श्री गणेश गीता - अथ द्वितीयोध्यायः

श्रीमद्‍गणेश गीतेचे पठन केल्याने अनेक चतुर्थींचे फळ मिळते.


हानो वरेण्य उवाच-
ज्ञाननिष्ठा कर्मनिष्ठा द्बयं प्रोक्तं  त्वया विभो ।
अवधार्य वदैकं मे निःश्रेयसकरं नु किम् ॥१॥

एवं प्रार्थितो गजानन उवाच-
अस्मिंश्वराचरे स्थित्यौ पुरोक्ते द्वे मया प्रिय ।
सांख्यानां बुद्धियोगेन वैधयोगेन कर्मिणाम् ॥२॥

एवं  तर्हि ज्ञानविष्ठैव साध्या किं विहितैः कर्मभिरित्याशङया‌‌‌ऽऽह-
अनारम्भेण वैधानां निष्क्रियः पुरुषो भवेत् ।
न सिद्धि याति संत्यागात्केवलात्कर्मणो नृप ॥३॥

वृत्तिनिरोधोऽपि न संभवतीत्याशयेनाऽऽह-
कदाचिदक्रियः कोऽपि क्षणं नैवावतिष्ठते ।
अस्वतन्त्रः प्रकृतिजैर्गुणैः कर्म च कार्यते ॥४॥

ननु स्वाधीन एव स्वकायवाङमनसां व्यापारस्य निरोधः सर्वैषां सुकर इत्याशङ्याऽऽह-
कर्मकारीन्द्रियग्रामं नियम्याऽऽस्ते स्मरन्पुमान्‍ ।
तद्धोचरान्मन्दचित्तो धिगाचारः स भाष्यते ॥५॥

केन प्रकारेण क्रियमाणं कर्म चित्तशोधकं भवतीति जिज्ञासायामाह
तद्‍ग्रामं संनियम्याऽऽदौ मनसा कर्म चाऽऽरभेत् ।
इन्द्रियैः कर्मयोगं यो वितृष्णः स परो नृप ॥६॥

किंच-
अकर्मणः श्रेष्ठतमं कर्मानिच्छाकृतं तु यत् ।
वर्ष्मणः स्थितिरप्यस्य कर्मणो नैव सेत्स्यति ॥७॥

श्रेष्ठतममेव पक्षं विपक्षे बाधप्रदर्शनपूर्वंक स्पष्टी करोति-
असर्म्य निबध्यन्ते कर्म तेन जना अपि ।
कुर्वीत सततं कर्मानाशोऽसङो मदर्पणम् ॥८॥

एतदेव द्वयं विस्पष्टयति-
मदर्थं यानि  कर्माणि तानि  बघ्नन्ति न क्कचित्‍ ।
सवासनमिदं कर्म बन्घाति देहिनं बलात् ॥९॥

चित्तशुद्‍ध्यर्थ तु कर्माण्यवश्यं कर्तव्यानीत्यभिप्रायेणाऽऽख्यायिकापूर्वं दर्शयति वर्णान्सृष्टेत्यादिश्लोकशट्‍केन-
वर्णान्सृष्टाऽवदं चाहं सयज्ञांस्तान्पुरा प्रिय ।
यज्ञेन ऋध्यमामेष कामदः कल्पवृक्षवत् ॥१०॥

सुरांश्वानेन प्रीणध्वं सुरास्ते प्रीणयन्तु वः ।
लभध्वं परमं स्थानमन्योन्यप्रीनात्स्थिरम् ॥११॥

नित्याकरणात्प्रत्यवायोत्पादमाह-
इष्टा देवाः प्रदास्यन्ति भोगानिष्ठान्सुतर्पिताः ।
तैर्दत्तांस्तान्नरस्तेभ्योऽदत्वा  भुङक्ते स तस्करः ॥१२॥

तत्रा‌ऽऽद्ये पञ्चयज्ञादिकरणे गुणमन्त्य इन्द्रियारामत्वे दाषें च क्रमेणाऽऽह-
हुतावशिष्टभोक्तारो मुक्ताः स्युः सर्वपातकैः ।
अदन्त्येनो महापापा आत्म्हेतोः पचन्ति ये ॥१३॥

तत्तत्कारणपरम्परामुखेन सर्वकारणत्वं यज्ञस्याऽऽह-
ऊर्जा भवन्ति भूतानि देवादन्नस्य संभवः ।
यज्ञाच्च देवसंभूतिस्तदुत्पत्तिश्व वैधतः ॥१४॥

तथा-
ब्राह्मणो वैधमुत्पन्नं मत्तो ब्रह्मसमुद्धवः ।
अतो यज्ञे च विश्वस्मिन्स्थितं मां विद्धि भूमिप ॥१५॥

आख्यायिकापूर्व व्युत्पादितस्य धर्मप्राधान्यस्य फलमाह-
संसृतीनां महाचक्रं क्रामितव्यं विचक्षणैः ।
स मुदा प्रीणते भूपेन्द्रियक्रीडोऽधमो जनः ॥१६॥

पूर्वार्धोक्तमतिक्रान्तसंसारचक्र जीवन्मुक्तं स्तौति-
अन्तरात्मनि यः प्रीत आत्मारामोऽखिलप्रियः ।
आत्मतृप्ती नरो यः स्यात्तस्यार्थो विद्यते ॥१७॥

अन्त्यंमेव पादं विवृणोति-
कार्याकार्यकृतीनां स नैवाऽऽमोति शुभाशुभे ।
किंचिदस्य न साध्यं स्यात्सर्वजन्तुषु सर्वदा ॥१८॥

उपपादितं कर्मयोगमुपसंहरति-
अतोऽसक्ततया भूप कर्तव्यं कर्म जन्तुभिः ।
सक्तो गतिमवाप्नोति मामवाप्नोति ताद्दशः ॥१९॥

यस्मादेवं प्रभावं कर्म तस्मात्कृतकृत्येत्योऽपि लोकसंग्रहार्थं कर्माणि कुर्यादित्याह-
परमां सिध्दिमपन्नाः पुरा राजर्षयो द्विजाः ।
संग्रहाय हि लोकानां ताद्दशं कर्म चाऽऽरभेत् ॥२०॥

लोकशिक्षार्थतामेव विद्वत्कर्मणां स्पष्टयति-
श्रेयान्यत्कुरुते कर्म तत्करोत्यखिलो जनः ।
मनुते यत्प्रमाणं स तदेवानुसरत्यसौ ॥२१॥

अत्रैवार्थै स्वाचार्रमपि प्रमाणत्वेन दर्शयति-
विष्टपे मे न साध्योऽस्ति कश्विदर्थो नराधिप ।
अनालब्धश्व लव्धव्यः कुर्वै कर्म तथाऽप्यहम् ॥२२॥

विपक्षे बाधकमाह द्वाभ्याम्‍-
न कुवैऽहं यदा कर्म स्वतन्त्रोऽलसभावितः ।
करिष्यन्ति मम ध्यानं सवै वर्णा महामते ॥२३॥

ननु भ्रश्यतु लोकः स्वीयस्वार्थात्का मम हानिरित्याशङयाऽऽह-
भविष्यन्ति ततो लोका उच्छिन्नसंप्रदायिनः ।
हन्ता स्यामस्य लोकस्य विधाता संकरस्य च ॥२४॥

नन्वेवं विद्धदविदुषोस्तुल्यवत्कर्मणामनुष्ठाने प्राप्ते कस्तयो र्विशेष इत्याकाङक्षायामाह-
कामिनो हि सदा कामैरज्ञानात्कर्मकारिणः ।
लोकानां संग्रहायैतद्बिद्बान्कुर्यादसक्तधीः ॥२५॥

एवं विद्वदविदुषोः कर्मभेदे सत्यप्यविदुषां मतिमंद विद्धान्न कुर्वीतेत्याह -
विभिन्नत्वमतिं जह्यादज्ञानां कर्मचारिणाम् ।
योगयुक्तः सर्वकर्माण्यर्पयेन्माये कर्मकृत् ॥२६॥

कथं तर्हि विद्धांसोऽपि कर्म कुर्वन्ति न.तु पारिव्राज्यमनुतिष्ठन्तीत्याशङक्याऽऽह-
अविद्यागुणसाचिव्यात्कुर्वन्कर्माण्यतन्द्रितः ।
अहंकारान्मन्दबुद्धिरहं कर्तैति योऽब्रवीत् ॥२७॥

एवं सत्यपि विदुषां विशेषमाह-
यस्तु वेत्त्यात्मनस्तत्त्वं विभागाद्‍गुणकर्मणोः ।
करणं विषये वृत्तमिति मत्वा न सज्जते ॥२८॥

अज्ञाः कथं सज्जन्त इत्यपेक्षायामाह-
कुर्वन्ति सकलं कर्म गुणौस्त्रिभिर्विमोहिताः ।
अविश्वस्तस्वात्मद्रुहो विश्वविन्नैव लड्‌घयेत् ॥२९॥

एतदेवाज्ञस्य जिज्ञासोखश्यं कर्मणी कर्तव्यतां दर्शयति-
नित्यं नैमित्तिकं तस्मान्मयि कर्मार्पद्‍बुधः ।
व्यक्त्वाऽहंममताबुद्धि परां गतिमवात्नुयात् ॥३०॥

एतदेव स्तौति-
अनीर्ष्यन्तो भक्तिमन्तो ये मयोक्तमिदं शुभम् ।
अनुतिष्ठान्ति ये सवै मुक्तास्तेऽखिलकर्मभिः ॥३१॥

तदकरणे  दोषमाह-
ये चैव नानुतिष्ठान्ति अशुभा हतचेतसः ।
ईर्ष्यमाणान्महामूढान्नष्टांस्तान्विद्धि मे रिपून् ॥३२॥

ननु यदि स्वातत्र्यात्पुरुषः कर्माणि कुर्वन्नकुर्वंश्व गुणदोषभाग्भवाते तर्ह्यन्तर्यामिब्राह्मणमनर्थकं स्यात्।
यदि तु तदेव प्रमाणं तर्ह्यस्वतन्त्र्पुरुषो न कर्मजौ गुणदोषाववाप्नोतीत्याशङूक्यानीश्वरसांरख्यमतमालम्ब्य पहिहरति-

तुल्यं प्रकृत्या कुरुते कर्म यज्ज्ञानवानपि ।
अनुयाति च तामेव ग्रहस्तत्र मुधा मतः ॥३३॥

नन्वेवं पुंसां प्रकृत्यनुवर्तित्वेनास्वातन्त्र्येण विधिनिषेशास्त्रं दत्तज्लाञ्जलि स्यादित्याशङय मतान्तरमाह-
कामश्वैव तथा क्रोधः खानामर्थेषु जायते ।
नैतयोर्वश्यतां यायादस्य विध्वंसकौ यतः ॥३४॥

ततः किमत्यत आह-
शस्तोऽगुणो धर्मः साङ्गादन्यस्य धर्मतः ।
निजे तस्मिन्मृतिः श्रेयोऽपरत्र भयदः परः ॥३५॥

इतीश्वरवादे प्रकृतिवादे चास्वतन्त्रस्य विधिनिषेधावनर्थकौ स्वतन्त्रवादे च तत्संभव इति परस्परविरोधान्निर्णयं बुभुत्सुर्वरेण्य उवाच-
पुमान्यत्कुरुते पापं स हि केन नियुज्यते ।
अकाङ्क्षन्नपि हेरम्ब प्रेरितः प्रबलादिव ॥३६॥

अत्रोत्तरं गजानन उवाच
कामक्रोधौ महापापौ गुणद्वयसमुद्धवौ ।
नयन्तौ वश्यतां लोकं विद्‍ध्येतौ द्बेषिणौ वरौ ॥३७॥

कामक्रधयोः केन प्रकारेण पापहेतुत्वं तदाह-
आवृणोति यथा माया जगद्बाष्पो जलं यथा ।
वर्षामेघो यथा भानुं तद्बत्कामोऽखिलांश्व रुट् ॥३८॥

काम्स्यानर्थहेतुत्वं विवृणोति-
प्रतिपत्तिमतो ज्ञानं छादितं  सततं द्बिषा ॥
इच्छात्मकेन तरसा दुष्ह्पोष्येण च शुष्मिणा ॥३९॥

कामो ज्ञानमाच्छाद्य किं करोतीत्यपेक्षायामाह ।
आश्रित्य बुद्धिमनसी इन्द्रियाणि स तिष्ठाति ।
तैरेवाऽऽच्छादितप्रज्ञो ज्ञानिनं मोहयत्यसौ ॥४०॥

तस्मान्नियम्य तान्यादौ समनांसि नरो जयेत् ।
ज्ञाजविज्ञानयोः शान्तिकरं पापं मनोमवम् ॥४१॥

कामदेव सर्वानर्थनिदानं जित्वा कृतकृत्यो भवतीत्याशयेनाऽऽह-
यतस्तानि पराण्याहुस्तेभ्यश्व परमं मनः ।
ततोऽपि हि परा बुद्धिरात्मा बुध्देः परो मतः ॥४२॥

ततश्व किमित्यताआह-
बुद्‍ध्वैवमात्मनाऽऽत्मानं संस्तभ्याऽऽत्मानमात्मना ।
हत्वा शत्रुं कामरुपं परं पदमावप्नुयात् ॥४३॥

श्रीचातुर्धरभणितौ गणेशगीता-
टीकायां गणपतिभावदीपिकयाम् ।
गम्भीरप्रततसददर्थदर्शिकाया-
मध्यायः स्फुटह्रदयोऽभवद्‍द्वितीयः ॥
इति श्रीमत्पदवाक्यप्रमाणमर्यादाधुरंधर्चतुर्धवंशावतंवतंसगोविन्द-
सूरिसूनोर्नीलकण्ठस्य कृतौ गणेशगीताटीकायां गणपति-
भावदीपिकायां द्बितीयो‍ऽध्यायः ॥२॥

N/A

References : N/A
Last Updated : February 13, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP