संस्कृत सूची|शास्त्रः|शिल्पशास्त्र|सुप्रभेदागमः|अथ क्रियापादः|
अथ भस्मस्नान पटलः

अथ क्रियापादः - अथ भस्मस्नान पटलः

सुप्रभेदागमः म्हणजे शिल्पशास्त्र ह्या विषयावरील महत्वपूर्ण ग्रंथ.


अथातः संप्रवक्ष्यामि भस्मस्नानविधिं परम् ।
श्रीकरञ्च पवित्रञ्च हारमाभरणं तथा ॥१॥

लोकवश्यकरं पुण्यं पापनाशं दिने दिने ।
गावच्छिवपुरात् पञ्चक्षितिं प्राप्ताः शिवेच्छया ॥२॥

सुरासुरैर्मध्यमानात् क्षीरोदात् सागरोत्तमात् ।
पञ्चगावः समुत्पन्नाः सर्वलोकस्यमातरः ॥३॥

नन्दासुभद्रासुरभिः सुशीलाः सुमनास्तथा ।
कपिलाकृष्णश्वेता च धूम्रारक्ता तथैव च ॥४॥

नन्दादि सुमनान्तानां वर्णमेतत् प्रकीर्तितम् ।
सर्वलोकोपकारार्थं देवानां तर्पणाय च ॥५॥

गोमातर स्थिता भुमौ स्नानार्थं हि शिवस्य तु ।
गोमयं रोचनामूत्रं क्षीरं दधि घृतङ्गवाम् ॥६॥

षडङ्गानि पवित्राणि सर्वसिद्धिकराणि हि ।
गोभिर्यज्ञा प्रवर्तन्ते गोषुदेवां प्रतिष्ठिताः ॥७॥

गोभिर्वेदाः समुद्गीर्णाः सषडङ्गपदक्रमाः ।
शृङ्गमूले गवां नित्यं ब्रह्माविष्णुश्च संस्थितौ ॥८॥

शृङ्गाग्रे सर्वतीर्थानि स्थावराणि चराणि च ।
शिरोमध्ये त्वहं तत्सभूतैः परिवृतः सह ॥९॥

ललाटे संस्थितोवत्स तत्त्वं भ्राता विशेषतः ।
कम्बलाश्वतरौ नागौ नासापुटसमाश्रितौ ॥१०॥

कर्णयोरश्विनीदेवौ चक्षुषीशशिभास्करौ ।
दन्तेषु मरुतो देवा जिह्वायां वरुणो स्थितः ॥११॥

सरस्वती तु हुङ्कारे यमयक्षौ च गण्डयोः ।
सन्ध्याद्वयं ततोष्ठाभ्यां ग्रीवे चन्द्रे समाश्रितः ॥१२॥

पुरमध्येषु गन्धर्वा पुराग्रेषु च पञ्चगाः ।
पुराणां पश्चिमाग्रेषु गणाह्यः सरस्तथा ॥१३॥

रुद्राश्चैव तु नाडिस्था वायवः सर्वसन्धिषु ।
श्रोणीतटस्थाः पीतरो ह्युरसिस्थ उमारमे ॥१४॥

श्रीरपाने गवान्नित्यं धर्मोलांगूलमाश्रितः ।
आदित्यरश्मयो वालागोमूत्रे जान्हवीस्वयम् ॥१५॥

ऋषयश्च तथा सर्वे रोमाग्रेषु च संस्थिताः ।
उदरे पृथिवी जाताजन्तवश्च गजानन ॥१६॥

चत्वारः सागराः पुर्णागवां ये च पयोधराः ।
आसितं विश्वविघ्नेश यथा गोषु प्रतिष्ठितम् ॥१७॥

दत्तश्चैव हुतं भुक्तं गोषु सर्वञ्चराचरम् ।
कपिलायान्तु गोमूत्रं कृष्णायां ग्राह्य गोमयम् ॥१८॥

क्षीरं श्वेत निभायान्तु धूम्रायाश्च दधिस्मृतम् ।
सर्पिः संग्राह्य रक्तायां सर्ववर्णेषु रोचना ॥१९॥

गोमूत्राद् गुल्गुलुं जातः सुगन्धिः प्रियदर्शनः ।
आहारः सर्वदेवानां शिवस्य च विशेषतः ॥२०॥

गोमयादुत्थित श्रीमान् बिल्ववृक्षः शिवप्रियः ।
तत्रास्ते पद्महस्ता श्रीःश्रीवृक्षस्तेन चोच्यते ॥२१॥

बीजान्युत्पल पद्मानां पुनर्जातानि गोमयात् ।
यत् बीजञ्जगतः किञ्चित् ज्ञेयं तत् क्षीरसंभवम् ॥२२॥

दध्नः सर्वाणि जातानि माङ्गल्यान्वर्थ सिद्धये ।
घृताद् अमृतमुद्भूतममराणामति प्रियम् ॥२३॥

तस्मात् तासां षडङ्गैश्च स्नापयेच्छिवमादरात् ।
गोरोचना च माङ्गल्या पवित्रा सर्वकामदा ॥२४॥

इत्थं गावस्समालोच्य भस्मापिगोमयं गृहेत् ।
भूमा वा प्ततितं ग्रह्यं सद्यमन्त्रेणगोमयम् ॥२५॥

पिण्डानि वाममन्त्रेण ह्यघोरेण तु शोषयेत् ।
पुरुषेण तु तद्दग्ध्वा ईशानेनाभिमन्त्रयेत् ॥२६॥

केतकी पुष्पसंयुक्तं नवभाण्डेषु निक्षीपेत् ।
अथवा चाग्निहोत्रेषु भस्मग्राह्यं विचक्षणैः ॥२७॥

जलस्नानं पुराकृत्वा भस्मस्नानमतः परम् ।
जलस्नानं विनाचोर्द्ध्वे भस्मस्नानं विधीयते ॥२८॥

शिवब्रह्माङ्गजप्तेन भस्मस्नानं समाचरेत् ।
ईशानेन कमुद्धूल्य वक्त्रं तत् पुरुषेण तु ॥२९॥

बहुरूपेण हृदयं नाभिं वामेन कीर्तितम् ।
सर्वाङ्गं सद्यमन्त्रेण समुद्धूल्य विचक्षणः ॥३०॥

उषितं वा ससन्त्यद्य शुद्धवस्त्रं परिग्रहेत् ।
पादौ पाणी च संशोद्ध्य पश्चादाचमनं कुरु ॥३१॥

भस्मनोद्धूलनाभावे त्रिपुण्ड्रन्तु विधीयते ।
आध्वरं कर्म तत् सर्वं न त्रिपुण्ड्रं न चाचरेत् ॥३२॥

तर्जन्य नामिका मध्यै स्त्रिपुण्ड्रन्तु समाचरेत् ।
ब्रह्माविष्णुश्च रुद्रश्च त्रिपुण्ड्रस्याधि दैवतम् ॥३३॥

शिरस्थाने स्वयं ब्रह्म ललाटे स्कन्ध (-न्थ) एव च ।
कण्ठे विनायकश्चैव बाहौ च केशवस्तथा ॥३४॥

हृदयेत् वीश्वरः प्रोक्तो नाभौ चैव प्रजापतिः ।
जान्वोस्तु चाश्विनी चैव पादयोः पञ्चगास्तथा ॥३५॥

सर्वतीर्थेषु यत् स्नानं सर्वयज्ञेषु यत् फलम् ।
तत्फलं कोटिगुणितं भस्मस्नानेन सिद्ध्यति ॥३६॥

भस्मस्नानमिदं प्रोक्तं अर्चनाङ्गमतः शृणु ।

इति भस्मस्नान पटलः षष्ठः ॥६॥

N/A

References : N/A
Last Updated : January 06, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP