संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुराण|दक्षिण प्रयाग माहात्म्यः| अष्टमोऽध्यायः दक्षिण प्रयाग माहात्म्यः प्रथमोऽध्यायः द्वितीयोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पंचमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः दक्षिण प्रयाग माहात्म्यः - अष्टमोऽध्यायः श्रीनृसिंहपूर क्षेत्राचे माहात्म्य वाचल्याने प्रत्यक्ष त्या क्षेत्री गेल्याचे पुण्य मिळते. Tags : nrusinhapothiprayagनृसिंहपोथीप्रयाग अष्टमोऽध्यायः Translation - भाषांतर श्रीशिव उवाच ।दुर्गातीर्थं महापुण्यं सर्वदुर्गोपशांतिकृत् ।यत्र स्नानकृतां नृणां दुर्गतिर्नाशतां गता ॥१॥कालरुपं ततः पूर्वे महाकालस्य सन्निधौ ।उज्जयिन्याः शतगुणं फलं यच्छति मज्जतः ॥२॥भीमानृसिंहपुरतो महानादेश्वरोऽर्चितः ।क्षेत्रांतरात्कोटिगुणं फलं यच्छति निश्चितम् ॥३॥दुर्गया विमले तीर्थे देवोऽयं यच्छति विमलेश्वरः ।वाराणश्या अपि महत्फलं यच्छति पूजितः ॥४॥कुरुक्षेत्रात्तीर्थवरात् स्थाणुर्यत शिलामयः ।दानाघैः पूजितो भक्त्या फलं यच्छत्यसंशयम् ॥५॥तत्रैव पंचहस्तेन कोटितीर्थं महाफलं ।तत्र स्नात्वा समभ्यर्च्य गोकर्णात्कोटिपुण्यभाक् ॥६॥बहून्यन्यानि क्षेत्राणि विद्यन्ते च महेश्वरी ।विदिक्षु दिक्षु परितः क्रमादेव निबोध मे ॥७॥तेजस्तीर्थे महातेजाः शंकुकर्णो विराजते ।सर्वतीर्थे कृत्तिवासा एकांबरसहायवान् ॥८॥कालांजने नीलकंठ ऊर्ध्वरेतास्त्रिदंडके ।छागलंडे कपर्दीशः शोभते श्रुणु पार्वति ॥९॥गंगायां च जयंतो वै पुरुके चादिसंहतः ।गोकर्णस्याभितः सौम्ये संस्थितः कुक्कुटः प्रिये ॥१०॥ततो भीमाजले रम्ये ब्रह्मावर्तेऽथ देवराट् ।ततोऽग्नितीर्थे सोमेशः प्रभासेन सहस्थितः ॥११॥ततो गयायां फल्गुस्थो धर्मेशः परमो महान् ।वामेश्वराज्जटादेवो हरिश्चंद्राद्धरीश्वरः ॥१२॥वृषध्वजाद् वृषेशश्च भवो वै वात्सनापथात् ।भद्रकर्णाच्छिवः साक्षाद्धर्मलिंगाद्धरेश्वरः ॥१३॥नेपालात्पशुपो देवो दारुक्षेत्रात्तु दंडध्रुक् ।उग्रः कनकलादुद्रालयाद्रुद्रः समागतः ॥१४॥केदाराद् गर्भईशानः सहस्त्राक्षः सुवर्णतः ।सर्वमेध्याच्च सर्वेशः श्रीशेलात् त्रिपुरांतकः ॥१५॥जालेश्वरात् त्रिशूली च काश्मीराद्विजयेश्वरः ।आम्लातकाच्च सूक्ष्मेशश्चंडेशो मरुजांगलात् ॥१६॥रुद्रकोटान्महायोगी शूलटंकः प्रयागतः ।महाव्रतो महेंद्राच्च मरुकोटान्महोत्कटः ॥१७॥अयोगीशः पुष्कराच्च करवीरात्कपालभृत् ।माहेश्वरी दीप्तिनाथो भूतेशाद् भस्मगात्रवान् ॥१८॥गंगासागरतो देवोऽमरेशोऽपि समागतः ।विंध्याद् धरणिवाराहः कैलासाद् गणनायकः ॥१९॥हेमूकूटाद् वुरुपाक्षः पातालाद् हाटकेश्वरः ।किरातेशः किरातारव्याज्जललिंगाज्जलेश्वरः ॥२०॥अनलेशो वाडवास्यादोंकारोऽमरकंटात् ।देवकायादुमानाथो विरजस्काद् विरोचनः ॥२१॥लंकाया मरुकेशानो गंगाद्वाराद् हिमेश्वरः ।नकुलेशात्स्वयंभूर्वै लकुलीकात्परोहतः ॥२२॥सप्तगोदावरीतीर्थाद् भूमेशो भीमविक्रमः ।कर्णिकाराद् गुणामध्यक्षो त्रागताद्धि गदाधरः ॥२३॥भूर्भुवः स्वः पतिर्देवो गंधमादनतः प्रिये ।काश्या विश्वेश्वरी देव उमानाथः समागतः ॥२४॥समागतानि तीर्थानि देवतैः सह सत्पुरं ।द्रष्टुं नृसिंहरुपं वै सर्वार्थैकामरद्रुमम् ॥२५॥भीमायां पंचहस्तानामंतरेण स्थितान्यलं ।ऐकैकस्य महत्त्वं हि मया व्याख्यातुमक्षमम् ॥२६॥अनंतसिद्धिमापन्ना एतेषु स्नानदानतः ।मुक्ताः कति न जानेऽहं त्रिलोकेशोऽपि वै प्रिये ॥२७॥अत्राप्याख्या पुण्यतमा गीयन्ते नारदादिभिः ।रहस्यं भीमरथ्याश्च सर्वेषां सर्वकामदम् ॥२८॥एकदा मुनयः सर्वे तीर्थयात्रां चिकीर्षवः ।वृंदशो धरणीं चेरुब्रह्यिष्ठाः सर्वदर्शिनः ॥२९॥विश्वोमित्रो वामदेवी भरद्वाज ऋभुः क्रतुः ।अगस्त्यः कण्व उत्तंको देवलो भार्गवोऽसितः ॥३०॥व्यासाद्याः संघशः शिष्यैश्चरित्वाभुवत्रयं ।श्रांता अप्राप्तसंतोषा बभूवुस्ते तदा प्रिये ॥३१॥मार्गे तीर्थकथां स्वैरं कुर्वंतो गुणबुद्धयः ।मिथो विचारयामासुः किं श्रेष्ठं तीथमुत्तमम् ॥३२॥कः काशीं कश्चनावंती केऽपि तीर्थान्यनेकशः ।विवदंतः प्रशंसतो नैवापुःस्थैर्यमात्मनः ॥३३॥तेषु ज्ञानवतां राजा वसिष्ठो मौनमास्थितः ।विज्ञापितो मुनिवरैमुर्न कस्मान्न भाषसे ॥३४॥स प्रोवाच विवादे वो नास्त्येकोऽपि नियामकः ।विनैकं नारदमृषिं महाभागवतोत्तमम् ॥३५॥ते तद्वाक्यं प्रशंसंतः प्रोचुःक्वासौ स नारदः ।वंचयित्वाखिलान् गूढः किं तीर्थमनुसेवते ॥३६॥एवं हि विचारपरा मनोयोगाद्धियोगिनः ।विचिन्वाना ब्रह्मपुत्रं भीमातीरे स्थितं ययुः ॥३७॥वीरासनास्थं विमलांबरसृजं विरामानंदभरेण पीवरं ।भ्रूमध्यदृष्टिं परमं समाधिना विलोकयंतं नरसिंहमात्मनि ॥३८॥वीक्ष्य भावेन देवर्षि ब्रह्मर्षिप्रवरा नताः ।आस्थिता परितो यत्र भीमा दक्षिणवाहिनी ॥३९॥प्रोचुः प्रांजलयः श्रांता वयं देव मुनीश्वर ।अलब्धान्यत्र विश्रांति प्राप्तास्तेंऽतिकमादरात् ॥४०॥मूढानां क्लेशखिन्ननामस्माकं तीर्थवेदने ।संशयं वचसापोह्य सुखकर्तुमिहार्हसि ॥४१॥नारद उवाच ।अहो ब्रह्मर्षयः पुण्या हित्वा मानं धियं परां ।श्रोतुं वांछा यद्यस्ति वक्ष्ये वोऽसंशयं वचः ॥४२॥पुरोक्तं ब्रह्मणा पित्रा पुत्रेभ्यो नः परं वचः ।यत्र विष्णुशिवौ युक्तौ नानारुपौ जगत्पती ॥४३॥तत्र क्षेत्राणि तीर्थानि देवा मुक्तिः क्रिया फलं ।तदहं मनसा ध्यात्वा सर्वतीर्थैकसंग्रहम् ॥४४॥ब्रह्मणो वचनादत्र वसामि सुखमादरात् ।अत्र तीर्थानि सर्वाणि क्षेत्राणि च महर्षयः ॥४५॥वसतिं करोति पुण्येयं भीमा दक्षिणवाहिनी ।अत्र भुक्तिश्च मुक्तिश्च पुरुषार्थोऽत्रपुष्कलः ॥४६॥इयं भीमा महादेवो नीरा साक्षाद्रमापतिः ।उभयोः संगमो यत्र तत्रैवात्यंतिकी गतिः ॥४७॥एतद्रहस्यं परमं निधानमिव पीठके ।गुप्तं भूगोलके धात्रा सर्वेषां मोक्षसाधनं ॥४८॥श्रीशिव उवाच ।श्रुत्वेदं नारदोक्तं वै दिव्यज्ञाना महर्षयः ।ज्ञात्वा रहस्यं क्षेत्रेऽस्मिन्नास्थिता विश्रमं पदं ॥४९॥ततःप्रभृति बभूवुस्ते निर्भरानंदमोदिताः ।श्रीनृसिहस्थितिजुषः क्षेव्रस्यास्य प्रभावतः ॥५०॥याते कियति काले तैर्हतसर्वेद्रियक्रियैः ।समाधिनिरतैः सर्वैर्ददृशे वै महाद्भुतम् ॥५१॥सर्वतीर्थानि मूर्तानि क्षेत्राणि च महात्यंहो ।पूजयन्ति स्म नृहरिं नीराभीमांबुसंगमे ॥५२॥हरिपूजाभरालोकात्पुण्यौघमुपलभ्य वै ।विचेरुः स्वेषु स्थानेषु नीडेषु पक्षिणो यथा ॥५३॥सायं प्रातश्च मध्यान्हे नृहरेः पूजनोदये ।सर्वतार्थानि क्षेत्राणि द्रष्टुं यांति दिनेदिन ॥५४॥इत्यालोक्याद्भुतं सर्वे विस्मिता नृहरेः पदं ।प्रशंसंतो विचेरुस्ते स्वस्वमालयमादरात् ॥५५॥इतिश्रीपद्मपुराणे श्रीनृसिंहपुरमाहात्म्ये श्रीशिवपार्वतीसंवादे भीमामद्यतीर्थवर्णनं नाम अष्टमोऽध्यायः । N/A References : N/A Last Updated : March 23, 2011 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP