संस्कृत सूची|शास्त्रः|शिल्पशास्त्र|सुप्रभेदागमः|अथ क्रियापादः|
अथ अर्चनाङ्ग पटलः

अथ क्रियापादः - अथ अर्चनाङ्ग पटलः

सुप्रभेदागमः म्हणजे शिल्पशास्त्र ह्या विषयावरील महत्वपूर्ण ग्रंथ.


अथातः संप्रवक्ष्यामि अर्चनाङ्गसमुच्चयम् ।
पाद्यमाचमनञ्चार्घ्यं गन्धपुष्पञ्चधूपकम् ॥१॥

दीपञ्चैव निवेद्यञ्च लिङ्गनृत्तं दशैव तु ।
दशाङ्गैस्तु समायुक्ता पूजाश्रेष्ठा शिवस्य तु ॥२॥

दीपान्तमर्चनं प्रोक्तं नैवेद्यान्तन्तु पूजनम् ।
शान्तिकं बलिनृत्तान्तं पूजात्रिविधमुच्यते ॥३॥

उशिरञ्चन्दनं दूर्वा सिद्धार्थकसमन्वितम् ।
चतुरङ्गसमायुक्तं पाद्य द्रव्यमुदाहृदम् ॥४॥

एलालवङ्गकर्पूरत्र पूजाति फलैर्युतम् ।
आचमनन्तु पञ्चाङ्गं द्रव्यैरेतैः प्रसिद्ध्यति ॥५॥

आपः क्षीरकुशाग्राणि यवसिद्धार्थतण्डुलैः ।
तिलैर्वीही समायुक्तमर्घ्यमष्टाङ्गमुच्यते ॥६॥

यवतण्डुलसिद्धार्थर्व्रीहिभिश्चाक्षतं विदुः ।
व्रीहितण्डुलसंयुक्तमक्षतन्तु प्रकीर्तितम् ॥७॥

अगरुञ्चन्दनञ्चैव कोष्ठं कुंकुममेव च ।
सममर्धं पादमेवा कर्पूरेणसमायुतम् ॥८॥

गन्धद्रव्यमिदं प्रोक्तं पुष्पान् सम्यगतः शृणु ।
श्वेत कृष्णं तथा रक्तं सात्विकादिगुणत्रयम् ॥९॥

पुष्पाणि पीतवर्णानि सत्वराजसमिश्रितान् ।
कृष्णां निलोत्पलादन्यान्तामसान् परिवर्जयेत् ॥१०॥

नन्द्यावर्तन्तु पूर्वाह्णे मधाह्णे करवीरकम् ।
साये तु मल्लिका प्रोक्ता ह्यर्धरात्रौ द्विकर्णिका ॥११॥

द्रोणञ्च श्वेतपद्मञ्च जाती च बहुकर्णिका ।
नन्द्यावर्तं श्रियावर्तं मन्दारं शतपत्रिकम् ॥१२॥

श्वेतार्कमालती चैव पुन्नागं कुरवन्तथा ।
एवमादीनि पुष्पाणि सात्विकानि समादिशेत् ॥१३॥

रक्तोत्पलं तथा पद्मं ब्रहतीधुर्धूरकं तथा ।
पाटलीरक्तपुष्पाणि राजसानि विनिर्दिशेत् ॥१४॥

कर्णिकारञ्च धुर्तूरसरलारग्वधौ तथा ।
एवमादीनि पीतानिमिश्रकाणि विनिर्देशेत् ॥१५॥

करञ्जवकुलञ्चैव शिरीषं केतकी तथा ।
लाङ्गली च विहीतञ्च बन्धूकञ्चैव डाडिमी ॥१६॥

किंशुकञ्च मदन्ती च कुमुदानि च वर्जयेत् ।
अतिपक्वमपक्वञ्च मुकुलैर्नार्चयेद् धरम् ॥१७॥

केशकीटापविद्धानि लूतसूत्राव्रतानि च ।
स्वयं पतितपुष्पाणि पर्युषितानि वर्जयेत् ॥१८॥

शमिबिल्वमपामार्गं कुशदूर्वा सहा तथा ।
नागनन्दी रुद्रपर्णीधातकी पत्रमेव च ॥१९॥

भद्री चैव महाभद्री द्रोणपत्रं तथैव च ।
उग्रगन्धैस्तु निर्गन्धैन्नार्चयेत् तु विशेषतः ॥२०॥

पत्र जातिषु सर्वेषु बिल्वपत्रं प्रशस्यते ।
तथैव पुष्पजातीनां पद्मपुष्पमुदाहृतम् ॥२१॥

उत्सवादिषु यात्रायां परिवेष क्रियासु च ।
सकलानामलङ्कारे वर्ज्या ग्राह्याप्रकीर्तिताः ॥२२॥

एवं पुष्पाणि चोक्तानि धूपन्तु संप्रवक्ष्यते ।
कृष्णागरुर्भवेदेव कार्यः सद्विगुणं भवेत् ॥२३॥

त्रिगुणञ्चन्दनं प्रोक्तमीषत् कर्पूरमिश्रितम् ।
शीतारिनामधूपोयं मधुनां पावितं भवेत् ॥२४॥

एवं धूपं परं श्रेष्ठं उत्तमन्तद्विशिष्यते ।
गुल्गुलुं वा घृतं वापि गुलं वा बिल्वधूपकम् ॥२५॥

कुष्ठं वा चन्दनं वापि घृतमश्रं सुधूपयेत् ।
गोघृतं वाथतैलं वा कर्पूरं वर्तिसंयुतम् ॥२६॥

चतुस्त्रयंगुलायाम दीपज्वालाविशिष्यते ।
दीप प्रियो हि भगवान् देवदेवः सदाशिवः ॥२७॥

अर्चनाङ्गविधि प्रोक्ता त्वर्चनायाविधिं शृणु ।

इति अर्चनाङ्गः सप्तमः पटलः ॥७॥

N/A

References : N/A
Last Updated : January 06, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP