वसन्ततिलका
एताश्चलद्वलयसंहतिमेखलोत्थ
झंकारनूपुरपराजितराजहंस्यः ॥
कुर्वन्ति कस्य न मनो विवशं तरुण्यो
वित्रस्तमुग्धहरिणीसदृशैः कटाक्षैः ॥११॥
दोधक
कुङ्कुमपङ्ककलङ्कितदेहा गौरपयोधरकम्पितहारा ॥
नूपुरहंसरणत्पदपद्मा कं न वशीकुरुते भुवि रामा ?॥१२॥
वसन्ततिलका
नूनं हि ते कविवरा विपरीतबोधा
ये नित्यमाहुरबला इति कामिनीस्ताः ॥
याभिर्विलोलतरतारकदृष्टिपातैः
शक्रादयोऽपि विजितास्त्वबलाः कथं ताः ?॥१३॥
अनुष्टुभ्
नूनमाज्ञाकरस्तस्याः सुभ्रुवो मकरध्वजः ॥
यतस्तन्नेत्रसञ्चारसूचितेषु प्रवर्तते ॥१४॥
शार्दूलविक्रीडित
केशाः संयमिनः श्रुतेरपि परं पारं गते लोचने
अन्तर्वक्त्रमपि स्वभावशुचिभिः कीर्णं द्विजानां गणैः ॥
मुक्तानां सतताधिवासरुचिरौ वक्षोजकुम्भाविमा
वित्थं तन्वि!वपुः प्रशान्तमपि ते क्षोभं करोत्येव नः ॥१५॥
अनुष्टुभ्
सति प्रदीपे सत्यग्नौ सत्सु नानामणिष्वपि ॥
विना मे मृगशावाक्ष्या तमोभूतमिदं जगत् ॥१६॥
शार्दूलविक्रीडित
उद्वृत्तः स्तनभार एष तरले नेत्रे चले भ्रूलते
रागाधिष्ठितमोष्ठपल्लवमिदं कुर्वन्तु नाम व्यथाम् ॥
सौभाग्याक्षरमालिकेव लिखिता पुष्पायुधेन स्वयं
मध्यस्थाऽपि करोति तापमधिकं रोमावली केन सा ?॥१७॥
अनुष्टुभ्
मुखेन चन्द्रकान्तेन महानीलैः शिरोरुहैः ॥
पाणिभ्यां पद्मरागाभ्यां रेजे रत्नमयीव सा ॥१८॥
अनुष्टुभ्
गुरुणा स्तनभारेण मुखचन्द्रेण भास्वता ॥
शनैश्चराभ्यां पादाभ्यां रेजे ग्रहमयीव सा ॥१९॥
वसंततिलका
तस्याः स्तनौ यदि घनौ, जघनं च हारि
वक्त्रं च चारु तव चित्त किमाकुलत्वम् ॥
पुण्यं कुरुष्व यदि तेषु तवास्ति वाञ्छा
पुण्यैर्विना न हि भवन्ति समीहितार्थाः ॥२०॥