जया काला विशोका च तथेन्द्रा दशमी स्मृता । एका शीतिपदे ह्येता शिराश्च परिकीर्तिताः ॥२१॥
श्रिया यशोवती कान्ता सुप्रियापि परा शिवा । सुशोभा सधना ज्ञेया तथेभा नवमी स्मृता ॥२२॥
पूर्वापरा तथा ह्येताश्चतुष्पष्टिपदे स्थिताः । धन्या धरा विशाला च स्थिरा रुपा गदा निशा ॥२३॥
विभवा प्रभवा चान्या सौम्यासौन्याश्रिताः शिगः । पदस्याष्टांशको भागस्तत्प्रोक्त कर्मसंज्ञकम ॥२४॥
पदहस्तसंख्यया सम्मितो निवेशोंगुलानि । विस्तीर्णवंशव्यासोर्द्ध शिरामानं प्रचक्षते ॥२५॥
सपाता अपि वंशानां मध्यमानि समानि च । पदाना पाति तान्विद्यात्सर्वाणि भयदान्यपि ॥२६॥
न तानि पीडयेत्प्राज्ञः शुचिभाण्डैश्च कालकैः । स्तम्भैश्च शल्यदोषैश्च गृहस्वामिषु पीडनम ॥२७॥
तस्मिन्नवयवे तस्य बाधा चैव प्रजायते । कण्डूयते यद्गं वा गृहस्वामी तथैव च ॥२८॥
होमकाले च यज्ञादौ तथा भूमिपरिक्षणे । अग्नेर्वा विकृतिर्यत्र तत्र शल्यं । वनिर्दशेत ॥२९॥
धनहानिर्दारुमये पशुपीडास्थिसंभवे । रोगास्यापि भयं प्रोक्तं नागदन्तोऽपि दूषकः ॥३०॥
वंशानिमान्प्रवक्षामि बहूनपि पृथक्पृथक । वायुं यावत्तथा रोगात्पितृभ्यः शिष्यस्तथा ॥३१॥
मुख्याद्भृंगस्तथाशोका द्वितथं यावदेव तु । सुग्रीवाददितिं यावद्भृंगात्पर्जन्यमेव च ॥३२॥
एते वंशाः समाख्याताः क्वचिद्दुर्जय एव तु । एतेषां यस्तु सपातः पदमध्ये समन्ततः ॥३३॥
एतत्प्रवेशमख्यातं त्रिशूलं कोणकं च यतस्तम्भन्यासेषु वर्ज्यानि तुलाबन्धेषु सर्वदा ॥३४॥
सर्वत्र वास्तुनिर्द्दिष्टः पितृवैश्वानरा यतः । एकाशीतीपदे ह्यस्मिन्देवतास्थापने शृणु ॥३५॥
रेखाणां च फल तत्र कथयामि समासतः । वर्णानुपूर्व्येण तथा अंगस्पर्शनकं परम ॥३६॥
विप्रः स्पृष्ट्वा तथा शीर्ष चक्षुःक्षत्रियकस्तथा । वैश्यश्चोरु च शूद्रश्च पादौ स्पृष्ट्वासमारभेत ॥३७॥
अंगुष्ठकेन वा कुर्यान्मध्यांगुल्या तथैव च । प्रदेशिन्या ह्याप तथा स्वर्णरौप्यादिधातुना ॥३८॥
मणिना कुसुमैर्वापि तथादध्यक्षतैः फलैः । शस्त्रेण शत्रुतो मृत्युर्बन्धो लोहेन भस्मना ॥३९॥
अग्नर्भय तृणेनापि काष्ठादिलिखितेन च । नृपादभयं तथा वक्रे खंडे शत्रुभयं भवेत ॥४०॥