संस्कृत सूची|शास्त्रः|शिल्पशास्त्र|सुप्रभेदागमः|अथ क्रियापादः|
स्नपनविधि पटलः

अथ क्रियापादः - स्नपनविधि पटलः

सुप्रभेदागमः म्हणजे शिल्पशास्त्र ह्या विषयावरील महत्वपूर्ण ग्रंथ.


अथातः संप्रवक्ष्यामि स्नपनस्य विधिक्रमम् ।
पञ्चम्याञ्च नवम्याञ्च चतुर्दश्यान्तु पर्वणोः ॥१॥

संक्रान्तौ विषुवे चैव अयने ग्रहणे तथा ।
पञ्चम्यादि ग्रहणान्तं दशवृद्ध्युत्तरं वरम् ॥२॥

दीक्षान्ते च प्रतिष्ठान्ते प्रोक्षणे चोत्सवान्तके ।
यागान्ते च सुनक्षत्रे कृत्तिकादीपकर्मणि ॥३॥

कर्तव्यं जन्मनक्षत्रे मङ्गलेमन्त्रसाधने ।
राजाभिषेक समये मरणान्तेथ जन्मनि ॥४॥

अतिवृष्टावनावृष्टौ दुर्भिक्षे दुर्निमित्तके ।
भूमिकंपे दिशान्दाहे ज्वरमार्यादि पीडने ॥५॥

सर्वरोगसमुत्पन्ने शत्रुभिः पीडनेपि च ।
प्रायश्चित्तादिकालेषु शिवं संस्नापयेत् गुरुः ॥६॥

नवधा स्नपनं तत्र संक्षेपेण शृणु क्रमात् ।
पञ्चभिः पञ्चभिश्चैव पञ्चविंशतिभिस्तथा ॥७॥

अन्यस्य त्रितयन्त्वेषु शृणु मध्यमकत्रयम् ।
पञ्चाशन्न्यूनमेकन्तु एकाशितिस्ततः परम् ॥८॥

शतमष्टोत्तरं ज्ञेयं मध्यमत्रितयं त्विह ।
षोडशद्विशतञ्चैव अष्टोत्तरशतत्रयम् ॥९॥

अष्टाधिकसहस्रन्तु उत्तमादिशिवाधिकम् ।
उत्तमं त्रीणिविख्यातं सर्वेषां स्नपनं शृणु ॥१०॥

प्रासादस्याग्रतः कुर्यात् मण्डपञ्चतुरश्रकम् ।
विंशश्चतिथि हस्तञ्च भानुदिक्करमेव च ॥११॥

नवाष्ट सप्तषट्पञ्चहस्तैर्नवविधं स्मृतम् ।
अष्टसाहस्रकं पादं नवानां मण्डपा स्मृताः ॥१२॥

षट्त्रिंशत् गात्रसंयुक्तमुत्तमानां विधीयते ।
षोडशस्तंभसंयुक्तं मध्यमानान्तु कारयेत् ॥१३॥

द्वादशस्तंभसंयुक्तमधमानां प्रकल्पयेत् ।
कूटं वा मण्डपं वापि कारयेत् स्वप्रमाणतः ॥१४॥

चतुर्द्वारसमायुक्तञ्चतुस्तोरणभूषितम् ।
वितानध्वजसंयुक्तं दर्भमालोपशोभितम् ॥१५॥

वक्ष्यमाणविधानेन कर्तव्यञ्चाङ्कुरार्पणम् ।
कलशानि ततो ग्राह्य साधयेद् आदिशैवकः ॥१६॥

सौवर्णं रजतं वापि तथा ताम्रमयैरपि ।
शङ्खैर्वा शुक्तिकैर्वापि गवां शृङ्गैरथापि वा ॥१७॥

अथवा मृन्मयैर्वापि सर्वलक्षणसंयुतैः ।
सुपक्वैः सुस्वरैः स्निग्धैर्बिंब प्रभसमन्वितैः ॥१८॥

एतैर्ल्लक्षणसंयुक्तैः स्नापयेत् परमेश्वरः ।
उत्तमं द्रोणसंपूर्णं मध्यमन्तु तदर्धकम् ॥१९॥

अधमञ्चाढकं प्रोक्तं सर्वेषामाढकं तु वा ।
शङ्खशुक्ति विशृङ्गाणां स्वप्रमाणेन पूरयेत् ॥२०॥

सूत्रेण वेष्टयित्वा तु कालयित्वाधिवासयेत् ।
गोमयालेपनङ्कृत्वा विष्टसूत्राणि पातयेत् ॥२१॥

सूत्राणाञ्चाप्य धर्मादीन् गात्राणान्धर्मपूर्वकान् ।
स्थण्डिलन्तत्र कुर्वित् शालिभिर्विमलैस्तथा ॥२२॥

आढकञ्च तदर्धं वा कलशानां पृथक् पृथक् ।
तदर्धं तण्डुलैर्भूष्य तदर्धन्तिलसंयुतम् ॥२३॥

नवधा स्नपनन्तेषु चाद्यसप्तविधिं शृणु ।
मण्डपान्तश्चतुष्पत्र युक्ताब्जं कर्णिकान्वितम् ॥२४॥

पञ्चकुम्भस्य विख्यातं महादिदलशोभितम् ।
प्रागुदक्भ्यां चतुःसूत्रं मार्गैर्न्नवपदं विदुः ॥२५॥

अष्टसूत्रं समङ्कृत्वा प्राङ्मुखोदङ्मुखं क्रमात् ।
मध्ये नवपदं ग्राह्यं बहिरेका वृतिन्त्यज्येत् ॥२६॥

ऐन्द्रादिषु चतुर्दिक्षु पदमेकं परिग्रहेत् ।
अग्नेय्यादीशपर्यन्तन्तिसृभिस्त्रिः पदं भवेत् ॥२७॥

महादिक्पदपार्श्वाभ्यां द्वारार्थं द्विपदं त्यजेत् ।
पञ्चविंशत्पदङ्कृत्वा स्थापयेदधमत्रयम् ॥२८॥

पादानान्तालमात्रं स्यात् सूत्रद्वादशकल्पितम् ।
उदक्सूत्रं तथा कल्प्य ह्यष्टद्वाराणि योजयेत् ॥२९॥

मध्यमे पञ्चविंशच्च द्विपदंत्वावृतं त्यजेत् ।
पञ्चत्रिंशत्पदं कृत्वा तेष्वेकं गृह्ययत्नतः ॥३०॥

इदमेकोन पञ्चाशदेकाशीति पदं शृणु ।
पदमेकं समावृत्त्य द्वारादिषु पदा त्यजेत् ॥३१॥

एकाशीति पदं ह्येवं मध्यमान्मध्यमं शृणु ।
प्रागग्रं षोडशं सूत्रमुदगग्रं तथैव च ॥३२॥

पञ्चविंशत् पदन्तेषु मध्यसङ्ग्राह्ययत्नतः ।
विदिक्षुनवकङ्ग्राह्यं द्वारत्वात् द्विपदं त्यज्येत् ॥३३॥

चतुर्दिक् तिथिकोष्ठेषु तृतीये सन्त्यजेत् त्रयम् ।
एवङ्कृते पदा सम्यक् शिवाधिक्यं शताष्टकम् ॥३४॥

विंशत् सूत्रं प्रकर्तव्यं प्राङ्मुखोदङ्मुखं क्रमात् ।
तन्मध्ये पञ्चविंशच्च संग्राह्य परितोद्वयम् ॥३५॥

त्यजेत् द्वाराष्टकोपेतं गोमयेन तु वारिणा ।
दिशश्च विदिशश्चैव पञ्चविंशत् पदं क्रमात् ॥३६॥

मध्यमव्यूहमध्यस्थं नवन्त्यक्वाब्जमालिखेत् ।
एवङ्कुर्याद् विधानज्ञः षोडशद्विशतं भवेत् ॥३७॥

नवधा स्नपनं प्रोक्तं तेषां द्रव्यन्ततः शृणु ।
वज्रं मरतकञ्चैव वैडूर्यञ्च प्रवालकम् ॥३८॥

मौक्तिकं पञ्चरत्नानि शिवकुंभे तु विन्यसेत् ।
रत्नाभावे ततो हेमं नवानां हेममेव च ॥३९॥

पाद्यमाचमनञ्चार्घ्यं पञ्चगव्यं कुशोदकम् ।
क्षीरं दधिघृतञ्चैव प्रथमावरणं विदुः ॥४०॥

प्रस्थपादं घृतं प्रोक्तं द्विपादन्दधिरुच्यते ।
त्रिपादं क्षीरमित्युक्तं प्रस्थञ्चैव तु गोमयम् ॥४१॥

षट्गुणञ्चैव गोमूत्रं पञ्चगव्यमिति स्मृतम् ।
मधु इक्षुरसञ्चैव पनसाम्रफलौ तथा ॥४२॥

कदली नालिकेरौ च सर्षपञ्च तिलं तथा ।
विल्वञ्चमातुलुङ्गञ्च नारङ्गद्वयमेव च ॥४३॥

यवनी वारलाजञ्च तस्य चूर्णङ्गुलन्तथा ।
चन्दनं लघुकुष्ठौ च कच्चोलं पुष्पपत्रकम् ॥४४॥

कर्पूरं हिमबेरञ्च जटामांसिमुरन्त्रणम् ।
शमीदूर्वा च श्वेतार्कं बिल्वपत्रञ्च चंपकम् ॥४५॥

शङ्खपुष्पंत्वपामार्गं विष्णुक्रान्ति च धुर्तुरम् ।
नन्द्यावर्तं श्वेतपद्मं पुन्नागञ्चातिपाटलि ॥४६॥

सह देवी शतपत्री लक्ष्मीस्थलारविन्दकम् ।
धातकी तुलसी चैव करवीराकृष्णमल्लिका ॥४७॥

मल्लिका च शतावेरी गोक्षुराज कृताञ्जली ।
महाद्रोणञ्च द्रोणञ्च भद्री च मधुमद्रिका ॥४८॥

इन्द्रवल्लीरुद्रपाणी धात्री चैव हरिद्रकी ।
व्याघ्र नवी च माञ्जिष्ठी सरलं भद्रकाषुकम् ॥४९॥

नवनीतं द्राविलञ्च सज्जन्तक्कोलमेव च ।
बला चाति बला चैव सिंही प्रियङ्गुलोद्धृता ॥५०॥

नागकेसरजंबूका कपित्थाश्वत्थ गुग्गुलु ।
एला च जीरकञ्चैव कृष्णजीरकमेव च ॥५१॥

सुतैलं कुङ्कुमं मेघमगरुङ्कृष्णलोचना ।
श्रीवेष्टकं गन्धरसं पिप्पलीहस्तपिप्पली ॥५२॥

कृष्णागरुञ्चतगरं मनःशिलारक्तचन्दनम् ।
लवङ्गं रजनी चूर्णं कषायं मार्जनान्तकम् ॥५३॥

पिप्पलोदुंबर प्लक्ष वटत्वग्भिः कषायकम् ।
द्रव्यं तिलकुशाग्राणि तथा मार्जव्यमादिशेत् ॥५४॥

द्रव्याण्येतानि चोक्तानि द्विविधं स्नानमार्जनम् ।
रसद्रव्याणि सर्वाणि स्नानद्रव्याणि संविदुः ॥५५॥

फलचूर्णौषधीत्यादि मार्जनद्रव्यकाणिते ।
रसादन्यानि सर्वाणि तोयैःसंपूरयेत् सुधीः ॥५६॥

रसाश्च पञ्चगव्याक्ताः पञ्चकुम्भेषु कीर्तिताः ।
आज्यान्ता नवकुम्भानां वत्वन्ताः पञ्चकुम्भके ॥५७॥

गुलादिपुन्नागान्ताश्च चत्वारिंशन्नवाधिके ।
द्रव्यादिजात्यलान्ताश्च एकाशीतिर्विशेषतः ॥५८॥

पाद्यादिमार्जनान्तास्तु अष्टोत्तरं शतं भवेत् ।
अधर्माद्यादि * * * दिग्विदिग्व्यूह संज्ञकाः ॥५९॥

मध्यमस्य शिवव्यूहो नवव्यूहा प्रकीर्तिताः ।
गन्धपुष्पादिनाभ्यर्च्य दर्भैश्चैव परिस्तरेत् ॥६०॥

मध्यमे शिवकुम्भन्तु शिवमन्त्रेण विन्यसेत् ।
द्वात्रिंशद् वा चतुर्विंशत् षोडशप्रस्थपूरितः ॥६१॥

शिवकुम्भमिदं प्रोक्तं वर्धन्यास्तु तदर्धकम् ।
पञ्चरत्नसमायुक्तं सकूर्चं वस्त्रवेष्टितम् ॥६२॥

शिवव्यूहस्य मध्ये तु विन्यस्य शिवकुम्भकम् ।
तस्य व्यूहस्य सुम्ये तु तन्मध्ये वा शिवोत्तरे ॥६३॥

सकूर्चां वस्त्रसंयुक्तां वर्धनीं हेमसंयुताम् ।
मनोन्मनीन्तु संस्थाप्य बीजमन्त्रमनुस्मरन् ॥६४॥

गन्धपुष्पादिभिः पूज्य हृदयेन विचक्षणः ।
पाद्यारभ्य घृतान्तानामष्ट विद्येश्वराधिपाः ॥६५॥

मध्वादिमार्जनान्तानां शतरुद्राधिदैवताः ।
एकैकमर्चयेत् सर्वानेकैकं वस्त्रकं ददेत् ॥६६॥

स्वस्वनाम चतुर्थ्यन्तैर्गन्धपुष्पादिभिर्यजेत् ।
षोडश द्विशतञ्चैव पूर्ववत् स्थापयेत् क्रमात् ॥६७॥

पूर्वोक्तानीहद्रव्याणि प्रधानानि सुकीर्तिताः ।
उशीरागरुकर्पूर चन्दनैश्च सुपुष्पितम् ॥६८॥

शुद्धतो येन सम्मिश्रमुपस्नानोदकं स्मृतम् ।
उपस्नानानि तत् सङ्ख्या सप्ततीर्थानि यानि तु ॥६९॥

अधमाधममारभ्य उत्तमादधमान्तकम् ।
उक्तं सर्वं विशेषेण देवता द्रव्यसंयुतम् ॥७०॥

उत्तमान्मध्यमञ्चैव उत्तमोत्तममेव च ।
स्नपनञ्चैव द्रव्यांश्च किञ्चित् भेदं गजानन ॥७१॥

षट्सूत्रं प्राङ्मुखं तत्र उदक्सूत्रकमेव च ।
पञ्चतालप्रमाणेन पदवीसारविस्मृता ॥७२॥

अतः परं समावृत्य पदमष्टौ परित्यजेत् ।
चत्वारिवीधयः प्रोक्ता महादिक्षु चतुष्पदाः ॥७३॥

द्वादशानि पदानिह चतुष्कोणेषु सङ्ग्रहेत् ।
तेषु द्वादशकोष्ठेषु प्रत्येकं पञ्चविंशतिः ॥७४॥

मध्यव्यूहविशेषेण कृत्वा नवपदन्ततः ।
षडावरणमार्गेण स्थापयेत् स्थापकोत्तमः ॥७५॥

स्थापयेन्मध्यतो व्यूहे नवकुम्भानि पूर्ववत् ।
वर्धनीं तस्य वामे तु प्राग्वत्संस्कृत्य मन्त्रवित् ॥७६॥

पञ्चपङ्क्तिक्रमं वक्ष्ये पञ्चमावरणान्तिकम् ।
प्रथमे चैव बीजानि लोहान्येव द्वितीयके ॥७७॥

तृतीये चैव रत्नानि धातूंश्चैव चतुर्थके ।
पञ्चमे पञ्चगव्यन्तु तिंशदष्टोत्तरं त्विदम् ॥७८॥

यवनी वारमुद्गांश्च तिलं सर्षपमेव च ।
श्वेतशाली महाशाली रक्तशाली तथैव च ॥७९॥

सौगन्धी हेमशाली च दशबीजमिति स्मृतम् ।
द्वाविंशत् कलशेपूर्य प्रथमावरणे न्यसेत् ॥८०॥

उपस्नानादिनीतानि तावत् सङ्ख्यानि विन्यसेत् ।
चत्वारिंशच्च चत्वारि कलशानि समन्ततः ॥८१॥

अर्चयित्वा विधानेन बीजमन्त्रमनुस्मरन् ।
प्रथमावरणं प्रोक्तं द्वितीयावरणं शृणु ॥८१॥

चामीकरं तथा हेमं शातकुम्भमतः परम् ।
जांबूनदञ्च तप्तञ्च जाति सप्तादिमिश्रितम् ॥८२॥

षड्विंशत् कलशे सूत्रमुदकैः सहविन्यसेत् ।
तावत् सङ्ख्या भवेत् तेषु कलशेष्वन्तणोदकम् ॥८३॥

कलशानि द्विपञ्चाशच्चतुष्कोणेषु चैव हि ।
द्वितीयावरणे न्यस्त्वा ब्रह्ममन्त्रैश्च देशिकः ॥८४॥

द्वितीयावरणं प्रोक्तं तृतीयावरणं शृणु ।
पद्मरागञ्च वैडूर्यं वज्रं पुष्यन्तथैव च ॥८५॥

स्फटिकं मौक्तिकं निलमिन्द्रनीलं प्रवालकम् ।
एतेषु नवरत्नांबु त्रिंशत् सुकलशेषु वै ॥८६॥

तावत् सङ्ख्या भवेत् तानि कलशेष्वन्तरोदकम् ।
कलशानि भवेत् षष्टिश्चार्चयित्वाङ्ग विद्यया ॥८७॥

तृतीयावरणं प्रोक्तञ्चतुर्थावरणं शृणु ।
हरितालं तथा माञ्जिमञ्जनञ्च मनःशिला ॥८८॥

रोध्रञ्च सीसकञ्चैव गैरिकन्तु ततः परम् ।
चतुस्त्रींशत्सुकुम्भेषु सप्तधात्वंबुना सह ॥८९॥

तावत् ग्राह्यो भवेत्तानि कलशेष्वन्तरोदकम् ।
अष्टोत्तरं तथा षष्टिः कलशानां विशेषतः ॥९०॥

प्रत्येकमर्चयेत्तानि विद्यांगैश्च विशेषतः ।
पञ्चमावरणे पञ्चगव्याधानमतः शृणु ॥९१॥

गोमूत्रं गोमयं क्षीरं दधिसर्पिः कुशोदकम् ।
गोमूत्रादिषडेतैस्तु अष्टत्रिंशत् घटे न्यसेत् ॥९२॥

विन्यसेत् ब्रह्मपञ्चानामष्टत्रिंशत् कला क्रमात् ।
यावत् सङ्ख्या भवेत्तानि प्रत्येकञ्चान्तरोदकम् ॥९३॥

द्रव्यान् कुम्भेषु संयोज्य शतरुद्रान्विशेषतः ।
शतत्रयेषु कुंभेषु विन्यसेत् तु पृथक् पृथक् ॥९४॥

संस्नाप्याभ्यर्च्य विधिना स्वैस्वैर्नामभिरेव च ।
त्रिशताष्टममेवोक्तमुत्तमस्योत्तमं शृणु ॥९५॥

प्रागग्रं द्वादशं सूत्रं उदगग्रं तथैव च ।
एकविंशच्छतं कृत्वा पदन्तत्र विनायक ॥९६॥

चतुष्कोणेषु मतिमांश्चतुःसूत्राणि विन्यसेत् ।
आग्नेयादिसमारभ्य पदैकान्तरितं यथा ॥९७॥

षट्त्रिंशत् गात्रसंयुक्तं गात्रस्थाना वृतन्त्यजेत् ।
द्वारे द्वेद्वेपदन्त्यक्त्वा चत्वारिंशत् पदं स्थितम् ॥९८॥

तेषां मध्यमकोष्ठन्तु कृत्वा नवपदन्ततः ।
एकैकं पदमध्ये तु पञ्चविंशति सङ्ख्यया ॥९९॥

कलशानि ततोप्यष्ट सहस्रैकादशावृतौ ।
विद्येशोमा शिवाख्यांश्च कुम्भान्विन्यस्य पूर्ववत् ॥१००॥

विद्येशावरणन्त्यक्त्वा तच्छृणुष्वदशावृतान् ।
प्रथमे चैव बीजानि लोहान्येव द्वितीयके ॥१०१॥

तृतीये चैव रत्नानि धातूंश्चैव चतुर्थके ।
पञ्चमे पञ्चगव्यानि षष्ठे चैव फलोदकान् ॥१०२॥

गन्धाश्चौषधयः सर्वे सप्तमे च तथा भवेत् ।
अष्ट मृच्चाष्टमे चैव कषाया नवमावृतौ ॥१०३॥

दशमे चैव पुष्पाणि एकैकन्तु शृणु क्रमात् ।
बीजानि पञ्चगव्यान्तं पूर्ववत् स्थापयेत् बुधः ॥१०४॥

पञ्चमावरणं प्रोक्तं षष्ठमावरणं शृणु ।
कदली बिल्वचूतांश्च मातुलुङ्गञ्च डाडिमी ॥१०५॥

नालिकेरञ्च नारङ्गं लिकुचंपनसं तथा ।
फलोदकानि तानीहद्वेषष्टीत्यभीधीयते ॥१०६॥

प्रत्येकं विन्यसेत् तानि कलशेष्वन्तरोदकम् ।
कलशानि शतानीह चतुर्विंशति चोत्तरम् ॥१०७॥

प्रत्येकमर्च्चयेत् तानि प्रशान्तायेतिमन्त्रतः ।
गन्धैरोषधिभिश्चैव सप्तमावरणं शृणु ॥१०८॥

उशीरञ्चन्दनञ्चैव कर्पूरञ्जातिरेव च ।
शङ्खपुष्पञ्च श्रीदेवी विष्णुक्रान्तीशतावरी ॥१०९॥

गन्धांश्चाष्टौ च धातूंश्च षष्ट्युत्तरषडेव च ।
तावत् सङ्ख्या तु विज्ञेया ह्युप स्नानविशेषतः ॥११०॥

द्वात्रिंशदुत्तरं प्रोक्तं शतमेकं समासतः ।
ओषधीनां लतानाञ्च वृक्षाणाञ्च समासतः ॥१११॥

फलानां कुसुमानाञ्च मूलादीनां समाहरेत् ।
सप्तमावरणं प्रोक्तमष्टमावरणं शृणु ॥११२॥

दर्भाधोनागदन्ताग्रे वराहस्य च कर्षणे ।
वल्मीके वृषशृंगाग्रे नद्यां वै पर्वतेऽपि च ॥११३॥

समुद्रे चैव मेधावी मृदं ग्राह्य विशोधयेत् ।
प्रत्येकं कलशेष्वेवं सप्ततिः परिसङ्ख्यया ॥११४॥

उदकेन समापूर्य तत् सङ्ख्या चान्तरोदकम् ।
चत्वारिंशत् समायुक्तं शतमेकं प्रकीर्तितम् ॥११५॥

अर्चयेत् पार्थिवार्णेन नवमावरणं शृणु ।
आम्रोथपनसश्चैव न्यग्रोधोदुंबरस्तथा ॥११६॥

अश्वत्थञ्च शिरीषञ्च मधुकोथपलाशकः ।
अष्टवृक्षत्व चश्चूर्णं विन्यसेद् वारिणासह ॥११७॥

प्रत्येकं पूरयित्वा तु सप्ततिश्चतुरुत्तरम् ।
तावत् सङ्ख्या भवेत् तानि उपस्नानोदकानि च ॥११८॥

चत्वारिंशत् तथा चाष्टौ शतैकेन समायुतम् ।
अर्चयेच्छिखयाधीमान् गन्धपुष्पादिभिः क्रमात् ॥११९॥

दशमावरणे प्रोक्तं पुष्पाणि च ततः शृणु ।
पङ्कजांश्च पलाशांश्च नन्द्यावर्तांश्च मल्लिकाः ॥१२०॥

करवीरञ्चंपकञ्च नीलोत्प्ललं तथाष्टकम् ।
कलशेषु विनिक्षिप्य सप्तत्यष्टाधिक स्मृताः ॥१२१॥

पुष्पाणि कलशेष्वेव निक्षिप्याद्भिः प्रपूर्य च ।
तावत् सङ्ख्या भवेत् तानि उपस्नानानि विन्यसेत् ॥१२२॥

एवं दशावृतान् स्थाप्य गन्धपुष्पाक्षतैर्युतम् ।
प्रत्येकं कलशान् सर्वान्वस्त्रैरावेष्ट्य यत्नतः ॥१२३॥

द्रव्येषु शतरुद्रांश्च अप्सुतीर्थानि कल्पयेत् ।
नवधा स्थापनं प्रोक्तं तत्र मुद्रां प्रदर्शयेत् ॥१२४॥

आद्यन्ते च नमस्कारां मध्ये बीजांमनोराम् ।
एवन्तु स्थापयेद् विद्वानासनावाहनादिकम् ॥१२५॥

कृत्वा प्रागुक्तवद्धिमानभिषेकं समाचरेत् ।
पुण्याहन्तु विशेषेण कृत्वा कुम्भान् प्रपूजयेत् ॥१२६॥

शैवन्तत्र विधानज्ञमादिशैव कुलोद्भवम् ।
एकन्तत्र विधानज्ञमाचार्यं पूजयेत् क्रमात् ॥१२७॥

वस्त्रैराभरणैः पुष्पैरङ्गुलीयकयज्ञकैः ।
शिवकुम्भं समुत्थाप्य हस्तेन शिरसाथवा ॥१२८॥

संवाह्य गर्भगेहन्तु उत्तराभिमुखस्थितः ।
स्थापयेद् देवदेवेशं मूलमन्त्रेणमन्त्रवित् ॥१२९॥

गणांबिकेन मन्त्रेण वर्धन्या स्थाप्यपिण्डिकाः ।
तत् तत् स्थाने पुनस्थाप्य पूर्ववच्च यथा क्रमम् ॥१३०॥

स्नाप्यद्रव्यं यथा न्यायमुत्थानञ्च तथैव च ।
स्थापिते नैव मन्त्रेण स्नापयेत् तु सदाशिवम् ॥१३१॥

कलशं वा महेस्ते तु विन्यस्त्वा दक्षिणेन तु ।
गोशृंगाग्र प्रमाणेन संस्थाप्यच्छिन्नधारया ॥१३२॥

स्थापितान्युपयुक्तानि कलशानिविसर्जयेत् ।
स्नपनानाञ्च सर्वेषामन्तेहारिद्र चूर्णकैः ॥१३३॥

संस्नाप्याभ्यर्चयेद् विद्वान् प्रभूतहविषं कुरु ।
बीजानामप्यलाभे तु निवारं वायवन्तु वा ॥१३४॥

लोहानामप्यलाभे तु निक्षिपेत् तप्तकाञ्चनम् ।
रत्नानामप्यलाभे तु मौत्तिकं ग्राह्य देशिकः ॥१३५॥

धातूनामप्यलाभे तु हरितालं विशेषतः ।
पुष्पाणामप्यलाभे तु पद्मसङ्ग्राह्य देशिकः ॥१३६॥

एवं यः कुरुते मर्त्यः भक्तियुक्तस्तथैव च ।
शशिवत् क्रीडते नित्यं शिवलोकेमहीयते ॥१३७॥

स्वेच्छयैव समागत्य पृथिव्यामेकराट् भवेत् ।
नवधा स्नपनं प्रोक्तं शीतकुम्भविधिं शृणु ॥१३८॥

इति स्नपनविधि पटलः पञ्चदशः ॥१५॥

N/A

References : N/A
Last Updated : January 06, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP