संस्कृत सूची|शास्त्रः|शिल्पशास्त्र|सुप्रभेदागमः|अथ क्रियापादः|
शक्तिप्रतिष्ठाविधिपटलः

अथ क्रियापादः - शक्तिप्रतिष्ठाविधिपटलः

सुप्रभेदागमः म्हणजे शिल्पशास्त्र ह्या विषयावरील महत्वपूर्ण ग्रंथ.


अथातः संप्रवक्ष्यामि शक्तिसंस्थापनं परम् ।
वह्नेरुष्णत्ववच्छक्तिरविनाभाविनीविभोः ॥१॥

अमूर्तिच्छेदमूर्ताख्या समूर्तञ्चेत् समूर्तकम् ।
सदाशिव शिवौ रुद्रो विष्णुब्रह्मेति भेदिताः ॥२॥

मनोन्मनीश्वरीचोमा श्रीसावित्री प्रभेदिताः ।
परापरमिदं भेदं लोकानुग्रहकारिणम् ॥३॥

मनोन्मनीश्वरी चैव सहैवस्थापनं विदुः ।
त्रिभेदमन्यच्छक्तीनामेक युक्तं सहेति च ॥४॥

शक्तिस्तु केवलं यत्र स्थापने त्वघमुच्यते ।
पूर्वं शंभुं प्रतिष्ठाप्य शक्तेस्तु स्थापनं तथा ॥५॥

कृतो युक्तोविधानेन युक्तं तत् परिकीर्तितम् ।
शक्तिंशंभुमथैकत्र स्थापनं तत्सहैव तु ॥६॥

त्रिप्रकारेषु सामान्यं मूलमन्त्रादिकं शृणु ।
मायाबीजञ्च व्योमेन सहबिन्दुं सनादिकम् ॥७॥

आदिशक्तेस्तु मूलं स्याद्वियद्वापि सबिन्दुका ।
षडंगास्तु समाख्यातं स्वरेव द्वितयं तथा ॥८॥

चतुर्त्थमष्टमञ्चैव द्वादशं स्वरमेव च ।
चतुर्दशस्वरञ्चैव षोडशं स्वरमेव च ॥९॥

संयोज्य हृच्छिराचूडा वर्मनेत्रास्त्र संज्ञिका ।
शिरोमन्त्रे विशेषोस्ति सलिलार्णेन संयुतम् ॥१०॥

सविसर्गमथास्त्र स्यात् विन्दुनादविवर्जितम् ।
आद्यास्वर तृतीयञ्च पञ्चमं दशमान्तकम् ॥११॥

द्वादशान्तञ्च पञ्चैते सद्यादि ब्रह्मपञ्चका ।
उच्यते गौरिगायत्री गणांबिकायै विद्महे ॥१२॥

इत्युच्चार्य तदन्ते तु महातपायैधीमही ।
एवमुक्त्वा तदन्ते तु तन्नोगौरी प्रचोदयेत् ॥१३॥

गौरिगायत्रि संज्ञाख्या चतुर्विंशतिकाक्षरा ।
मृण्मयं शैलजञ्चैकं शेषं लोहजमुच्यते ॥१४॥

मृण्मये तु तथा नोक्तमधिवासञ्जलेन तु ।
समानमन्यत् सर्वेषां यथा शक्तिविधीयते ॥१५॥

पूर्वोक्तेन विधानेन कृत्वा तत्प्रतिमं बुधः ।
प्रतिष्ठादि वसात् पूर्वे कर्तव्यञ्चाङ्कुरार्पणम् ॥१६॥

पूर्ववद्रत्नविन्यासं कृत्वा तदनुबिंबकम् ।
सुस्निग्धं कारयित्वा तु नेत्रमोक्षणमारभेत् ॥१७॥

हैमप्रहारसुचिभ्यां नेत्रमन्त्रेण चारभेत् ।
हैमप्रहारसुचिभ्यां नेत्रमन्त्रेण देशिकः ॥१८॥

भ्रूरेखा प्रथमं लिख्य पक्ष्मरेखाद्वितीयकम् ।
श्वेतमण्डलमालिख्य ततो वै कृष्णमण्डलम् ॥१९॥

ज्योतिर्मण्डलमध्ये तु कर्तव्यं शिल्पिनाबुधः ।
शिल्पिमुद्वास्य गुरुणा कर्तव्यं कर्मचोत्तरम् ॥२०॥

हिरण्य नखसंप्रोक्तौ तर्जनीमध्यमाङ्गुली ।
तासां नेत्रेप्यसौधीमां छक्तिमन्त्रेण संस्पृशेत् ॥२१॥

कांस्ये मधुघृताभ्यान्तु सौवर्णेन तु दूर्वया ।
हृन्मन्त्रेण तु संसिच्य सवत्साङ्गां पयस्विनीम् ॥२२॥

गौर्धेनुहव्य मन्त्रेण देशिकोगां प्रदर्शयेत् ।
ब्राह्मणादिञ्जनान् सर्वान्वीक्षयित्वाक्षमन्त्रतः ॥२३॥

बिंबशुद्धिं ततः कृत्वा शुद्धतोयैर्विचक्षणः ।
सर्वालङ्कारसंयुक्तं कृत्वा ग्रामप्रदक्षिणम् ॥२४॥

जलाधिवासनं पश्चात् त्रिरात्रं वैकरात्रकम् ।
चतुरश्रां प्रपां कृत्वा दर्भमालाविभूषिताम् ॥२५॥

वस्त्रैरावेष्टयित्वा तु पुष्पैर्दर्भैर्विशेषतः ।
कण्ठमात्रे जलेशुद्धे शक्तिं तत्राधिवासयेत् ॥२६॥

दिक्पालाधिपकुंभानि विन्यसेत् परितोजले ।
प्रतिष्ठामण्डपं कृत्वा सर्वालङ्कारसंयुतम् ॥२७॥

षोडशस्तंभसंयुक्तं चतुर्द्वारसमायुतम् ।
चतुस्तोरणसंयुक्तं दर्भमालाभिशोभितम् ॥२८॥

तन्मध्ये वेदिकां कृत्वा तत्त्रिभागैकविस्तृताम् ।
हस्तमात्रसमुत्सेधां दर्पणोदरसन्निभाम् ॥२९॥

तालमात्रसमुत्सेधामुपवेदीं प्रकल्प्य वै ।
तस्योत्तरसमीपे तु तद्वद् वै स्नानमण्डपम् ॥३०॥

तन्मध्ये स्नानवेदीञ्च तिस्रोवाद्व्येकमेखलाम् ।
स्थण्डिले वेदिकोर्ध्वे तु अष्टद्रोणैश्च शालिभिः ॥३१॥

तिलतण्डुलसंयुक्तं पद्ममष्टदलं लिखेत् ।
अण्डजाद्यैर्विशेषण संकल्प्यशयनं तथा ॥३२॥

अलाभे त्वण्डजादीनां वस्त्रः संकल्प्य पञ्चभिः ।
प्रागुक्तलक्षणोपेतस्त्वादिशैव कुलोद्भवः ॥३३॥

सुस्नात्वा चन्म्यविधिवत् सर्वालङ्कारसंयुतम् ।
नीत्वा जलोषितं बिंबं स्नापयेत् पञ्चगव्यकैः ॥३४॥

स्नानवेद्युपरिस्थाप्य सुस्नाप्य विधिपूर्वकम् ।
गणांबिकेतिमन्त्रेण अष्टमृत्सलिलेन तु ॥३५॥

तदा म्लेलेपनाद्यैश्च बिंबशुद्धिं यथोचितम् ।
गन्धपुष्पादिनाभ्यर्च्य बीजमुख्येन देशिकः ॥३६॥

ततः सुवर्णसूत्रेण बध्वा प्रतिसरं बुधः ।
घृतः शिरोर्पणं कृत्वा हेमदूर्वाङ्कुराक्षतैः ॥३७॥

शयने शाययेच्छक्तिं शिरः पूर्वमुखोर्ध्वतः ।
वस्त्रैराच्छादयित्वा तु पुण्याम्बुनितु देशिकः ॥३८॥

स्थण्डिले तूपवेद्यान्तु निष्कलंकाञ्छुभां दृढान् ।
वस्त्रहेमसमायुक्तान् सूत्राक्षतसपल्लवान् ॥३९॥

लोकपालाधिपानष्ट कुंभान् पूर्वादितः क्रमात् ।
आवृतान् कलशांश्चैव हैमसूत्राष्टसंयुतान् ॥४०॥

सकूर्चान् सा पिधानांश्च वस्त्रयुग्मेन वेष्टितान् ।
वामादिशक्ति संयुक्ता नष्टौ संस्थापयेद्धृदा ॥४१॥

गन्धपुष्पादिनाभ्यर्च्य हृदयेन विचक्षणः ।
वर्धनी सूत्रसंयुक्तान् वस्त्रयुग्मसमावृतान् ॥४२॥

सकूर्चां सा पिधानांश्च आदिशक्त्यधिदैवतान् ।
हेमपंकजनिक्षिप्तां नवरतसमायुतान् ॥४३॥

बिंबस्य शिरसश्चैव भावे संस्थाप्यबीजतः ।
गन्धपुष्पाक्षताद्यैश्च संपूज्याग्निमथारभेत् ॥४४॥

नवपञ्चाग्निकं वापि त्रयं वा चैकमेव वा ।
योन्याकाराणि विधिवत् ततः कुण्डं प्रकल्पयेत् ॥४५॥

अग्न्याधानान्ततः कृत्वा पूर्ववत् षोडशक्रियाम् ।
आहूयाग्नौ तु तच्छक्तिं बीजमुख्येन मन्त्रवित् ॥४६॥

पूर्ववत् समिधाज्यैस्तु होमं कृत्वा स्वमन्त्रतः ।
स्पर्शाहुतिं ततः कृत्वा तत्तन्मन्त्रेण मन्त्रवित् ॥४७॥

प्रभाते सुमुहूर्ते तु सर्वातोद्यसमायुतम् ।
आचार्यमूर्तिपांश्चैव दैवज्ञं संप्रपूजयेत् ॥४८॥

पूर्णाहुतिं ततो दत्वा बीजमुख्येन मन्त्रतः ।
शक्तिबिंबन्ततोत्थाप्य स्नानवेद्युपरिन्यसेत् ॥४९॥

वर्द्धनीन्तु ततोत्थाप्य देशिकश्चोत्तराननः ।
बिंबस्य हृदये मूर्ध्नि नाभौ मूले तु विन्यसेत् ॥५०॥

न्यस्त्वा ब्रह्माङ्गमन्त्राणि विन्यसेत् सर्वमात्रकाः ।
वर्धकुंभस्थ शक्तीश्च बिंबे संयोज्यमूलतः ॥५१॥

बीजमुख्येन मन्त्रेण तज्जले नाभिषिच्य वै ।
वामादि शक्तिकुंभाद्भिः संस्थाप्य स्वस्वमन्त्रकैः ॥५२॥

स्नान लेपादिभिरद्भि स्वस्वमन्त्रैर्विशेषतः ।
पाद्यमाचमनञ्चार्घ्यं दद्याद् देव्यै हृदादिभिः ॥५३॥

अभ्यर्च्य गन्धपुष्पाद्यैः सर्वालङ्कारसंयुतम् ।
पायसं हविषं तत्र हृदयेन प्रदापयेत् ॥५४॥

एव मेवं समाख्यातं युक्तं तत्र वदामिते ।
मण्डपं विधिना कृत्वा तन्मध्ये वेदिकां क्रमात् ॥५५॥

सर्वालङ्कारसंयुक्तां वितानध्वजभूषिताम् ।
तन्मध्ये स्थण्डिलं कृत्वा वह्निं तत्रैव संयजेत् ॥५६॥

तत्र मानुषनाहे तु उमारुद्रौ तु वारुणे ।
वामभागे ह्युमां न्यस्त्वा सर्वालङ्कारसंयुताम् ॥५७॥

नववस्त्रैरुमारुद्रौ प्रशान्तायेति भूषयेत् ।
आचार्यो ब्रह्मवद्ध्यात्वा विवाहे सर्वकर्मणि ॥५८॥

पूर्वोक्तेन विधानेन अग्न्याधानादिकं तथा ।
विष्णुं तत्रैव चाहूय देवीमुदकपूर्वकम् ॥५९॥

रुद्रस्य दक्षिणे हस्ते बीजमुख्येन दापयेत् ।
वामे श्मानन्तु संस्थाप्य गौरीगायत्रिमंत्रतः ॥६०॥

देव्याः पादञ्च रुद्रेण स्पर्शयित्वाश्मनि न्यसेत् ।
शिवमन्त्रेण मन्त्रज्ञो लाजं हुत्वात्रयंबुधः ॥६१॥

शक्तियुक्तं ततः सर्वं प्रभूतहविषं ददेत् ।
युक्तमेवमिदं प्रोक्तं सहैव स्थापनं शृणु ॥६२॥

आरंभस्थापनान्तं यत्सर्वकर्मसहैव तु ।
सहैव इति विख्यातं चोत्सवोविधिचोदितः ॥६३॥

एवमेवं तथा प्रोक्तं लक्षः सावित्रयस्तथा ।
शक्तिसंस्थापनं प्रोक्तं परिवारमथ शृणु ॥६४॥

इति शक्तिप्रतिष्ठाविधिपटलः अष्टत्रिंशत्तमः ॥३८॥

N/A

References : N/A
Last Updated : January 08, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP