संस्कृत सूची|संस्कृत साहित्य|पुराण|दक्षिण प्रयाग माहात्म्यः| चतुर्थोऽध्यायः दक्षिण प्रयाग माहात्म्यः प्रथमोऽध्यायः द्वितीयोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पंचमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः दक्षिण प्रयाग माहात्म्यः - चतुर्थोऽध्यायः श्रीनृसिंहपूर क्षेत्राचे माहात्म्य वाचल्याने प्रत्यक्ष त्या क्षेत्री गेल्याचे पुण्य मिळते. Tags : nrusinhapothiprayagनृसिंहपोथीप्रयाग चतुर्थोऽध्यायः Translation - भाषांतर श्रीदेव्युवाच ।प्रल्हादो दैत्यपुत्रो यो भविष्यति महातपाः ।तदाख्यानं कथ्म देव देवाविर्भावकारणम् ॥१॥दैत्या वै राजसाः क्रूरा स्तब्धाः पंडितमानिनः ।तदुद्भवेषूपशमस्तापसानां सुदुर्लभः ॥२॥श्रीशिव उवाच ।पुरा वैकुंथनाथस्य दूतौ देववर्चितौ ।जयोऽथ विजयो नाम्ना प्रसिद्धो द्वारपालकौ ॥३॥तयोः कदाचित्कुपिता ब्रह्मणो मानसाः सुताः ।शापं ददुर्निषिद्धा ये हरिसंदर्शनोत्सुकाः ॥४॥यातं युवां महाघोरां चासुरीं योनिमुल्बणां ।त्रिभिर्जन्मभिरायातं पुनः पदमनामयम् ॥५॥जनिं प्राप्य दितिसुतौ हिरण्यकशिपुस्तथा ।हिरण्याक्ष इति ख्यातौ भवितारौ सुदुर्जयौ ॥६॥हिरण्यकशिपुः कर्ता राज्यं त्रैलोक्यवंदितः ।हर्ता क्षोणीं हिरण्याक्षो वराहेण हतो रणे ॥७॥हिरण्यकशिपुः स्वस्य भ्रातुः प्रेतस्य दुःखतः ।तप्ता तपो बहुसमा विसृज्य सकलां श्रियम् ॥८॥तावदिंद्रोऽमरैः सार्ध प्रभज्यं तत्पुरीं खलु ।कयाधुं तस्य दयितामपहर्ता पुरीं हटात् ॥९॥प्रजावती नारदेन दृष्टा पथि शुचातुरा ।नीयमाना सुरेंद्रेण मुनिना याचिता भवेत् ॥१०॥तस्यै सगर्भमुद्दिश्य ज्ञानं गुह्यं सधर्मकं ।ददाति सादरात्सूनोरुदयाय महौजसाः ॥११॥कालं नेष्यत्याश्रमेऽस्य कांक्षंती दितिजागमे ।भजंती मुनिशार्दूलं नारदं पितृवत्सती ॥१२॥विधेर्वरात्स कालेन आयास्यति पुरिं पुनः ।प्रसोष्यति कयाधुर्वै तनुजांश्चतुरः प्रिये ॥१३॥प्रल्हादो भगवद्दासोऽनुगृहीतो महर्षिणा ।भविष्यति सदाकाले करिष्यति तपो महत् ॥१४॥नीराभीमांबुसंसंयोगे स्तुवानो मे पुरोऽर्भकः ।आयास्यति कृपाभारादुपदिष्टो महर्षिणा ॥१५॥प्रणतं सगुणं बालं प्रल्हादं सुंदरोत्तमं ।अनुग्रहीष्यति गुह्येन मंत्रेण मुनिसत्तमः ॥१६॥करिष्यति तदा बालो नृहरेः स्तवनमिच्छया ।प्रतिमां सैकतीं तस्य द्विभुजां सुंदरां प्रिये ॥१७॥तुष्टः सिंहाननो देवः प्रितिमायां विशन् हरिः ।आविर्भावष्यति हि मा भैषीर्बालेति संवदन् ॥१८॥स ईशाश्वासितः प्रेम्णा गददस्वरसंकुलः ।अश्रुभिर्मीलिताक्षोऽमुं संनस्यति भावतः ॥१९॥उत्थाप्यालिंग्य विश्वेशः कृपां तस्मिन्करिष्यति ।स स्वामिगात्रस्पर्शेण पूतो ज्ञानमवाप्स्यति ॥२०॥पूजयित्वा जगन्नाथं नृसिंहं वरदेश्वरं ।स्तोष्यति स्वस्थभावेन परमानंद सुन्दरम् ॥२१॥प्रल्हाद उवाच ।जयदेव जगन्नाथ सर्वजीवनशेवधे ।सुधालोकलवामोद जीविताखिलवृत्तिद ॥२२॥जय मायामहोर्मीणामाकरानंदसागर ।ब्रह्मांडबुद्धुदोन्नद्वविलासाकुलरोधस ॥२३॥जयानंत महाभाग्य मोक्षलक्ष्मीम महीं कुरु ।ब्रह्मभावफलोद्यानचिदेकामरपादप ॥२४॥जय काममहावल्लीसंघरोपितसत्फलैः ।विस्तृतावनिसौराज्य सदेकानंदगव्हर ॥२५॥जय जीवमहामोहबंधध्वंसनपंडित ।जय देव वरेशान वरदाधीश सत्पते ॥२६॥जय मोहातिमायेश कालकाल नृसिंह भोः ।जय ग्रस्तमहामृत्यो प्रसीद करुणानिधे ॥२७॥त्वमेकः स्तुतिरीशानः स्तोता स्तुत्यस्त्वमीश्वरः ।न जाने त्वत्परं देवं भूमौ सदसदात्मकम् ॥२८॥श्रीभगवानुवाच ।प्रल्हादार्भकवरश्रेष्ठ वरदोऽहं वरं वृणु ।नमामालोक्य भूमानं कोऽपि शोचितुमर्हति ॥२९॥प्रल्हाद उवाच ।को वरस्ते वरेशान दर्शनादधिको मतः ।यन्नमश्रवणात्पूतः सद्यः स्याद् गोवधादपि ॥३०॥तथापि याचे संदिष्टः प्रभुणा किंकरानुगः ।स्वामिन्ननेन रुपेण विशास्यां प्रतिमा भुवि ॥३१॥ये भजंति समर्चंति मानवाः प्रणमंति ये ।तेषामभीष्टकामानां पूरको भव सर्वदा ॥३२॥एष एव वरो देव नान्यं त्वत्तो वरं वृणे ।मन्मनसत्वत्पदद्वंद्वे निर्द्वंद्वं स्थिरमस्तु भोः ॥३३॥श्रीशिव उवाच ।एवं संदृश्य भगवांस्तुष्टो वक्ष्यति बालकं ।प्रफुल्लवदनांभोजस्फुत्स्मिकलाधरम् ॥३४॥श्रीभगवानुवाच ।तथास्तु प्रतिमायां ते स्थास्याम्यत्र निरंतरम् ।पालयिष्यामि सुजना दर्शनादेव स्वरैः ॥३५॥ये मां द्विभुजमीशानं त्वदर्चाकृतविष्टरं ।भजंति भक्त्या परया ते वै यांति परां गतिम् ॥३६॥मामुद्दिश्य सुदूरस्थो ददानो दानमर्थिनाम् ।पूजां दधाति तस्याहं कामान् संपूरयेऽखिलान् ॥३७॥किं पुनः श्रद्धया धीमान् महायात्रां करोति यः । तस्य पुण्यकृतः पारो नास्ति पुण्यस्य कर्हिचित् ॥३८॥नृसिंहदर्शनं लप्स्ये यस्य बुद्धिरिति स्फुरेत् ।स सर्वपापविनिर्मुक्तो भवेदर्कोदये तमः ॥३९॥ततः प्रयातस्य गृहात्पूजयित्वेष्टदेवताः ।देवताः संप्रसीदंति ददते विपुलान्वरान् ॥४०॥ततोऽध्वनि समायातः स्तुवतो नामरभिर्हरिं ।पदेपदेऽश्वमेधस्य फलं तस्य विनिश्चितम् ॥४१॥महापुण्यभरैः प्राप्य क्षेत्रं मद्वल्लभं नरः । मानुषीतनुरुपोऽपि भवेन्मद्रूपसाम्यभाक् ॥४२॥मामालोक्य सकृन्मर्त्यो वैकुंठे लभते स्थितिं ।मां भजन्मपुष्यन्ते सायुज्यं लभते खलु ॥४३॥ये मामनिशमीशाम भजंते श्रद्धयान्विताः ।ते देवा मर्त्यरुपेण ज्ञेयाः सर्वे चतुर्भुजाः ॥४४॥अज्ञो वा ज्ञानवान्बालो वृद्धोनीचोथचोत्तमः ।नृसिंह मां भजन्मुक्ताः सद्यो याति गतिं सताम् ॥४५॥सकृत्प्रदक्षिणीकृत्य कृतास्याद् भूप्रदक्षिणा ।सकृन्नत्वा दंडवन्मां भवेद्विबुधसत्तनुः ॥४६॥दर्शनात्पुण्यरुपोऽसौ पारमेष्ठयं पदं व्रजेत् ।पूजनान्ममसारुप्यं भजनान्मयि संस्थितिम् ॥४७॥त्वमप्यसुरराजेन वत्स द्रोहिष्यसे यदा ।आपविमुक्तये बाल तदा मत्स्मरणं कुरु ॥४८॥यातनाः प्रशमं सर्वा यास्यंति मदनुग्रहात् ।पितापि मम संस्पर्शात्पूतो यास्यति मत्पदम् ॥४९॥यदायदा ध्यायसि मामधीशं चेतः समाधाय मदंघ्रिपद्मे ।तदातदा तत्र हि तत्र सिद्धस्तिष्ठामि तेऽग्रे स्मृतिमात्रतोहि ॥५०॥एतावदभयं दत्वा चिन्मयो दृश्यरुपघृक् ।वालुकाप्रतिमायां वै तिष्ठत्तत्र निरंतरम् ॥५१॥प्रल्हादोऽपितशानं त्रिः परिक्रम्य सन्नतः ।पूर्णार्थः पुरमागत्य भविष्यति जडांगवत् ॥५२॥तं विरुध्य पिता तस्य क्षरमेष्यति तत्क्षणात् ।उद्दीर्णवक्षःस्थलो भूत्वा नखरैर्नृहरेस्तदा ॥५३॥इति ते कथितं देवि प्रल्हादाख्यानमुत्तमं ।पठतां शृण्वतां नृणां पापघ्नं मंगलार्थदं ॥५४॥य एतत् पठति प्राज्ञः शृणोत्यवहितो नरः ।स प्रसादं हरेर्याति प्रियः प्रल्हादवद्भवेत् ॥५५॥प्रल्हादेन कृतं स्तोत्रं यः पठेत्प्रातरन्वहं ।तस्य मंत्रभवा सिद्धिर्मासेनस्यात्परार्थदा ॥५६॥अन्नं यशः सुतान् कामान् पुण्यमोक्षं सनातनं ।प्रभावादस्य स्तोत्रस्य मर्त्यो वै प्राप्नुयात् सदा ॥५७॥इति तें कथितो देवि क्षेत्राविर्भावको भुवि ।अधुना तीर्थमाहात्म्यं शृणु सिद्धिप्रदोत्तमम् ॥५८॥इति श्रीपद्मपुराणे नृसिंहपुरमाहात्म्ये श्रीशिवपार्वतीसंवादे क्षेत्राविर्भावकोनाम चतुर्थोऽध्यायः । N/A References : N/A Last Updated : March 23, 2011 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP