संस्कृत सूची|पूजा विधीः|व्रतोद्यापन प्रयोगः| पूजा भाग १० व्रतोद्यापन प्रयोगः पूजा भाग १ पूजा भाग २ पूजा भाग ३ पूजा भाग ४ पूजा भाग ५ पूजा भाग ६ पूजा भाग ७ पूजा भाग ८ पूजा भाग ९ पूजा भाग १० पूजा भाग ११ पूजा भाग १२ पूजा भाग १३ पूजा भाग १४ पूजा भाग १५ पूजा भाग १६ पूजा भाग १७ पूजा भाग १८ पूजा भाग १९ पूजा भाग २० पूजा भाग २१ पूजा भाग २२ पूजा भाग २३ पूजा भाग २४ पूजा भाग २५ पूजा भाग २६ पूजा भाग २७ पूजा भाग २८ पूजा भाग २९ पूजा भाग ३० पूजा भाग ३१ पूजा भाग ३२ पूजा भाग ३३ पूजा भाग ३४ पूजा भाग ३५ पूजा भाग ३६ पूजा भाग ३७ पूजा भाग ३८ पूजा भाग ३९ पूजा भाग ४० पूजा भाग ४१ पूजा भाग ४२ पूजा भाग ४३ पूजा भाग ४४ पूजा भाग ४५ पूजा भाग ४६ पूजा भाग ४७ पूजा भाग ४८ पूजा भाग ४९ पूजा भाग ५० पूजा भाग ५१ पूजा भाग ५२ पूजा भाग ५३ व्रतोद्यापन प्रयोगः - पूजा भाग १० व्रत केल्यावर त्याचे उद्यापन पूर्ण झाल्याशिवाय फळ मिळत नाही, म्हणून उद्यापनांच्या प्रयोगांचा संग्रह. व्रत उद्यापनाने यजमानाची कर्मपूर्ति होते. Tags : dharmavratउद्यापनधर्मव्रत पूजा भाग १० Translation - भाषांतर (ततो ग्रहमंडलसमीपे) ॐ सूर्यादिनवग्रहेभ्यः साधिप्रत्यधिदेव पंचलोकपालसहितेभ्यः इमं सदीपपदाधिभाषभक्तबलिं समर्पयामि । भो भो सूर्यादिग्रहमंडलदेवता इमं बलि गृह्रीत आयुःकर्तारः क्षेमकर्तारः ०अनेन बलिदानेन श्रीसूर्यादिग्रहमंडलदेवताः प्रीयंताम् ॥१॥ एवं सर्वतोभद्रमंडलदेवताभ्यश्वैकं बलिं दद्यात् ॥ ततः क्षेत्रपालबलिदानम् ॥ एकस्मिन् वंशपात्रे कुशानास्तीर्य तदुपरि अहारचतुर्गुणं द्विगुणं वा भाषभक्तदध्योदनं जलपात्रं च निधाय हरिद्राकुंकुमसिंदूरकज्जलद्रव्यपताकायवचूर्णकृततैलदीपयुतं कृत्वा । ॐ क्षेत्रपालाय नमः इति गंधपुष्पादिभिर्वलिं संपूज्य । ॐ नमः क्षेत्रपालस्त्वं भूतप्रेतगणैः सह । पूजां बलिं गृहाणेमं सौम्यो भवतु सर्वदा । देहि मे आयुरारोग्यं निर्विघ्नं क्रुउ सर्वदा ॥१॥इति प्रार्थ्य । बलिं गृहीत्वा ॐ क्षेत्रपालाय सांगाय भूतप्रेतपिशाचशाकिनीवेतालादिपरिवारयुताय सायुधाय सशक्तिकाय सवाहनाय इमं सदीपदधिमाष भक्तबलिं समर्पयामि । भोभोः क्षेत्रपाल सर्वतो दिशं रक्ष बलिं भक्ष मम सकुटुंबस्याभ्युदयं कुरु । आयुः कर्ता क्षेमकर्ता शांतिकर्ता पुष्टिकर्ता तुष्टिकर्ता निर्विघ्रकर्ता वरदो भव । अनेन बलिदानेन क्षेत्रपालः प्रीयताय ॥ इमं बलिमनवेक्ष्यमाणेन द्रुर्बाह्यणेन नीत्वा चतुष्पथे निक्षिपेत ॥ यजमानोपो तस्य पृष्ठतो द्वारपर्य्यंत गत्वा जलं क्षिपेत् । ततो हस्तौ पादौ प्रक्षाल्य आचामेत् ॥ अथ पूर्णाहुतिहोमः ॥ देशकालौ स्मृत्वा । कृतस्य कर्मणः सांगतासिद्धयर्थं पूर्णा । हुतिहोमं करिष्ये । इति संकल्प्य । आज्याधि श्रयणभाज्योद्वासनमवेक्षणमुत्पवनं च कृत्वा स्त्रुवं पूरयित्वा नारिकेलं पूगीफलं वा धृत्वा यजमानः आचार्यस्कंधं स्पृशन् जुहुयात् ॥ तत्र मंत्राहः ॥ ॐ समुद्द्रादूर्मिर्मधुमाँ २ऽउदारदुपा शुनासममृतत्व मानट् । घृतस्यनामगुह्यंदस्तिजिह्रादेवानाममृतस्यनाभिः ॥१॥व्वयन्नामप्रब्रवामाघृतस्यास्मिन्येज्ञेधारयामानमोभिः । उपब्रह्माश्रृणवच्छस्यमानंचतुःश्रृंगोव्वमीङौरऽएतत् ॥२॥चत्वारिश्रृंगा त्रयोऽअस्यपादाद्वेशीर्षेसप्तहस्तासोऽअस्य ॥ त्रिधाबद्धोवृषभोरोरवीतिमहोदेवोमर्त्या २ आविवेश ॥३॥त्रिधाहितंपाणिभिर्गुह्यमानंगविदेवासोघृतमन्वविंदन् ॥ इन्द्रऽएकर्ठसूर्य्यऽएकंजजानव्वेनादेकर्ठस्वध यानिष्ठतक्षुः ॥४॥एताऽअर्षान्तित्समुद्राच्छतव्रजारिपुणानावचक्षे ॥ घृतस्यधाराऽअभिचाकशीमि हिरण्ययोव्वेतसोमध्यऽइवक्षिणोरीषमाणाः ॥६॥सिंधोरिवप्राध्वनेशूघनासोव्वातप्रमियःपतयन्ति यह्याः ॥ घृतस्यधाराऽअरुषोनवाजीकाष्ठाभिन्दन्नूर्म्मिभिःपिन्वमानः ॥७॥अभिप्रवन्तसमनेव्वयोषाःकल्याण्यःस्मयमानासोऽअग्रिम् ॥ घृतस्यधाराःसमिधोनसन्तताजुषाणोहर्यतिजातवेदाः ॥८॥कन्याऽइवव्वहतुमेतवाःऽ उऽअञ्ज्यञ्जानाऽअभ्चाकशीमि ॥ यत्रसोमःसूर्यतेयत्र यज्ञोघृतस्यधाराऽअभितत्पवंते ॥९॥अभ्यर्षतसुष्ठुतिङुव्यमाजिमस्मासुभद्राद्रविणानिधत्त ॥ इमंयज्ञन्नयतदेवतानोघृतस्य धारामधुमत्पवंते ॥१०॥धामन्तेव्विश्वंभुवनमधिश्रितमंतः समुद्रह्रद्यन्तरायुषि ॥ अपामनीकेशमिथेयऽआभृतस्तमस्याममधुमंतंतंऽऊर्म्मिम् ॥११॥पुनस्त्वादित्यारुद्रा व्वसवःसमिंधताम्पुनर्ब्रह्माणोव्व सुनीथयज्ञैः ॥ घृतेन त्वंतन्वंव्वर्धयस्वसत्याःसंतुयजमानस्यकामाः ॥१२॥सप्ततेऽअग्रेसमिधःसप्त जिह्राःसप्तऽऋपयःसप्तयामप्रियाणि । सप्तहोत्राःसप्तधात्वायजन्तिसप्तयोनीरापृणस्वाघृतेनस्वाहा ॥१३॥पूर्णादर्व्विपरापतसुपूर्णापुनरापत ॥ वस्त्रेव्विक्रीणा वहाऽइषमूर्जर्ठःशतक्रतोस्वाहा ॥१४॥इदमग्नये वैश्वानराय वसुरुद्रादित्येभ्यः शतक्रतवे सप्तवते अग्रये अभ्यश्व न मम ॥ इति पूर्णाहुतिं हुत्वा ॐ श्रद्धां मेधां यशः प्रज्ञां विद्या पुष्टिं श्रियं बलम् । तेज आयुष्यमारोग्यं देहि मे हव्यवाहन १ इति प्रार्थयेत् ॥ ततस्त्र्यायुषकरणम् ॥ स्त्रुवेण भस्मानीय दक्षिणाऽनामिकाग्रगृहीतभस्मना । ॐ त्र्यायुषं जम दग्रेरिति ललाटे ॐ कस्यपस्य त्र्यायुषमिति ग्रीवायाम् ॐ यद्देवेषु त्र्यायुषमिति दक्षिणांसे ॐ तन्नोऽअस्तु त्र्यायुषमिति ह्रदि । इति त्र्यायुषं कुर्यात् ॥ ततः संस्त्रप्राशनमाचमनं च कृत्वा ब्रह्मणे पूर्ण पात्रदाने कार्यम् । तद्यथा देशाकालौ पठित्वा । अद्य कृतैतदमुकव्रतोद्यापनहोमकर्मप्रतिष्ठार्थमिदं पूर्ण पात्रं सदक्षिणाकं प्रजापतिदैवत्ममुकगोत्रायामुकशर्मणि ब्राह्मणाय ब्रह्मणे दक्षिणात्वेन तुभ्यमहं संप्रददे । इति दद्यात् ॥ ॐ स्वस्तीतिप्रतिवचनम् ॥ ततो ब्रह्मग्रंथिविमोकः ॥ ततःप्रणीतोदकेन ॐ सुमित्रियानऽआपऽओषधयः संत्विति यजमानमूर्धानमभिषिंचेत् । ॐ दुर्मित्रियास्तस्मैसंतुयोस्मान्द्वेष्टि यंचव्वयंद्विष्मः इतीशान्यां प्रणीतां न्युब्जीं कुर्यात् ॥ ततः आस्तरणक्रमेण बर्हिरुत्थाप्याज्येनाभिवार्य्य ॥ ॐ देवागतुविदोगातुरव्वित्वागातुमितमनसस्पतऽमंदेवयज्ञर्ठस्वाहावातेधाअःस्वाहा १ इति मंत्रेण हस्तेनैव जुहुयात् ॥ एवं होमं समाप्य नवग्रहकलशोदकेन दूर्वाम्रपल्लवैरुदङ्मुख आचार्य ऋत्विजश्व सपत्नीकं यजमानं प्राङ्मुखमुपविष्टमभिर्षिचेयुः (अभिषेके पत्नी वा मतः) तत्र मंत्राः ॥ ॐ आपोहिष्ठामयोहुवस्तानऽऊर्ज्जेंदधातन ॥ महेरणायचक्षसे ॥१॥योवःशिवतमोरसस्तस्यभाजयतेहनः ॥ उशतीरिवमातरः ॥२॥तस्माअरङमामवोयस्यक्षयाय जिन्न्वथ । आपोजनयथाचनः ॥३॥ॐ त्रातारमिन्द्रमवितारमिन्द्रर्ठहवेहवेसुहवर्ठशूरमिन्द्रम् ॥ ह्रयामिशक्रम्पुरुहूतमिन्द्रर्ठस्वस्तिनोमघवाधात्विद्रः ॥४॥ॐ व्वरुणस्योतंभनमसि० ॥५॥ॐ भगप्प्रणेतर्भगसत्यधोमगेमान्धियमुदवाददन्नः ॥ भगप्रणोजनयगोभिरश्वैर्भगप्रनृभिर्न्नृवन्तःस्याम् ॥६॥इदमापः प्रवहतावद्यंचमलंचयत् ॥ यच्चाभिदुद्रोहानृतंयच्चशेपेऽभीरुणम् ॥ आपोमातस्मादेनसः पवमासश्वमुंचतु ॥७॥पुनंतुमादेवजनाः पुनन्तुमनसाधियः ॥ पुनन्तु विश्वाभूतानिजातवेदः पुनीहिमा ॥८॥आप्यायस्वसमेतुते विश्वथ सोमवृष्ण्यम् । भवावाज्यस्यसंग थे ॥९॥पयः पृथिव्याम्पयऽओषधीषुपयोदिव्यन्तरिक्षेपयोधाः ॥ पयस्वतीः प्रदिशः सन्तुमह्यम् ॥१०॥देवस्यत्वसवितुःप्रसवेश्विनोर्बाहुभ्यांपूष्णोहस्ताभ्याम् ॥११॥सरस्वत्यैवाचोयंतुंर्यत्रियेद धामिबृहस्पतयेष्ट्रासाज्येनाभिषिंचामि ॥१२॥देवस्यत्वासवितुः प्रसवेश्विनोर्बाहुभ्यांपूष्णोहस्ताभ्याम् । आश्विनोर्भैषज्येनतेजसेब्रह्यवर्चसाचाभिषिंचामिदेवस्यत्वासरस्वत्यैभैषज्येनवीर्य्यायान्नाद्या याभिषिंचा मीन्द्रस्येन्द्रियेणबलायाश्रियेयशसेभिषिंचामि ॥१३॥पालासं भवतितेन न ब्राह्मणोभिर्षिं चतिब्रह्मविपालाशोब्रह्मणैवैन मेतदभिषिंचति ॥१४॥सर्वेषांवाऽएषवेदाना रसोयत्सामसर्वेषामेनैव मेतद्वेदाना रसेनाभिषिंचति ॥१५॥यद्देवकल्पांजुहोतिप्राणवैकल्पाऽअमृतमुपवैप्राणऽअमृते नैवैनमेतदभिषिंचति ॥१६॥दीर्घायुत्वायबलायवर्चसेसुप्रजास्त्वायसहसाऽअथोजीवशरदःशतम् ॥१७॥द्यौः शांतिरंतरिक्षःर्ठशांतिः पृथिवीशांतिर्रापः शांतिरोषधयः शांतिर्वनस्पतयः शांति व्विंश्वेदेवाः शांतिर्ब्रह्मशांतिः सर्वर्ठशांतिः शांतिरेवशांतिः सामाशांतिरेधि ॥१८॥अथ पौराणिका मंत्राः । सुरास्त्वामभिषिचंतु ब्रह्मविष्णुमहेश्वराः ॥ वासुदेवो जगन्नास्तथा संकर्षणो विभुः १ प्रद्युम्नश्वानिरुद्धश्व भवंतु विजयाय ते ॥ आंखडलोग्निर्भगवान्यमो वै निऋतिस्तथा २ वरुणः पवनशैव धनाध्यक्षस्तथाशिवः । ब्रह्मणा सहिताः सर्वे दिक्पालाः पांतु ते सदा ३ कीर्त्तिर्ल क्ष्मीर्धृतिर्मेधा पुष्टिः श्रद्धा क्रिया मतिः । बुद्धिर्लज्जा वपुः शांतिस्तुष्टिः कांतिस्तु मातरः ४ एता स्तामभिषिंचंतु देवपत्न्यः समागताः ॥ आदित्यश्र्वंद्रमा भौमो बुधजीवसितार्कजाः ५ ग्रहास्त्वामभि षिचंतु राहुः केतुश्व तर्पिताः । देवदानवग्धर्वा यक्षराक्षसन्नगाः ६ ऋषयो मुनयोइ गावो देवमातर एव च । देवपत्न्यो द्रुमा नागा दैत्याश्वाप्सरसां गणाः७ अस्नाणि सर्वशस्नाणि राजानो वहनानि च । औषधानि च रत्नानि कालस्यावयवाश्व ये ८ सरितः सागराः शैलास्तीर्थानि जलरा नदाः । एते त्वाम्नभिषिचंतु सर्वकामार्थसिद्धये ९ आदित्या वसवो रुद्रा विश्वेदेवा मरुद्गणाः । अभिषिंचंतु त सर्वे धर्मकामार्थसिद्धये १० अमृताभिषेकोस्तु । एवभिषेकं कृत्वा अनंतरं सर्वोषधी रनुलिप्य । शुद्धोदकेन स्नान्त्वा । उभयोः स्नानवस्त्रत्यागः ॥ शुल्कमाल्यांबरधरो धृतमंगलतिलकःसपत्नीको यजमानः स्वासने उपविश्य । आचम्य । आज्ये मुखवलोक्य । ब्राह्मणाय छायापात्रदानं कुर्यात् ॥ अथाचार्यादिपूजनम् ॥ यजमानो देशकालौ संकीर्त्य कृतस्त्यामुकव्रतोद्यापन कर्मणः सांगतासिद्धयर्थमाचार्यदीन् वस्त्रतांबूलदक्षिणाभिः पूजयिष्ये । इति संकल्प विद्युक्त प्रकारेण आचार्यादीन् गंधादिभिः संपूज्य दक्षिणादिभिः प्रतोष्य आचार्याय श्वेतां सवत्सां सालं कारां गां दद्यात् । तद्भावे गोनिष्क्रयरजतद्रव्य्म वा दद्यात् ॥ ततो ऋत्विगादिभ्यो यथाशक्ति दक्षिणां दत्त्वा अन्येभ्यो ब्राह्मणेभ्यो यथाशक्ति भूयसीं दक्षिणां दत्त्वा तेषामाशिषो गृह्रीयात् ॥ ते च ॐ स्वस्तिनऽइन्द्रोवृद्धश्रवाः स्वस्तिनः पृपा विश्ववेदाः ॥ स्वस्तिनस्तार्क्ष्योऽअरिष्टनेमिः स्वस्ति नोबृहस्पतिर्दधातु ॥१॥ श्रीर्वर्च्चस्वमायुष्यमारोग्यमाविधात्पवमानंमहीयते ॥ धान्यंधनंपशुबहु पुत्रलाभंशतसंवत्सरंदीर्घमायुः ॥२॥पुनस्त्वादित्यारुद्रावसवः समिंधताम्पुनर्ब्रह्माणोवसुनीथ यज्ञैः ॥ घृतेनत्वन्तवन्वर्द्धययस्वसत्याः सन्तुयजमानस्यकामाः ॥३॥मंत्रार्थाः सफलाः संतुः पूर्णाः सन्तु मनोरथाः । शत्रूणां बुद्धिनाशोस्तु मित्राणमुदयस्तव ॥४॥ N/A References : N/A Last Updated : June 01, 2011 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP