सर्वौषधैः सव रत्नगन्धैश्च विविधैस्तथा । पल्लवैः पञ्चकाषायैर्मृदा शुद्धोदकेन वा ॥१०१॥
ग्रहाणां पूजनं तत्र कारयेद्वेदिकोपरि । मुरा मांसीवचा कुष्ठं शैलेयं रजनीद्वयम ॥१०२॥
शुंठी चम्पकमुस्ता च सर्वौषधिगणःस्मृतः । अश्वत्थोदुम्बरप्लक्षचूतन्यग्रोधसंभवाः ॥१०३॥
पञ्चगंगा इमे प्रोक्ताः सर्वकर्मसु शोभनाः । तुलसी सहदेवी विष्णुक्रांता शतावरी ॥१०४॥
मूलान्येतानि गृह्णीयाच्छतालाभे विशेषतः । वटीर्वटोदुम्बरस्य वेतसस्य तथैव च ॥१०५॥
अश्वत्थअश्चैव मूलश्च पञ्चकाषायकाः स्मृताः । अश्वस्थानाद्गजस्थाना द्वरुमीकात्संगमाद्ध्रदात ॥१०६॥
राजद्वारप्रवेशाच्च मृदमानीय निक्षिपेत । सर्वे समुद्राःसरितः सरांसि जलदा नदाः ॥१०७॥
आयान्तु यजमानस्य दुरितक्षयकारकाः ॥१०८॥
शिख्यादिपञ्जचत्वारिंशद्देवांस्तत्र प्रपूजयेत ॥१०९॥
वेदमन्त्रैर्नाममन्त्रैः प्रणव व्यात्दृतिभिस्तथा । होमस्त्रिमेखले कार्यः कुण्डे हस्तप्रमाणके ॥११०॥
यवैः कृष्णतिलैस्तद्वत्समिद्भिः क्षीरवृक्षकैः । पालाशैः खादिरैर्वापामार्गोदुम्बरसंभवैः ॥१११॥
कुशदुर्वामयैवापि मधुसर्पिःसमन्वितैः । कार्यस्तु पञ्जभिर्बिल्वैबीजैरथापि वा ॥११२॥
होमान्ते भक्ष्यभोज्यैश्च वास्तुदेशे बलि हरेत । नमस्कारान्तयुकेन प्रणवाद्येन सर्वतः ॥११३॥
वेदोक्तेनैव मन्त्रेण संपूज्या देवताः क्रमात । ततो व्यात्दृतिभिर्होमः स्विष्टकृद्धोममेव च ॥११४॥
पूर्णाहूतिश्च जुहुयात्संस्त्रवप्राशनं ततः । बास्तुमण्डलदेवेभ्यो बलिं दद्याद्विधानतः ॥११५॥
घृतान्नं शिखिने दद्यात्पर्जन्याय च सोत्पलम । जयन्तादिवास्तुमण्डलदेवेभ्यो बलिं ततः ॥११६॥
कुलिशायुधाय पञ्चरत्नं पौष्टिकसंभवम । कौशं सूर्याय धूम्ररक्तविनापूपसक्तवैः ॥११७॥
सत्याय घृतगोधूम मत्स्यान्नञ्च भृशाय च । अन्तरिक्षाय शष्कुली मांस वापि च शाकुनम ॥११८॥
वायसे सक्तवः प्रोक्ताः पूष्णे लाजाः स्मृता बुधैः । वितथाय चणकान्नं मध्वन्नं च गृहक्षते ॥११९॥
यमाय पिशितान्नं तु गन्धर्वाय गन्धौदनम । भृंगराजाय मेषस्य जिह्वायाश्च बलिं हरेत ॥१२०॥