संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|रूद्रयामल| उत्तरतंत्रम्|प्रथमः पटलः| विविध साधनानि ३ प्रथमः पटलः विविध साधनानि १ विविध साधनानि २ विविध साधनानि ३ विविध साधनानि ४ विविध साधनानि ५ विविध साधनानि ६ विविध साधनानि ७ विविध साधनानि ८ मनुष्यजन्मस्य दुर्लभत्वम् गुरूमहिमा अवमहिमा च १ गुरूमहिमा अवमहिमा च २ प्रथमः पटलः - विविध साधनानि ३ आनंदभैरव आणि आनंदभैरवी यांच्यातील संवाद म्हणजेच रूद्रयामल, यात कुण्डलिनीला महाशक्ति मानले आहे. हा तंत्रशास्त्रातील अद्भूत ग्रंथ आहे. Tags : rudrayamaltantra shastraतंत्र शास्त्ररूद्रयामल विविध साधनानि ३ Translation - भाषांतर रजनीराजतीघोनासाधनं तालसाधनम् ।पादुकासाधनं चित्तासाधनं रविसाधनम् ॥४१॥मुनिनाथेश्वरीशान्तिवल्लभसाधनं तथा ।मदिरासाधनं वीरभद्रासाधनमेव हि ॥४२॥मुण्डालीकालिनीदैत्यदंशिनीसाधनं ततः ।प्रविष्टवर्णालघिमामीनादिसाधनं महत्॥४३॥फेत्कारीसाधन भल्लातकीसाधनमद्भुतम् ।उड्डीयानेश्वरीपूर्णागिरिजासाधनं तथा ॥४४॥सौकरी राजवशिनीदीर्घाजङ्कादिसाधनम् ।अयोध्यापूजितादेवीद्राविणीसाधनाद्भुतम् ॥४५॥ज्वालामुखीसाधनञ्च कृष्णाजिहवादिसाधनम् ।पञ्चवकप्रियविद्यानन्तविद्यादिसाधनम् ॥४६॥श्रीविद्याभुवनेशानीसाधनं कायसाधनम् ।रक्तमालामहाचण्डीमहाज्वालादिसाधनम् ॥४७॥प्रक्षिप्ता मन्त्रिकाकामपूजिताभक्तिसाधनम् ।श्वासस्थावायवीप्राप्तालेलिहानदिसाधनम् ॥४८॥भैरवीलसितापृथ्वीवाटुकीसाधनं तथा ।अगम्या - आकुलीमौलीन्दाञ्जनमन्त्रसाधनम् ॥४९॥कुलावतीकुलक्षिप्तारतिचीनादिसाधनम् ।शिवाक्रोडादितरुणीनायिकामन्त्रसाधनम् ॥५०॥साधनं शैलवासिन्या अकस्मात्सिद्धिवर्धनम् ।मन्त्रयन्त्रस्वतन्त्रदिपूज्यमानाः परात्पराः ॥५१॥एताः सर्वाः कलियुगे कालिका हरकोमलाः ।मन्त्राद्या येन सिद्धयन्ति सत्यं सत्यं न संशयः ॥५२॥महाकाल शिवानन्द परमानन्दपारग ।भक्तानमनुरागेण विद्यारत्नं पुनः श्रृणु ॥५३॥आदौ वैष्णवदेवस्य मन्त्राणाम नित्यसाधनम् ।ततस्ते मङुलं मन्त्रसाधनं परमादुभुतम् ॥५४॥अकस्माद्विहिता सिद्धिर्येन सिद्धयाति भूतले ।बालभैरवयोगेन्द्रसाधनं शिवसाधनम् ॥५५॥महाकालसाधनञ्च तथा रामेश्वरवस्य च ।अघोरमूर्ते रमणासाधनं श्रृणु यत्नतः ॥५६॥क्रोधरजभूतराजएकचक्रादिसाधनम् ।गिरिन्द्रसाधनं पश्चात्कुलनाथस्य साधनम् ॥५७॥बटुकेशादिश्रीकण्ठेशादिसाधनमेव च ।मृत्युञ्जयस्य रौद्रस्य कलान्तकहरस्य च ॥५८॥उन्मत्तभैरवस्यापि तथा पञ्चास्यकस्य च ।कैलासेशस्य शम्भोश्च तथा शूलिन एव च ॥५९॥भार्गवेशस्य सर्वस्य महाकालस्य साधनम् ।सुरान्तकस्य पूर्णस्य तथा देवस्य शङ्कर ॥६०॥ N/A References : N/A Last Updated : April 06, 2011 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP