श्री गणेश गीता - अथ नवमोऽध्यायः
श्रीमद्गणेश गीतेचे पठन केल्याने अनेक चतुर्थींचे फळ मिळते.
पूर्वाध्यायान्ते व्यक्ताव्यक्तयो रुपयोर्भजनमुक्तम् । तयोः कतरच्छ्रेय इतीष्टसंदिहानो वरेण्य उवाच-
अनन्यभावस्त्वां सम्यङ्मूर्तिमन्तमुपासते ।
योऽक्षरं परमं व्यक्तं तयोः कस्ते मतोऽधिकः ॥१॥
अस्य संशयस्य च्छेत्ता त्वदन्यो नास्तीत्याशयेनाऽऽह-
असि त्वं सर्ववित्साक्षी भूतभावन ईश्वरः ।
अतस्त्वां परिपृच्छामि वद मे कृपया विभो ॥२॥
पृष्टेऽर्थे निर्णयं गजानन उवाच-
यो मां मूर्तिधरं भव्त्या मद्धक्तः परिसेवते ।
स मे मान्योऽनन्यभक्तिर्नियुज्य ह्यदयं मयि ॥३॥
व्यक्तोपास्तिफलं निरुप्याव्यक्तोपास्तिफलमाह द्धाभ्याम्-
खगणं स्ववशं कृत्वाऽखिलभूतहितार्थकृत् ।
मध्येऽयमक्शराव्यकं सर्वगं कूटगं स्थिरम् ॥४॥
सोऽपि मामेत्यनिर्दश्यं मत्परो य उपासते ।
संसारसागरदस्मादुद्धरामि तमप्यहम् ॥५॥
एतदेवाऽऽह-
अव्यक्तोपासनाद्दुःखमधिकं तेन लभ्यते ।
व्यक्तस्योपासनात्साध्यं तदेवाव्यक्तभक्तितः ॥६॥
भक्तिमेव स्तौति-
भक्तिश्वैवाऽऽदरश्वात्र कारणं परमं मतम् ।
सर्वेषां विदुषां श्रेष्ठो ह्यकिंचिज्ज्ञोऽपि भक्तिमान् ॥७॥
ध्यातुर्भक्तिमेवातिशयोक्त्या स्तौति-
भजन्भक्या विहीनो यः स चाण्डालोऽभिधीयते ।
चाण्डलोऽपि भजन्भक्य्त्या ब्राह्मणेभ्योऽधिको मम ॥८॥
भङग्यन्तरेणोक्तमेव विधिमुखेन द्रढ्यति-
शुकाद्याः सनकाद्याश्व पुरा मुक्ता हि भक्तितः ।
भक्त्यैव मामनुप्राप्ता नारदाद्याश्विरायुषः ॥९॥
भक्तेर्माहात्म्यमुपसंहरति-
अतो भक्त्यो मयि मनो निधेहि बुद्धिमेव च ।
भक्त्या यजस्व मां राजंस्ततो मामेव यास्यसि ॥१०॥
यदि तु मनोनिरोधेन मां द्रष्टुमशक्तोऽसि तर्ह्यभ्यासयोगाभ्यां तन्निरोधं कुर्वित्याह-
असमर्थोऽर्पितुं स्वान्तं ध्रुवं मयि नराधिप ।
अभ्यासेन च योगेन ततो गन्तुं यतस्व माम् ॥११॥
अभ्यासादावसमर्थस्येश्वरार्पणबुद्ध्या स्वधर्माचरणमेव श्रेय इत्याह-
तत्रापि त्वमशक्तश्वेत्कुरु कर्मसमर्पणम् ।
ममानुग्रहतश्वैव परां निर्वृतिमेष्यासि ॥१२॥
स्वधर्मानुष्ठानेऽप्यशक्तस्य का गतिरित्यत आह-
अथैतदप्यनुष्ठातुं न शक्तोऽसि तदा कुरु ।
प्रयत्नतः फलत्यागं त्रिविधानां हि कर्मणाम् ॥१३॥
अकर्तृत्वाभोक्तृत्वाभिमानावृत्त्या किं स्यात्तदाह-
श्रेयसी बुद्धिरावृत्तेस्ततो ध्यानं वरं मतम् ।
ततोऽखिलपरित्यागस्ततः शान्तिर्गरीयसी ॥१४॥
अस्यैव कैवल्यस्य साधन्याह-
निरहंममता बुद्धिरद्वेषः करुणा समः ।
लाभालाभे सुखे दुःखे मानामाने स मे प्रियः ॥१५॥
तथा-
रिपौ मित्रे च गर्हायां स्तुतौ शोके समः समुत् ।
मौनी निश्वलघीभक्तिरसङः स च मे प्रियः ॥१६॥
यं वीक्ष्य न भयं याति जनस्तस्मान्न च स्वयम् ।
उद्धेभीकोबुद्धिरहितो यः स मे पियः ॥१७॥
इममेव साधनगणं स्तौति-
संशीलयति यश्वैनमुपदेशं मया कृतम् ।
स वन्द्यः सर्वलोकेषु मुक्तात्मा मे प्रियः सदा ॥१८॥
किंच-
अनिष्टातौ च न द्वेष्टी इष्टप्राप्तौ न तुष्यति ।
क्षेत्रतज्ज्ञौ च यो वेत्ति स मे प्रियतमो भवेत् ॥१९॥
यच्छ्रीगणेशनोपक्षिप्तं क्षेत्रादि तज्जिज्ञासुर्वरेण्य उवाच-
किं क्षेत्रं कश्व तद्वेत्ति किं तज्ज्ञांन गजानन ।
एतदाचक्ष्व मह्यं त्वं पृच्छते करुणाम्बुधे ॥२०॥
अस्योत्तरं गजानन उवाच त्रिभिः-
पञ्च भूतानि तन्मात्राः पञ्च कर्मेन्द्रियाणि च ।
अहंकारो मनो बुद्धिः पञ्च ज्ञानेन्दियाणि च ॥२१॥
किंच-
इच्छाऽव्यक्तं धृतिद्वेषौ सुखदुःखे तथैव च ।
चेतनासहितश्वायं समूहः क्षेत्र मुच्यते ॥२२॥
क्षेत्रमुत्त्वा क्षेत्रज्ञमाह-
तज्ज्ञं त्वं विद्धि मां भूप सर्वान्तर्यामिणं विभुम् ।
अयं समूहोऽहं चापि यज्ज्ञाने विषयौ नृप ॥२३॥
मोक्तृमोग्येश्वराणां प्रकाशकं यत्तुरीयं तदधिगमसाधनान्याह द्वाभ्याम-
आर्जवं गुरुशुश्रुषा विरक्तिश्वेन्दियार्थतः ।
शौचं क्षान्तिरदम्भश्व जन्मादिदोषवीक्षणम् ॥२४॥
समद्दष्टिर्द्दढा भक्तिरेकान्तित्वं शमो दमः ।
एतैर्यच्च युतं ज्ञानं तज्ज्ञानं विद्धि बाहुज ॥२५॥
ज्ञानसाधनमुक्त्त्वा ज्ञेयमाह-
तज्ज्ञानविषयं राजन्ब्रवीमि ते शृणुष्व मे ।
यज्ज्ञात्वैति च निर्वाणं मुक्त्वा संसृतिसागराम् ॥२६॥
यद्धवीमीत्यक्तं तदेवाऽऽह-
यदनादीन्द्रियैर्हीनं गुणभुग्गुवर्जितम् ।
अव्यक्तं सदासद्धिमिन्द्रियार्थावभासकम् ॥२७॥
किंच-
विश्वभृच्चाखिलव्यापि एकं नानेव भासते ।
बाह्याभ्यन्तरतः पूर्णमसङ तमसः परम् ॥२८॥
किंच-
दुर्ज्ञेयं चातिसूक्ष्मत्वाद्दीप्तानामपि भासकम् ।
ज्ञेयमेताद्दशं विद्धि ज्ञानगम्यं पुरातनम् ॥२९॥
एवं श्लोकत्रयोक्तस्य ब्रह्यणः प्रत्यगभिन्नत्वमाह-
एतदेव परं ब्रह्य ज्ञेयमात्मा परोऽव्ययः ।
गुणान्प्रकृतिजान्भुङ्क्ते पुरुषः प्रकृतेः परः ॥३०॥
इमाभेवाविद्यामुपजीव्य प्रकृतिः पुरुषं बघ्रातीत्याह-
गुणौस्त्रिभिरियं देहे बघ्नाति पुरुषं द्दढम् ।
यदा प्रकाशः शान्तिश्व वृद्धे सत्त्व तदाऽधिकम् ॥३१॥
रजस्तमसोः कार्याणि विभजते-
लोभोऽशमः स्पृहाऽऽरम्भ्यंः कर्मणां रजसो गुणः ।
मोहोऽप्रवृत्तिश्वाज्ञानं प्रमादस्तमसो गुणः ॥३२॥
त्रयाणामपि मुख्यकार्याण्याह-
सत्त्वाधिकः सुखं ज्ञानं कर्मसङ रजेधिकः ।
तमोधिकश्व लभते निद्राऽऽलस्यं सुखेतरत् ॥३३॥
गुणकार्यविभागस्य फलमाह_
एषु त्रिषु प्रवृद्धेषु मुक्तिसंसृतिदुर्गतीः ।
प्रयान्ति मानवा राजंस्तस्मात्सत्त्वयुतो भव ॥३४॥
सत्त्वविवृद्धिहेतुमाह-
ततश्व सर्वभावेन भज त्व मां नरेश्वर ।
भक्त्या चाव्यभिचारिण्या सर्वत्रैव च संस्थितम् ॥३५॥
उक्तविधभजनाशक्तं प्रति भजनप्रकारान्तरमाह-
अग्नौ सूर्ये तथा सोमे यच्च तारासु संस्थितम् ।
विदुषि ब्राह्मणे तेजो विद्धि तन्मामकं नृप ॥३६॥
एवं च जडानां सांख्यवच्चितः पृथक्सत्त्वे प्राप्ते तेषामपि स्वाभिन्नत्वमाह-
अहमेवाखिलं विश्वं सृजामि विसृजामि च ।
ओषधीस्तेजसा सर्वा विश्वं चाऽऽप्याययाम्यहम् ॥३७॥
संसारे चेतनरुपोऽप्यमेवेत्याह-
सर्वेन्द्रियाण्याधिष्ठाय जाठरं च धनंजयम् ।
भुनज्मि चाखिलान्भोन्पुण्यपापविवर्जितः ॥३८॥
तत्त्वदिन्द्रियानुग्राहकदेवतारुपस्यापि ममताभोक्तृत्वमस्तीत्याशयेनाऽऽह-
अहं विष्णुश्व रुद्रश्व ब्रह्मा गौरी गणेश्वरः ।
इन्द्राद्या लोकपालाश्व ममैवांशसमुद्धवाः ॥३९॥
एवं कृत्स्नस्य नामरुपस्य चिन्मात्रत्वे स्थिते यदेव रुपं येन भक्त्यो पास्य्ते तेन स्वरुपेण तस्मै स्वमात्मानं दर्शयामीत्याह-
येन येन हि रुपेण जनो मां पर्युपासते ।
तथा तथा दर्शयामि तस्मै रुपं सुभक्तितः ॥४०॥
अध्यायार्थजुपसंहरति-
इति क्षेत्रं तथा ज्ञाता ज्ञानं ज्ञेयं मयेरितम् ।
अखिलं भूपते सम्यगुपन्नाय पृच्छते ॥४१॥
ॐ तत्सदितिश्रीद्धणेशगीतासूपनिषदर्थगर्भासु योगामृतार्थशास्त्रे श्रीमदादिगणेशपुराणे श्रीगजाननवरेण्वसंवादे क्षेत्रक्षेत्रज्ञविवेकयोगो नाम नवमोऽध्यायः ॥९॥
श्रीचातुर्धरभणितौ गणेशगीताटीकायां गणपतिभावदीपिकायाम् ।
गम्भीरप्रततसदर्थर्शिकायामध्यायः खलु नवमः स्फुटाशयोऽभूत् ॥
इति श्रीमत्पदवाक्यप्रमाणमर्यादाधुरंधरचतुर्धरवंशावतंसगोविन्दसूरिसूनोर्नीलकण्ठस्य कृती गणेशगीताटीकायां गणपतिभावदीपिकायां नवमोऽध्यायः ॥९॥
N/A
References : N/A
Last Updated : February 13, 2011
TOP