भीमरुपाय ईशाने कपोतकसुरा बलिः । वसारुधिरमांसानां कृशरायास्तथैव च ॥१४१॥
आग्नेयादितिसन्धारी त्रिपुरान्तकरुपधृकम । अग्निजिह्वस्तु नैॠत्ये दुग्धं सैन्धवसंयुतम ॥१४२॥
मांस च रुधिरं च देयं तस्मै दिक्पालिने नमः । करालिके पक्वमांसं रुधिरं सैन्धवं पयः ॥१४३॥
हेतुके पूर्वदिग्भागे बलि स्थात्पायसं ह्यसृक । अग्निवैतालिके याम्मे रुधिरं मांसमेव च ॥१४४॥
कालाख्ये पश्चिमे दद्याद्वलिं मांसौदनस्य च । एकपादे उत्तरस्यां कृशराया बलिस्तथा ॥१४५॥
आग्नेयपूर्वयोमध्ये गन्धमाल्यैर्वितानकम । नैऋत्यपश्चिमान्तस्थौ ज्वालास्यः परिकीर्तितः ॥१४६॥
तस्मै दध्यक्षतयुतमोदकानि च दापयेत । दिक्पालानां बलिं दत्वा क्षेत्रपालबलिं ततः ॥१४७॥
आगभोक्तेन मन्त्रेण वेदमंत्रेण वै तथा ।
नमो भगवते क्षेत्रपालाय त्रय स्त्रिंशत्कोटिदेवाधिदेवाय निर्ज्जितभाराय
भासुरित्रिनेत्राय स्वांगकिंकिणिज्वालामुखभैरवरुपिणे तुरुमुरुमुरुललषषषषषकेंकादुरित
दिगमुखमहाबाहो अद्यकर्तव्ये वास्तुकर्मणि अमुक यजमानं पाहिपाहि
आयुष्कर्ताक्षेमकर्ताभव अमु पशुदीपसहितंमुण्डमाषभक्त बलिं गृह्णगृह्ण स्वाहा ॥१४८॥
इतिबलिं दत्त्वा नैऋत्यां दिशिभूतेभ्यो सन्ध्याकालेविशेषतः ।
बलिं दद्याद्विधानेन मन्त्रविन्नक्तभुग्यमी । पुरोहितस्तथा याज्यं गुडो दनमथापि वा ॥१४९॥
कुल्माषेण तु सम्मिश्रैर्यावकापूपसंयुतैः । बहुपक्वान्नसंयुतैः । बहुपक्वान्नसंयुक्तैर्बालक्रीडनकैस्तथा ॥१५०॥
फ़लैश्च दाडिमीबीजैः कालपुष्पैर्मनोरमैः । मात्राननाशनमिता बलिकर्मणि चोदिताः ॥१५१॥
मन्त्राः -देव्यो देवामुनीन्द्रास्त्रिभु वनपतयो दानवाः सर्वसिद्धा यक्षा रक्षांसि नागा गरुडमुखखगा गुह्यका देवदेवाः ।
डाकिन्यो देववेश्या हरिदधिपतयो मातरोविघ्न नाथाः प्रेताः भूताःपिशाचाः पितृवननगराद्याधिपाःक्षेत्रपालाः ॥१५२॥
गन्धर्वाः किन्नरास्सर्वे जटिलाः पितरो ग्रहाः । कूष्माण्डाः पूतना रोगा ज्वरा वैतालिकाः शिवाः ॥१५३॥
असृक्प्लुताश्च पिशुना भक्षमांसस्त्वनेकशः । लम्बक्रीडास्तथा ह्र्स्वा दीर्घाः शुक्लास्तथैव च ॥१५४॥
खज्जाः स्थूलास्तथैकाक्षा नानापक्षिमुखास्तथा । व्यालास्या उष्ट्रवक्राश्च अवक्राः क्रोडवर्जिताः ॥१५५॥
धननाभास्तमालाभा । द्विपाभा मेघसन्निभाः । बगलाभाः क्षितिनिभा अशनिस्वनसन्निभाः ॥१५६॥
द्रुतगाश्च मनोगाश्च वायुवेगसमाश्च ये । बहुवक्रा बहुशिर बहुबाहुसमान्विताः ॥१५७॥
बहुपादा बहुदृशः सर्पाभरणभूषिताः । विकटा मुकुटाः केचित्तथा वै रत्नधारिणः ॥१५८॥
सूर्यकोटिप्रतीकाशा विद्युत्सदृशवर्चसः। कपिला हुतभुगवर्णाः प्रथमा बहुरुपिणः ॥१५९॥
गृह्णन्तु बलयस्सर्वे तृप्ता यान्तु बलिर्नमः । आचार्यस्तु ततो नीत्वा कलशं मंत्रमंत्रितम ॥१६०॥