प्रथमः पटलः - गुरूमहिमा अवमहिमा च २
आनंदभैरव आणि आनंदभैरवी यांच्यातील संवाद म्हणजेच रूद्रयामल, यात कुण्डलिनीला महाशक्ति मानले आहे. हा तंत्रशास्त्रातील अद्भूत ग्रंथ आहे.
सौदामिनीतेजसो वा सहस्त्रवर्षकं यदा ।
प्रपश्यति महाज्ञानी एकचन्द्रं सह्स्त्रकम् ॥२११॥
कोटिवर्षशतेनापि यत्फलं लभते नरः ।
एकक्षणमङ्घ्ररजो ध्यात्वा तत्फलमश्नुते ॥२१२॥
विचेद्यादि सर्वत्र केवलानन्दवर्धनम् ।
कामरुपं महापीठं त्रिकोणाधारतैजसम् ॥२१३॥
जलबुद्बुद्शब्दान्तमनन्तमङुलात्मकम ।
स भवेन्मम दासेन्द्रो गणेशगुहवत्प्रियः ॥२१४॥
कंकालाख्या - साट्टहासा - विकटाक्षोपपीठकम् ।
विचरेत् साधकश्रेष्ठो मत्पादाब्जं यदीच्छति ॥२१५॥
ज्वालामुखीमहापीठं मम प्रियमतर्कवित् ।
यो भ्रमेन्मम तुष्टयर्थं स योगी भवति धुवम् ॥२१६॥
भावद्वयादिनिकरं ज्वालामुख्यादिपीठकम् ।
भ्रमन्ति ये साधकेन्द्रास्ते सिद्धा नात्र संशयः ॥२१७॥
भावात् परतरं नास्ति त्रैलोक्यसिद्धिमिच्छाताम् ।
भावो हि परमं ज्ञानं ब्रह्मज्ञानमनुत्तमम् ॥२१८॥
कोटिकन्याप्रदानेन वाराणस्यां शताटनैः ।
किं कुरुक्षेत्रगमने यदि भावो न लभ्यते ॥२१९॥
गयायां श्राद्धदानेन नानापीठाटनेन किम् ।
नानाहोमैः क्रियाभिः किं यदि भावो न लभ्यते ॥२२०॥
भावेन ज्ञानमुत्पन्नं ज्ञानान्मोक्षमवाप्नुयात् ।
आत्मनो मनसा देव्यागुरोरीश्वरमुच्यते ॥२२१॥
ध्यानं संयोजन प्रोक्तं मोक्षमात्ममनोलयम् ।
गुरोः प्रसादमात्रेण शक्तितोषो महान् भवेत् ॥२२२॥
शक्तिसन्तोषमात्रेण मोक्षमाप्नोति साधकः ।
गुरुमूलं जगत्सर्वं गुरुमूलं परन्तपः ॥२२३॥
गुरोः प्रसादमात्रेण मोक्षमाप्नोति सद्वशी ।
न लङ्घयेद् गुरोराज्ञामुत्तरं न वदेत् तथा ॥२२४॥
दिवारात्रौ गुरोराज्ञां दासवत् परिपालयेत् ।
उक्तानुक्तेषु कार्येषु नोपेक्षां कारयेद् बुधः ॥२२५॥
गच्छतः प्रयतो गच्छेद् गुरोराज्ञां न लङ्वयेत् ।
न श्रृणोति गुरोर्वाक्यं श्रृणुयाद् वा पराङ्मुखः ॥२२६॥
अहितं वा हितं वापि रौरवं नरकं व्रजेत् ।
आज्ञाभङु गुरोर्दैवाद् यः करोति विबुद्धिमान् ॥२२७॥
प्रयाति नरकं घोरं शूकरत्वमवाप्नुयात् ।
आज्ञाभङुं तथा निन्दां गुरोरप्रियवर्तनम् ॥२२८॥
गुरुरोहञ्च यः कुर्यात तत्संसर्गं न कारयेत् ।
गुरुद्रव्याभिलाषी च गुरुस्तीगमनानि च ॥२२९॥
पातकञ्च भवेत् तस्य प्रायश्चित्तं न कारयेत् ।
गुरुं दुष्कृत्य रिपुवन्निर्हरेत् परिवादतः ॥२३०॥
अरण्ये निर्जन देशे स भवेद् ब्रह्मराक्षसः ।
पादुकाम आसनं वस्त्रं शयनं भूषणानि च ॥२३१॥
दृष्टवा गुरुं नमस्कृत्य आत्मभोगं न कारयेत् ।
सदा च पादुकामन्त्रं जिहवाग्रे यस्य वर्तते ॥२३२॥
अनायासेन धर्मार्थकाममोक्षं लभेन्नरः ।
श्रीगुरोश्चरणाम्भोज ध्यायेच्चैव सदैव तम् ॥२३३॥
भक्तये मुक्तये वीरं नान्यभक्तं ततोऽधिकम् ।
एकग्रामे स्थितः शिष्यो गत्वा तत्सन्निधिं सदा ॥२३४॥
एकदेशे स्थितः शिष्यो गत्वा तत्सन्निधिं सदा ।
सप्तयोजविस्तीर्णं मासैकं प्रणमेद् गुरुम् ॥२३५॥
श्रीगुरोश्चरणाम्भोज यस्यां दिशि विराजते ।
तस्यां दिशि नमस्कुर्यात् कायेन मनसा धिया ॥२३६॥
विद्याङुमासनं मन्त्रं मुद्रां तन्त्रादिक प्रभो ।
सर्वं गुरुमुखाल्लब्ध्वा सफलं नान्यथा भवेत् ॥२३७॥
कम्बले कोमले वापि प्रासादे संस्थिते तथा ।
दीर्घकाष्ठेऽथवा पृष्ठे गुरुञ्चैकासनं त्यजेत् ॥२३८॥
श्रीगुरोः पादुकामन्त्रं मूलमन्त्रं स्वपादुकाम् ।
शिष्याय नैव देवेश प्रवेदद् यस्य कस्यचित् ॥२३९॥
यद् यदात्महितं वस्तु तद्द्रव्यं नैव वञ्चयेत् ।
गुरोर्लब्ध्वा एकवर्णं तस्य तस्यापि सुव्रत ॥२४०॥
भक्ष्यं वित्तानुसोरण गुरुमुदिदश्य यत्कृतम् ।
स्वल्पैरपि महत्तुल्यं भुवनाद्यं दरिद्रताम् ॥२४१॥
सर्वस्वमपि यो दद्याद् गुरुभक्तिविवर्जितः ।
नरकान्तवाप्नोति भक्तिरेव हि कारणम् ॥२४२॥
गुरुभक्त्या च शुक्रत्वभक्त्या शूकरो भवेत् ।
गुरुभक्तः परं नास्ति भक्तिशास्त्रेषु सर्वतः ॥२४३॥
गुरुपूजां विना नाथ कोटिपुण्यं वृथा भवेत् ॥२४४॥
॥इति श्रीरुद्रयामले उत्तरतन्त्रे महातन्त्रोद्दीपने सर्वविद्यानुष्ठाने सिद्धिमन्त्रप्रकरणे भैरवीभैरवसंवादे प्रथमः पटलः ॥१॥
N/A
References : N/A
Last Updated : April 06, 2011
TOP