संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|रूद्रयामल| उत्तरतंत्रम्|प्रथमः पटलः| विविध साधनानि ४ प्रथमः पटलः विविध साधनानि १ विविध साधनानि २ विविध साधनानि ३ विविध साधनानि ४ विविध साधनानि ५ विविध साधनानि ६ विविध साधनानि ७ विविध साधनानि ८ मनुष्यजन्मस्य दुर्लभत्वम् गुरूमहिमा अवमहिमा च १ गुरूमहिमा अवमहिमा च २ प्रथमः पटलः - विविध साधनानि ४ आनंदभैरव आणि आनंदभैरवी यांच्यातील संवाद म्हणजेच रूद्रयामल, यात कुण्डलिनीला महाशक्ति मानले आहे. हा तंत्रशास्त्रातील अद्भूत ग्रंथ आहे. Tags : rudrayamaltantra shastraतंत्र शास्त्ररूद्रयामल विविध साधनानि ४ Translation - भाषांतर हरिद्रागननाथस्य वरदेश्वरमालिनः ।ऊर्ध्वकेशस्य धूम्रस्य जटिलस्यापि साधनम् ॥६१॥आनन्दभैरवस्यापि बाणनाथस्य साधनम् ।कंरीन्द्रस्य शुभा~उस्य हिल्लोलमर्दकस्य च ॥६२॥पुष्पनाथेश्वरस्यापि वृषनाथस्य साधनम् ॥अष्टमूर्तेः कालमूर्त्तेश्चन्द्रशेखरसाधनम् ॥६३॥क्रमुकस्यापि घोरस्य कुबेराराधितस्य च ।त्रिपुरान्तकमन्त्रस्य कमलाक्षस्य साधनम् ॥६४॥इत्यादिसिद्धमन्त्राणाम मन्त्रार्थ विविधं मुदा ।उदितं तद्विशेषेण सुविस्तार्य श्रृणुष्व तत्॥६५॥इन्द्रदिदेवता सर्वा येन सिद्धयन्ति भूतले ।तत्प्रकार महादेव सावधानोऽवधारय ॥६६॥उपविद्यासाधनञ्च मन्त्राणि विविधानि च ।नानाकर्माणि धर्माणि षट्कर्मसाधनानि च ॥६७॥श्रीरामसाधनं यक्षसाधनं योगसाधनम् ।सर्वविद्यासाधनञ्च राजज्वालादिसाधनम् ॥६८॥मन्त्रसिद्धिप्रकारञ्च हनुमत्साधनादिकम् ।विषज्वालासाधनञ्च पाताललोकसाधनम् ॥६९॥भूतलिपिप्रकारञ्च तत्तत्साधनमेव च ।नवकन्यासाधनञ्च अष्टसिद्धिप्रकारकम् ॥७०॥आसनानि च अङानि साधनानि बहुनि च ।कात्यायनीसाधनानि चेटीसाधनमेव च ॥७१॥कृष्णमार्जारसिद्धिश्च खड्गसिद्धिस्ततः परम् ।पादुकाजङ्कसिद्धिश्च निजजिह्रादिसाधनम् ॥७२॥संस्कारगुटिकाकासिद्धिः खेचरीसिद्धिरेव च ।भूप्रवेशप्रकारत्व्म नित्यतुङुदिसाधनम् ॥७३॥स्तम्भनं दारुणं पश्चादाकर्षणं मुनेरपि ।नानाविधानि देवेश औषधादीनि यानि च ॥७४॥हरितालदिसिद्धिश्च रसपारदसाधनम् ।नानारससमुद्भूतं रसभस्मादिसाधनम् ॥७५॥वद्धस्य तरुणाकारं साधनं परमाद्भुतम् ।वैजयन्तीसाधनञ्च चरित्रं वासकस्य च ॥७६॥शिवचरित्रमश्वस्य चरित्रं वायसस्य च ।कुमारीणां प्रकारं तु वज्राणां वारणं तथा ॥७७॥सम्पत्तिसाधनं देशसाधनं कामसाधनम् ।गुरुपूजाविधानञ्च गुरुसन्तोषसाधनम् ॥७८॥निजदेवाराधनञ्च निजसाधनमेव च ।वारुणीपौष्टिकीगौडीकैतकीमाध्विसाधनम् ॥७९॥स्वदेहगमनं स्वर्गे मर्त्ये मर्तैश्च दुर्लभम् ।शरीरवर्धनञ्चैव कृष्णभावस्य साधनम् ॥८०॥ N/A References : N/A Last Updated : April 06, 2011 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP