संस्कृत सूची|संस्कृत साहित्य|गीता|श्री गणेश गीता| अथ दशमोऽध्यायः श्री गणेश गीता अथ प्रथमोऽध्यायः अथ द्वितीयोध्यायः अथ तृतीयोऽध्यायः अथ चतुर्थोऽध्यायः अथ पञ्चमोऽध्यायः अथ षष्ठोऽध्यायः अथ सप्तमोऽध्यायः अथ अष्टमोऽध्यायः अथ नवमोऽध्यायः अथ दशमोऽध्यायः अथ एकादशोऽध्यायः श्री गणेश गीता - अथ दशमोऽध्यायः श्रीमद्गणेश गीतेचे पठन केल्याने अनेक चतुर्थींचे फळ मिळते. Tags : ganeshagitaगणेशगीता अथ दशमोऽध्यायः Translation - भाषांतर सुभक्तित इत्यमभक्तेरात्मदर्शनार्थत्वमुक्तं तत्र विपक्षपरिहारार्थं दशमाध्यायमारभते तत्र स्वयमेव करुणया गजानन उवाच-दैव्यासुरी राक्षसी च प्रकृतिस्त्रिविधा नृणाव् ।तासां फलानि चिह्रानि संक्षेपात्तेऽधुना ब्रुवे ॥१॥तत्र फलानि तावदाहर्धेन-आद्या संसाधयेन्मुक्तिं द्वे परे बन्धनं नृप ।चिह्रं ब्रवीमि चाऽऽघायास्तन्मे निगदतः शृणु ॥२॥उक्तमेवाऽऽह-तेजोऽभयमहिंसा च क्षमा शौचममानिता ।अपैशुन्यं दयाऽक्रोधोऽचापल्यं धृतिरार्जवम् ॥इत्यादिचिह्रमाधाया आसुर्याः शृणु सांप्रतम् ॥३॥तदेवाऽऽह-अतिवादोऽभिमाश्व दर्पोऽज्ञानं सकोपता ।एवमाद्याने चिह्रानि आसुर्याः प्रकृतेर्नृप ॥४॥राक्षसीं संपदमाह सार्धश्लोकपञ्चकेन-निष्ठुरत्वं मदो मोहोऽहंकारो गर्व एव च ।द्वेषा हिंसा दया क्रोध औद्धत्यं दुर्विनीतता ॥५॥अभिचारिकर्तृत्वं क्रूरकर्मतिस्तथा ।अविश्वासः सतां वाक्येऽशुचित्वं कर्महीनता ॥६॥निन्दकत्वं च वेदानां भक्तानासुरद्विषाम् ।मुनिश्रोत्रियविप्राणां तथा स्मृतिपुराणयोः ॥७॥पाखण्डवाक्ये विश्वासः संगतिर्मलिनात्मनाम् ।सदम्भकर्मकर्तृत्वं स्पृहा च परवस्तुषु ॥८॥अनेककामनावत्त्वं सर्वदाऽनृतभाषणम् ।परोत्कर्षासहिष्णुत्वं परकृत्यपराहतिः ॥इत्याद्या बहवश्वान्ये राक्षस्याः प्रकृतेर्गुणाः ॥९॥राक्षसीं प्रकृतिं श्रिताः स्वर्गेऽपि ते वसन्तीत्याह-पृथिव्यां स्वर्गलोके च परिवृत्य वसन्ति ते ।मद्धक्तिरहिता लोका राक्षसीं प्रकृतिं श्रिताः ॥१०॥इतो धर्मतस्तामस्याः संपदः फलमाह-तामसीं ये श्रिता राजन्यान्ति ते रौखं ध्रुवम् ।अनिर्वाच्यं च ते दुःखं भुञ्जन्ते तत्र संस्थिताः ॥११॥दैवान्निःसृत्य नरकाञ्जायन्ते भुवि कुब्जकाः ।जात्यन्धाः पङवो दीना हीनजातिषु ते नृप ॥१२॥पुनः पापसमाचारा मय्यभक्ताः पतन्ति ते ।उत्पतन्ति हि मद्धक्ता यां कांचिद्योनिमाश्रिताः ।लभन्ते स्वर्गतिं यज्ञैरन्यैर्धर्मैश्व भूमिप ॥१३॥तस्मादेवंविधा भक्तिर्महाफला, अतोऽतिदुर्लभेत्याह-सुलभास्ताः सकामानां मयि भक्तिः सुदुर्लभा ॥१४॥विमूढा मोहजालेन बद्धाः स्वेन च कर्मणा ।अहं हन्ता अहं कर्ता अहं भोक्तेतिवादिनः ॥१५॥अहमेवेश्वरः शास्ता अहं वेत्ता अहं सुखी ।एताद्दशी मतिर्नृणामधः पातयतीह तान् ॥१६॥तस्मादेतत्समुत्सृज्य दैवीं प्रकृतिमाश्रय ।भक्तिं कुरु मदीयां त्वमनिशं द्दढचेतसा ॥१७॥भक्तेरपि त्रैविध्यमाह-साऽपि भक्तिस्त्रिधा राजन्सात्त्विकी राजसीतरा ।यद्देवान्भजते भक्त्या सात्त्विकी सा मता शुभा ॥१८॥राजसीभक्तिमाह-राजसी सा तु विज्ञेया भक्तिर्जन्ममृतिप्रदा ।यद्यक्षांश्वैव रक्षांसि भजते सर्वभावतः ॥१९॥तामसीं भक्तिमाह द्धाभ्याम्-वेदेनाविहितं क्रुरं साहंकारं सदम्भकम् ।भजन्ते प्रेतभोतादीन्कर्म कुर्वन्ति कामिकम् ॥२०॥शोषयन्तो निजं देहमन्तःस्थं मां द्दढाग्रहाः ।तामस्येताद्दशी भक्तिर्नृणां सा निरयप्रदा ॥२१॥अध्यायार्थमुपसंहरंस्तात्पर्यमाह-कामो लोभस्तथा क्रोधो दम्भश्वत्वार इत्यमी ।महाद्वाराण्यवीचीनां तस्मादेतांस्तु वर्जयेत् ॥२२॥ॐ तत्सदिति श्रीमद्धणेशगीतासूपनिषदर्थगर्भासु योगामृतार्थशास्त्रे श्रीमदादिगणेशपुराणे श्रीगजाननवरेण्यसंवादे उपदेशयोगो नाम दशमोऽध्यायः ॥१०॥श्रीचातुर्धरभणितौ गणेशगीताटीकायां गणपतिभावदीपिकायाम् ।गम्भीरप्रततदर्थर्शिकायामध्यायः खलु दशमः स्फुटाशयोऽभूत ॥इति श्रीमत्पदवाक्यप्रमाणमर्यादाधुरंधरचतुर्धरवंशावतंसगोविन्दसूरिसूनोर्नीलकण्ठस्य कृतौ गणेशगीताटीकायामुपदेशयोगो नाम दशमोऽध्यायः ॥१०॥ N/A References : N/A Last Updated : February 13, 2011 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP