प्रथमः पटलः - गुरूमहिमा अवमहिमा च १
आनंदभैरव आणि आनंदभैरवी यांच्यातील संवाद म्हणजेच रूद्रयामल, यात कुण्डलिनीला महाशक्ति मानले आहे. हा तंत्रशास्त्रातील अद्भूत ग्रंथ आहे.
गुरुपादविहीना ये ते नश्यन्ति ममाज्ञया ।
गुरुर्मूलं हि मन्त्राणा गुरुर्मूलं परन्तपः ॥१८८॥
गुरोः प्रसादमात्रेण सिद्धिरेव न संशयः ।
अहं गुरुरहं देवो मन्त्रार्थोऽस्मि न संशयः ॥१८९॥
भेदका नरकं यान्ति नानाशास्त्रार्थवर्जिताः ।
सर्वासामेव विद्यानां दीक्षा मूलं यथा प्रभो ॥१९०॥
गुरुमूलस्वतन्त्रस्य गुरुरात्मा न संशयः ।
आत्मैव ह्यात्मनो बन्धुरात्मैव रिपुरात्मनः ॥१९१॥
आत्मना क्रियते कर्म भावसिद्धिस्तदा भवेत् ।
हीनाङी कपटी रोगी बहवाशी शीलवर्जित् ॥१९२॥
मय्युपासनमास्थाय उपविद्यां सदाभ्यसेत् ।
धनं धान्यं सुतं वित्तं राज्यं ब्राह्मणभोजनम् ॥१९३॥
शुभार्थं सम्प्रयोक्तव्यं नान्यचिन्ता वृथाफलम् ।
नित्यश्राद्धरतो मर्त्यो धर्मशालो नरोत्तमः ॥१९४॥
महीपालः प्रियाचारः पीठभ्रमणतत्परः ।
पीठे पीठे महाविद्यादर्शनं यदि लभ्यते ॥१९५॥
तदा तस्य करे सर्वाः सिद्धयोऽव्यक्तमण्डलाः ।
अकस्माज्जायते सिद्धिर्महामायाप्रसादतः ॥१९६॥
महावीरो महाधीरो दिव्यभावस्थितोऽपि वा ।
अथवा पशुभावस्थो मन्त्रपीठं विवासयेत् ॥१९७॥
क्रियायाः फलदं प्रोक्तं भावत्रयमनोरमम ।
तथा च युगभावेन दिव्यवीरेण भैरव ॥१९८॥
प्रपश्यन्ति महावीराः पशवो हीनजातयः ।
न पश्यन्ति कलियुगे शास्त्रभिभूतचेतसः ॥१९९॥
अपि वर्षसहस्त्रेण शास्त्रान्तं नैव गच्छति ।
तर्काद्यनेकशास्त्राणि अल्पायुर्विघ्नकोटयः ॥२००॥
तस्मात् सारं विजानीयात् क्षीरं हंस इवाम्भसि ।
कलौ च दिववीराभ्यां नित्यं तद्गतचेतसः ॥२०१॥
महाभक्ताः प्रपश्यन्ति महाविद्यापरं पदम् ।
साधवो मौनशीलाश्च सदा साधनतत्पराः ॥१०२॥
दिव्यवीरस्वभावेन पश्यन्ति मत्पदाम्बुजम् ।
भावद्वयं ब्राह्मणांना महासत्फलकाङ्क्षिणाम् ॥२०३॥
अथवा चावधूतानां भावद्वयमुदाह्रतम् ।
भावद्वयप्रभावेण महायोगी भवेन्नरः ॥२०४॥
मुर्खोऽपि वाक्पतिः श्रेष्ठी भावद्वयप्रसादतः ।
ये जानन्ति महादेव मम तन्त्रार्थसाधनम् ॥२०५॥
भावद्वयं हि वर्णानां ते रुद्रा नात्र संशयः ।
भावुको भक्तियोगेन्द्रः सर्वभावज्ञसाधनः ॥२०६॥
उन्मत्तजडवन्नित्यं निजतन्त्रार्थपारगः ।
वृक्षो वहति पुष्पाणि गन्धं जानाति नासिका ॥२०७॥
पठन्ति सर्वशास्त्राणि दुर्लभा भावबोधकाः ।
प्रज्ञाहीनस्य पठनमन्धस्यादर्शदर्शनम् ॥२०८॥
प्रज्ञावतो धर्मशास्त्रं बन्धनायोपकल्पते ।
तत्त्वमीदृगिति भवेदिति शास्त्रार्थनिश्चयः ॥२०९॥
अहं कर्ताऽहमात्मा च सर्वव्यापी निराकुलः ।
मनसेति स्वभावञ्च चिन्तयत्यपि वाक्पतिः ॥२१०॥
N/A
References : N/A
Last Updated : April 06, 2011
TOP