संस्कृत सूची|संस्कृत स्तोत्र साहित्य|गीता|श्री गणेश गीता| अथ सप्तमोऽध्यायः श्री गणेश गीता अथ प्रथमोऽध्यायः अथ द्वितीयोध्यायः अथ तृतीयोऽध्यायः अथ चतुर्थोऽध्यायः अथ पञ्चमोऽध्यायः अथ षष्ठोऽध्यायः अथ सप्तमोऽध्यायः अथ अष्टमोऽध्यायः अथ नवमोऽध्यायः अथ दशमोऽध्यायः अथ एकादशोऽध्यायः श्री गणेश गीता - अथ सप्तमोऽध्यायः श्रीमद्गणेश गीतेचे पठन केल्याने अनेक चतुर्थींचे फळ मिळते. Tags : ganeshagitaगणेशगीता अथ सप्तमोऽध्यायः Translation - भाषांतर पूर्वाध्यायान्त उक्ते द्धे गती तत्प्रात्ये च ब्रह्मसंसृती बुभुत्सुर्वरेण्य उवाच-का शुक्ला गतिरुद्दिष्टा का च कृष्णा गजानन ।किं ब्रह्म संसृतिः का मे वक्तुमर्हस्यनुग्रहात् ॥१॥पृष्ठमेवं गजानन उवाच-अग्निर्ज्योतिरहः शुक्ला कर्मर्हमयनं गतिः ।चान्द्रं ज्योतिस्तथा धूमो रात्रिश्र्व दक्षिणायनम् ।कृष्णैते ब्रह्मसंसुत्योरवाप्तेः कारणं गती ॥२॥शुक्लगतिप्राप्यं ब्रह्माऽऽह सार्धेन-द्दश्याद्दश्यमिदं सर्वं ब्रह्मैवेत्यवधारय ॥३॥क्षरं पञ्चात्मकं विद्धि तदन्तरक्षरं स्मृतम् ।उभाभ्यां यदतिक्रान्तं शुद्धं विद्धि सनातनम् ॥४॥एवं शुक्लगत्या क्रमप्राप्यं ब्रह्मोक्त्वा कृष्णगत्या क्रमप्राप्यां संसृतिमाह-अनेकजन्मसंभूतिः संसृतिः परिकीर्तिता ।संसृतिं प्राप्नुवन्त्येते ये तु मां गणयन्ति न ॥५॥एवं संसृतिं तत्तत्कारणं च निरीश्र्वरत्वमुक्तम् । अथ तन्निराकरणोपायमाह-ये मां सम्यगुपासन्ते परं ब्रह्म प्रयान्ति ते ।ध्यानाद्यैरुपचारैर्मां तथा पञ्चामॄतादिभिः ॥६॥स्त्रानवस्त्राद्यलंकारसुगन्धधूपदीपकैः ।नैवेद्यैः फलताम्बूलैर्दक्षिणाभिश्र्व योऽर्चयेत् ॥७॥भक्त्यैकचेतसा चैव तस्पेष्टं पूरयाम्यहम् ।एवं प्रतिदिनं भक्त्या मद्धक्तो मां समर्चयेत् ॥८॥एवं द्धितीयपूजाप्रकारमुक्त्वा तृतीयमाह-अथ वा मानसीं पूजा कुर्वीत स्थिरचेतसा ।अथ वा फलपत्राद्यैः पुष्पमूलजलादिभिः ॥९॥आसु पूजास्वन्यमयाऽपीष्टार्थी मां पूजयेत्याहार्धेन-पूजयेन्मां प्रयत्नेन तत्तदिष्टफलं लभेत् ।एवमपि मानस्याः श्रैष्ठ्यमाह-त्रिविधास्वपि पूजासु श्रेयसी मानसी मता ॥तत्र ध्यानाद्यैः पूजाऽतिश्रेष्ठतमाऽपि प्राकृतानां दुःसाध्या बाह्यद्रव्यसाध्या प्रशस्ताऽपि वहिर्मुखत्वानिवर्तकत्वान्न श्रेयसी । मानसी त्वन्तर्मुखतायाः साधकत्वाच्छ्रेयसीति स्पष्टम् । मानस्यपि निष्कामेण कृताऽत्युत्तमेहार्धेन-साऽप्युत्तमा मता पूजाऽनिच्छया या कृता मम् ॥१०॥चतुर्णामाश्रमिणामन्यतमो वा तदन्यो वा सच्छूद्रादिर्यां कांचिदेकांपूजां कुर्वाणोऽपि सोपानारोहक्रमेणोर्ध्वमूर्ध्वां भूमिं प्राप्य सिद्धिं विन्दतीत्याह-ब्रह्मचारी गृहस्थो वा वानप्रस्थो यतिश्व यः ।एकां पूजां प्रकुर्वाणोऽप्यन्यो वा सिद्धिमृच्छति ॥११॥ लौकिकप्रसिद्धं हरिहरगौरीगणेशसूर्यादीनां देवतानां भेदमादायाऽऽह-मदन्यदेवं यो भक्त्या द्विषन्मामन्यदेवताम् ।सोऽपि मामेव यजते परं त्वविधितो नृप ॥१२॥एतदेव विवृणोति-यो ह्यन्यदेवतां मां च द्विषन्नन्यां समर्चयेत् ।याति कल्पसहस्त्रं स निरयान्दुःखभाक्सदा ॥१३॥अथ तान्त्रिकीं पूजां तदकरणे प्रत्यवायं चाऽऽहचतुर्भिः श्लोकैर्भूतशुद्धिमित्यादिभिः-भूतशुद्धिं विधायाऽऽदौ प्राणानां स्थापनं तथा ।आकृत्य चेतसो वृत्तिं ततो न्यासमुपक्रमेत् ॥१४॥कृत्वाऽन्तर्मातृकान्यासं बहिश्र्वाथ षडङकम् ।न्यासं च मूलमन्त्रस्य ततो ध्यात्वा जपेन्मनुम् ॥१५॥स्थिरचित्तो जपेन्मन्त्रं यथागुरुमुखागतम् ।जपं निवेद्य देवाय स्तुत्वा स्तोत्रैरनेकधा ॥१६॥एवं मां य उपासीत स लभेन्मोक्षमव्ययम् ।य उपासनया हीनो धिङ्नरो व्यर्थजन्मभाक् ॥१७॥यज्ञोऽहमौषधं मन्त्रोऽग्निराज्यं च हविर्हुतम् ॥१८॥ध्यानं ध्येयः स्तुतिः स्तोत्रं नतिर्भक्तिरुपासना ।त्रर्याज्ञेयं पवित्रं च पितामहापितामहः ॥१९॥इतोऽप्यन्तरङा भावनामाह ऐहिकात्मदृष्टिदार्ढ्यमेव (?)ओङार इत्यादिना सार्धद्धयेन-ओङारः पावनं साक्षी प्रभुर्मित्रं गतिर्लयः ।उत्पत्तिः पोषको बीजं शरणं वास एव च ॥२०॥असन्मृत्युः सदमृतमात्मा ब्रह्माहमेव च ।दानं होमस्तपो भक्तिर्जपः स्वाध्याय एव च ॥२१॥यद्यत्करोति तत्सर्वं समे मयि निवेदयेत् ॥२२॥एवं मयि सर्वकर्मार्पणं कुर्वन्तो मूढा योषिदादयोऽपि मुच्यन्ते किमुत सुधिय इत्याह-योषोतोऽदुराचाराः पापास्त्रैवर्णिकास्तथा ।मदाश्रया विमुच्यन्ते किं मद्धक्ता द्बिजातयः ॥२३॥भक्तिमेव संक्षेपेणाऽऽह-न विनश्यति मद्धको ज्ञात्वेमा मद्धिभूतयः ।प्रभवं मे विभूतीश्र्व न देवा ऋषयो विदुः ॥२४॥साधारण्येन विभूतीस्तल्लक्षणं चाऽऽह-नानाविभूतिभिरहं व्याप्य विश्र्वं प्रतिष्ठितः ।यद्यच्छ्रेतमं लोके सा विभूतिर्निबोध मे ॥२५॥ॐ तत्सादिति श्रीमद्धणेशगीतासूपनिषदर्थगर्भासु योगामृतार्थशास्त्रे श्रीमदादिगणेशपुराणे श्रीगजाननवरेण्यसंवादे विभूतियोगी नाम सप्तमोऽध्यायः ॥७॥श्रीचातुर्धरभणितौ गणेशगीताटीकायां गणपतिभावदीपिकायाम् ।गम्भीरप्रततसदर्थदर्शिकायामध्यायः स्फुटह्रदयोऽत्र सप्तमोऽभूत ।इति श्रीमत्पदवाक्यप्रमाणमर्यादाधुरंधरचतुर्धरवंशावतंसगोविन्दसूरिसूनोर्नीलकण्ठस्य कृतौ गणेशगीताटीकायां गणपतिभावदीपिकायां विभूतियोगो नाम सप्तमोऽध्यायः ॥७॥ N/A References : N/A Last Updated : February 13, 2011 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP