आर्या
प्रियपुरतो युवतीनां तावत्पदमातनोति हृदि मानः ॥
भवति न यावच्चन्दनतरुसुरभिर्निर्मलः पवनः ॥४१॥
आर्या
सहकारकुसुमकेसरनिकरभरामोदमूर्च्छितदिगन्ते ॥
मधुरमधुविधुरमधुपे मधौ भवेत्कस्य नोत्कण्ठा ॥४२॥
वसन्ततिलका
अच्छाच्छचन्दनरसार्द्रकरा मृगाक्ष्यो
धारागृहाणि कुसुमानि च कौमुदी च ॥
मन्दो मरुत्सुमनसः शुचि हर्म्यपृष्ठं
ग्रीष्मे मदं च मदनं च विवर्धयन्ति ॥४३॥
शिखरिणी
स्रजो हृद्यामोदा व्यजनपवनश्चन्द्रकिरणाः
परागः कासारो मलयजरसः सीधु विशदम् ॥
शुचिः सौधोत्सङ्गः प्रतनु वसनं पङ्कजदृशो
निदाधार्ता ह्येतत्सुखमुपलभन्ते सुकृतिनः ॥४४॥
दोधक
तरुणीवैषोहीपितकामा विकसितजातीपुष्पसुगन्धिः ॥
उन्नतपीनपयोधरभारा प्रावृट् कुरुते कस्य न हर्षम् ?॥४५॥
मालिनी
वियदुपचितमेघं भूमयः कन्दलिन्यो
नवकुटजकदम्बामोदिनो गन्धवाहाः ॥
शिखिकुलकलकेकारावरम्या वनान्ताः
सुखिनमसुखिनं वा सर्वमुत्कण्ठयन्ति ॥४६॥
आर्या
उपरि घनं घनपटलं तिर्यग्गिरयोऽपि नर्तितमयूराः ॥
क्षितिरपि कन्दलधवला दृष्टिं पथिकः क्व यापयतु ?॥४७॥
शिखरिणी
इतो विद्युद्वल्लीविलसितमितः केतकितरोः
स्फुरद्गन्धः प्रोद्यज्जलदनिनदस्फूर्जितमितः ॥
इतः केकीक्रिडाकलकलरवः पक्ष्मलदृशां
कथं यास्यन्त्येते विरहदिवसाः संभृतरसाः ?॥४८॥
शिखरिणी
असूचीसं चारे तमसि नभसि प्रौढजलद
ध्वनिप्राये तस्मिन् पतति दृशदां नीरनिचये ॥
इदं सौदामिन्याः कनककमनीयं विलसितं
मुदं च ग्लानिं च प्रथयति पथिष्वेव सुदृशाम् ॥४९॥
शार्दूलविक्रीडित
आसारेषु न हर्म्यतः प्रिततमैर्यातुं यदा शक्यते
शीतोत्कम्पनिमित्तमायतदृशा गाढं समालिङ्ग्यते ॥
जाताः शीकरशीतलाश्च मरुतश्चात्यन्तखेदच्छिदो
धन्यानां बत दुर्सिनं सुदिनतां याति प्रियासङ्गमे ॥५०॥