संस्कृत सूची|शास्त्रः|शिल्पशास्त्र|सुप्रभेदागमः|अथ क्रियापादः|
शूलस्थापनविधिपटलः

अथ क्रियापादः - शूलस्थापनविधिपटलः

सुप्रभेदागमः म्हणजे शिल्पशास्त्र ह्या विषयावरील महत्वपूर्ण ग्रंथ.


अथातः संप्रवक्ष्यामि शूलस्थापनकं परम् ।
सदाशिवस्य देवस्य चेतनांशूलमुच्यते ॥१॥

सर्वदेवमयं शूलं लक्षणं शृणु सांप्रतम् ।
प्रासाद तुङ्गकं वापि त्वथवास्तंभमानकम् ॥२॥

पादात् पादाधिकं वापि पादार्धं पादमेव वा ।
अधिकं व्योममित्युक्तं तद्विहीनं विशेषतः ॥३॥

तदुत्सेधदशांशैकं पत्रविस्तारमुच्यते ।
तदर्धं नालविस्तारं तच्चतुर्थं घनं स्मृतम् ॥४॥

पार्श्वपत्रेद्वयोरग्रे चूतपत्राग्रवत् कृतम् ।
पत्रतारं त्रिभागेन पत्राणान्तु घनं स्मृतम् ॥५॥

घनस्यार्द्धांशमेवोक्तं पत्राणान्तु घनं भवेत् ।
तदूर्ध्वन्तारद्विगुणं फलका चतुरश्रकम् ॥६॥

तदष्टांशं घनं प्रोक्तं तस्याधः कुंभमिष्यते ।
फलकाकार नाहार्धं कुंभ तुङ्गन्तदर्धकम् ॥७॥

कुंभाधश्चोर्ध्वतश्चापि कर्णनाहं नवांशकम् ।
कुंभनाहाष्टभागेन कर्णनाहमिति स्मृतम् ॥८॥

कुंभार्धं तदधस्ताच्च तदर्धोदण्डपञ्जरम् ।
दारुजञ्चेत् तु कर्तव्यं लोहजञ्चेत् परं विना ॥९॥

फलकातारपञ्चांशं त्रिभागं दण्डनाहकम् ।
मूलाधस्तासिकान्तं यत्तन्मानं पीठ तुङ्गकम् ॥१०॥

तदुत्सेधस्य पञ्चांशं त्रियंशंपीठविस्तरम् ।
अब्जाकारञ्चतुरश्रं पीठाकारं तथा स्मृतम् ॥११॥

अष्टांशं वीभजी कृत्वा त्वैकांशेन तु कर्णिका ।
चतुरंशं दलोत्तुङ्गं दलाग्रञ्चैकभागतः ॥१२॥

पञ्चभागञ्चतुरश्रं भागादिपाद्य तुङ्गता ।
पीठस्य घनमाख्यातं फलकायाघनार्धकम् ॥१३॥

ततो दारुमयैर्दण्डैः पीठोर्ध्वे दण्डपञ्जरम् ।
दारुदण्डस्य मध्ये तु योगपट्टेन तां दृढम् ॥१४॥

शूलाग्रमुखसंज्ञाथ मध्यपत्रेब्जमालिखेत् ।
एवं शूलास्त्रमापाद्य ततस्थापनमारभेत् ॥१५॥

जलाधिवासनं स्नानं कृत्वा मण्डपसंस्कृतिम् ।
वस्त्रैराच्छाद्य शूलन्तु स्थण्डिले शयनो परि ॥१६॥

न्यस्त्वा शूलाधिपां देवानर्चयित्वा यथाक्रमम् ।
कलशां विन्यसेत् तत्र शूलास्त्राधिपसंयुतान् ॥१७॥

सकूर्चानस्त्रसंयुक्तान् तदा युधांश्च बैजिकान् ।
तत्तदग्नौ हुतं हुत्वा तत्तन्मन्त्रैस्तु बुद्धिमान् ॥१८॥

सुमुहूर्ते सुलग्ने तु तत्तन्मन्त्राणि संस्मरन् ।
मध्यपत्राधिपो रुद्रो दक्षिणे तु पितामहः ॥१९॥

वामपत्रे तथा विष्णु स्त्रिपत्राणां तु देवताः ।
वामा ज्येष्ठा च रौद्री च शूलमूले तु देवताः ॥२०॥

फलका स्कन्ददैवत्यं कुंभे तु वरुण स्थिताः ।
तदर्धञ्चाग्नि दैवत्यं दण्डैश्चैव सरस्वती ॥२१॥

पीठे चैवमुमादेवी भूमिभागे वसुन्धरा ।
स्थापयेत् क्रमशोविद्वान् गन्धपुष्पाक्षतान्वितम् ॥२२॥

स्वनामाद्येन बीजेन कलशैरभिषेचयेत् ।
अभ्यर्च्य हृदये नैव हविष्यन्तु निवेदयेत् ॥२३॥

शूलसंस्थापनं प्रोक्तमस्त्रराजविधिं शृणु ।

इति शूलस्थापनविधिपटल एकपञ्चाशत्तमः ॥५१॥

N/A

References : N/A
Last Updated : January 08, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP