संस्कृत सूची|संस्कृत स्तोत्र साहित्य|गीता|श्री गणेश गीता| अथ तृतीयोऽध्यायः श्री गणेश गीता अथ प्रथमोऽध्यायः अथ द्वितीयोध्यायः अथ तृतीयोऽध्यायः अथ चतुर्थोऽध्यायः अथ पञ्चमोऽध्यायः अथ षष्ठोऽध्यायः अथ सप्तमोऽध्यायः अथ अष्टमोऽध्यायः अथ नवमोऽध्यायः अथ दशमोऽध्यायः अथ एकादशोऽध्यायः श्री गणेश गीता - अथ तृतीयोऽध्यायः श्रीमद्गणेश गीतेचे पठन केल्याने अनेक चतुर्थींचे फळ मिळते. Tags : ganeshagitaगणेशगीता अथ तृतीयोऽध्यायः Translation - भाषांतर यतस्तानि पराण्यहुरितिश्लोकद्धयेन यो योगः संक्षपेणोक्तस्तत्र श्रद्धामुत्पादयितुं तस्य वेदमूलत्वेनानादिपरम्पराप्राप्तत्वं विवृण्वञ्श्री गजानन उवाच-पुरा सर्गदिसमये त्रैगुण्यं त्रितनूरुहम् ।निर्माय चैतमवदं विष्णवे योगमुत्तमम् ॥१॥अस्या विद्याया वंशमाह-अर्यम्णे सोऽब्रवीत्सोऽपि मनवे निजसूनवे ।ततः परम्परायातं विदुरतं महर्षयः ॥२॥कालेन बहुना चायं नष्टः स्याच्चरमे युगे ।अश्रद्धेयो ह्याविश्र्वस्यो विगितव्यश्र्व भूमिप ॥३॥एवं योगनाशे कारणत्रयमुक्त्वा तत्प्रवृतौ त्वहमेव कारणमित्याह-एतं पुराभवं योगं श्रुतवानसि मन्मुखात्।गुह्याद्गुह्यतंम वेदरहस्यं परमं शुभम् ॥४॥गणपतिविग्रहस्य सूर्यवद्दर्शनादर्शने एविदयास्तमयावित्यजानव्वरेण्य उवाच-सांप्रतं चावतीर्णोऽसि गर्भतस्त्वं गजानन ।प्रोक्तवान्कथमेतं त्वं विष्णवे योगमुत्तमम् ॥५॥स्वविग्रहस्यानाद्यनन्तत्वं दर्शयत्र्श्रीगजानन उवाच-अनेकानि च ते जन्मान्यतीतानि ममापि च ।संस्मरे तानि सर्वाणि च स्मृतिस्तव वर्तते ॥६॥मत्त एव महाबाहो जाता विष्ण्वादयः सुराः ।मय्येव च लयं यान्ति प्रलयेषु युगे युगे ॥७॥विष्ण्वादीनां स्वप्रभवत्वात्स्वाभिन्नत्वमेवाऽऽह-अहमेवापरो ब्रह्मा महारुद्रोऽहमेव च ।अहमेव जगत्सर्वं स्थावरं जङमं च यत् ॥८॥एवमात्मनः सामान्यतः सार्वात्म्यमुक्त्वा मत्स्यकूर्मादीन्स्वस्य विशेषावतारानप्याह-अजोऽव्ययोऽहं भूतात्माऽनादिरीश्वर एव च ।आस्थाय त्रिगुणां मायां भवामि बहुयोनिषु ॥९॥कदाऽऽविर्भवसीत्यपेक्षायामाह-अधर्मोपचयो धर्मापचयो हि यदा भवेत् ।साधून्संरक्षितुं दुष्टास्तान्त्तुं संभवाम्यहम् ॥१०॥एतदेव स्पष्टयति-उच्छिद्याधर्मनिचयं धर्मं संस्थापयामि च ।हन्मि दुष्टांश्र्व दैत्यांश्र्व नानालीलाकरो मुदा ॥११॥अवतारप्रयोजनमर्धेनोपसंह्यत्य तज्ज्ञाम्नप्रयोजनं च सार्धेनाऽऽह-वर्णाश्रमान्मुनीन्साधून्पालये बहुरुपधृत् ।एवं यो वेत्ति संभूतीर्मम दिव्या युगे युगे ॥१२॥तत्तत्कर्म च वीर्यं च मम रुपं समासतः ।त्यक्त्वाऽहंममताबुद्धिं न पुनर्भूः स जायते ॥१३॥न पुनर्भूः स जायत इत्यक्तं तत्र किंविधा न जायन्त इत्यत आह-निरीहा निर्भयारोषा मत्परा मव्धपाश्रयाः ।विज्ञानतपसा शुद्धा अनेके मामुपागताः ॥१४॥ये त्वनष्टाज्ञानास्तेषामप्यहमेव गतोरित्याह--येन येन हि भावेन संसेवन्ते नरोत्तमाः ।तथा तथा फलं तेभ्यः प्रयच्छाम्यव्ययः स्फुटम् ॥१५॥एवं संसारिणां त्रैगुण्यमुक्त्वा निस्त्रैगुण्यं पन्थानमाह-जनाः स्युरितरे राजन्मम मार्गानुयायिनः ।तथैव व्यवहारं ते स्वेषु चान्येषु कुर्वते ॥१६॥पुनः कामिनां मतमनुवदति-कुर्वान्ति देवताप्रीतिं वाञ्छन्तः कर्मणां फलम्।प्राप्नुवन्तीह ते लोके शीघ्रं सिध्दिं हि कर्मजाम् ॥१७॥तत्किं कर्म मुमुक्षुणा त्याज्यमेवेत्याशङक्याऽऽह-चत्वारों हि मया वर्णा रजःसत्त्वतमोंशतः ।कर्मांशतश्र्व संसृष्टा मृत्युलोके मया नृप ॥१८॥एतध्दर्मद्धयं मम मायिकमेव न स्वाभाविकमित्याह-कर्तारमिति मां तेषामकर्तारं विदुर्बुधाः ।अनादिमीश्र्वरं नित्यमलिप्तं कर्मजैर्गुणैः ॥१९॥एतज्ज्ञानफलमाह-निरीहं योऽभिजानाति कर्म बघ्नाति नैव तम्।चक्रुः कर्माणि बुद्ध्वैवं पूर्वं मुमुक्षवः ॥२०॥मुमुक्षवः कर्माणि कथं चक्रुरित्यपेक्षायां तध्दिभागं विवक्षुः प्ररोचनार्थं विभागफलमादावाह-वासनासहितादाद्यात्संसारकारणाद्द्दढात् ।अज्ञानबन्धनाज्जर्न्तुर्बुद्ध्वा यं मुच्यतेऽखिलात् ॥२१॥तदकर्म च कर्मापि कथयाम्यधुना तव ।यत्र मौनं गता मोहाद्दषयो बुद्धिशालिनः ॥२२॥तत्त्वं मुमुक्षुणा ज्ञेयं कर्मकर्मविकर्मणाम् ।त्रिविधानीह कर्माणि शृणु चैषां गतिः प्रिय ॥२३॥तदेव तत्त्वं दर्शयति-क्रियायामक्रियाज्ञानमक्रियायां क्रियामतिः ।यस्य स्यात्स हि मर्त्योऽस्मिल्लाँके मुक्तोऽखिलार्थकृत् ॥२४॥एवं कुर्वतः फलितमाह-कामाङूकुरवियोगेन यः कर्माण्यारभेन्नरः ।तत्त्वदर्शननिर्दग्धक्रियमाहुर्बुधा बुधम् ॥२५॥कामाङकुरवियोगमेव स्तौति पञ्चभिः-फलतृष्णां विहाय स्यात्सदा तृप्तो विसाधनः ।उद्युक्तोऽपि क्रियां कर्तुं किंचिन्नैव करोति सः ॥२६॥उत्तमं वैतृष्ण्यमुक्त्वा ततोऽप्यवंर तदाह-निरीहो निगृहीतात्मा परित्यक्तपरिग्रहः ।केवलं वैग्रंह कर्माऽऽचरन्नाऽऽयाति पातकम् ॥२७॥ततोऽप्यवरमाह-अद्वंद्वोऽमत्सरो भूत्वा सिध्द्यसिध्द्योः समश्र्व यः ।यथाप्राप्तीह संतुष्टः कुर्वन्कर्म न बध्यते ॥२८॥एवं वितृष्णस्य योगिनो योगमनुतिष्ठतः कैर्मालेपमाह-अखिलैर्विषयैर्मुक्तो ज्ञानविज्ञानवानपि ।यज्ञार्थं तस्य सकलं कृतं कर्म विलियते ॥२९॥यज्ञार्थं कर्माचरणप्रकारमाह-अहमग्निर्हविर्होता हुतं यन्मयि चार्पितम् ।ब्रह्माऽऽप्तव्यं च तेनाथ ब्रह्मयेव यतो रतः ॥३०॥ये त्विमां भावनां द्वैतदर्शनग्राबल्यात्कर्तुमशक्तास्तेषां मतमाह-योगिनः केचिदपरे दिष्टं यज्ञं वदन्ति च ।ब्रह्माऽऽग्निरेव यज्ञो वै इति केचन मेनिरे ॥३१॥इतोऽपि विशिष्टानाह-संयमाग्नौ परे भूप इन्दियाण्युपजुह्यति ।खाग्निष्वन्ये तद्विषयाञ्शब्दादीनुपजुह्यति ॥३२॥पूर्वत्र ध्यष्टीन्द्रियधारणोक्ता, इह त्वहंकारधारणोच्यते-प्राणानामिन्द्रियाणां च परे कर्माणि कृत्स्त्रशः ।निजात्मरतिरुपेऽग्नौ ज्ञानदीप्ते प्रजुह्रति ॥३३॥तदेवं मुख्य आत्मप्रतिपत्त्युपाय उक्तः । अत्राशक्तानां प्रकारान्तराण्याहद्रवेण तपसा वाऽपि स्वाध्यायेनापि केचन ।तीव्रव्रतेन यतिनो ज्ञानेनापि यजन्ति माम् ॥३४॥सर्वनोनिग्रहपूर्वकः प्राणादीनां निग्रह उत्तमाधिकारिणामुक्तः । इदानी प्राणनिग्रहपूर्वक मनोनिग्रहं वक्तुं प्राणानिग्रहं तावदाह-प्राणेऽपानं तथा प्राणमपाने प्रक्षिपन्ति ये ।रुद्ध्वा गतीश्र्वोभयोस्ते प्राणायामरता नराः ॥३५॥त एवं प्राणायामरताः सन्तः किं कुर्वन्तीत्यपेक्षायामाह-जित्वा प्राणान्प्राणगतीरुपजुह्यति तेषु च ।एवं नानायज्ञरता यज्ञध्वंसितपातकाः ॥३६॥परिशिष्टं द्रव्येण तपसा वेत्यत्रोक्तस्य द्रव्ययज्ञस्य फलमाह-नित्यं ब्रह्म प्रयान्त्वेते यज्ञशेषामृताशिनः ।अयज्ञकारिणो लोको नायमन्यः कुतो भवेत् ॥३७॥अथाऽऽध्यात्मिकं यज्ञत्रयमपि मोक्षसाधनमित्याह-कायिकादित्रिधाभूतान्यज्ञान्वेदे प्रतिष्टितान् ।ज्ञात्वा तानखिलान्भूप मोक्ष्यसेऽखिलबन्धनात् ॥३८॥सर्वज्ञशेषीभूतं ज्ञानयज्ञमाह-सर्वेषां भूप यज्ञानां ज्ञानयज्ञः परो मतः ।अखिलं लियते कर्म ज्ञाने मोक्षस्य साधने ॥३९॥राचार्यगुरुपसदनपूर्वकमेव ज्ञानलाभो भवतीत्याह-तज्ज्ञेयं पुरुषव्याघ्र प्रश्नेन नतितः सताम्।शुश्रूषया वदिष्यन्ति सन्तस्तत्त्वविशारदाः ॥४०॥गुरुपसदनमेव मही करोति श्लोकत्रयेण नानोति-नानासङाञ्जनः कुर्वन् नैकं साधुसमागमम् ।करोति तेन संसारे बन्धनं समुपैति सः ॥४१॥सत्सङाकरणे दोषमुक्त्वा तत्करणे गुणमाह-सत्सङाद्गुणंसंभूतिरापदां लय एव च ।स्वहितं प्राप्यते सर्वैरिह लोके परत्र च ॥४२॥उक्तेमेवार्थं संक्षिप्याऽऽह-इतरत्सुलभं राजन्सत्सङ्गोऽतीव दुर्लभः ।यज्ज्ञात्वा न पुनर्बन्धमेति ज्ञेयं च तत्त्वतः ॥४३॥ज्ञानस्यापि फलमाह-ततः सर्वाणि भूतानि स्वात्मन्येवाभिपश्यति ।अतिपापरतो जन्तुस्ततस्तस्मात्प्रमुच्यते ॥४४॥एतदेव सदृष्टान्तमाह-द्विबिधान्यपि कर्माणि ज्ञानग्निर्दहति क्षणात् ।प्रसिद्धोऽग्निर्यथा सर्वं भस्मतां नयति क्षणात्॥४५॥न ज्ञानसमतामेति पवित्रमितरन्नृत ।आत्मन्येवावगच्छन्ति योगात्कालेन योगिनः ॥४६॥भक्तिमानिन्द्रियजयी तत्परो ज्ञानमाप्नुयात्।लब्ध्वा तत्परमं मोक्षं स्वल्पकालेन यात्यसौ ॥४७॥भव्त्याद्यभावे दोषमाह-भक्तिहीनोऽश्रद्दधानः सर्वत्र संशयी तु यः ।तस्य शं नापि विज्ञानमिह लोकोऽथ वा परः ॥४८॥लब्धज्ञानस्य संशयादयो नस्यन्तीत्याह-आत्मज्ञानरतं ज्ञाननाशिताखिलसंशयम्।योगास्ताखिलकर्माणं बध्नन्ति नृप तानि न ॥४९॥ज्ञानद्प्याधिक्यं योगस्य ब्रह्यर्पणयोगस्य दर्शयन्ब्रह्मार्पणयोगमुफ्संहरति-ज्ञानखडगप्रहारेण संभूतमज्ञताबलात् ।छित्त्वाऽन्तः संशयं तस्माद्योगयुक्तो भवेन्नरः ॥५०॥ॐ तत्सदिति श्रीमध्दणेशगीतासूपनिषदर्थर्भासु योगामृतार्थशास्त्रे श्रीमदादिगणेशपुराणे श्रीगजाननवरेण्यसंवादे ब्रह्यार्पणयोगो नाम तृतीयोऽध्यायः ॥३॥इति श्रीमत्पदवाक्यप्रमाणमर्यादाधुरंधरचतुर्धरवंशावतंसगोविन्दसूरिसूनोर्नीलकण्ठस्य कृतौ गणेशगीताटीकायां ब्रह्यार्पणयोगो नाम तृतीयोऽध्यायः ॥३॥ N/A References : N/A Last Updated : February 13, 2011 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP