संस्कृत सूची|संस्कृत साहित्य|पुराण|दक्षिण प्रयाग माहात्म्यः| सप्तमोऽध्यायः दक्षिण प्रयाग माहात्म्यः प्रथमोऽध्यायः द्वितीयोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पंचमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः दक्षिण प्रयाग माहात्म्यः - सप्तमोऽध्यायः श्रीनृसिंहपूर क्षेत्राचे माहात्म्य वाचल्याने प्रत्यक्ष त्या क्षेत्री गेल्याचे पुण्य मिळते. Tags : nrusinhapothiprayagनृसिंहपोथीप्रयाग सप्तमोऽध्यायः Translation - भाषांतर देव्युवाच ।पिशाचमोचनाख्यातं श्रुतं परमद्भुतं ।इदानी श्रोतुमिच्छामि स्तुति पैशानमोचिनीम् ॥१॥हरिः कस्मादिमां पुण्या कृतवान् स्तुतिमुत्तमां ।त्वर्णय महादेव यया बंधाद् विमुच्यते ॥२॥श्रीशिव उवाच ।पुरा कल्पादिसमये विष्णुर्नाभेरभूदजः ।चतुर्यसहस्त्रांते तस्य निद्रामुपेयुषः ॥३॥विष्णुकर्णमलोद्भूतौ संजातौ मधुकैटभौ ।ताभ्यामुपाह्रताः सर्वे वेदा विश्वस्य साधनं ॥४॥काले सिसृक्षात्तावद् वेदा अस्मरणं गताः ।ततः पिशाचवज्जज्ञे ब्रह्मा दानवभीतितः ॥५॥तस्य नारायणोऽनंतो दिदेश स्तोत्रमुत्तमं ।ब्रह्मणः पुरतो स्थित्वा मंत्रराजात्मकं शिवम् ॥६॥तेन प्रबुद्धो भगवान ब्रह्मा लोकपितामहः ।अस्मरद्वेदमखिलं ज्ञानं यत्पौर्वकालिकम् ॥७॥तदहंतेऽभिघास्यामि नारायणवरदिदं ।श्रुतं ब्रह्मममुखाद्देवि सर्वार्थानां प्रसादकं ॥८॥विशुद्धमजमानंदमेकमात्रमखंडितं ।सच्चिन्मात्रं परं शातं यत्तद् ब्रह्म नमाम्यहम् ॥९॥यद्भासा निखिलं भाति यस्यनान्यत्प्रकाशकं ।पुराणमव्ययं ज्योति तद्धि ब्रह्म नमाम्यहम् ॥१०॥यदेकं सर्वरुपेषु प्रतिरुपतया स्थितं ।ज्योतिर्यथोदपात्रेषु तद्धि ब्रह्म नमाम्यहम् ॥११॥यदंतः सर्वभूतानां यत्तद्रूपबाधितं ।हेमेवाभरणादीनां तद्भि ब्रह्म नमाम्यहम् ॥१२॥यदेकं सर्वभावानां निरंतरमदूषितम् ।चिन्मात्रं निष्फलं पूर्णं तद्भि ब्रह्म नमाम्यहम् ॥१३॥येनार्थान् भजते जंतुरिंद्रियेषु मनस्यापि ।निरहंकारमानंदं तद्भि ब्रह्म नमाम्यहम् ॥१४॥यन्मनो मनसां प्राणः प्राणनामिद्रियं वरं ।सर्वात्मकमखंडं सत्तद्धि ब्रह्म नमाम्यहम् ॥१५॥यन्नामगुणरुपाघैर्विचित्रमपि सर्वगं ।अज्ञेयं पशुबुद्धीनां तद्धि ब्रह्म नमाम्यहम् ॥१७॥यतो वागादयो भावा उत्थिताः स्वस्वकर्मसु ।प्रवर्तंते साक्षिरुपात्तद्धि ब्रह्म नमाम्यहम् ॥१८॥सकलं निष्कलं व्योम मायातीतं निरंजनं ।अस्ति नास्ति द्वयातीतं तद्धि ब्रह्म नमाम्यहम् ॥१९॥यद् ग्रासकं ग्रासकाणां वीराणां च विवर्धनं ।व्यापकं व्यापकानां च तद्धि ब्रह्म नमाम्यहम् ॥२०॥यज्ज्वालातमोरुपं कालाद्यांस्तमो येन प्रकाशते ।महाज्वालातमोरुपं तद्धि ब्रह्म नमाम्यहम् ॥२१॥यत्सर्वतो वदनत्सर्वतः करपाच्छिरः ।सर्वतो नयनं श्रोत्रं तद्धि ब्रह्म नमाम्यहम् ॥२२॥यद्विचारवतां नृणां बंधोऽनादितमोभवः ।सद्यो नश्यति शारीरस्तद्धि ब्रह्म नमाम्यहम् ॥२३॥यस्याज्ञयानिलार्केंकुर्मृत्युवन्हिग्रहादयः ।सर्वे कर्मसु वर्तंते तद्धि ब्रह्म नमाम्यहम् ॥२४॥यन्नाम मंगलतमं मंगलानामतुत्तमं ।स्तुतिभिस्तूयते वेदैस्तद्धि ब्रह्म नमाम्यहम ॥२५॥यस्यात्मत्तां विदां मृत्युरनादिर्म्रियतेक्षणात् ।मृत्युमारणमापूर्णं तद्धि ब्रह्म नमाम्यहम् ॥२७॥पूर्णमंतर्बहिः पूर्णं येन पूर्णेन पूर्यते ।पूर्णस्य पूर्णमाकाशं त्तद्धि ब्रह्म नमाम्यहम् ॥२८॥एतद्देवि महास्तोत्रं महापैशाचमोचनं ।यत्र कुत्र स्मरन् जंतुर्ब्रह्मसायुज्यमश्नुते ॥२९॥कैवल्याद्यखिलार्थानामिदमेवेहकारणं ।नृहरेर्मंत्रराजस्य स्तोत्रं पैशाचमोचनम् ॥३०॥एतत्पठणतो याति मुक्तिमात्यंतिकीं नरः ।किं पुनः सर्वभोगाद्यांस्तुच्छा दीनेषुसंमतान् ॥३१॥एतत्प्रसंगतः प्रोक्तं स्तोत्रं तेऽभीष्टसिद्धिदं ।अधुना श्रुणु वक्ष्याभि शेषतीर्थानि सूत्रतः ॥३२॥पिशाचमोचनात्पश्चात्तीर्थं गारुडसंज्ञितं ।गरुडेन तपस्तप्त्वा यत्र लब्धं महद्वलम् ॥३३॥जित्वामरेश्वरं संख्ये सुधां ह्रत्वा बलात्ततः ।विमुच्च मातरं दास्याद् विनतामजितोऽभवत् ॥३४॥तोषयित्वा रणे विष्णुं तेनायं याचितो मुदा ।वाहनंत्व गतो जग्घ्वा पन्नगान्कोटिशोऽभितः ॥३५॥तत्तीर्थे स्नानदानेन सर्ववेदसमुद्भवं ।पुण्यं प्रोप्नोति कल्याणि यत्र कुत्र मृतोऽपि सः ॥३६॥ततोनृसिंहतीर्थं वे क्रोशमात्रं वरानने ।हिरण्यकशिपुं हत्वा यत्र देवो व्यवस्थितः ॥३७॥तत्तीर्थस्य प्रभावो हि मया वक्तुं न शक्यते ।सर्वांर्थदं मोक्षबीजं तीर्थं तत्परमं प्रिये ॥३८॥श्रीमन्नृसिंहः संपूज्यो भक्तविघ्नौघनाशनः ।नानोपहारैः क्षेत्रस्य महाभीत्युपशांतये ॥३९॥एतानि तीर्थमुख्यानि वामे देवस्य चाग्रतः ।एकैकस्मिन् वसन्तीह कोटिसस्तीर्थराशयः ॥४०॥इंद्रतीर्थं ततःपुण्यमन्वितं कोटितीर्थकैः ।हरिर्नायासतो यत्र ररक्षेंद्रं हि पातकात् ॥४१॥श्वेततीर्थं च तस्याग्रे हंसतीर्थं वदंत्यदः ।हंसावतारो भगवान् यत्र ज्ञानमदीदिशत् ॥४२॥तस्यैव परितः सन्ति तीर्थानि सनकादिभिः ।कृतानि योगिभिः पुण्यान्ययुतानि चतुर्दश ॥४३॥मरीचरत्रिः पुलहो वसिष्ठः क्रतुंरंगिराः ।पुलस्त्यो देवलः सोमो दक्षो गीष्पतिरत्रिजः ॥४४॥वरुणो धनदो वायुर्यमोऽग्निर्निऋतिर्वसुः ।स्वनाम्ना तीर्थमुख्यानि कृत्वा सिद्धिं परां गताः ॥४५॥सर्वतीर्थं ततः पुण्यं तीर्थैर्यत्र तपः कृतं ।नृहरेरर्चनात्प्राप्तं पापघ्नं पुण्यदं बलम् ॥४६॥तारातीर्थं महापुण्यं यत्रतारा तपःस्थिता ।रघुवीरप्रसादेन गता ज्ञानमखंडितम् ॥४७॥दुर्वासतीर्थमतुलं कपिलस्यच योगिनः ।यत्रैकाक्षरजाप्येन गतावात्यंतिकीं गतिम् ॥४८॥एतान्यंतरतो नीराभीमयोः क्षेत्रमध्यतः ।तीर्थान्यन्यानि च कलौ प्रवक्ष्यंत्यन्यनामभिः ॥४९॥भीमामध्ये च तीर्थान्यधुना ते ब्रवीम्यहं ।एषां नामानि संस्मृत्य महापापैः प्रमुच्यते ॥५०॥इति श्रीपद्मपुराणे श्रीनृसिंहपुरमाहात्म्ये श्रीशिवपार्वती संवादे तीर्थमहिमावर्णनं नाम सप्तमोऽध्यायः । N/A References : N/A Last Updated : March 23, 2011 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP