकर्तुमकुकगोत्रममुकशर्मांण ब्राह्मणमेभिर्गधाक्षततांबूलमुद्रिकावासोभिर्ब्रह्यत्वेन त्वामहंवृणे । वृतोस्मीति प्रतिवचनानंतरं गंधपुष्पैः संपूज्य ॥ यथा चतुर्मुखो ब्रह्या सर्वलोकपितामहः । तथा त्वं मम यज्ञेस्मिन्ब्रह्मा भव द्विजोत्तम ॥१॥इतिप्रार्थयेत् ॥ तथ ऋत्विजश्वतुरो द्वौ वा वृणुयात् । देशकालौ संकीर्त्य अमुकव्रतोद्यापनकर्मणि विहितकर्मकर्तुममुकगोत्रममुकशर्मांण ब्राह्मणमेभिर्गंधाक्षततांबूलमुद्रिकावासोभिऋत्विक्तेन त्वामह्म वृणे ॥ वृतोस्मीति प्रतिवचनानंतरं गन्ध पुष्पा दिभिः संपूज्य ॥ भगवन्सर्वकर्मज्ञ सर्वधर्मभृतांवर ॥ वितते मम यज्ञेस्मिन्नृत्विक्त्वं भव सुव्रत ॥ इति प्रार्थयेत् ॥ ततो यथाचारं सर्वेषां मधुपर्कपूजां कृत्वा ॥ अस्य यागस्य निष्पत्तौ भवंतोभ्यर्थि तामया ॥ सुप्रसन्नैश्व कर्तव्यं कर्मेदं विधिपूर्वकम् ॥ इति प्रार्थयेत् ॥ इत्याचार्यादिवरणप्रयोगः ॥ अथाचार्यकर्म आचम्य । प्राणानायम्य । देशकालौ स्मृत्वा । अस्मिन्नमुकव्रतोद्यापनकर्मणि यजमानेन वृतोहमाचार्यकर्म करिष्ये । इति संकल्प शरीरशुद्धयर्थ सहस्त्रशीर्षेति पुरुषसूक्तन्यासं कुर्यात् षोडशंर्च वा जपेत् ॥ तत आचार्यों गौरसर्षपलाजान् गृहीत्वा दिग्रक्षणं कुर्यात् ॥ तत्र मंत्राः ॥ ॐरक्षोहणम्वल गहनम्व्वैष्णवीमिदहन्तम्बलगमुत्किररामि यम्मे निष्टयोयममात्यो निचखानेदमहन्तम्व्व लगमुत्किरामियम्मेसमानोयम समानो निचखानेदमहन्तम्व्वलगमुत्किरामियम्मेसबन्धुर्य्यमसबंधुर्निच खानेदमहन्तम्व्वलगमुत्किरामियम्मेसजातोयमसजातो निचखानोत्कृत्याङिकरामि ॥१॥रक्षोहणोवो व्वलगहनःप्रोक्षामिवैष्णवान्रक्षोहणोवोव्वलगहनोवनयामि वैष्णवान्रक्षोहणो वोव्वगहनो वस्तृणा मिवैष्णवान्रक्षोहरणौवांव्वलगहनाऽउपदधामि व्वैष्णवीरक्षोहणौवांव्वलगदनौपर्यूहामि वैष्णवीवैष्ण वमसिवैष्णवास्थ ॥२॥रक्षसाम्भागोसिनिरस्तर्ठरक्षऽइदमहर्ठरक्षोभितिष्टामीदमहर्ठरक्षोवबाधऽइदमहर्ठःरक्षोधमन्तमोनयामि । घृतेनद्यावापृथिवीप्रोर्णुवाथांव्वायोव्वेस्तोकानामग्रिराज्यस्यव्वे तुस्वाहा स्वाहाकृतेऽऊर्ध्वनभसंमारुतङुच्छतम् ॥३॥रक्षोहा व्विश्वचर्षणिरभियोनियमोहते द्रोणे सधस्धमासदत् ॥४॥अपसर्पन्तु ये भूता ये भूता भूमिसंस्थिताः ॥ ये भूता विघ्नकर्तारस्ते नश्यंतु शिवाज्ञया ॥५॥अपक्रामन्तु भूतानि पिशाचाः सर्वता दिशम् ॥ सर्वेषामवरोधेन शुभकर्म समारभे ॥६॥यदत्र संस्थितं भूतं स्थानमाश्रित्य सर्वतः ॥ स्थानं त्यक्त्वा तु तत्संर्व यत्रस्थं तत्र गच्छतु ॥७॥इति मंत्रैरीशानादिप्रदक्षिणक्रमेण सर्वदिक्षु विकीर्य । ॐ देवा आयांतु यातुधाना अपयांतु विष्णो देव यजनं रक्षस्वेति रक्षां कुर्यात् ॥ उदकस्पर्शः ॥ ततो यथाविधिना पंचगव्यं कृत्वा ॥ ॐ आपोहिष्ठा मयोभुवरिति त्रिभिर्मंत्रैः कर्मभूमिं संभारांश्व प्रोक्ष्य भूमिपूजनं कुर्यात् ॥ॐ भूरसिभूमिरस्य दितिरसि व्विश्वधाया व्विश्वस्य भुवननस्य धर्त्री ॥ पृथिवीं यच्छमृथिवींदृर्ठहपृथिवीम्माहिर्ठसीः ॥१॥ॐ भूर्भुवः स्वः पृथिवीकूर्मा नंतदेवताभ्यो नमः । इति गन्धादिभिः संपूज्याकृतांजलिः ॐ स्वस्तिनऽइन्द्रोवृद्धश्रवाःस्वस्तिनःपूषाव्विश्ववेदाः ॥ स्वस्तिनस्तार्क्ष्योऽअरिष्टनेमिःस्वस्तिनोबृहस्पतिर्द्धातु ॥१॥इति मंत्रं पठेत् ॥ अथाग्निस्थापनम् ॥ तद्यथा-हस्तमात्रपरिमिते चतुरंगुलोच्छ्रिते तुषकेशशर्करा दिरहिते चतुरस्त्रे वा वर्तुले स्थंडिले भूमिं कुशैः परिसमुह्य तान्कुशानैशान्यां परित्यज्य गोमयदकेनोप लिप्य स्त्रुवमूलेनप्रागग्रप्रादेशमात्रामुत्तरोत्तरक्रमेण त्रिरुल्लिख्य उल्लेखनक्रमेणैवाऽनामिकांगुष्ठाभ्यां मृद मृद्धृत्य जलेनाभ्युक्ष्य ततः कांस्यपात्रस्थं वह्रिं द्वितीयकांस्यपात्रेणापिहितमुपसमाधाय आनीतमग्निंस्थंडिलस्ताग्रेय्यां निधाय ॐ हुंफट् इति मंत्रेण क्रव्यादांशं नैऋत्यां दिशि किंचित्परित्यज्य । तत ॐ अग्रिं दूतंपुरोदधेहव्यवाहमुपब्रुवे देवां २ऽआसादयादिह ॥१॥इति मंत्रेणात्माभिमुखं स्थापयेत् ॥ ततः आनीताग्रेयपात्रयोः साक्षतोदकं निषिदय । अग्निमुखं कृत्वा ध्यायेत ॥ ॐ चत्वारिश्रृङात्र योऽअस्यपादाद्वेशीर्षे सप्तहस्तासोऽअस्य । त्रिधाबधो वृषभोरोरवीतिमहोदेवोमर्त्या२ऽआविवेश ॥१॥अग्रे वैश्वानर शांडिल्यगोत्र शांडिल्यासितदेवलेतिप्रवराचित भूमिमाथ वरुणापितः मेषध्वजप्राङ्मुख मम संमुखो भव इत्यग्रिं प्रतिष्ठाप्य ॐ अग्निपुरुषाय नमः । इतिमंत्रेण वायव्यकोने बहि अग्निं षोडशोपचारैः संपूज्य प्रार्थयेत् । अग्निं प्रज्वलितं वंदे जातवेदं हुताशनम् ॥ हिरण्यवर्ण मनलं समृद्धं विश्वतोमुखम् ॥ इत्याग्रिस्थापनम् ॥ अथ नवग्रहपूजनम् ॥ (यद्यपि व्रतोद्यापनग्रंथेषु ग्रहपूजनं नोक्तं तथापि शिष्टाचाराल्लिख्यते) तत्रादौ ग्रहमंडलमध्ये वर्तुले मण्डले रक्तपुष्पाक्षतैः प्राङ्मुखं सूर्यमावाहयेत् ॥ ॐ आकृष्णेनरजसावर्तमानोनिवेशयन्नमृतम्मर्त्यञ्च ॥ हिरण्ययेनसवितारथे नादेवोयातिभुवनानिपश्यन् ॥ ॐ भूर्भुवःस्वः कलिंगदेशोद्धवकाश्यपसगोत्र रक्तवर्ण भोसूर्य इहागच्छ इहतिष्ठ । ॐ सूर्यायनमःसूर्यमावाहयामि । इति सूर्य स्थापयेत् ॥१॥आग्नेय्यां दिशि चतुरस्तेऽध चन्द्रांकारे वा मंडले शुल्कपुष्पाक्षतैः सोमं० ॐ इमंदेवाऽअसपत्नर्ठःसुवध्वंमहतेक्षत्रायमहतेज्यैष्ठयाय महतेजानराज्यायेंद्रस्येन्द्रियाय ॥ इमममुष्यपुत्रममुष्यैपुत्रमस्यैव्विशऽएषयोमीराजासोमोऽस्माकं ब्राह्मणानार्ठः राजा ॥ ॐ भूर्भुवःस्वर्यमुनातीरदेशोद्धव आत्रेयसगोत्र शुक्लवर्ण भो सोम इहागच्छ इहतिष्ठ । ॐ सोमाय सोममावाहयामि ॥२॥दक्षिणस्यां दिशि त्रिकोण मण्डले दक्षिणमुखं रक्तपुष्पाक्षतैर्भौमं० । ॐ अग्निमूर्द्धदिवःककुत्पतिःपृथिव्याऽअयम् ॥ अपा रेता सजित्वति ॥ ॐ भू० अवंतिदेशोद्धव भारद्वाजसगोत्र रक्तवर्ण भो भौम इहा०। ॐ भौमायनमः ॥३॥ईशान्यां दिशि बाणाकारमण्डले उदङ्मुखं पीतपुष्पाक्षतैर्बुधं०। ॐ उदृध्यस्वाग्ने प्रतिजागृहीत्वमिष्टापूर्तेसर्ठःसृजेथामयञ्च ॥ अस्मिन्त्सस्थेऽअध्युत्तरस्मिन्विश्वे देवायजमानश्वसी दत ॥ ॐ भू० मगधदेशोद्धव आत्रेयसगोत्र पीतवर्ण भो बुध इहा० । ॐ बुधाय नमः ॥४॥उत्तरस्या दिशि चतुरस्ते मंडले पीतपुष्पाक्षतैर्बृहस्पतिम् ॥ ॐ बृहस्पतेऽअतियदर्योऽअर्हाद्युभातिक्रतुमज्जनेषु ॥ यद्दीदयच्छवसऽऋतप्रजाततदस्मासुद्रविणधेहिचित्रम् ॥ ॐ भू० सिंधुदेशोद्धव आंगिरसगोत्र पीत वर्ण भो बृहस्पते इहा० । ॐ बृहस्पतये नमः ॥५॥पूर्वस्यां दिशि पंचकोणमंडले प्राङ्मुखं शुक्ल पुष्पाक्षतैःशुक्रं० ॥ ॐ अन्नात्परिस्त्रुतोरसम्ब्रह्मणाव्यपिबत् क्षत्रम्पयःसोमम्प्रजापतिः ॥ ऋतेनसत्य मिन्द्रियंविपार्ठशुक्रमंधसऽइन्द्रयमिदम्पयोमृतंमधु ॥ ॐ भू० भोजकटदेशोद्धव भार्गसगोत्र शुक्लवर्ण भो शुक्र इहा०। ॐ शुक्राय नम्ह ॥६॥पश्चिमायां दिशि धनुषाकारमंडले प्रत्यङ्मुखं कृष्णापुष्पाक्षतैःशनैश्वरम्० । ॐ शन्नोदेवीरभिष्टयः आपोभवन्तुपीतये शँय्योरभिस्त्रवतुनः ॥ ॐ भू० सौराष्ट्रदेशोद्धव काश्यपसगोत्र कृष्णवर्ण भो शनैश्वर इहा० ॥ ॐ शनैश्वराय नमः ॥७॥नैऋत्यां दिशि शूर्पाकारमंडले दक्षिणाभिमुखं कृष्णपुष्पाक्षतै राहुम्०॥ ॐ कयानश्वित्रऽआभुवदूतीसदा वृधः सखा ॥ कयासचिष्ठयावृता ॥ ॐ भू० राठिणापूरोद्धव पैटिनसगोत्र कृष्णवर्ण भो राहो दहा०। ॐ राहवे नमः ॥८॥वायव्यां दिशि ध्वजाकारमंडले दक्षिणाभिसुखं धूम्रपुष्पाक्षतैः केतुम् ॥ ॐ केतुङ्कृण्वन्नकेतवेपेशोमर्य्याऽअपेशसे ॥ समुषाद्धिरजायथाः ॥ ॐ भूर्भुवःस्वःअंतर्वेदिसमुद्धव ज्ॐइनिसगोत्र धूम्रवर्ण भो केतो इहागच्छ इह तिष्ठ औ केतवे नमः केतुमावाहया मि ॥९॥इति सूर्यादिनवग्रहस्थापनम् ॥ N/A References : N/A Last Updated : May 30, 2011 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP