अथ अनंगत्रयोदशीव्रतं तदुद्यापनं च लिख्यते ॥ तच्च मार्गशीर्षशुल्कत्रयोदशी मारभ्य प्रतिमांस शुल्कत्रयोदश्यां वर्षपर्यतं कार्यम् ॥ मार्गशीर्षशुल्कत्रयोदश्यां प्रातरश्वत्थकाष्ठेन
दंतधावनं कृत्वा नदीतडागादौ स्नात्वा संध्यादिनित्यकर्म संपाद्य स्वासने प्राङमुख उपविश्य आचम्य प्राणानायम्य । देशकालौ संकीर्त्य ममात्मनः इह जन्मनि जन्मांतरे च कृत समस्तपापक्षयार्थं श्रुतिस्मृतिपुराणोक्तफलप्राप्त्यर्थं दुर्भगत्ववंत्वमृतवंध्यात्वादिदोषनिरसन पूर्वकं तत्तन्मासकल्पोक्तफलप्राप्तिद्वारा श्रीपरमेश्वरप्रीत्यर्थ च अनंगत्रयोदशीव्रतं करिष्ये इति संकल्प्य । उक्तविधिना पीठे लिंगरुपिणमनंगं प्रतिष्ठाप्य ॐ अनंगाय नमः इति मंत्रेणावाह्य पृथ क्पृथक् पंचामृतैर्गधोदकेन च संस्नाप्य नानगंधैर्मरुबकपुष्पैर्धूपदीपफेणिकानैवेद्यादिभिश्च षोडशोपचारैः संपूज्य । नारिंगफलेनार्घ्यं दद्यात् तत्र मंत्रः । स्वर्गे चैव तु पाताले मर्त्यलोके तथैव च ॥ सर्व व्यापिन्ननंग त्वं गृहाणार्घ्यं नमोस्तु ते ॥१॥
इत्यर्घ्यं दत्त्वा प्रार्थयेत् । नमोस्त्वनंगदेवाय सर्व संघनिवासिने । हदयस्थाय नित्याय सूक्ष्माय परमेष्ठिने ॥१॥
इति प्रार्थ्य मधुप्राशनं कृत्वा रात्रौ जागरणं च कृत्वा प्रातर्ब्राह्मणसुवासिनीभ्यो भोजनं दत्त्वा स्वयं भुंजीत । एवं सर्वमासेषु त्रयोदश्यामु पोषणं पूजाविधानं च ज्ञेयम् (दंतकाष्ठपुष्पफलार्घ्यनैवेद्यादिषु च विशेषः ) तद्यथा । पोषशुल्कत्रयो दश्याम् औदुंबरकाष्ठदंतधावनम् । जातीपुष्पैः पूजनम् । दाडिमेनार्घ्यम् । अशोकवर्तिकानैवेद्यम् । ॐ नाट्येश्वराय नम इतिं मंत्रेण पूजा । नाट्येश्वराय शर्वाय ईश्वराय नमोनमः । नमस्ते भुवनेशाय गृहाणार्घ्यं नमोस्तु ते ॥१॥
इत्यर्घ्यदानमंत्रः । रात्रौ चंदनं प्राश्य स्वपेत् ॥२॥
माघे न्यग्रोध दंतकाष्ठम् । कुंदपुष्पाणि । बीजपूरेणार्घ्यम् । शर्करा नैवेद्यम् । योगेश्वरो देवता । ॐ योगेश्वराय देवाय योगजंबूनिवासिने । गृहाणार्घ्यं मया दत्तं योगेश्वर नमोस्तु ते ॥१॥
इत्यर्घ्यमंत्रः ॥ ततो मौक्तिकोदकं प्राश्य रात्रौ स्वपेत् ॥३॥
फाल्गुने बादरं दंतकाष्ठम् । जपापुष्पाणि । कंकोलेनार्घ्यम् । अपूपनैवेद्यम् । वीरेशोनाम देवता । वीरेश्वर वीरभद्र उमाकान्तं सुरेश्वर । हिममध्यनिवासिंस्त्वं गृहाणार्घ्यं महेश्वर ॥१॥
इत्यर्घ्यम् । रात्रौ कंकोलं प्राशयेत् ॥४॥
चैत्रे मल्लिकादंतकाष्ठम् । दमनपुष्पम् । द्राक्षयार्घ्यम् । वटकाः नैवेद्यम् । विश्वरुपदेवता । नमस्ते विश्वरुपाय स्वरुपाय महात्मने । गृहाणार्घ्यं मया दत्तं विश्वरुप नमोस्तु ते ॥१॥
इत्यर्घ्यं दत्त्वा कर्पूरं प्राशयेत् ॥५॥
वैशाखे अपामार्गं दंतकाष्ठम् । मल्लिकापुष्पाणि । खजूरेणार्घ्यम् । नैवेद्ये सक्तवः । महारुपदेवता । महारुपाय नमस्ते सर्वविज्ञानरुपिणे । गृहाणार्घ्यं मया दत्तं महारुप नमोस्तु ते ॥१॥
इत्यर्घ्यं दत्त्वा रात्रौ जातीफलं प्राशयेत् ॥६॥
ज्येष्ठे निर्गुंडीदंतधावनम् । बकुलपुष्पम् । श्रीफले नार्घ्यम् । नैवेद्ये मंडकाः । प्रद्युम्नदेवता । नमस्ते पशुपतये प्रद्युम्न भुवनेश्वर । गृहाणार्घ्यं मया दत्तं प्रद्युम्न परमेश्वर ॥१॥
इत्यर्घ्यम् । रात्रौ लवंगप्राशनम् ॥७॥
आषाढे नारिंगकाष्ठेन दंतधावनम् । कदंबपुष्पम् । नारिकेलेनार्घ्यम् । नैवेद्ये दधिभक्तम् । उमापतिर्देवता । उमापते महाबाहो कामदाहक ते नमः । गृहाणार्घ्यं मया दत्तं चन्द्रमौले नमोस्तु ते ॥१॥
इत्यर्घ्यमंत्रः । रात्रौ तिलोदकप्राशनम् ॥८॥
श्रावणे कारंजं दंतकाष्ठम् । पद्मपुष्पम् । रंभाफलेनार्घ्यम् । नैवेद्ये पायसम् ॥ शूलपाणिर्देवता । नमस्ते गिरिजानाथ नमस्ते भक्तिभावन । गृहाणार्घ्यं मया दत्तं शूलपाणे नमोस्तु ते ॥१॥
इत्यर्घ्यमंत्रः । रात्रौ गंधोदकप्राशनम् ॥९॥
भाद्रपदे कंकोलकोष्ठन दंतधावनम् । चंपकपुष्पाणि । नैवेद्ये घृतपूरिकाः ॥ पूगीफलेनार्घ्यम् । त्रिदशेशदेवता । त्रिदशेशाय देवाय सद्योजाताय वै नमः । गृहाणार्घ्य मया दत्तं सद्योजात नमोस्तु ते ॥१॥
इत्यर्घ्य दत्त्वा रात्रौ अगरुं प्राशयेत् ॥१०॥
आश्विने कंकतीकाष्ठेन दंतधावनम् । करवीरपुष्पम् । कर्कटिकाफले नार्घ्यम् । नैवेद्ये शुभ्रमण्डलः । त्रिदशपतिर्नाम देवता । त्रिदशाधिप देवेश उमाकान्त महेश्वर । त्रिधारुपमयस्त्वं हि अर्घोयं प्रतिगृह्यताम् ॥१॥
इत्यर्घ्यमंत्रः । रात्रौ कांचनं तोयं प्राशयेत् ॥११॥
कार्तिकशुल्कत्रयोदश्यां कदंबकाष्ठेन दंतधावनम् । रक्तोत्पलैः पूजनम् । कूष्मांडफलेनार्घ्यम् । पूरिका नैवेद्यम् । जगदीश्वरो नाम देवता । नमस्ते जगदीशाय तापिने शूलपाणये । गृहाणार्घ्यं महेशान जगदीश नमोस्तु ते ॥१॥
इति मंत्रेणार्घ्यम् । ततो रात्रौ मदनफलं प्राश्य जागरं कुर्यात् ॥१२॥
एवं सर्वत्र प्रदोषे पूजनं भक्षणं च ज्ञेयम् । ततो वत्सरांते उद्यापनं कार्यम् । तद्यथा । देशकालौ संकीर्त्य मम समस्तपापक्षयपूर्वकं मार्गशीर्षादितत्तन्मासकल्योफलप्राप्तिद्वारा श्रीमदर्धनारीश्वरमहेशप्रीत्यर्शम् । ततः आचार्यो लिंगताभद्रे ब्रह्मदिदेवान्संपूज्य मध्यस्थे ताम्रकलशे कर्षसुवर्णचितमर्द्धनारीश्वरं महेशं संस्थाप्य त्र्यम्बकमंत्रेणावाह्य वस्त्रयुग्मेन संवेष्टय षोडशोपचारैः संपूज्य अर्घ्यं दत्त्वा प्रार्थयेत् । ततः प्रातरग्निं प्रतिष्ठाप्य आज्यभागांते घृताक्तपायसद्रव्येण त्र्यम्बकमंत्रणाष्टोत्तरशतं हुत्वा ब्रह्मादिलिंगतोभद्रदेवताभ्यश्वैकैकयाज्याहुत्या होमं कुर्यात् । ततो होमांते छत्रोपानत्कमंडलुमुद्रिकासनवस्त्राभूषणादिद्रव्यैराचार्य संपुज्य सवत्सां पयस्विनीं गां सोपस्करां शय्यां चाचार्याय निवेद्य तस्य पादौ मूर्ध्नि समारोप्य प्रणिपत्य प्रार्थयेत् । भगवंस्त्वत्प्रसादेन व्रतसं पूर्णता मम । एवमस्त्विति संव्रूयात्तव तुष्टोस्तु शंकरः ॥१॥
इति प्रार्थ्य सोपस्करं पीठं च निवेद्य द्वादशाष्टौ वा दंपतीन् ब्राह्मणान् भोजयित्वा स्वयं भुंजीत् ॥ एतह्रतं मम श्रेष्ठं गह्यदूगुह्यतरं परम् । राज्यमर्थान्सुतान् सिद्धिमवैधव्यं प्रयच्छति ॥१॥
इति भविष्योत्तरपुराणोक्तमनंगत्रयो दशीव्रतोद्यापनं समाप्तम् ॥ इति पंडितगौडश्रीचतुर्थीलालविरचिते व्रतोद्यापनप्रकाशे त्रयोदशी व्रतोद्यापनानि ॥ ॥