॥ श्रीगणेशाय नमः । श्रीलक्ष्मीनृसिंहाय नमः ॥
लक्ष्मीशोभितवामभागममलं सिंहासने सुंदरं ।
सव्ये चक्रधरं च निर्भयकरं वामेन चापं वरं ॥
सर्पाधीशकृतातपत्रममलं श्रीवत्सवक्षःस्थलं ।
वंदे देवमुनींद्रवंदितपदं लक्ष्मीनृसिंहं विभुम् ॥१॥
श्रुत्वा माहात्म्यमतुलं क्षेत्राणां सरहस्यकं ।
सर्वार्थैंकपदं गुह्यमपृच्छन् मुनयोऽमलाः ॥२॥
को देवः सर्वदेवानां क्वास्ते कीदृग्विधः कथं ।
पूज्यो मंत्रोऽस्य कः सूत सर्वं तच्च वदस्व नः ॥३॥
सूत उवाच ।
मुनयः साधुपृष्टोऽहं लोकानां हितमीप्सुभिः ।
वक्ष्ये गुह्यं भगवते नत्वा व्यासाय धीमते ॥४॥
एकदा रहसि स्थाणुं समाधिनिरतं सती ।
प्रणम्योवाच मधुरं जिज्ञासुर्गुमात्मनि ॥५॥
देव्युवाच ।
सर्वज्ञ प्राणनाथेश प्रसादं कुरु शंकर ।
किं ध्यायसे चिरं चित्ते ध्येयस्ते कः परात्मनः ॥६॥
इत्थं चेत्कृपया तेऽद्य श्रोष्याम्यार्तार्तिनाशन ।
तव प्रसादादहमप्यंतस्तं चिंतये विभुम् ॥७॥
श्रीशिव उवाच ।
श्रुणु देवि परं गुह्यमनाख्येयमपि क्वचित् ।
वक्ष्ये ध्येयं सदा यत्तदनिर्देश्यं मनोगिराम् ॥८॥
यदेकमजरं शांतं सच्चिदानंदरुपकं ।
अनाख्यं नरसिंहेति प्रसिद्धं चिंतायामि तत् ॥९॥
आत्मा यः सर्वभूतानामनादिनिघनोऽव्ययः ।
स्वप्रकाशः सुराधीशैरभिवंद्यपदांबुजः ॥१०॥
एषः स्वलीलया विश्वं सृजत्यवति हंत्यजः ।
नानावतारैर्विश्वात्मा क्रीडत्यद्भुतविक्रमः ॥११॥
देवानां गुणलिंगानामेष कारणमक्षरं ।
क्षराक्षरविभेदाभ्यामेष सर्वत्र राजते ॥१२॥
अलिंगः सर्वालिंगात्मा प्राणलिंगो महेश्वरी ।
नृसिंहोऽखंडमात्मस्थः स्वात्मना चिंन्त्यते विभुः ॥१३॥
देव्युवाच ।
देवेश जगदीशान सर्वज्ञ करुणाकर ।
ज्ञात आत्मा नृसिंहेति प्रसादात्तव शंकर ॥१४॥
कथं ज्ञेयो महामूढैरजितात्मभिरिश्वरः ।
तन्मामाख्याहि यत्रासौ सुखेनावाप्यतेऽखिलैः ॥१५॥
श्रीशिव उवाच ।
ज्ञेयो भक्त्यैव नृहरिर्लब्धवा सत्समागमात् ।
विरक्तः सर्वभोगेषु सर्वात्मा सर्वतोमुखः ॥१६॥
बाला वा ज्ञानिनः सक्ता विरक्ता वा गुणात्मकाः ।
मुच्येरन् संसृतेर्भक्त्या हरेः सत्संगलब्धया ॥१७॥
भक्तिस्तदेकनिष्ठा या कायवाङ्मनसा सदा ।
बहुभिर्वहुधा प्रोक्ता सद्यः संसृतिहारिणी ॥१८॥
अनंतजन्मसाहस्त्रैः संचितैः पुण्यराशिभिः ॥
भक्तिस्यान्नृहरौ भव्या सर्वात्मन्यखिलाश्रये ॥१९॥
नानापातकयुक्तोऽपि मूढोऽप्यविजितेंद्रियः ।
लीलयाप्नोति कैवल्यं नृहरेर्नामकीर्तनात् ॥२०॥
दुराराध्यो नृभिर्मूढैरविपक्वेद्रियैरयं ।
सुखेनावाप्यते यत्र तन्दुह्यं ब्रवीमि ते ॥२१॥
पुरा त्रिपुरदाहेन तप्ताशेषतनोर्मम ।
सुधांशुगंगासंगोऽपि न शांत्यैयदभूच्छिवे ॥२२॥
तदा भीमतनोरग्रे सुराः स्थातुमनीश्वराः ।
गत्वा ब्रह्मादयो विष्णुं शरण्यं सुव्यजिज्ञपन् ॥२३॥
देवा ऊचुः ।
जय शांत बलाधार विश्वरुप परात्पर ।
विष्णो त्रिपुरसंहर्तुर्दाहं शमय माधव ॥२४॥
एष वीरो महाभीम उग्रः क्रोधाग्निदीपनः ।
त्रिनेत्रो दाहसंतप्तो ग्रासं कर्ता घनः स्फुटम् ॥२५॥
पाहि पाहि त्रिलोकेश हालाहलगिलाननात् ।
अकांडे प्रलयो मा भूदच्युताश्रितदेहिनाम् ॥२६॥
श्रीशिव उवाच ।
इति विक्लवितं तेषां सुराणां वीक्ष्य माधवः ।
प्रहस्य मेघगंभीरां बभाषे वाचममृताम् ॥२७॥
श्रीभगवानुवाच ।
अभयं वोऽमरा अस्तु शिवलीलानिवेशतः ।
एतस्मान्नहि साधूनां भीतिर्विश्वात्मरुपिणः ॥२८॥
भीमोऽयं किल भीमानां मृत्योर्मुत्युंजयोऽह्यसौ ।
कालस्यापि महाकालः शिवानां तु शिवं स हि ॥२९॥
अयं मे ह्रदयं शंभुरस्याहं ह्रदयं परं ।
इति जानाति तत्वेन यः समुच्येत संकटात् ॥३०॥
अस्ति तत्र सारित् पुण्या भीमा भीमांगसंभवा ।
नीराकारं वपुः कृत्वा विधास्ये तत्र संगमम ॥३१॥
अतोऽहं द्रवरुपेण स्वां शक्तिं प्रेरयन् सुराः ।
तमद्यद्रवरुपेण क्रींडंतं समुपैमि भोः ॥३२॥
तत्र यूयं समायात सर्वे सर्वार्थसाधकं ।
द्रष्टुं भीमाद्रवायोगं लोकांना हितमीप्सवः ॥३३॥
श्रीशिव उवाच ।
इत्यादिश्य सुरान् विष्णुस्तत्रैवांतरधीयत ।
देवः सद्योद्रवाकारं दद्दशुर्विस्मितांतराः ॥३४॥
तदैव मे ह्यंगभूता नदी सर्वाघहारिणी ।
चचार नीरया भीमा पावनी सर्वदेहिनाम् ॥३५॥
देवा उभयतः कूले पश्यंतो ह्रष्टमानसाः ।
ययुर्यत्रोभयोः संगः प्रत्यगात्मा हरिः स्थितः ॥३६॥
आलोक्यात्मैकसौख्यं श्रीमंदिरं सुंदरोत्तमम् ।
प्रणम्य स्तुतिभिः स्तुत्वा दिव्यपुष्पैरवाकिरन् ॥३७॥
नदीसंगमसुस्नाता हतपापतमोभराः ।
नृसिंहदर्शनानंदनिर्भरास्तेऽभवन्सुराः ॥३८॥
तद्देवि परमं क्षेत्रम सिद्धीनां परमायनं ।
आस्ते यत्रानिशं देवो नृसिम्हो भक्तवत्सलः ॥३९॥
सुदर्शनमित्याभिहितं क्षेत्रं यद् वेदविद्वरैः ।
तन्नाभिरेष भूगर्भे क्षेत्रराजो विराजते ॥४०॥
कलिकल्मषबुद्धीनां महापापकृतामपि ।
दर्शनात्पापराशिघ्नो भजनादू भुक्तिमुक्तिदः ॥४१॥
अत्रैव मृग्यः सर्वात्मा नृसिंहो भवभीरुभिः ।
ध्येयः पूज्यो नमस्योऽयं सर्वार्थैकामरद्रुमः ॥४२॥
इति श्री पद्मपुराणे नृसिंहपुरमाहात्म्ये शिवपार्वती संवादे क्षेत्रोत्पत्तिकथनं नाम प्रथमोऽध्यायः ।