संस्कृत सूची|शास्त्रः|शिल्पशास्त्र|सुप्रभेदागमः|अथ क्रियापादः|
अङ्गुली लक्षणविधि पटलः

अथ क्रियापादः - अङ्गुली लक्षणविधि पटलः

सुप्रभेदागमः म्हणजे शिल्पशास्त्र ह्या विषयावरील महत्वपूर्ण ग्रंथ.


अथातः संप्रवक्ष्यामि अङ्गुलीनान्तु लक्षणम् ।
मानाङ्गुलन्तु प्रथमं मात्राङ्गुलं द्वितीयकम् ॥१॥

देहलब्ध प्रमाणन्तु तृतीयमङ्गुलं स्मृतम् ।
यस्मात् परमणुर्नास्ति परमाणुस्तदुच्यते ॥२॥

परमाणुरधश्चैवापि च केशाग्र एव च ।
रीक्षायूकाय वास्तत्र क्रमशोऽष्टगुणैर्मतम् ॥३॥

मानाङ्गुलमिति प्रोक्तं ततो मात्राङ्गुलं शृणु ।
आचार्य दक्षिणे हस्ते मध्यमाङ्गुलिमध्यमे ॥४॥

पर्वमात्राङ्गुलं ज्ञेयं देहलब्धाङ्गुलं शृणु ।
प्रतिमायास्तथोत्सेधे कालगण्येन भाजिते ॥५॥

तेष्वेकं भागवन्मानं देहलब्धाङ्गुलं स्मृतम् ।
प्रासादमण्डपांश्चैव प्राकारान् गोपुरानपि ॥६॥

ग्रामाध्वक्षेत्र गण्येषु मानाङ्गुलविधानतः ।
आचार्यदक्षाङ्गुलिभिर्मितेर्व्यासमिधादिकैः ॥७॥

कूर्चे पवित्रके चैव सृवे सृक्भिरथान्यकैः ।
यागे प्रयोजितानीह मात्राङ्गुलिविधिश्चरेत् ॥८॥

अथमानाङ्गुलैर्वापि कारयेद्यागकर्मणि ।
देहलब्धाङ्गुले नैव प्रतिमाङ्कारयेत् बुधः ॥९॥

एकाङ्गुलस्य संज्ञा स्यात् बैन्दुमोक्षोक्तमात्रकम् ।
कलाकोलक पद्माक्षि चाश्विनीद्व्यङ्गुलस्य तु ॥१०॥

रुद्राक्षाग्निगुणाश्चैव शूलविद्या त्रियङ्गुलम् ।
युगभागञ्च वेदञ्च तुरीयं चतुरङ्गुलम् ॥११॥

रुद्राननेन्द्रियं भूत बाणं पञ्चाङ्गुलस्य तु ।
कर्माङ्गमयनञ्चैव रसश्चैव षडङ्गुलम् ॥१२॥

पातालमुनिधातूंश्च चाब्धिं सप्ताङ्गुलस्य तु ।
वसुलोकेशमूर्तिश्च ततोऽष्टाङ्गुलसंज्ञकाः ॥१३॥

द्वारं सूत्रं ग्रहं शक्तिर्नवाङ्गुलमिति स्मृतम् ।
दिशानाड्यायुधञ्चैव प्रादुर्भावं दशाङ्गुलम् ॥१४॥

प्. १३९) त्रिषु विष्कूश्च विंशश्च गतित्रिंशतिरुच्यते ।
त्रिजगत् चत्वारिंशत् पञ्चाशच्छक्वरीति च ॥१५॥

अतिशक्वरिश्च षष्टिस्तु यष्टिसप्ततिरुच्यते ।
अत्यष्ट्यशीतिकं विद्धि नवती धृतिरेव च ॥१६॥

अतिधृतिः शताङ्गुल्यमिति संज्ञा प्रकीर्तिताः ।
एकं दशं शतञ्चैव सहस्रमयुतं पुनः ॥१७॥

नियुतं प्रयुतञ्चैव कोटिञ्चैव यथार्बुदम् ।
बृन्दं खर्वं निखर्वञ्च शंखं पद्ममतः परम् ॥१८॥

समुद्रमध्यन्ताराख्यं पराख्यमपरं तथा ।
परार्धमेवमाख्यातं दशवृत्त्युत्तरोत्तरम् ॥१९॥

एवमेतानि चोक्तानि सङ्ख्या स्थानानिविंशतिः ।
कालं यमं त्रिभागञ्च षट्कलाश्च वितस्तिकम् ॥२०॥

षट्कोलकं मुखञ्चैव द्वादशाङ्गुलसंज्ञकम् ।
अङ्गुष्ठ तर्जनीयुक्तं प्रादेशमिति कीर्तितम् ॥२१॥

मध्यमाङ्गुष्ठ संयुक्तं तालमानमिति स्मृतम् ।
अङ्गुष्ठानामिकायुक्तं वितस्तिरिति चोच्यते ॥२२॥

कनिष्ठाङ्गुष्ठयोर्युक्तं गोकर्णमिति संज्ञिकम् ।
प्रादेशश्च वितस्तिश्च गोकर्णश्च इमे त्रयः ॥२३॥

यज्ञादिके प्रयोक्तव्याः प्रासादादौ नमापयेत् ।
रत्निः संवृतमुष्टिः स्यादरत्निः प्रसृताङ्गुलिः ॥२४॥

किष्कुश्च प्राजापत्यश्च धनुर्मुष्टिधनु ग्रहौ ।
अङ्गुलेस्तु चतुर्विंशत् किष्कुरित्युच्यते बुधैः ॥२५॥

पञ्चविंशतिभिश्चैव प्राजापत्यमुदाहृतम् ।
षड्विंशतिधनुर्मुष्टिः सप्तविंशद्धनुग्रहः ॥२६॥

किष्कुस्तादि चत्वारिमानाङ्गुलवशात्तम ।
एभिर्हस्त प्रमाणैस्तु प्रासादादीनि कारयेत् ॥२७॥

शयनञ्चासनञ्चैव किष्कुमानवशात् कुरु ।
लिङ्गञ्च पिण्डिकाञ्चैव प्रासादं गोपुरं तथा ॥२८॥

प्राकारमण्डपञ्चैव प्राजापत्यकरेण तु ।
धनुग्रहश्चतुष्कं यद्दण्डमानं प्रकीर्तितम् ॥२९॥

सहस्रदण्डमानेन क्रोशमात्रं विधीयते ।
गव्यूतिर्द्विगुणं ज्ञेयं तद्विगुणन्तु घातकम् ॥३०॥

घातकस्य चतुष्कन्तु योजनापरिकीर्तिता ।
प्रतिमायास्तदुत्सेधं तालदण्डेन भाजयेत् ॥३१॥

चतुर्विंशच्छतञ्चैव उत्तमं दशतालकम् ।
विंशच्छतञ्च मध्यन्तु कन्यसं षोडशाधिकम् ॥३२॥

द्वादशाधिकमेवं यत् नवतालोत्तमं भवेत् ।
अष्टौशतञ्चतुःशतं मध्यमं कन्यसं तथा ॥३३॥

शतं षण्णवतिश्चैव नवत्युत्तरकरद्वयम् ।
अष्टतालमिदं प्रोक्तं त्रिविधं पूर्वपद्धति ॥३४॥

इत्येवं भागहीनं स्यादेक तालान्तमेव हि ।
तयोदशार्द्धं मुखज्येष्ठन्तयोदशन्तु मध्यमम् ॥३५॥

तत्द्वादशार्धमधममुत्तमं दशतालके ।
नवतालोत्तमे चैव मुखं वै द्वादशाङ्गुलम् ॥३६॥

अर्धार्धाङ्गुल हीनेन मध्यमाधममुच्यते ।
त्रिविधादशतालेन त्रिमूर्तीनान्तु कीर्तिता ॥३७॥

त्रिविधं नवतालेन देवानां योषितामपि ।
अष्टतालेन मर्त्यानां सप्ततालेन रक्षसाम् ॥३८॥

षट्तालेन तु गन्धर्वान् पञ्चतालो गणाधिपः ।
वामनस्य तथैवस्याच्चतुस्तालास्तु भूतकाः ॥३९॥

त्रितालं किन्नराणान्तु मत्स्यानान्तु द्वितालकम् ।
अणुजानान्तथैकं स्यात् पिशाचानान्तु विंशतिः ॥४०॥

अङ्गुल्यः सम्यगाख्याताः प्रासादलक्षण शृणु ।

इति अङ्गुलीलक्षणविधिपटलस्त्रिंशत्तमः ॥३०॥

N/A

References : N/A
Last Updated : January 08, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP