ततःशुद्धोदकैःस्नानं यजमानस्य कारयेत । वास्तुमंडलमध्ये तु ब्रह्मस्थानेप्रपूजयेत ॥१८१॥
सुरुपां पृथुवीं दिव्यरुपाभरणसयुताम ॥ स्त्रीरुपां प्रमदावेषधारिणीं सुमनोहराम ॥१८२॥
महाव्यात्दृतिपूर्वेण पूजयेत्तां धरां पुनः। धारयेति च मन्त्रेण सम्प्रार्थ्य च पुनःपुनः॥१८३॥
सर्वदेवमयं वास्तु वास्तुदेवमयं परम । ततःस्वनाममन्त्रेण ध्यात्वा तत्र च पूजयेत ॥१८४॥
ततश्चतुर्मुखं देवं प्रजेश चाह्वयेत्ततःगन्धादिभिश्च तं पूज्य प्रण्म्य च पुनःपुनः॥१८५॥
वास्तुपुरुष नमस्तेस्तु भूमिशय्यारत प्रभो । मद्गेहे धनधान्यादिसमृद्धिं कुरु सर्वदा ॥१८६॥
वाचयित्वा ततःस्वस्ति कर्कस्थं परिगृह्य च । सूत्रमार्गेण तोयस्य धारां प्रादक्षिणेन च ॥१८७॥
पापयेत्तेन मार्गेण सर्वबीजानि चैव हि । सर्वबीजे जलैरेव तन्मार्गेणापि संचरेत ॥१८८॥
इति वास्तुविधानन्तु कृत्वा तां स्नानमण्डपात ॥१८९॥
समानीय शिलां तत्र सूत्रधारो गुणान्वितः॥१९०॥
तत्र दिकसाधनं कुर्यादगृहमध्ये सुसाधिते । ईशानादिक्रमेणैव स्वर्णकुद्दाल केन तु ॥१९१॥
खनित्वा कोणभागे तु मध्ये चैव विशेषतः। नाभिमात्रे तथा गर्ते शिलानां स्थापनं शुभम ॥१९२॥
सूत्रच्छेदे भवेन्मृत्युःकीले चार्वांगमुखे गदाः। स्कंधाच्चुते शिरोरोगःकराद्गॄहपतेःक्षयः॥१९३॥
गृहेशस्थपतीनां च स्मृतिलोपोऽथ मृतुदः। भग्ने कीर्तिवधःकुम्भे कुम्भस्योत्सर्गवर्जिते ॥१९४॥
सूत्रे प्रसार्यमाणे तु गर्दभो यदि रौति चेत। तत्रास्थि शल्य जानीयाच्छवश्रृगालदिलंघितम ॥१९५॥
रविदिप्ता दिशा यातु तत्र चेत्परुषो रवः। संस्पृष्टांगसमाने च तस्मिञ्छल्यं विनिर्दिशेत ॥१९६॥
शिलाविन्यासकाले तु वाशन्ते द्विरदादयः। तस्मिंस्तद्देहसभूतमस्थिशल्यं विनिर्दशेत ॥१९७॥
कुब्जं वामनकं भिक्षुं वैद्यं रोगातुरानपि । दर्शनं सूत्रकाले तु वर्जच्छ्रियमिच्छता ॥१९८॥
श्रुतौ हुलहुलानां च मेघानां गर्जितेन च । गर्जतामपि सिंहानां स्वनितं धनदं भवेत ॥१९९॥
सूत्रे प्रसार्यमाणे तु दीप्तोऽग्निर्यदिदृश्यते । पुरुषो घोटका रुढो भवेद्राज्यममकण्टकम ॥२००॥