अनुष्टुभ्
संसारोदधिनिस्तार पदवी न दवीयसी ॥
अन्तरा दुस्तरा न स्युर्यदि रे मदिरेक्षणा ॥८१॥
इंद्रवज्रा
सत्यं जना वच्मि न पक्षपाताल्लोकेषु सप्तस्वपि तथ्यमेतत् ॥
नान्यन्मनोहारि नितम्बिनीभ्यो दुःखैकहेतुर्न च कश्चिदन्यः ॥८२॥
शार्दूलविक्रीडित
कान्तेत्युत्पललोचनेति विपुलश्रोणीभरेत्युत्सुकः
पीनोत्तुङ्गपयोधरेति सुमुखाम्भोजेति सुभ्रूरिति ॥
दृष्ट्वा माद्यति मोदतेऽभिरमते प्रस्तौति विद्वानपि
प्रत्यक्षाशुचिभस्त्रिकां स्त्रियमहो मोहस्य दुश्चेष्टितम् !॥८३॥
अनुष्टुभ्
स्मृता भवति तापाय दृष्ट्वा चोन्मादवर्धिनी ॥
स्पृष्टा भवति मोहाय !सा नाम दयिता कथम् ?॥८४॥
अनुष्टुभ्
तावदेवामृतमयी यावल्लोचनगोचरा ॥
चक्षुःपथादतीता तु विषादप्यतिरिच्यते ॥८५॥
अनुष्टुभ्
नामृतं न विषं किञ्चिदेकां मुक्त्वा नितम्बिनीम् ॥
सैवामृतरुता रक्ता विरक्ता विषवल्लरी ॥८६॥
स्रग्धरा
आवर्तः संशयानामविनयभवनं पत्तनं साहसानां
दोषाणां संविधानं कपटशतमयं क्षेत्रमप्रत्ययानाम् ॥
स्वर्गद्वारस्य विघ्नौ नरकपुरमुखं सर्वमायाकरण्डं
स्त्रीयन्त्रं केन सृष्टं विषममृतमयं प्राणिलोकस्य पाशः ॥८७॥
शार्दूलविक्रीडित
नो सत्येन मृगाङ्क एष वदनीभूतो न चेन्दीवर-
द्वन्द्वं लोचनतां गतं न कनकैरप्यङ्गयष्टिः कृता ॥
किं त्वेवं कविभिः प्रतारितमनास्तत्त्वं विजानन्नपि
त्वङ्मांसास्थिमयं वपुर्मृगदृशां मन्दो जनः सेवते ॥८८॥
उपजाति
लीलावतीनां सहजा विलासास्त एव मूढस्य हृदि स्फुरन्ति ॥
रागो नलिन्या हि निसर्गसिद्धस्तत्र भ्रमत्येव वृथा षडङ्घ्रिः ॥८९॥
शिखरिणी
यदेतत्पूर्णेन्दुद्युतिहरमुदाराकृतिवरं
मुखाब्जं तन्वङ्ग्याः किल वसति तत्राधरमधु ॥
इदं तत्किम्पाकद्रुमफलमिवातीव विरसं
व्यतीतेऽस्मिन् काले विषमिव भविष्यत्यसुखदम् ॥९०॥