प्रथमः पटलः - मनुष्यजन्मस्य दुर्लभत्वम्

आनंदभैरव आणि आनंदभैरवी यांच्यातील संवाद म्हणजेच रूद्रयामल, यात कुण्डलिनीला महाशक्ति मानले आहे. हा तंत्रशास्त्रातील अद्‍भूत ग्रंथ आहे.


मानुषं सफलं जन्म सर्वशास्त्रेषु गोचरम् ।
चतुरशीतिलक्षेषु शरीरेषु शरीरिणाम् ॥१५४॥

न मानुष्यं विनान्यत्र तत्त्वज्ञानं तु विद्यते ।
कदाचिल्लभ्यते जन्म मानुष्यं पुण्यसञ्चयात् ॥१५५॥

सोपानीभूतमोक्षस्य मानुष्यं जन्म दर्लभम् ।
मानुषेषु च शंसन्ति सिद्धयः स्युः प्रधानिकाः ॥१५६॥

अणिमदिगुणोपेतास्माद् देवो नरोत्तमः ।
विना देहेन कस्यापि पुरुषार्थो न लभ्यते ॥१५७॥

तस्माच्छरीरं संरक्ष्य नित्यं ज्ञानं प्रसाधय ।
मानुषं ज्ञाननिकरं ज्ञानात्मानं परं विदुः ॥१५८॥

मुनयो मौनशीलाश्च मुनितन्त्रदिगोचरम् ।
मानुषः सर्वगामी च नित्यस्थाननिराकुलः ॥१५९॥

(मित्र)मन्त्रजापं योगजापं कृत्वा पापनिवारणम् ।
परं मोक्षमवाप्नोति मानुषो नात्र संशयः ॥१६०॥

मयोक्तनि च तन्त्राणि मद्भक्ता ये पठन्ति च ।
पठित्वा कुरुते कर्म कृत्वा मत्सन्निधिं व्रजेत् ॥१६१॥

मदुक्तानि च शास्त्राणि न ज्ञात्वा साधको यदि ।
अन्यशास्त्राणि सम्बोध्य कोटिवर्षेण सिद्ध्यति ॥१६२॥

शुक्तौ रजतविभ्रान्तिर्यथा भवति भैरव ।
तथान्यदर्शनेभ्यश्च भुक्ति मुक्तिञ्च काड्‌क्षति ॥१६३॥

यत्र भोगस्तत्र मोक्षो द्वयं कुत्र न सिद्ध्यति ।
मम श्रीपादुकाम्भोजे सेवको मोक्षभोगगः ॥१६४॥

चरन्ति शूकराद्याश्च व्रतिनस्ते भवन्ति किम् ।
आकाशे पक्षिणः सर्वे भूतप्रेतादयोऽपि च ॥१८१॥

चरन्ति रात्रिगाः सर्वे खेचराः किं महेश्वराः ।
आजन्ममरणान्तञ्च गङुदितटनीस्थिताः ॥१८२॥

मण्डूकमत्स्यप्रमुखा व्रतिनस्ते भवन्ति किम् ।
एतज्ज्ञाननिविष्टाङा यदि गच्छन्ति पण्डिताः ॥१८३॥

तथापि कर्मदोषेण नरकस्था भवन्ति हि ।
कौटिल्यालससंसर्गवर्जिता ये भवन्ति हि ॥१८४॥

प्राप्नुवन्ति मम स्थानं मम भक्तिपरायणाः ।
ऊद्र्ध्वं व्रजन्ति भूतानि शरीरमतिवाहिकम् ॥१८५॥

निजदेहाभिशापेन नानारुपो भवेन्नरः ।
शरीरजैः कर्मदोषैर्याति स्थावरतां नरः ॥१८६॥

इह दुश्चरितैः केचित् केचित् पूर्वकृतैस्तथा ।
प्राप्नुवन्ति दुरात्मानो नरा रुपविपर्ययम् ॥१८७॥


बाह्यद्रष्टा प्रगृहणाति आकाशस्थिततेजसम् ।
ब्रह्मण्डज्ञानद्रष्टा च देशाण्डस्थं प्रपश्यति ॥१६५॥

घटप्रत्यक्षसमगे आलोको व्यञ्जको यथा ।
बिना घटत्त्वयोगेन न प्रत्यक्षो यथा घटः ॥१६६॥

इतरादू भिद्यमानेऽपि न भेदमुपगच्छति ।
पुरुषे नैव भेदोऽस्ति विना शक्तिं कथञ्चन ॥१६७॥

शक्तिहीनो यथा देही निर्बलो योगविवर्जितः ।
ज्ञानहीनस्तथात्मानं न पश्यति पदद्वयम् ॥१६८॥

स्वभावं नाधिगच्छन्ति संसारज्ञानमोहिताः ।
अभिपश्यति सश्लोको यद्भावं परिभाव्यते ॥१६९॥

ईश्वरस्यापि दूतस्य यमराजस्य बन्धनम् ।
निधनं चानुगच्छन्ति दृष्ट्‌वा च तनुजं धनम् ॥१७०॥

लोको मोहसुरां पीत्त्वा न वेत्ति हितमात्मनः ।
सम्पदः स्वप्नमेव स्याद् यौवनं कुसुमोपमम् ॥१७१॥

तडिच्चपलमायुष्यं कस्याप्यज्ञानतो धुतिः ।
शतं जीवति मर्त्यश्च निद्रा स्यादर्धहारिणी ॥१७२॥

अर्धं हरति कामिन्याः शक्तिअबुद्धिप्रतापिनी ।
असद्‍वृत्तिश्च मूढानां हन्त्यायुषमहर्निशम् ॥१७३॥

बाल्यरोगजरादुःखैः सर्वं तदपि निष्फलम् ।
स्त्रीपुत्तपितृमात्रादिसम्बन्धः केन हेतुना ॥१७४॥

दुःखमूलो हि संसारः स यस्यास्ति स दुःखितः ।
अस्य त्यागः कृतो येन स सुखी नात्र संशयः ॥१७५॥

सुखदुःखपरित्यागी कर्मणा किं न लभ्यते ।
लोकाचारभयार्थं हि यः करोति क्रियाविधिम् ॥१७६॥

ब्रह्मज्ञाताहमखिले ये जपन्ति निरादराः ।
सांसरिकसुखासक्तं ब्रह्मज्ञोस्मीति वादिनम् ॥१७७॥

त्यजेत् तं सततं धीरश्चाण्डालमिव दूरतः ।
गृहारण्यसमालोके गतव्रीडा दिगम्बराः ॥१७८॥

चरन्ति गर्दभाद्याश्च व्रतिनस्ते भवन्ति किम् ।
तृणपर्णोदकाहाराः सततं वनवासिनः ॥१७९॥

हरिणादिमृगाश्चैव तापासास्ते भवन्ति किम् ।
शीतवातातपसहा भक्ष्याभक्ष्यसमा अपि ॥१८०॥

N/A

References : N/A
Last Updated : April 06, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP