मृगाय यावकं दद्याद्वलिं नीलपदस्तथापितृभ्यः कृशरान्नंच तथा दौवारिकाय च॥१२१॥
दन्तकाष्ठ कृष्णपिष्टं दन्तधावनमेव च ॥ सुग्रीवाय अनुपं च यावकं तु तथैव च ॥१२२॥
पुष्पद्न्ताय पाय्सं वरुणाय तथैव च । कुशस्तम्भं च यमं च पैष्ट हैरण्यमयं तथा ॥१२३॥
असुराय सुरा प्रोक्ता शोषाय च घृतौदनम । गोवाय वै यक्ष्मणे च रोगाय घृतमोदनम ॥१२४॥
अहये फ़लपुष्पाणि नानकेशर इत्यपि । मुख्याय घृतगोधूमं भल्लाटे मुद्गमोदनम ॥१२५॥
सोमाय पायसघृतं नागे पौष्टिकशालकम । अदित्यै पोलिका दित्यै पूरिकाया बलिः स्मृतः ॥१२६॥
अद्भ्योऽपि क्षीरं च तथा सवित्रे च कुशौदनम । लंगुकामरिचञ्चैव जयाय घृतचन्दनम ॥१२७॥
रुद्राय पायसगुडमर्यम्णे शर्करान्वितम । पायस च सवित्रे तु गुडापूपबलिः स्मृतः ॥१२८॥
विवस्वते तथा देयं रक्तचन्दनपायसम । इन्द्राय सघृतं देयं हरितालौदनं तथा ॥१२९॥
घृतौदनं च मित्राय आममांसमधुस्तथा । राजयक्षणे च पृथ्वीधराय च मितौजसे ॥१३०॥
मांसानिकूष्माण्डमिति आपवत्साय वै दधि । ब्रह्मणे पञ्चगव्य च यबं तिलाक्षतं दधि ॥१३१॥
विविधान्भक्ष्यभोज्यांश्च फ़लानि विविधानी च । यवं दत्त्वा बलिं सम्यगदद्यात्तेभ्यो हिरण्मयम ॥१३२॥
प्रणवाद्यैश्चतुर्थ्यन्तैर्नाममन्त्रेण मन्त्रवित । सर्वेभ्योऽपि हिरण्यं च ब्रह्मणे गां पयस्विनीम ॥१३३॥
अथवा पायस दद्यात्सर्बेभ्यश्च सदीपकम । ततो बाह्यस्थितानां तु बलिं दद्याद्विधनतः ॥१३४॥
चरक्यै भाषभक्त च सघृत पद्मकेशरम । हविश्चैव तथाग्नेये वितानकविदारिके ॥१३५॥
भाषभक्तं सरुधिरं हरिद्राभक्तमेव च । नैऋत्यां च पूतनायै भाशभक्तेन संयुतम ॥१३६॥
रुधिरास्थिपीतरक्त बलिं देव्यैः निवेदयेत । वायव्ये पापराक्षस्यै मत्स्यमांसं सुरावसम ॥१३७॥
ततः प्रागादितो दिक्षु स्कन्दाय रुधिरं सुरा । अर्यम्णे भाषभक्तं च दक्षिणे विनिवेदयेत ॥१३८॥
जंभकाय तथा मांस रुधिरं पश्चिमे न्यसेत । पिलिपिच्छ्कायोत्तरे च असृग्यबलिः स्मृतः ॥१३९॥
इत्येतेषां देवतानां बलिं दद्याद्विधानतः । प्रासादादौ तथैतेषां बलिं दद्यात्प्रयत्नतः ॥१४०॥