शार्दूलविक्रीडित
अग्राह्यं हृदयं यथैव वदनं यद्दर्पणान्तर्गतं
भावः पर्वतसूक्ष्ममार्गविषमः स्त्रीणां न विज्ञायते ॥
चित्तं पुष्करपत्रतोयतरलं विद्वद्भिराशंसितं
नारी नाम विषाङ्कुरैरिव लता दोषैः समं वर्धिता ॥९१॥
अनुष्टुभ्
जल्पन्ति सार्धमन्येन पश्यन्त्यन्यं सविभ्रमम् ॥
हृद्गतं चिन्तयन्त्यन्यं प्रियः को नाम योषिताम् ?॥९२॥
वैतालीय
मधु तिष्ठति वाचि योषितां हृदि हालाहलमेव केवलम् ॥
अत एव निपीयतेऽधरो हृदयं मुष्टिभिरेव ताड्यते ॥९३॥
मालिनी
इह हि मधुरगीतं नृत्यमेतद्रसोऽयं
स्फुरति परिमलोऽसौ स्पर्श एष स्तनानाम् ॥
इति हतपरमार्थैरिन्द्रियैर्भाम्यमाणः
स्वहितकरणदक्षैः पञ्चभिर्वञ्चितोऽसि ॥९४॥
मन्दाक्रान्ता
शास्त्रज्ञोऽपि प्रथितविनयोऽप्यात्मबोधोऽपि बाढं
संसारेऽस्मिन्भवति विरलो भाजनं सद्गतीनाम् ॥
येनैतस्मिन्निरयनगरद्वारमुद्घाटयन्ती
वामाक्षीणां भवति कुटिला भ्रूलता कुञ्चिकेव ॥९५॥
शार्दूलविक्रीडित
उन्मीलत्त्रिवलितरङ्गनिलया प्रोत्तुङ्गपीनस्तन-
द्वन्द्वेनोद्यतचक्रवाकमिथुना वक्त्राम्बुजोद्भासिनी ॥
कान्ताकारधरा नदीयमभितः क्रूराशया नेष्यते
संसारार्णवमज्जनं यदि तदा दूरेण सन्त्यज्यताम् ॥९६॥
हरिणी
अपसर सखे दूरादस्मात्कटाक्षविषानलात्
प्रकृतिकुटिलाद्योषित्सर्पाद्विलासफणाभृतः ॥
इतरफणिना दष्टः शक्यश्चिकित्सितुमौषधे-
श्चतुरवनिताभोगिग्रस्तं त्यजन्ति हि मन्त्रिणः ॥९७॥
पुष्पिताग्रा
इदमनुचितमक्रमश्च पुंसां
यदिह जरास्वपि मान्मथा विकाराः ॥
यदपि च न कृतं नितम्बिनीनां
स्तनपतनावधि जीवितं रतं वा ॥९८॥
वसन्ततिलका
धन्यास्त एव तरलायतलोचनानां
तारुण्यदर्पघनपीनपयोधराणाम् ॥
क्षामोदरोपरिलसत्त्रिवलीलतानां
दृष्ट्वाऽऽकृतिं विकृतिमेति मनो न येषाम् ॥९९॥
आर्या
विरहोऽपि सङ्गमः खलु परस्परं सङ्गतं मनो येषाम् ॥
हृदयमपि विघट्टितं चेत्सङ्गो विरहं विशेषयति ॥१००॥