॥श्री ॥
वसंततिलका
शम्भुः स्वयम्भुहरयो हरिणेक्षणानां
येनाक्रियन्त सततं गृहकर्मदासाः ॥
वाचामगोचरचरित्रविचित्रिताय
तस्मै नमो भगवते कुसुमायुधाय ॥१॥
शिखरिणी
क्वचित्सुभ्रूभङ्गैः क्वचिदपि च लज्जापरिणतैः
क्वचिद् भीतित्रस्तैः क्वचिदपि च लीलाविलसितैः ॥
कुमारीणामेभिर्वदनकमलैर्नेत्रचलितैः
स्फुरन्नीलाब्जानां प्रकरपरिपूर्णा इव दिशः ॥२॥
अनुष्टुभ्
मुग्धे!धानुष्कता केयमपूर्वा त्वयि दृश्यते ॥
यया विध्यसि चेतांसि गुणैरेव न सायकैः ॥३॥
शिखरिणी
अनाघ्रातं पुष्पं;किसलयमलूनं कररुहै-
रनाविद्धं रत्नं मधु नवमनास्वादितरसम् ॥
अखण्डं पुण्यानां फलमिव च तद्रूपमनघं
न जाने भोक्तारं कमिह समुपस्थास्यति विधिः ॥४॥
शिखरिणी
स्मितं किञ्चिद् वक्त्रे सरलतरलो दृष्टिविभवः
परिस्पन्दो वाचामभिनवविलासोक्तिसरसः ॥
गतानामारम्भः किसलयितलीलापरिकरः
स्पृशन्त्यास्तारुण्यं किमिह न हि रम्यं मृगदृशः?॥५॥
शार्दूलविक्रीडित
व्यादीर्घेण चलेन वक्रगतिना तेजस्विना भोगिना
नीलाब्जद्युतिनाऽहिना वरमहं दष्टो, न तच्चक्षुषा ॥
दष्टे सन्ति चिकित्सका दिशि- दिशि प्रायेण धर्मार्थिनो
मुग्धाक्षीक्षणवीक्षितस्य न हि मे वैद्यो न चाप्यौषधम् ॥६॥
वंशस्थ
स्मितेन भावेन च लज्जया भिया
पराङ्मुखैरर्धकटाक्षवीक्षणैः ॥
वचोभिरीर्ष्याकलहेन लीलया
समस्तभावैः खलु बन्धनं स्त्रियः ॥७॥
शालिनी
भ्रूचातुर्याकुञ्चिताक्षाः कटाक्षाः
स्निग्धा वाचो लज्जिताश्चैव हासाः ॥
लीलामन्दं प्रस्थितं च स्थितं च
स्त्रीणामेतद् भूषणं चायुधं च ॥८॥
शार्दूलविक्रीडित
वक्त्रं चन्द्रविडम्बि पङ्कजपरीहासक्षमे लोचने
वर्णः स्वर्णमपाकरिष्णुरलिनीजिष्णुः कचानां चयः ॥
वक्षोजाविभकुम्भविभ्रमहरौ गुर्वी नितम्बस्थली
वाचां हारि च मार्दवं युवतिषु स्वाभाविकं मण्डनम् ॥९॥
शार्दूलविक्रीडित
द्रष्टव्येषु किमुत्तमं मृगदृशः प्रेमप्रसन्नं मुखं
घ्रातव्येष्वपि किं?तदास्यपवनः, श्रव्येषु किं?तद्वचः ॥
किं स्वाद्येषु?तदोष्ठपल्लवरसः;स्पृश्येषु किं ?तद्वपुः
ध्येयं किं?नवयौवनं सहृदयैः सर्वत्र तद्विभ्रमाः ॥१०॥